योगतत्त्वोपनिषत्
दिखावट
- ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
- योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया ।
- यच्छृत्वा च पठित्वा च सर्वपापैः प्रमुच्यते ॥ १ ॥
- विष्णुर्नाम महायोगी महाभूतो महातपाः ।
- तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः ॥ २ ॥
- तमाराध्य जगन्नाथं प्रणिपत्य पितामहः ।
- पप्रच्छ योगतत्त्वं मे ब्रूहि चाष्टाङ्गसंयुतम् ॥ ३ ॥
- तमुवाच हृषीकेशो वक्ष्यामि शृणु तत्त्वतः ।
- सर्वे जीवाः सुखैर्दु:खैर्मायाजालेन वेष्टिताः ॥ ४ ॥
- तेषां मुक्तिकरं मार्गं मायाजालनिकृन्तनम् ।
- जन्ममृत्युजरा व्याधिनाशनं मृत्युतारकम् ॥ ५ ॥
- नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् ।
- पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः ॥ ६ ॥
- अनिर्वाच्यं पदं वक्तुं न शक्यं तैः सुरैरपि ।
- स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते ॥ ७ ॥
- निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् ।
- तदेव जीवरूपेण पुण्यपापफलैर्वृतम् ॥ ८ ॥
- परमात्मपदं नित्यं तत्कथं जीवतां गतम् ।
- सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् ॥ ९ ॥
- वारिवत्स्फुरितं तस्मिंस्तत्राहंकृतिरुत्थिता ।
- पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् ॥ १० ॥
- सुखदुःखैः समायुक्तं जीवभावनया कुरु ।
- तेन जीवाभिधा प्रोक्ता विशुद्धैः परमात्मनि ॥ ११ ॥
- कामक्रोधभयं चापि मोहलोभमदो रजः ।
- जन्म मृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा ॥ १२ ॥
- तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च ।
- एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः ॥ १३ ॥
- तस्माद्दोषविनाशार्थमुपायं कथयामि ते ।
- योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम् ॥ १४ ॥
- योगो हि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि ।
- तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् ॥ १५ ॥
- अज्ञानादेव संसारो ज्ञानादेव विमुच्यते ।
- ज्ञानस्वरूपमेवादौ ज्ञानं ज्ञेयैकसाधनम् ॥ १६ ॥
- ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् ।
- निष्कलं निर्मलं साक्षात्सच्चिदानन्दरूपकम् ॥ १७ ॥
- उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् ।
- एतज्ज्ञानमिति प्रोक्तमथ योगं ब्रवीमि ते ॥ १८ ॥
- योगो हि बहुधा ब्रह्मन्भिद्यते व्यवहारतः ।
- मन्त्रयोगो लयश्चैव हठोऽसौ राजयोगतः ॥ १९ ॥
- आरम्भश्च घटश्चैव तथा परिचयः स्मृतः ।
- निष्पत्तिश्चेत्यवस्था च सर्वत्र परिकीर्तिता ॥ २० ॥
- एतेषां लक्षणं ब्रह्मन्वक्ष्ये शृणु समासतः ।
- मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत् ॥ २१ ॥
- क्रमेण लभते ज्ञानमणिमादिगुणान्वितम् ।
- अल्पबुद्धिरिमं योगं सेवते साधकाधमः ॥ २२ ॥
- लययोगश्चित्तलयः कोटिशः परिकीर्तितः ।
- गच्छंस्तिष्ठन्स्वपन्भुञ्जन्ध्यायेन्निष्कलमीश्वरम् ॥ २३ ॥
- स एव लययोगः स्याद्धठयोगमतः शृणु ।
- यमश्च नियमश्चैव आसनं प्राणसंयमः ॥ २४ ॥
- प्रत्याहारो धारणा च ध्यानं भ्रूमध्यमे हरिम् ।
- समाधिः समतावस्था साष्टाङ्गो योग उच्यते ॥ २५ ॥
- महामुद्रा महाबन्धो महावेधश्च खेचरी ।
- जालन्धरोड्डियाणश्च मूल बन्धस्तथैव च ॥ २६ ॥
- दीर्घप्रणवसन्धानं सिद्धान्तश्रवणं परम् ।
- वज्रोली चामरोली च सहजोली त्रिधा मता ॥ २७ ॥
- एतेषां लक्षणं ब्रह्मन्प्रत्येकं शृणु तत्त्वतः ।
- लघ्वाहारो यमेष्वेको मुख्यो भवति नेतरः ॥ २८ ॥
- अहिंसा नियमेष्वेका मुख्या वै चतुरानन ।
- सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम् ॥ २९ ॥
- प्रथमाभ्यासकाले तु विघ्नाः स्युश्चतुरानन ।
- आलस्यं कत्थनं धूर्तगोष्टी मन्त्रादिसाधनम् ॥ ३० ॥
- धातुस्त्रीलौल्यकादीनि मृगतृष्णामयानि वै ।
- ज्ञात्वा सुधीस्त्यजेत्सर्वान् विघ्नान्पुण्यप्रभावतः ॥ ३१ ॥
- प्राणायामं ततः कुर्यात्पद्मासनगतः स्वयम् ।
- सुशोभनं मठं कुर्यात्सूक्ष्मद्वारं तु निर्व्रणम् ॥ ३२ ॥
- सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः ।
- मत्कुणैर्मशकैर्लूतैर्वर्जितं च प्रयत्नतः ॥ ३३ ॥
- दिने दिने च संमृष्टं संमार्जन्या विशेषतः ।
- वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः ॥ ३४ ॥
- नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ।
- तत्रोपविश्य मेधावी पद्मासनसमन्वितः ॥ ३५ ॥
- ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम् ।
- ततो दक्षिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम् ॥ ३६ ॥
- निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः ।
- यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम् ॥ ३७ ॥
- पुनस्त्यजेत्पिङ्गलया शनैरेव न वेगतः ।
- पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः ॥ ३८ ॥
- धारयित्वा यथाशक्ति रेचयेदिडया शनैः ।
- यया त्यजेत्तयापूर्य धारयेदविरोधतः ॥ ३९ ॥
- जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।
- अङ्गुलिस्फोटनं कुर्यात्सा मात्रा परिगीयते ॥ ४० ॥
- इडया वायुमारोप्य शनैः षोडशमात्रया ।
- कुम्भयेत्पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया ॥ ४१ ॥
- रेचयेत्पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः ।
- पुनः पिङ्गलयापूर्य पूर्ववत्सुसमाहितः ॥ ४२ ॥
- प्रातर्मध्यंदिने सायमर्धरात्रे च कुम्भकान् ।
- शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ ४३ ॥
- एवं मासत्रयाभ्यासान्नाडीशुद्धिस्ततो भवेत् ।
- यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः ॥ ४४ ॥
- जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः ।
- शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम् ॥ ४५ ॥
- कृशत्वं च शरीरस्य तदा जायेत निश्चितम् ।
- योगाविघ्नकराहारं वर्जयेद्योगवित्तमः ॥ ४६ ॥
- लवणं सर्षपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम् ।
- शाकजातं रामठादि वह्निस्त्रीपथसेवनम् ॥ ४७ ॥
- प्रातःस्नानोपवासादिकायक्लेशांश्च वर्जयेत् ।
- अभ्यासकाले प्रथमं शस्तं क्षीराज्यभोजनम् ॥ ४८ ॥
- गोधूममुद्गशाल्यन्नं योगवृद्धिकरं विदुः ।
- ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे ॥ ४९ ॥
- यथेष्टधारणाद्वायोः सिद्ध्येत्केवलकुम्भकः ।
- केवले कुम्भके सिद्धे रेचपूरविवर्जिते ॥ ५० ॥
- न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते ।
- प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् ॥ ५१ ॥
- ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः ।
- कम्पो भवति देहस्य आसनस्थस्य देहिनः ॥ ५२ ॥
- ततोऽधिकतराभ्यासाद्दार्दुरी स्वेन जायते ।
- यथा च दर्दुरो भाव उत्प्लुन्योत्प्लुत्य गच्छति ॥ ५३ ॥
- पद्मासनस्थितो योगी तथा गच्छति भूतले ।
- ततोऽधिक तराभ्यासाद्भूमित्यागश्च जायते ॥ ५४ ॥
- पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्तते ।
- अतिमानुषचेष्टादि तथा सामर्थ्यमुद्भवेत् ॥ ५५ ॥
- न दर्शयेच्च सामर्थ्यं दर्शनं वीर्यवत्तरम् ।
- स्वल्पं वा बहुधा दुःखं योगी न व्यथते तदा ॥ ५६ ॥
- अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते ।
- कीलवो दृषिका लाला स्वेददुर्गन्धतानने ॥ ५७ ॥
- एतानि सर्वथा तस्य न जायन्ते ततः परम् ।
- ततोऽधिकतराभ्यासाद्बलमुत्पद्यते बहु ॥ ५८ ॥
- येन भूचर सिद्धिः स्याद्भूचराणां जये क्षमः ।
- व्याघ्रो वा शरभो वापि गजो गवय एव वा ॥ ५९ ॥
- सिंहो वा योगिना तेन म्रियन्ते हस्तताडिताः ।
- कन्दर्पस्य यथा रूपं तथा स्यादपि योगिनः ॥ ६० ॥
- तद्रूपवशगा नार्यः काङ्क्षन्ते तस्य सङ्गमम् ।
- यदि सङ्गं करोत्येष तस्य बिन्दुक्षयो भवेत् ॥ ६१ ॥
- वर्जयित्वा स्त्रियाः सङ्गं कुर्यादभ्यासमादरात् ।
- योगिनोऽङ्गे सुगन्धश्च जायते बिन्दुधारणात् ॥ ६२ ॥
- ततो रहस्युपाविष्टः प्रणवं प्लुतमात्रया ।
- जपेत्पूर्वार्जितानां तु पापानां नाशहेतवे ॥ ६३ ॥
- सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा ।
- एवमभ्यासयोगेन सिद्धिरारम्भसम्भवा ॥ ६४ ॥
- ततो भवेद्धटावस्था पवनाभ्यासतत्परा ।
- प्राणोऽपानो मनो बुद्धिर्जीवात्मपरमात्मनोः ॥ ६५ ॥
- अन्योन्यस्याविरोधेन एकता घटते यदा ।
- घटावस्थेति सा प्रोक्ता तच्चिह्नानि ब्रवीम्यहम् ॥ ६६ ॥
- पूर्वं यः कथितोऽभ्यासश्चतुर्थांशं परिग्रहेत् ।
- दिवा वा यदि वा सायं याममात्रं समभ्यसेत् ॥ ६७ ॥
- एकवारं प्रतिदिनं कुर्यात्केवलकुम्भकम् ।
- इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं स्फुटम् ॥ ६८ ॥
- योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते ।
- यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मेति भावयेत् ॥ ६९ ॥
- यद्यच्छृणोति कर्णाभ्यां तत्तदात्मेति भावयेत् ।
- लभते नासया यद्यत्तत्तदात्मेति भावयेत् ॥ ७० ॥
- जिह्वया यद्रसं ह्यत्ति तत्तदात्मेति भावयेत् ।
- त्वचा यद्यत्स्पृशेद्योगी तत्तदात्मेति भावयेत् ॥ ७१ ॥
- एवं ज्ञानेन्द्रियाणां तु तत्तदात्मनि धारयेत् ।
- याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः ॥ ७२ ॥
- यथा वा चित्तसामर्थ्यं जायते योगिनो ध्रुवम् ।
- दूरश्रुतिर्दूरदृष्टिः क्षणाद्दूरगमस्तथा ॥ ७३ ॥
- वाक्सिद्धिः कामरूपत्वमदृश्यकरणी तथा ।
- मलमूत्रप्रलेपेन लोहादेः स्वर्णता भवेत् ॥ ७४ ॥
- खे गतिस्तस्य जायेत सन्तताभ्यासयोगतः ।
- सदा बुद्धिमता भाव्यं योगिना योगसिद्धये ॥ ७५ ॥
- एते विघ्ना महासिद्धेर्न रमेत्तेषु बुद्धिमान् ।
- न दर्शयेत्स्वसामर्थ्यं यस्य कस्यापि योगिराट् ॥ ७६ ॥
- यथा मूढो यथा मूर्खो यथा बधिर एव वा ।
- तथा वर्तेत लोकस्य स्वसामर्थ्यस्य गुप्तये ॥ ७७ ॥
- शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः ।
- तत्तत्कर्मकरव्यग्रः स्वाभ्यासेऽविस्मृतो भवेत् ॥ ७८ ॥
- सर्वव्यापारमुत्सृज्य योगनिष्टो भवेध्यति: ।
- अविस्मृत्य गुरोर्वाक्यमभ्यसेत्तदहर्निशम् ॥ ७९ ॥
- एवं भवेद्धठावस्था सन्तताभ्यासयोगतः ।
- अनभ्यासवतश्चैव वृथागोष्ठ्या न सिद्ध्यति ॥ ८० ॥
- तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत् ।
- ततः परिचयावस्था जायतेऽभ्यासयोगतः ॥ ८१ ॥
- वायुः परिचितो यत्नादग्निना सह कुण्डलीम् ।
- भावयित्वा सुषुम्नायां प्रविशेदनिरोधतः ॥ ८२ ॥
- वायुना सह चित्तं च प्रविशेच्च महापथम् ।
- यस्य चित्तं स्वपवनं सुषुम्नां प्रविशेदिह ॥ ८३ ॥
- भूमिरापोऽनलो वायुराकाशश्चेति पञ्चकः ।
- येषु पञ्चसु देवानां धारणा पञ्चधोद्यते ॥ ८४ ॥
- पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते ।
- पृथिवी चतुरस्रं च पीतवर्णं लवर्णकम् ॥ ८५ ॥
- पार्थिवे वायुमारोप्य लकारेण समन्वितम् ।
- ध्यायंश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम् ॥ ८६ ॥
- धारयेत्पञ्च घटिकाः पृथिवीजयमाप्नुयात् ।
- पृथिवीयोगतो मृत्युर्न भवेदस्य योगिनः ॥ ८७ ॥
- आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् ।
- आपोऽर्धचन्द्रं शुक्लं च वंबीजं परिकीर्तितम् ॥ ८८ ॥
- वारुणे वायुमारोप्य वकारेण समन्वितम् ।
- स्मरन्नारायणं देवं चतुर्बाहुं किरीटिनम् ॥ ८९ ॥
- शुद्धस्फटिकसङ्काशं पीतवाससमच्युतम् ।
- धारयेत्पञ्च घटिकाः सर्वपापैः प्रमुच्यते ॥ ९० ॥
- ततो जलाद्भयं नास्ति जले मृत्युर्न विद्यते ।
- आपायोर्हृदयान्तं च वह्निस्थानं प्रकीर्तितम् ॥ ९१ ॥
- वह्निस्त्रिकोणं रक्तं च रेफाक्षरसमुद्भवम् ।
- वह्नौ चानिलमारोप्य रेफाक्षरसमुज्ज्वलम् ॥ ९२ ॥
- त्रियक्षं वरदं रुद्रं तरुणादित्यसंनिभम् ।
- भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् ॥ ९३ ॥
- धारयेत्पञ्च घटिका वह्निनासौ न दाह्यते ।
- न दह्यते शरीरं च प्रविष्टस्याग्निमण्डले ॥ ९४ ॥
- आहृदयाद्भ्रुवोर्मध्यं वायुस्थानं प्रकीर्तितम् ।
- वायुः षट्कोणकं कृष्णं यकाराक्षरभासुरम् ॥ ९५ ॥
- मारुतं मरुतां स्थाने यकाराक्षरभासुरम् ।
- धारयेत्तत्र सर्वज्ञमीश्वरं विश्वतोमुखम् ॥ ९६ ॥
- धारयेत्पञ्च घटिका वायुवद्व्योमगो भवेत् ।
- मरणं न तु वायोश्च भयं भवति योगिनः ॥ ९७ ॥
- आभ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते ।
- व्योम वृत्तं च धूम्रं च हकाराक्षरभासुरम् ॥ ९८ ॥
- आकाशे वायुमारोप्य हकारोपरि शङ्करम् ।
- बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् ॥ ९९ ॥
- शुद्धस्फटिकसङ्काशं धृतबालेन्दुमौलिनम् ।
- पञ्चवक्त्रयुतं सौम्यं दशबाहुं त्रिलोचनम् ॥ १०० ॥
- सर्वायुधैर्धृताकारं सर्वभूषणभूषितम् ।
- उमार्धदेहं वरदं सर्वकारणकारणम् ॥ १०१ ॥
- आकाशधारणात्तस्य खेचरत्वं भवेद्ध्रुवम् ।
- यत्र कुत्र स्थितो वापि सुखमत्यन्तमश्नुते ॥ १०२ ॥
- एवं च धारणाः पञ्च कुर्याद्योगी विचक्षणः ।
- ततो दृढशरीरः स्यान्मृत्युस्तस्य न विद्यते ॥१०३ ॥
- ब्रह्मणः प्रलयेनापि न सीदति महामतिः ।
- समभ्यसेत्तथा ध्यानं घटिकाषष्टिमेव च ।
- वायुं निरुध्य चाकाशे देवतामिष्टदामिति ॥ १०४ ॥
- सगुणं ध्यानमेतत्स्यादणिमादिगुणप्रदम् ।
- निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत् ॥ १०५ ॥
- दिनद्वादशकेनैव समाधिं समवाप्नुयात् ।
- वायुं निरुध्य मेधावी जीवन्मुक्तो भवत्ययम् ॥ १०६ ॥
- समाधिः समतावस्था जीवात्मपरमात्मनोः ।
- यदि स्वदेहमुत्स्रष्टुमिच्छा चेदुत्सृजेत्स्वयम् ।
- १०७ ॥
- परब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते ।
- अथ नो चेत्समुत्स्रष्टुं स्वशरीरं प्रियं यदि ॥ १०८ ॥
- सर्वलोकेषु विहरन्नणिमादिगुणान्वितः ।
- कदाचित्स्वेच्छया देवो भूत्वा स्वर्गे महीयते ॥ १०९ ॥
- मनुष्यो वापि यक्षो वा स्वेच्छयापी क्षणद्भवेत् ।
- सिंहो व्याघ्रो गजो वाश्वः स्वेच्छया बहुतामियात् ॥ ११० ॥
- यथेष्टमेव वर्तेत यद्वा योगी महेश्वरः ।
- अभ्यासभेदतो भेदः फलं तु सममेव हि ॥ १११ ॥
- पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् ।
- प्रसार्य दक्षिणं पादं हस्ताभ्यां धारयेद्दृढम् ॥ ११२ ॥
- चुबुकं हृदि विन्यस्य पूरयेद्वायुना पुनः ।
- कुम्भकेन यथाशक्ति धारयित्वा तु रेचयेत् ॥ ११३ ॥
- वामाङ्गेन समभ्यस्य दक्षाङ्गेन ततोऽभ्यसेत् ।
- प्रसारितस्तु यः पादस्तमूरूपरि नामयेत् ॥ ११४ ॥
- अयमेव महाबन्ध उभयत्रैवमभ्यसेत् ।
- महाबन्धस्थितो योगी कृत्वा पूरकमेकधीः ॥ ११५ ॥
- वायुना गतिमावृत्य निभृतं कर्णमुद्रया ।
- पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् ॥ ११६ ॥
- अयमेव महावेधः सिद्धैरभ्यस्यतेऽनिशम् ।
- अन्तः कपालकुहरे जिह्वां व्यावृत्य धारयेत् ॥ ११७ ॥
- भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी ।
- कण्ठमाकु ञ्च्य हृदये स्थापयेद्दृढया धिया ॥ ११८ ॥
- बन्धो जालन्धराख्योऽयं मृत्युमातङ्गकेसरी ।
- बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ॥ ११९ ॥
- उड्यानाख्यो हि बन्धोऽयं योगिभिः समुदाहृतः ।
- पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्दृढम् ॥ १२० ॥
- अपानमूर्ध्वमुत्थाप्य योनिबन्धोऽयमुच्यते ।
- प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् ॥ १२१ ॥
- गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ।
- करणी विपरीताख्या सर्वव्याधिविनाशिनी ॥ १२२ ॥
- नित्यमभ्यासयुक्तस्य जाठराग्निविवर्धनी ।
- आहारो बहुलस्तस्य संपाद्यः साधकस्य च ॥ १२३ ॥
- अल्पाहारो यदि भवेदग्निर्देहं हरेत्क्षणात् ।
- अधःशिरश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने ॥ १२४ ॥
- क्षणाच्च किञ्चिदधिकमभ्यसेत्तु दिनेदिने ।
- वली च पलितं चैव षण्मासार्धान्न दृश्यते ॥ १२५ ॥
- याममात्रं तु यो नित्यमभ्यसेत्स तु कालजित् ।
- वज्रोलीमभ्यसेद्यस्तु स योगी सिद्धिभाजनम् ॥ १२६ ॥
- लभ्यते यदि तस्यैव योगसिद्धिः करे स्थिता ।
- अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम् ॥ १२७ ॥
- अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने ।
- वज्रोलीमभ्यसेन्नित्यममरोलीति कथ्यते ॥ १२८ ॥
- ततो भवेद्राजयोगो नान्तरा भवति ध्रुवम् ।
- यदा तु राजयोगेन निष्पन्ना योगिभिः क्रिया ॥ १२९ ॥
- तदा विवेकवैराग्यं जायते योगिनो ध्रुवम् ।
- विष्णुर्नाम महायोगी महाभूतो महातपाः ॥ १३० ॥
- तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः ।
- यः स्तनः पूर्वपीतस्तं निष्पीड्य मुदमश्नुते ॥ १३१ ॥
- यस्माज्जातो भगात्पूर्वं तस्मिन्नेव भगे रमन् ।
- या माता सा पुनर्भार्या या भार्या मातरेव हि ॥ १३२ ॥
- यः पिता स पुनः पुत्र: यः पुत्रः स पुनः पिता ।
- एवं संसारचक्रेण कूपचक्रेण घटा इव ॥ १३३ ॥
- भ्रमन्तो योनिजन्मानि श्रुत्वा लोकान्समश्नुते ।
- त्रयो लोकास्त्रयो वेदास्तिस्रः सन्ध्यास्त्रयः स्वराः ॥ १३४ ॥
- त्रयोऽग्नयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे ।
- त्रयाणामक्षराणां च योऽधीतेऽप्यर्धमक्षरम् ॥ १३५ ॥
- तेन सर्वमिदं प्रोतं तत्सत्यं तत्परं पदम् ।
- पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् ॥ १३६ ॥
- तिलमध्ये यथा तैलं पाषाणेष्विव काञ्चनम् ।
- हृदि स्थाने स्थितं पद्मं तस्य वक्त्रमधोमुखम् ॥ १३७ ॥
- ऊर्ध्वनालमधोबिन्दुस्तस्य मध्ये स्थितं मनः ।
- अकारे रेचितं पद्ममुकारेणैव भिद्यते ॥ १३८ ॥
- मकारे लभते नादमर्धमात्रा तु निश्चला ।
- शुद्धस्फटिकसङ्काशं निष्कलं पापनाशनम् ॥ १३९ ॥
- लभते योगयुक्तात्मा पुरुषस्तत्परं पदम् ।
- कूर्मः स्वपाणिपादादिशिरश्चात्मनि धारयेत् ॥ १४० ॥
- एवं द्वारेषु सर्वेषु वायुपूरितरेचितः ।
- निषिद्धं तु नवद्वारे ऊर्ध्वं प्राङ्निश्वसंस्तथा ॥ १४१ ॥
- घटमध्ये यथा दीपो निवातं कुम्भकं विदुः ।
- निषिद्धैर्नवभिर्द्वारैर्निर्जने निरुपद्रवे ॥ १४२ ॥
- निश्चितं त्वात्ममात्रेणावशिष्टं योगसेवयेत्युपनिषत् ॥ १४३ ॥
- ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
- ॥ इति योगतत्त्वोपनिषत् समाप्ता ॥