योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ४८

विकिस्रोतः तः
← सर्गः ४७ योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)
सर्गः ४८
अज्ञातलेखकः
सर्गः ४९ →

श्रीवसिष्ठ उवाच ।
क्रियाविशेषबहुला भोगैश्वर्यहताशयाः ।
नापेक्षन्ते यदा सत्यं न पश्यन्ति शठास्तदा ।। १
ये तु पारं गता बुद्धेरिन्द्रियैर्न वशीकृताः ।
त एनां जागतीं मायां पश्यन्ति करबिल्ववत् ।। २
तुच्छां तां जागतीं मायां दृष्ट्वा जीवो विचारवान् ।
अहंकारमयीं मायां त्यजत्यहिरिव त्वचम् ।। ३
असक्ततां ततोऽभ्येत्य पुना राम न जायते ।
क्षेत्रेष्वपि चिरं तिष्ठन्बीजं दग्धमिवाग्निना ।। ४
आधिव्याधिपरीताय प्रातर्वाद्य विनाशिने ।
प्रयतन्ते शरीराय हितमज्ञास्तु नात्मने ।। १
त्वमप्यज्ञवदज्ञस्य शरीरस्य समीहितम् ।
मा संपादय दुःखाय भवात्मैकपरायणः ।। ६
श्रीराम उवाच ।
दाशूराख्यायिकेवेयं सुखसंसारचक्रिका ।
कल्पनारचिताकारा वस्तुशून्येति किं प्रभो ।। ७
श्रीवसिष्ठ उवाच ।
जगन्मायास्वरूपस्य वर्णनाव्यपदेशतः ।
दाशूराख्यायिका राम वर्ण्यमानां मया शृणु ।। ८
अस्त्यस्मिन्वसुधापीठे विचित्रकुसुमद्रुमः ।
मागधो नाम विख्यातः श्रीमाञ्जनपदो महान् ।। ९
कदम्बवनविस्तारलीलावलितजङ्गलः ।
विचित्रविहगव्यूहसर्वाश्चर्यमनोहरः ।। १०
सस्यसंकटसीमान्तः पुरोपवनमण्डितः ।
कमलोत्पलकह्लारपूर्णसर्वसरित्तटः ।। ११
उद्यानदोलाविलसल्ललनागेयघुंघुमः ।
निशोपभुक्तकुसुमनीरन्ध्रविशिखावनिः ।। १२
तत्रैकस्मिन्गिरितटे कर्णिकारसमाकुले ।
कदलीखण्डनीरन्ध्रनीपगुल्मविराजिते ।। १३
पुष्पौघस्फूर्जदनिले केसरारुणधूलिनि ।
कारण्डवकृतारावे रसत्सरससारसे ।। १४
तस्मिन्नगवरे पुण्ये विचित्रविहगद्रुमे ।
कश्चित्परमधर्मात्मा मुनिरासीन्महातपाः ।। ३
दाशूरनामा महता तपोयोगेन संयुतः ।
कदम्बपृष्ठवास्तव्यो वीतरागो महामतिः ।। १५
श्रीराम उवाच ।
असौ तपस्वी भगवन्विपिने केन हेतुना ।
कथं चाप्यवसत्पृष्ठे कदम्बस्य महातरोः ।। १७
श्रीवसिष्ठ उवाच ।
शरलोमेति विख्यातः पिता तस्य बभूव ह ।
रामाऽपर इव ब्रह्मा तस्मिन्नेवावसद्गिरौ ।। १८
तस्यासावेकपुत्रोऽभूत्कचो देवगुरोरिव ।
तेन सार्धं स पुत्रेण नीतवाञ्जीवितं वने ।। ११
अथासौ शरलोमात्र भुक्त्वा युगगणं ययौ ।
त्यक्तदेहः सुरागारं मुक्तनीडः खगो यथा ।। २०
एक एव वने तस्मिन्दाशूरः प्ररुरोद ह ।
दशापनीतपितृकः करुणं कुररो यथा ।। २१
मातापितृवियोगेन शोकसंतापिताशयः ।
म्लानिमभ्याययौ नूनं हेमन्त इव पङ्कजम् ।। २२
बालोऽसावतिदीनात्मा वनदेवतया वने ।
इत्थमाश्वासितो राम तदाऽदृश्यशरीरया ।। २३
ऋषिपुत्र महाप्राज्ञ किमज्ञ इव रोदिषि ।
संसारस्य न कस्मात्त्वं स्वरूपं वेत्सि चञ्चलम् ।। २४
सर्वदैवेदृशी साधो संसारे संसृतिश्चला ।
जायते जीव्यते पश्चादवश्यं च विनश्यति ।। २५
यद्यत्किंचिद्दृश्यदृशि ब्रह्मादिकमिदं मुने ।
गन्तव्यस्तेन सर्वेण विनाशो नात्र संशयः ।। २६
तदर्थं मा कृथा व्यर्थं विषादं मरणे पितुः ।
अवश्यभाव्यस्तमयो जातस्याहर्षतेरिव ।। २७
अशरीरामिति श्रुत्वा गिरमारक्तलोचनः ।
धैर्यमासादयामास शिखण्डी स्तनितादिव ।। २८
उत्थायावश्यकं कृत्वा पाश्चात्यं पितुरादरात् ।
चकार तपसे बुद्धिं दृढामुत्तमसिद्धये ।। २९
ब्राह्मेण कर्मणा तस्य विपिने चरतस्तपः ।
अनन्तसंकल्पमयं श्रोत्रियत्वं बभूव ह ।। ३०
अज्ञातज्ञेयबुद्धेस्तु श्रोत्रियस्य तया तया ।
न विशश्राम चेतोऽस्य पवित्रेऽपि धरातले ।। ३१
केवलं सर्वमेवेदमपि शुद्धं धरातलम् ।
अशुद्धमिव पश्यन्स न रेमे क्वचिदेव हि ।। ३२
अथ संकल्पयामास स्वसंकल्पनयैव सः ।
वृक्षाग्रमेव संशुद्धं स्थितिस्तत्रोचिता मम ।। ३३
तदिदानीं तपस्तप्स्ये तपसा येन शाखिषु ।
खगवत्स्थितिमाप्नोमि शाखासु च दलेषु च ।। ३४
इति संचिन्त्य संज्वाल्य हुताशमतिभास्वरम् ।
जुहाव तस्मिन्प्रोत्कृत्त्य मांसं स्वस्कन्धभित्तितः ।। ३५
अथ गीर्वाणवृन्दस्य समग्रा गलभित्तयः ।
मन्मुखत्वेन मा यान्तु विप्रमांसेन भस्मताम् ।। ३६
इति संचिन्त्य भगवान्सप्तार्चिस्तस्य देवता ।
पुरो बभूव दीप्तांशुर्दीप्तांशुर्वाक्पतेरिव ।। ३७
उवाच वचनं धीरं कुमाराभिमतं वरम् ।
गृहाण स्थापितं साधो कोशाकाशान्मणिं यथा ।। ३८
इत्युक्तवन्तमनलमर्घपुष्पेण शोभिना ।
संपूज्य स्तुतिवादेन प्राह विप्रकुमारकः ।। ३९
भगवन् भूतपूर्णाया भुवः पावनमण्डलम् ।
नाप्नोमि तेन वृक्षाणामुपरि स्थितिरस्तु मे ।। ४० ।
इत्युक्ते मुनिपुत्रेण सर्वदेवमुखं शिखी । ।
एवमस्तु तवेत्युक्त्वा जगामान्तर्द्धिमीश्वरः ।। ४१
तस्मिन्नन्तर्हिते देवे क्षणात्सान्ध्य इवाम्बुजे ।
पूर्णकामः कुमारोऽसौ पूर्णेन्दुरिव चाबभौ ।। ४२
अधिगताभिमताननमण्डल-
द्युतिभरेण जहास स तुष्टिमान् ।
शशिनमाप्तकलाकुलमम्बुजं
विकसितं च सितस्मितशोभिना ।। ४३
इत्यार्षे श्रीवसिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे दाशूरो० दाशूरवरप्रदानवर्णनं नामाष्टचत्वारिंशः सर्गः ।। ४८ ।।