योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ६१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६० योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)
सर्गः ६१
अज्ञातलेखकः
सर्गः ६२ →

श्रीवसिष्ठ उवाच ।
ये हि राजससात्त्विक्या जाता भुवि महागुणाः ।
ते नित्यमेव मुदिताः प्रकाशाः ख इवेन्दवः ।। १
न खेदमभिगच्छन्ति व्योमभागो मलं यथा ।
नापदा म्लानिमायान्ति निशि हेमाम्बुजं यथा ।। २
नेहन्ते प्रकृतादन्यत्ते नान्यत्स्थावरो यथा ।
रमन्ते स्वसदाचारैः स्वार्थेभ्यः पादपा यथा ।। ३
नित्यमापूर्यतां याति सुधायामिन्दुसुन्दरी ।
राम राजससत्त्वस्य मोक्षमायात्यसौ यथा ।। ४
आपद्यपि न मुञ्चन्ति शशिवच्छीततामिव ।
प्रकृत्यैव विराजन्ते मैत्र्यादिगुणकान्तया ।। ५
नवस्तबकभाविन्या लतयेव वनद्रुमाः ।
समाः समरसाः सौम्याः सततं साधुसाधवः ।। ६
अब्धिवद्भुतमर्यादा भवन्ति भवता समाः ।
अतस्तेषां महाबाहो पदमापदवासनम् ।। ७
सततं तत्तु गन्तव्यं गन्तव्यं नापदर्णवे ।
तथा तथेह जगति विहर्तव्यमखेदिना ।।
आत्मोदयाश्च वर्धन्ते यथाऽराजससात्त्विकाः ।
अचिन्त्यगत्या सच्छास्त्रं विचार्य च पुनःपुनः ।। ९
अनित्यता स्वमनसा विविधैवाशु भावतः ।
आदावन्ते च यां नित्यं क्रिया त्रैलोक्यवर्तिनीम् ।। १०
पदार्थानापदेवाशु भावयेन्नेतरत्सुधीः ।
असम्यग्दर्शनं त्यक्त्वा व्यर्थमज्ञानसंततिम् ।। ११
स्मर्तव्यं सम्यगेवेदं ज्ञानमर्थमनन्तकम् ।
कोऽहं कथमिदं जातं संसाराडम्बरं विभो।। १२
प्रविचार्य प्रयत्नेन प्राज्ञेन सह साधुभिः ।
नच कर्मसु मङ्क्तव्यं नानर्थेन सहावसेत् ।। १३
द्रष्टव्यः सर्वविच्छेदः संसारानुगतः सदा ।
साधुरेवानुगन्तव्यो मयूरेणाम्बुदो यथा ।। १४
अहंकारस्य देहस्य संसारस्याप्लवस्य च ।
स्वविचारमलंकृत्य सत्यमेवावलोकयेत् ।। १५
शरीरमस्थिरमपि संत्यक्त्वा घनशोभनम् ।
वीतमुक्तावलीतन्तुं चिन्मात्रमवलोकयेत्।। १६
तस्मिन्पदे नित्यतते सर्वगे सर्वभाविते ।
शिवे सर्वमिदं प्रोतं सूत्रे मणिगणा यथा ।। १७
यैव चिद्भुवनाभोगे भूषणे व्योम्नि भास्करे ।
धराविवरकोशस्थे सैव चित्कीटकोदरे ।। १८
कुम्भव्योम्नां न भेदोऽस्ति यथेह परमार्थतः ।
चितौ शरीरसंस्थानां न भेदोऽस्ति तथानघ ।। १९
सर्वेषामेव भूतानां तिक्तकट्वादिभेदिनाम् ।
एकत्वादनुभूतेर्हि कुतश्चिन्मात्रभिन्नता ।। २०
एकस्मिन्नेव सततं स्थिते सन्मात्रवस्तुनि ।
जातोऽयमयमुन्नष्ट इति तेषां तवेह धीः ।। २१
नच तन्नाम वस्त्वस्ति यद्भूत्वा संप्रलीयते ।
आभासमात्रमेवेदं न सन्नासच्च राघव ।। २२
उद्भूतेनाप्रशान्तेन चेतसा सपदि स्थितम् ।
नेह मोहान्त आमोक्षान्नेदं यत्तदवस्तु च ।। २३
किं किलासति रामेह मोहजाले समुज्झति ।
यत्किंचित्सङ्गसङ्गत्या विमोहे कारणं हि तत् २४
 [ असति जगति किं किलेह मोदः
सति च किमङ्ग विमोहकारणं तत् ।
जननमरणसंस्थितिष्वतस्त्वं
भव खमिवातिसमः सदोपशान्तः ।।]

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे जननमरणसंस्थितिर्नामैकषष्टितमः सर्गः ।। ६१ ।।