योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ६०

विकिस्रोतः तः
Jump to navigation Jump to search


षष्टितमः सर्गः ६०

श्रीवसिष्ठ उवाच ।
अस्मिन्भगवति ब्रह्मंश्चपलं पदमाश्रिते ।
पितामहे महाबाहो कृतसर्गव्यवस्थितौ ।। १
जगज्जीर्णारघट्टेऽस्मिन्वहति स्वव्यवस्थया ।
विप्रेतभूतघटया रज्वा जीविततृष्णया ।। २
ब्रह्मोत्थेषु च भूतेषु विशत्सु भवपञ्जरम् ।
आवर्तेष्वीश्वरव्योमवालमध्यविवर्तिषु ।। ३
मनःस्वन्येषु वातान्तलोलाहतकणेष्विव ।
अनारतं विनिर्यान्ति विशन्त्यन्ये तथाभितः ।। ४
राम ब्रह्मणि जीवौघास्तरङ्गा इव वारिधौ ।
अनाद्यन्तपदोत्पन्नाः कलनापदमागताः ।। ५
भूताकाशं विशन्त्येते धूमश्रीरिव चाम्बुदम् ।
एकतां यान्ति जीवौघा ब्रह्मण्याकाशमारुतैः ।। ६
दिनं तन्मात्रवातेन तत्प्राणात्मतया यथा ।
आक्रम्यन्ते प्रचण्डेन दैत्यौघेनामरा इव ।। ७
भूतप्राणानिलं तेन गन्धवाहेन तेन च ।
निविशन्ति शरीरेषु जीवा गच्छन्ति वीर्यताम् ।। ८
ततो जगति जायन्ते भवन्ति प्राणिनोऽस्फुटाः ।
अन्या धूमादिमाजाता राम जीवपरम्परा ।। ९
तन्मात्रवति तावद्भिरशून्येऽम्बरकोटरे ।
उदेति यावद्भगवानिन्दुरुद्दाममण्डलः ।। १०
क्षीराम्बुधिनिधौ लोलैः पाण्डुवद्रश्मिभिर्जगत् ।
ततस्तेष्वतिरम्येषु चन्द्ररश्मिषु संपतत् ।। ११
करोति विहगी लोला वने प्रेष्यान्तरेष्विव ।
तेभ्योऽपि स्वरसेनैव यान्ति पीवरतामपि ।। १२
फलेषु तेषु बघ्नाति पदमिन्दुकरात्क्षता ।
जीवाली क्षीरपूर्णेषु मातुः स्तनभरेष्विव ।। १३
ताः फलावलयः पक्वा भविष्यन्ति मरीचिभिः ।
तेष्वेव वीर्यमागत्य तिष्ठन्त्यप्राप्तबोधिताः ।। १४
प्रसुप्तवासनाजालजीवतागर्भपञ्जरम् ।
अधितिष्ठति बीजश्रीः सुप्तपत्रा यथा वटम् ।। १५
यथा काष्ठे स्थितश्चाग्निर्यथा मृदि घटाः स्थिताः ।
अनेकक्रमयोगेन परागत्य महेश्वरात् ।। १६
अदृष्टान्यशरीरश्रीः क्रमते यो न चोदति ।
स हि सत्येव जातिः स्यादुदारव्यवहारवान् ।। १७
तेनैव मोक्षभागी चेज्जन्मना स तु सात्त्विकः ।
अथैतां योनिमासाद्य कृत्यां जन्मपरम्पराम् ।। १८
रक्षार्थं प्राप्तजन्मा चेत्तमोराजससात्त्विकः ।
पाश्चात्यजन्मना पुंसो राम वक्ष्यामि चाधुना ।। १९
प्राधान्येन यथाऽऽयातः संसारमिति सात्त्विकः ।
स कदाचिन्न कश्चिच्च संभवत्यनघाकृते ।। २०
संभवन्तीह पुरुषा राम राजससात्त्विकाः ।
प्रविचार्य समायाता मन्तव्यं चेह तद्धिया ।। २१
प्राधान्येन समायाता ये यदा परमात्मनः ।
दुर्लभाः पुरुषा राम ते महागुणशालिनः ।। २२
ये चान्ये विविधा मूढा मूकास्तामसजातयः ।
तेषां स्थावरतुल्यानां किंच राम विचार्यते ।। २३
कतिपया न गता भवभावनां नरसुराः प्रकृतक्रमजन्मनि ।
अहमिव प्रविचारणयोग्यतामनुगतो ननु राजससात्त्विकः ।। २४
स्थितस्य ते महापदाविचार्ययैवमायता ।
विचारय त्वमञ्जसा तदद्य चेह न द्वयम् ।। २५
इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थिति० विचारपुरुषनिर्णयप्रसङ्गोपदेशजीवावतारो नाम षष्टितमः सर्गः ।। ६०।।