यज्ञाधिकारः/पञ्चाशोऽध्यायः

विकिस्रोतः तः
← नवचत्वारिंशोऽध्यायः यज्ञाधिकारः
पञ्चाशोऽध्यायः
[[लेखकः :|]]
एकपञ्चाशोऽध्यायः →


पञ्चाशोऽध्यायः
धृवबेरस्य निष्कृतिः
अतः परं प्रवक्ष्यामि धृवबेरस्य निष्कृतिम्
अङ्गोपाङ्ग महाङ्ग ञ्च प्रत्यङ्ग न्तु पधक्पृधक्।। 1
मकुट ञ्च शिरश्चैव कण्ठबाहु च हृत्तधा
ऊरुजा नु प्रदेशादि महाङ्गमिति संज्ञितम्।। 2
नासाकर्णाङ्गुळी चैव नेत्राभ्यां समश्रोत्रकम्
उपाङ्गमेतत्संस्मृत्य विशेषेणैव बुद्धिमान्।। 3
शिरश्चिक्रं गदा ञ्चैव शङ्खचक्रार विन्दकम्
एवमादीनि चाङ्गानि ज्ञात्वा तद्देशिकोत्तमः।। 4
नखरोमचदन्त ञ्च तत्तत्प्रत्यङ्ग मुच्यते
अध वा कटकं वस्त्रं बाहुबन्ध ञ्च हारकम्।। 5
अन्यच्च ब्रह्मसूत्रादि प्रत्यङ्गमिति संज्ञिकम्
हस्तपादतालना न्तु प्रभापीठं तधैव च।। 6
ओष्ठद्वय कपोल न्तु जिह्वातालु स्तधैव च
उपाङ्गमेत त्सम्प्रोक्तं संक्षेपेणोच्यतेमया।। 7
सर्वोपाङ्ग विहीनेतु तस्य तस्य समीकृते
उक्तवत्प्रोक्षणं कृत्वा विधिना सम्यगर्चयेत्।। 8
तिलतिल्व द्वय ञ्चैव माषं माषद्वयं पृधक्
प्रत्यङ्गे च तधाहीने तत्तत् स्थाने समीकृते।। 9
प्रोक्षयित्वा विधानेन विधिना सम्यगर्चयेत्
उपाङ्ग प्रत्यङ्ग हीने बालस्थानं विनाचरेत्।। 10
पादाभ्या न्तु काराभ्या न्तु अङ्गुल्यश्च त्रयोदश
एवं षष्टक सचाष्टौ च हीने तत्र विशेषतः।। 11
रुक्म न्तु रजतं वापि तदन्यं तत्र योजयेत्
बालस्थानं विनाकुर्यात्प्रोक्षयित्वा समर्चयेत्।। 12
शिरश्चक्रार विन्द ञ्च शङ्खचक्र गदां तधा
एतच्चाङ्ग विहीनेतु बालस्थानं प्रकल्पयेत्।। 13
लब्धबेरं प्रतिष्टाप्य विधिना तत्र पूजयेत्
पश्चाद्देवं समीक्ष्यैव शिल्पिना सार्थमाचरेत्।। 14
सुवर्णं रजतं ताम्रं मृच्चिलादारुणा पृधक्
मुख्यगौणं समीक्ष्यैव गौणेमुख्यं समाचरेत्।। 15
मुख्येगौणं न कुर्वीत इति शास्त्रस्य निश्चयः
पूर्वरूपं विनिश्चित्य मुख्यद्रव्येण कारयेत्।। 16
अर्थतालं द्वितालं वा तालमुन्मान मुच्यते
स्थापयित्वा यथान्यायं पूजयित्वा विधानतः।। 17
वीर ञ्च विरह ञ्चैव योगं भोगं चतुर्विधम्
स्थिते निषण्णेशयने प्रत्येक ञ्चैव संज्ञिकम्।। 18


मार्गं वीरं पुरास्थाप्यं जीर्णमन्त्रैव सम्भवे
सन्धानं कारयित्वाध विरह ञ्चैव कारयेत्।। 19
अग्रे च विरहं स्थाप्य तत्र जीर्णादि सम्भवे
योगमार्गे पुनः कुर्यात्थ्पाप्य भोगं पुराकृतम्।। 20
अत्रैव जीर्णसम्भूते यजमानस्य चेच्छया
योगं वीर ञ्च विरहं भोग ञ्चैवहि पूर्ववत्।। 21
एवमेवात्र कुर्वीत् शयने त्वासने स्थिते
यथापूर्वं तथा कुर्याद्विधि ज्ञैरितकेचन।। 22
वर्णयुक्तं शिलाबेरं दैविकेस्थापयेत्पुरा
जिर्णादि वर्णहीनञ्चे त्स्नापनादीनि चर्चयेत्।। 23
तत्रैव कौतुकं हित्वा उत्सवदीनि कारयेत्
वैष्णवं विष्णुसूक्त ञ्च पुरुषसूक्तं यजेत्क्रमात्।। 24
महाङ्गहिने तस्यत्र जीर्णं तत्र भवेद्यदि
तत्तद्द्वेनेष्टं तद्देवं गृहं तत्रैव चार्चयेत्।।(?) 25
पश्चाद्बेर न्तु सन्त्यक्त्वा ग्रामाद्याद्बाह्य मुच्यते
गोवालरज्जुभिर्बध्वा जलेचैवात्र गोपयेत्।। 26
बालालयं ततःकल्प्य जौत्सवे कौतुके तधा
कुम्भाच्छक्तिं तधा वाह्य विधिना स्थाप्य चार्चयेत्।। 27
रूपं द्रव्यं प्रमाण ञ्च पूर्ववत्कारयेद्बुधः
स्थापयेन्मूल हर्म्ये तु कालापेक्षान विद्यते।। 28
कौतुकाद्यादि बेरेतु जीर्णादि सम्भवेद्यदि
उक्तवत्सर्वमालक्ष्य विधिना स्थापयेत्पुनः।। 29
देव्यौनष्टे धृवेस्थित्वा पुनर्देव्यौ च कारयेत्
उक्तवस्ता पयेद्विद्वा न्विवाहविधि माचरेत्।। 30
पूर्वं मह्याश्चकृत्वा तु स्थापयेत्पाणि सङ्ग्रहम्
परं धृत्यैव संस्थाप्य पाणि सङ्ग्रहणे कृते।। 31
तयोस्सं कर्यमेवेति दोषोनैवात्रयत्पुरा
देव्यौस्थित्वा धृवेनष्टे अन्यद्बेरं समाहरेत्।। 32
कुर्याद्गौणं पुनर्मुख्यं मुख्येगौणंन चाचरेत्
स्थापयित्वा विधानेन विवाहं नैव कारयेत्।। 33
अन्योन्य सङ्करेयत्र तत्र दोषान विद्यत्
नष्टबेरस्य देवीस्यादन्यद्बेरं समाहरेत्।। 34
दोषं विनाशेद्रष्टव्यं नृषिंबवत् तत्कृतम्
स्तम्भोद्भव नृसिंहस्य न उत्पन्नेश्रिया इति।। 35
तस्माद्विवाहं नास्त्यैवमेवं पूर्ववदेव तत्
तस्मात्सर्व प्रयत्नेन अकृते कृत माचरेत्।। 36
पुनः प्रतिष्टाचावाह्य देवान्यै देवीमाचरेत्
एवं सङ्कुचिते नोक्तं धृवबेरस्य निष्कृतिम्।।


इति श्री वैखानसे भृगुप्रोक्तायां संहितायां
वासाधिकारे धृवबेर निष्कतिर्नाम पञ्चाशोऽध्यायः