यज्ञाधिकारः/सप्तमोऽध्यायः

विकिस्रोतः तः
← षष्ठोऽध्यायः यज्ञाधिकारः
सप्तमोऽध्यायः
[[लेखकः :|]]
अष्टमोऽध्यायः →

अथ सप्तमोऽध्यायः
गर्भन्यासः।
अत ऊर्ध्वं प्रवक्ष्यामि गर्भान्यास विधिक्रमम्
आलयं देवताना (च।)ञ्च(च) तच्छीरं परिपठ्यते। 1
मसूरान्ते (चरणान्ते ।क।)चाराणान्ते प्रस्तरान्ते गळान्तरे
(शिखान्ते) शिखरान्ते स्थूपिकाध स्तत्प ञ्च गर्भः प्रशस्यते। 2
आस्थानमण्‍डपे वाऽथ (स्नपनागारमण्डपे।ग।) तथा स्नपनमण्डपे
गोपुरे पचनगारे न्यसेदन्ये मनोरमे। 3
परिवारालये मध्ये गोपुरेगाऽऽर दक्षिणे
नर्गमाद्धक्षिणेवाऽपि प्रवेशाद्धक्षिणेऽपि वा 4
सर्वेषां गोपुराणा ञ्च कुड्यस्याभ्यन्तरे बुधः
स्थानान्ते सन्न्यसेद्गर्भं मण्डपे स्नपनालये। 5
द्विजश्चेत्पट्टिकोर्द्वे तु (कुमुदोर्ध्वे नृप्सय तु।ग।) क्षत्रियः कुमुदोपरि
जगत्यूर्ध्वे तु वैश्यः स्यादुपानोपरि शूद्रकः 6
विमाने तु विशेषेण सर्वेषां वा स्थालान्तरे
द्वाराभ्यचन्तरयेरन्ये ? (राज्ञः) रात्रौ गर्भं निदापयेत्। 7
प्रासादपादविपुलं(नागांशोनम्,) नाहोंशोनमधा ऽपि वा
(उपांशोनम्।)पादांशोनमथो फेळां विशालायम मुच्यते। 8
विस्तारसमभित्युच्च मष्टांसोनमथापि वा
द्वारस्य दक्षिणे स्तम्भे भित्तिव्याससमं बुधः 9
अष्टभागं विभज्याथ चतुर्भागं बहिर्न्यसेत्
त्रिभागमभ्यन्तरे नीत्वा स्थाने तस्मिन् समाचरेत्। 10
तत्र पौष्णीं समभ्यर्च्य देवेशं मनसा स्मरन्
'विष्णुर्योनिं' जपित्वा तु गर्भं तत्रैव वनिस्यसेत् 11
पश्चादग्निं परिस्तीर्य स्विष्टाकारं सवैष्णवम्
हुत्वा विसर्ज येदग्निं गुरुं कर्ता प्रपूजयेत् 12
पश्चाच्छिल्पिनामहूय सुदृढं कारयेति च
नियोजयित्वा तं पूज्य विमानं(पि कारयेत्।) कारयेत्ततः 13
(इतः आन्तमधायस्य।ग। आदर्श एव लभ्यते।)भूतांशोनं ञ्च वा तस्य बहुळं जघमेव  ? वा
नवकोष्टयुतां फेलामच्छिद्रां सापिधानकाम्। 14
स्वर्णेन रजतेनैव कुर्यात्ताम्रेण वा पुनः
येन मार्गेण गन्तव्य शिखरं तेन मार्गतः 15
अश्रमष्टाश्रं वृत्तं वा कायेद्गर्भभाजनम्
मङ्गलान् पर्वतान् भूजान् शङ्खाद्यानायुधानपि 16
मृदः कन्दां स्तथा रत्नानि वर्णचिह्नं स्तथैव च
वाद्यधातुकांश्चैव स्वर्णाद्याभ्यां स्तथैव च 17
प्लक्षादीना त्वश्चैव स्रवाण्यन्यानि चाहरेत्।
पुण्यतीर्थोकांश्चैव सर्वाण्यन्यानि चाहरेत्। 18


शुभे कर्त्रनु कूलर्क्षे स्थिरराशौ विशेषतः
अङ्कुरानर्पयित्तैव पूर्वेद्युस्तद्दिने तथा। 19
स्थाने यथोक्तशालायां कृत्वा सम्यक् सुपोष्य च
द्विहस्ताय त विस्तारं तोलोत्सेधं सु मध्यमे 20
वेदिं कृत्वा तु तत्प्राच्यां कुण्डमौपासनं चरेत्
आलयाभिमुखे शुद्दे सायाह्ने तु विशेषतः 21
व्रीहिभिः स्थिण्डिलं कृत्वा प्रागन्तं वस्त्रमास्तरेत्
फेलां मध्ये सुसन्न्यस्य द्रव्यान् सर्वान् समाहरेत् 22
आचार्यः सुप्रसन्नात्मा चोत्तराभिमुखस्तथा
द्रव्यान् गायत्रिया प्रोक्ष्य तां फेलामपि दर्शयेत्। 23
भूमियज्ञेन संशोद्य आघारं विधिवद्यजेत्
पुण्याहं वाचयित्वा तु वेद्यूर्ध्वे स्तीर्य पूर्ववत् 24
तन्मध्ये स्वस्तिसूक्तेन फेसामपि च सन्न्यसेत्
वेद्यामुपरि दिक्पालान् नागेन्द्रमपि पूजयेत्। 25
नववस्त्रेण संवेष्ट्य पुष्पाण्युपरि विन्यसेत्
.......... ...........
प्रजाल्य च परिस्तीर्य विष्णुसूक्तमतः परम्। 26
श्री सूक्तकं ततो हुत्वा वैष्णवं मन्त्रमेव च
स्वाहान्तं ' नागराजाय ' 'दिक्पाले' भ्यस्तथैव च 27
'सर्वरत्नेभ्य' इत्युक्त्वा 'सर्वधातु' भ्य एव च
'सर्वबीजेभ्यः स्वा' हे ति 'सर्वलोकेभ्य' इत्यपि। 28
'नदीभ्य ः' 'पाताले' भ्यश्च 'वृक्षेभ्यो' नग इत्यपि
'गजेभ्यो' 'विष्णवे' चेति व्याहृत्यन्तं सुहूयताम्। 29
हुत्वा तु साध्यायानान्ते ? गुरुः सम्यक् समर्च्य च
सर्ववाद्य समायुक्तं तद्रातौ स्थापयेद्बुधः
गर्भं तद्रत्नौ ? समलङ्कृतम्
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
सप्तमोऽध्यायः