याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/लेख्यप्रकरणम्

विकिस्रोतः तः
Jump to navigation Jump to search

यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं तु साक्षिमत्कार्यं तस्मिन्धनिकपूर्वकम् । । २.८४ । ।

समामासतदर्धाहर् नामजातिस्वगोत्रकैः ।
सब्रह्मचारिकात्मीय पितृनामादिचिह्नितम् । । २.८५ । ।

समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् । । २.८६ । ।

साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् ।
अत्राहं अमुकः साक्षी लिखेयुरिति ते समाः । । २.८७ । ।

उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना ।
लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् । । २.८८ । ।

विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितं तु यत् ।
तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते । । २.८९ । ।

ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।
आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते । । २.९० । ।

देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने दग्धेऽथवा छिन्ने लेख्यं अन्यत्तु कारयेत् । । २.९१ । ।

संदिग्धलेख्यशुद्धिः स्यात्स्वहस्तलिखितादिभिः ।
युक्तिप्राप्तिक्रियाचिह्न संबन्धागमहेतुभिः । । २.९२ । ।

लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वा र्णिको धनम् ।
धनी वोपगतं दद्यात्स्वहस्तपरिचिह्नितम् । । २.९३ । ।

दत्त्वा र्णं पाटयेल्लेख्यं शुद्ध्यै वान्यत्तु कारयेत् ।
साक्षिमच्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम् । । २.९४ । ।