योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ४७

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४६ योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)
सर्गः ४७
अज्ञातलेखकः
सर्गः ४८ →

श्रीराम उवाच ।
भगवन्सर्वधर्मज्ञ सर्ववेदाङ्गपारग ।
आश्वस्त इव तिष्ठामि शुद्धाभिर्भवदुक्तिभिः ।। १
उदाराणि विविक्तानि पेशलान्युदितानि च ।
श्रोतुं तृप्ति न गच्छामि वचांसि वदतस्तव ।। २
जात्या राजससात्त्विक्याः कथनावसरान्तरे ।
उत्पत्तिर्भवता प्रोक्ता शास्त्रैः कमलजन्मनः ।। ३
श्रीवसिष्ठ उवाच ।
बहूनि ब्रह्मलक्षाणि शंकरेन्द्रशतानि च ।
नारायणसहस्राणि समतीतानि राघव ।। ४
अन्येषु च विचित्रेषु ब्रह्माण्डेषु च भूरिशः ।
नानाचारविहाराणि विहरन्ति सहस्रशः ।। ५
तुल्यकालमनन्तेषु कालान्तरभवेषु च ।
जगत्सु प्रोद्भविष्यन्ति बहून्यन्यानि भूरिशः ।। ६
तेषामब्जोद्भवादीनां ब्रह्माण्डेषु दिवौकसाम् ।
उत्पत्तयो महाबाहो विचित्राभ्युत्थिता इव ।। ७
कदाचित्सृष्टयः शार्व्यः कदाचित्पद्मजोद्भवाः ।
कदाचिदपि वैष्णव्यः कदाचिन्मुनिनिर्मिताः ।। ८
कदाचित्पद्मजो ब्रह्मा कदाचित्सलिलोद्भवः ।
अण्डोद्भवः कदाचित्तु कदाचिज्जायतेऽम्बरात् ।। ९
कस्मिंश्चिदण्डे त्र्यक्षोऽर्कः कस्मिंश्चिदपि वासवः ।
कस्मिंश्चित्पुण्डरीकाक्षः कस्मिंश्चित्त्र्यक्ष एव हि ।। १०
कस्यांचिद्भूरभूत्सृष्टौ नीरन्ध्रतरुसंकटा ।
कस्यांचिन्नरनीरन्ध्रा कस्यांचिद्भूधरावृता ।। ११
भूरभून्मृन्मयी काचित्काचिदासीद्दृषन्मयी ।
आसीद्धेममयी काचित्काचित्ताम्रमयी तथा ।। १२
इहैव कानि चित्राणि जगन्त्यन्यान्यथान्यथा ।
अन्यान्येकैकलोकानि निर्महांस्यपि कानिचित् ।। १३
अनन्तानि जगन्त्यस्मिन्ब्रह्मतत्त्वमहाम्बरे ।
अम्भोधिवीचिजलवन्निमज्जन्त्युद्भवन्ति च ।। १४
यथा तरङ्गा जलधौ मृगतृष्णा मरौ यथा ।
कुसुमानि यथा चूते तथा विश्वश्रियः परे ।। १५
भानोर्गणयितुं शक्या रश्मिषु त्रसरेणवः ।
आलोलवपुषो ब्रह्म तत्त्वेन जगतां गणाः ।। १६
यथा मशकजालानि वर्षादिष्वाकुलानि तु ।
उत्पत्त्योत्पत्त्य नश्यन्ति तथेमा लोकसृष्टयः ।। १७
न च विज्ञायते कस्मात्कालात्प्रभृति चागताः ।
नित्यागमापायपरा एताः सर्गपरम्पराः ।। १८
अनादिमत्योऽविरतं प्रस्फुरन्ति तरङ्गवत् ।
पूर्वात्पूर्वं किलाभूवंस्ततः पूर्वतरं यथा ।। १९
भूत्वा भूत्वा प्रलीयन्ते ससुरासुरमानवाः ।
सरित्तङ्गभङ्ग्यैव समस्ता भूतजातयः ।। २०
यथेदमण्डं वैरिञ्चं तथा ब्रह्माण्डपङ्क्तयः ।
याः सहस्राः परिक्षीणा नाडिका वत्सरेष्विव ।। २१
अन्याः संप्रति विद्यन्ते वर्तमानशरीरकाः ।
प्रान्ते ब्रह्मपुरस्यास्य वितते ब्रह्मणः पदे ।। २२
ब्रह्मण्यन्या भविष्यन्ति ब्राह्म्यो ब्रह्मपुरश्रियः ।
पुनस्ताश्च विनङ्क्ष्यन्ति भूत्वा भूत्वा यथा गिरः ।। २३
ब्रह्मण्यन्या भविष्यन्त्यः स्थिताः सर्गपरम्पराः ।
घटा इव मृदो राशावङ्कुरे पल्लवा इव ।। २४
यावद्ब्रह्म चिदाकाशे तथा त्रिभुवनश्रियः ।
स्फाराकारविकाराढ्याः प्रेक्ष्यमाणा न किंचन ।। २५
उन्मज्जन्त्यो निमज्जन्त्यो न सत्या नाप्यसच्छ्रियः ।
जडारम्भा वितन्वन्त्यस्ता एव खलता इव ।। २६
तरङ्गसमधर्मिण्यो दृष्टनष्टशरीरकाः ।
सर्वासां सृष्टिराशीनां चित्राकारविचेष्टिताः ।। २७
चित्राकारविकाराश्च चित्ररूपा हि सृष्टयः ।
व्यतिरिक्ता न सर्वेषां समस्ताः सृष्टिदृष्टयः ।। २८
तत्त्वज्ञविषये राम सलिलादिव वृष्टयः ।
आयान्ति सृष्टयो देवाज्जलदादिव वृष्टयः ।। २९
व्यतिरिक्ता न सर्वेषां समस्ताः सृष्टिदृष्टयः ।
व्यतिरिक्ता द्रवाम्भोधिस्वाष्ठीलाः शाल्मलेरिव ।। ३०
इह सृष्टिषु पुष्टासु निकृष्टासु च राघव ।
परमान्नभसो जातास्तन्मात्रमलमालिका ।। ३१
कदाचित्प्रथमं व्योम प्रतिष्ठामधिगच्छति ।
ततः प्रजायते ब्रह्मा व्योमजोऽसौ प्रजापतिः ।। ३२
कदाचित्प्रथमं वायुः प्रतिष्ठामधिगच्छति ।
ततः प्रजायते ब्रह्मा वायुजोऽसौ प्रजापतिः ।। ३३
कदाचित्प्रथमं तेजः प्रतिष्ठामधिगच्छति ।
ततः प्रजायते कर्ता तेजसोऽसौ प्रजापतिः ।। ३४
कदाचित्प्रथमं वारि प्रतिष्ठामधिगच्छति ।
ततः प्रजायते ब्रह्मा वारिजोऽसौ प्रजापतिः ।। ३५
कदाचित्प्रथमं पृथ्वी स्फारतामधिगच्छति ।
ततः प्रजायते ब्रह्मा पार्थिवोऽसौ प्रजापतिः ।। ३६
इदं चत्वारि संपीड्य पञ्चमं वर्धते यदा ।
तदा तज्जात एवैष कुरुते जागतीं क्रियाम् ।। ३७
कदाचिदप्सु वायौ वा सुस्फारे वापि तेजसि ।
स्वयं संपद्यतेऽकस्मात्पुमान्प्रकृतिभावितः ।। ३८
तस्याथ शब्दो वदनात्कदाचिज्जायते पदात् ।
कदाचिदंशात्पृष्ठाद्वा कदाचिल्लोचनात्करात् ।। ३९
कदाचित्पुरुषस्यास्य नाभौ पद्मं प्रजायते ।
तस्मिन्संवधते ब्रह्मा पद्मजोऽसौ प्रकीर्तितः ।। ४०
मायेयं स्वप्नवद्भ्रान्तिर्मिथ्यारचितचक्रिका ।
मनोराज्यमिवालोलसलिलावर्तसुन्दरी ।। ४१
किमिवास्यां वद ज्ञप्तौ कथं संभवतीह ते ।
क्वचिद्बालमनोराज्यमिदं पर्यनुयुज्यते ।। ४२
कदाचिदम्बरे शुद्धे मनस्तत्त्वानुरञ्जनात् ।
सौवर्णं ब्रह्मगर्भं च स्वयमण्डं प्रवर्तते ।। ४३
कदाचिदेव पुरुषो वीर्यं सृजति वारिणि ।
तस्मात्प्रजायते पद्मं ब्रह्माण्डमथवा महत् ।। ४४
तस्मात्प्रजायते ब्रह्मा कदाचिद्भास्करोऽप्यसौ ।
कदाचिद्वरुणो ब्रह्मा कदाचिद्वायुरण्डजः ।। ४५
एवमन्तर्विहीनासु विचित्रास्विह सृष्टिषु ।
विचित्रोत्पत्तयो राम ब्रह्मणो विविधा गताः ।। ४६
निदर्शनार्थं सृष्टेस्तु मयैकस्य प्रजापतेः ।
भवते कथितोत्पत्तिर्न तत्र नियमः क्वचित् ।। ४७
मनोविजृम्भणमिदं संसार इति संमतम् ।
संबोधनाय भवतः सृष्टिक्रम उदाहृतः ।। ४८
सात्त्विकीप्रभृतयो याश्च जातयश्चेत्थमागताः ।
इति ते कथनायैष सृष्टिक्रम उदाहृतः ।। ४९
पुनः सृष्टिः पुनर्नाशः पुनर्दुःखं पुनः सुखम् ।
पुनरज्ञः पुनस्तज्ज्ञो बन्धमोक्षदृशः पुनः ।। ५०
पुनः सृष्टिकराऽवीतवीतस्नेहदृशः पुनः ।
दीपा इव कृतालोकाः प्रशाम्यन्त्युद्भवन्ति च ।। ५१
देहोत्पत्तौ विनाशे च दीपानां ब्रह्मणामपि ।
कालेनाधिकतां त्यक्त्वा नाशे भेदो न कश्चन ।। ५२
पुनः कृतं पुनस्त्रेता पुनः स द्वापरः कलिः ।
पुनरावर्तते सर्वं चक्रावर्ततया जगत् ।। ५३
पुनर्मन्वन्तरारम्भाः पुनः कल्पपरम्पराः ।
पुनः पुनः कार्यदशाः प्रातः प्रातरहो यथा ।। ५४
लोकालोककलाकालकलनाकलितान्तरम् ।
पुनःपुनरिदं सर्वं न किंचन पुनःपुनः ।। ५५
अनाहते प्रतप्तेऽयःपिण्डेऽनलकणा इव ।
इमे भावाः स्थिता नित्यं चिदाकाशे स्वभावतः ।। ५६
कदाचिदनभिव्यक्तं कदाचिद्व्यक्तिमागतम् ।
इदमस्ति परे तत्त्वे सर्वं वृक्ष इवार्तवम् ।। ५७
चित्स्पन्द एव सर्वात्मा सर्वदैवेदृशाकृतिः ।
यदस्माज्जायते सर्गो द्वीन्दुत्वमिव लोचनात् ।। ५८
चितः सर्वाः समायान्ति संतताः सृष्टिदृष्टयः ।
तत्स्था एवाप्यतत्स्थाभाश्चन्द्रादिव मरीचयः ।। ५९
न कदाचन संसारः किलायं राम सत्सदा ।
सर्वशक्तावसंसारशक्तिता विद्यते यतः ।। ६०
न चैवेदं कदाचित्तु साधो जगदनीदृशम् ।
सर्वशक्तौ हि संसारशक्तिता विद्यते यतः ।। ६२
महाकल्पावधिः कालेन संसारितयेद्धया ।
न भविष्यति संसार इदानीमिति युज्यते ।। ६२
ज्ञदृष्ट्या सर्वमेवेदं ब्रह्मैवेति महामते ।
नास्ति संसार इत्येतदुपपद्यत एव च ।। ६३
अज्ञदृष्ट्या त्वविच्छिन्नसंसारत्वादनारतम् ।
नित्या संसारमायेयं मिथ्यापीहोपपद्यते ।। ६४
पुनःपुनश्च भावित्वान्न कदाचिदनीदृशम् ।
जगदित्येतदित्युक्तं न मृषा रघुनन्दन ।। ६
अनारतपतद्रूपा दिशो दृष्टा विनश्वराः ।
विनाशीदं जगत्सर्वमिति किं नोपपद्यते ।। ६६
सर्वत्रोदितचन्द्रार्का दिशो दृष्टाः स्थिराचलाः ।
अविनाशि जगत्सर्वमित्यप्यवितथोपमम् ।। ६७
न तदस्ति न यत्तस्मिन्नेकस्मिन्विततात्मनि ।
संकल्पकलनाजालमनाख्ये नोपपद्यते ।। ६८
पुनःपुनरिदं सर्वं पुनर्मरणजन्मनी ।
पुनः सुखं पुनर्दुःखं पुनः करणकर्मणी ।। ६९
पुनराशाः पुनर्व्योम पुनरम्भोधयोऽद्रयः ।
अभ्युदेति पुनः सृष्टिः खवदर्कप्रभा यथा ।। ७०
पुनर्दैत्याः पुनर्देवाः पुनर्लोकान्तरक्रमाः ।
पुनः स्वर्गापवर्गेहाः पुनरिन्द्रः पुनः शशी ।। ७१
पुनर्नारायणो देवः पुनर्दनुसुतादयः ।
पुनराशाचलच्चारुचन्द्रार्कवरुणानिलाः ।। ७२
सुमेरुकर्णिकाकान्ता सह्यकेसरशालिनी ।
पूर्णा स्फीतोदरोदेति रोदसी नलिनी पुनः ।। ७३
व्योमकाननमाक्रम्य वल्गत्यंशुनखोत्करैः ।
तमःकरिघटा भेत्तुं पुनर्भास्करकेसरी ।। ७४
पुनरिन्दुश्चलत्स्वच्छमञ्जरीसुन्दरैः करैः ।
करोत्यमृतमाह्लादि दिग्वधूमुखमण्डनम् ।। ७५
पुनः स्वर्गतरोः पुण्यक्षयवातसमीरिताः ।
पतन्तीह विनुन्नाङ्गाः पुण्यकृत्पुष्पराशयः ।। ७६
पुनः कार्यक्रियापक्षैः संसारारम्भनामकम् ।
किंचित्पटपटं कृत्वा याति कालकपिञ्जलः ।। ७७
पुनरिन्द्रादिके याते सज्जमास्थाय केवलम् ।
आयात्यपरदेवेन्द्रषट्पदः स्वर्गपङ्कजम् ।। ७८
पुनः कालं कृतापूतं कलुषीकुरुते कलिः ।
सचक्रिणमिवाम्भोधिं प्रवृद्धोऽवकरानिलः ।। ७९
पुन कालकुलालेन कृतभूतशरावकम् ।
चक्रमावर्त्यते वेगादजस्रं कल्पनामकम् ।। ८०
पुनर्नीरसतामेति जगदस्तशुभस्थिति ।
अभ्यासीभूतसंकल्पं संशुष्कमिव काननम् ।। ८१
पुनरर्कगणेष्वग्निदग्धानन्तकलेवरम् ।
सर्वभूतास्थिसंपूर्णं जगदेति श्मशानताम् ।। ८२
पुनः कुलाचलाकारपुष्करावर्तवर्षणैः ।
नृत्यद्भवबृहत्फेनां यात्येकार्णवतां जगत् ।। ८३
पुनः संशान्तवाय्वम्बुरिक्तं सकलवस्तुभिः ।
तदपूर्वमिवाकाशं जगदायाति शून्यताम् ।। ८४
पुनः कतिपया भुक्त्वा समाः समरसाशयः । ।
जीवितं जीर्णया तन्वा पुनः स्वात्मनि लीयते ।। ८५
पुनरन्येन कालेन तथैव जगतां गणान् ।
मनस्तनोति वै शून्ये गन्धर्वनगरं यथा ।। ८६
पुरः सर्गसमारम्भः प्रलये सर्वसंभवः ।
सर्वं पुनरिदं राम चक्रवत्परिवर्तते ।। ८७
किमेतस्मिन्महामायाडम्बरे दीर्घशम्बरे ।
राम सत्यमसत्यं वा निर्णेयं यदिहोच्यते ।। ८८
दाशूराख्यायिकेवेयं राम संसारचक्रिका ।
कल्पनारचिताकारा वस्तुशून्या न वस्तुतः ।। ८९
अविरलमिदमाततं विकल्पैरसदुदितैरपि तैर्द्विचन्द्रकल्पैः ।
विरचितमसतानुपन्नसत्यं जगदिह तेन विमूढता किमुत्था ।। ९०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे जगद्वासनिर्णययोगोपदेशो नाम सप्तचत्वारिंशः सर्गः ।। ४७ ।।