याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/संविद्व्यतिक्रमप्रकरणम्

विकिस्रोतः तः

राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु ।
त्रैविद्यं वृत्तिमद्ब्रूयात्स्वधर्मः पाल्यतां इति । । २.१८५ । ।

निजधर्माविरोधेन यस्तु समयिको भवेत् ।
सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः । । २.१८६ । ।

गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् । । २.१८७ । ।

कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् ।
यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् । । २.१८८ । ।

समूहकार्य आयातान्कृतकार्यान्विसर्जयेत् ।
स दानमानसत्कारैः पूजयित्वा महीपतिः । । २.१८९ । ।

समूहकार्यप्रहितो यल्लभेत तदर्पयेत् ।
एकादशगुणं दाप्यो यद्यसौ नार्पयेत्स्वयम् । । २.१९० । ।

धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः ।
कर्तव्यं वचनं तेषां समूहहितवादिनाम् । । २.१९१ । ।

श्रेणिनैगमपाखण्ड गणानां अप्ययं विधिः ।
भेदं चैषां नृपो रक्षेत्पूर्ववृत्तिं च पालयेत् । । २.१९२ । ।