याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/दिव्यप्रकरणम्
तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये । |
रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः । |
सचैलं स्नातं आहूय सूर्योदय उपोषितम् । |
तुला स्त्रीबालवृद्धान्ध पङ्गुब्राह्मणरोगिणाम् । |
नासहस्राद्धरेत्फालं न विषं न तुलां तथा । |
तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । |
त्वं तुले सत्यधामासि पुरा देवैर्विनिर्मिता । |
यद्यस्मि पापकृन्मातस्ततो मां त्वं अधो नय । |
करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् । |
त्वं अग्ने सर्वभूतानां अन्तश्चरसि पावक । |
तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् । |
स तं आदाय सप्तैव मण्डलानि शनैर्व्रजेत् । |
मुक्त्वाग्निं मृदितव्रीहिरदग्धः शुद्धिं आप्नुयात् । |
सत्येन माभिरक्ष त्वं वरुणेत्यभिशाप्य कम् । |
समकालं इषुं मुक्तं आनीयान्यो जवी नरः । |
त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । |
एवं उक्त्वा विषं शार्ङ्गं भक्षयेद्धिमशैलजम् । |
देवानुग्रान्समभ्यर्च्य तत्स्नानोदकं आहरेत् । |
अर्वाक्चतुर्दशादह्नो यस्य नो राजदैविकम् । |