सामग्री पर जाएँ

यज्ञाधिकारः/त्रयस्त्रिंशोऽध्यायः

विकिस्रोतः तः
← द्वात्रिंशोऽध्यायः यज्ञाधिकारः
त्रयस्त्रिंशोऽध्यायः
[[लेखकः :|]]
चतुस्त्रिंशोऽध्यायः →

श्री वैखानसभगवच्छास्त्रे, भार्गवे
मासर्क्षेष्वन्य पुण्यर्क्षे पुण्यर्क्षौ
यज्ञाधिकारः
----------------

अथत्रयत्रिंशोऽध्यायः
--------------------
नैमित्ति कार्चनम्।

अथातः सम्प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः
नैमित्तिकार्चनं वक्ष्ये सर्वाकाम फलप्रदम्। 1
अमावास्या पौर्णमास्योः द्वादश्योः श्रवणेऽपि च
( विष्णोरर्चन मित्याहुः।) अर्चनं मुख्यमाहुर्त्वै विदुषो वेदपारगा। 2
नैमित्तिकार्चनामाहु र्विष्णु पञ्चरक्षा अपि
नित्यार्चनायां तन्मासे ( विष्णुना उद्भवेदिति। नैमित्तिकार्चनामाहुर्विष्णु पञ्चरक्षा) त्वज्ञानाद्दोष एव यत्। 3
न्यानातिरिक्तं यत्सर्वं पूर्णं स्यात्तेषु पूजनात्
मासर्क्षेष्वन्यपुण्यर्क्षे विष्णुपञ्चदिने तथा। 4
अर्चनार्थाय देवस्य कालो मध्याह्न उच्यते
विषुवायन सङ्क्रान्ति व्यतीपातादिषु क्रमात्। 5
तत्तत्काले च देवेशं पूजयेद्विधिचोदितम्
जया जय न्ती पुण्यर्क्षौ सर्वकामफलप्रदौ ? 6
सर्वपापहरौ पुण्यौ वदन्ति मुनयो बुधाः
द्वादश्यां पूर्वपक्षे तु माघमासि पुनर्वसू। 7
यधा युक्ता तदा वाऽपि जयेति परिपठ्यते
अष्टमी कृष्णपक्षे तु श्रावणे रोहिणीयुता 8
वियुक्ता वा जयन्तीति कीर्त्यते वेदपारगैः
सौम्याग्नेययुता वा ऽपि तां जयन्तीं विदुर्भुधाः। 9
जया दिनप्रधाना स्याज्ञयन्ती च तथा विधिः (तिधिः)
जयार्चन ञ्च मध्याह्ने पूजयेद्राघवं बुधाः 10
चन्द्रोदया जयन्तद्यां वै कृष्णं वै पूजये त्तथा
जयाया ञ्च जयन्त्या ञ्च पूजयेद्दोषशान्तये 11
संवत्सरस्य मासर्क्षे तन्मासस्यापि शान्तये
सर्वत्रैव च शान्त्यर्धमन्ते पूर्णाहुतिर्यथा। 12
पूजयेद्विष्णुपञ्चर्क्षे स्थाववृद्ध्यर्ध कारणात्
स्नापने स्नपनं कुर्यादौत्सवे चोत्सवं बुधः 13
तत्तत्काले च देवेशं यथाविभव विस्तृतम्
उभयोरर्चनामार्गं प्रवक्ष्यामि तपोधनाः। 14
आचार्यो यजमानेन सार्धं देवं प्रणम्य च


स्वपनालयेऽथ देवेशं मध्याह्ने स्नापनं प्रभुम् 15
समादाय सुसंस्थाप्य भूषिते श्वभ्रमध्यमे
यथोक्तं स्वपनं कुर्या त्कामस्यैवानुरूपतः। 16
पश्चादभ्यर्चनादेशे जीवस्थाने सुसन्न्यसेत्
माध्यन्दिनार्चनात्पूर्यं कारयेत्स्नपनं तथा 17
तस्यान्ते चोत्सवं कुर्यादौत्सवे सर्वशान्तये
माध्यन्दिनार्चनान्ते तु औत्सव प्रतिमां पुनः 18
प्रणम्य देवदेवेशं याने चारोपयेच्छुभम्
स्वस्तिसूक्तं समुच्छार्यमन्दिरं तत्प्र दक्षिणम्। 19
सर्वालङ्कार संयुक्तं कृत्वाचाऽस्थान मण्डपे
देवीभ्यां सहितं वाऽथ रहितं वाथ चेच्छया 20
यजमानस्य चातुर ञ्चेति योगं परममेव च
आस्थानपूजनार्थाय चतुर्था चासनं भवेत् 21
तापसं चासुर ञ्चेति योगं परममेव च
विपरीतेऽप्यनर्थः ऽस्या (आस्थानादिषु चासनम्) दास्थाने चासन द्विजाः 22
(अधिकेष्वभिवृद्धिः स्यात् ?।) अधिके रिपुवृद्दिः स्याद्धीन् चापि ब लक्षयः
तत्तन्मान ञ्च वृक्षश्च खिले प्रोक्तं मया तथा 23
तोरणानि प्रकल्प्यैव तत्तत् स्थाने सुसन्न्यसेत्।
(ऋग्यजुस्सामाथर्वाणः क्रमेणैवाधिपां स्तथा।ग।) देवरूपाणि तान् ध्यात्वा खिलोक्त विधिनाऽर्चयेत्। 24
समलङ्कृत्य सर्वत्र कदलीक्रमुकादिभिः
आस्थानमण्डप ञ्चैव नवभागं विभज्य च 25
तापसं कल्पयेत्पूर्वे धातुरंशे तपोधनाः
धनदे चासुरं कल्प्य वारुणेयोगमासनम्। 26
ऐन्द्रे तु परमं पश्चाद्ब्रह्माद्यैः सेवितासनम्
सम्भाराणि च सर्वाणि सम्भरेत मनोरमम्। 27
बविर्निधानं धर्मेशे नीरेशे वा यथोचितम्
यत्पदे देवदेवेश स्तत्पदेत्वर्चकस्थितिः 28
पदेऽन्यस्मिन् स्थितश्चेत्तु (तत्) पूजा निष्पलातामियात्
कुर्याच्च तापसे विद्वान् स्वागतं चानुमानकम्। 29
पाद्य ञ्च तालुजिह्वायाश्शुद्धि माचनीयकम्
पुष्पाञ्जलि प्रणाम ञ्च मुखवासमतः परम्। 30
गलाच्छादनवस्त्र ञ्च तथैवाभ्यञ्जन ञ्चरेत्
चन्दनेन तथा गात्रं राजवन्मर्दयेत्पुनः। 31
मुखवासं विनोद ञ्च कुर्यादत्र यथोचितम्
राजवद्देवमादाय स्थापयेच्चासुरासने। 32
ततः प्रवरमं कृत्वा पाद्यमाचमनं ददेत्
अलकाशोधनं कृत्वा पूर्वमामलकेन च 33
वस्त्रैणेन समाबद्ध्य ततश्चाङ्गान् सुशोधयेत्
अभिषिच्य गलाधस्ता च्चन्दनाद्यैर्मनोरमैः (मम्) 34

सुगन्धैर्वासितैः सुद्धैर्हरिद्रेण तथा प्रभुम्
आलिप्याधोऽपि कण्ठाद्वै यथाशोभं तथा बुधः 35
ना?Rळिकेरोदकैः सुद्धैः सुखार्धमभिषेचयेत्
मौ?Rळिबन्धं विसृज्याऽथ गन्धोदैरभिषिच्य च 36
वस्त्रेणाच्छादनं कृत्वा पाद्यमाचमनं ददेत्
उत्तरीयं पवित्र ञ्च उपवीतं तथा बुधः 37
दद्यात्पाद्यादि ( चार्घ्यान्तम्।ग।) च तथा अर्चयेत्पूर्ववद्बुधः
स्पर्शनीयं तदर्घ्यं स्यात् स्नापने स्वपने तथ 38
निवेदितव्य ञ्चाऽन्यत्र नित्यनैमित्तिकार्चने
कुसुमा़ञ्जलि मुत्सृज्य प्रणम्यैवानुमान्य च 39
सहस्रधारामाचार्यः समादाये न्दुमर्चयेत्
तस्यामुदङ्मुखस्तिष्ठन् धरेन्मौ?Rळ्युपरि क्रमात् 40
(अङ्गम्) संस्नापयेत्प्रधानाङ्गं गुरुणा करणीयकम्
सहस्रधारया तस्मादभिष्के गुरुश्चरेत् 41
(स्नाने प्रधानमङ्गं यद्गुरुणा।) इद्थं सर्वेषु कर्तव्यं गरुणा तथा
शिष्टैरन्यन्निरुद्ध ञ्चे त्तत्पूजा निष्फला भवेत् 42
निश्यैश्च शङ्खपद्माभ्यां तस्यामेवाभिषेचनम्
वेदानध्यापयेच्छिष्टैर्भूसुरैः परितः क्रमात् 43
तत्काले नरसूक्त ञ्च गुरश्चापि जपेत्तथा
सहस्रधारास्नानान्ते ( शुद्धोदैः ख।) कुम्भोदैरभिषिच्य च 44
प्लोतं दत्वा ततो योगे चासने स्थापयेद्धरिम्
कृत्वा प्रवरणं पश्चा (केशांश्चैनर्तिकं तथा ? ग।) द्राजवद्धूपये त्तथा 45
अलकान्विकीर्य हस्ताभ्यां मङ्गलं बन्धये त्तथा
गन्धमाल्यैरङ्कृत्य वस्त्रैराच्छादयेच्छुभम् 46
सूक्ष्मैर्धुकूलैः कक्षाद्यैर्यावद्भ क्तजनप्रियम्
गन्धमाल्यैरलङ्कृत्य पाद्याद्यर्घ्या न्तमर्चयेत्। 47
यवनिका ञ्च विसृज्यैव प्रणाममपि कारयेत्
दूर्वाक्षतोदं मध्याह्ने साये नीराजनं तथा। 48
सङ्गृह्य पात्रे देवेशं दर्शयेत्प्रणवा कृतिम्
पुष्पाक्षतैश्च ( रक्षार्थम्) रक्षार्थं महादिक्षु विसर्जयेत् 49
प्रदक्षिणं समावेष्ट्य तद्दिग्देव मनुस्मरन्
'विष्णुस्त्वा' मिति रक्षार्थं (कारयेदक्ष तैरपि।) ललाटे चोर्ध्वपुण्ड्रकम् 50
आदर्शनं दर्शयित्वा छत्रचामर वाहनान्
दर्शयित्वा तथा वेदान् दिशासु विदिशासु च 51
पुराणस्तोत्रसूत्राणि कल्पमध्या पयेत्क्रमात्
प्रमुखे गेयनृत्ते च सर्ववाद्य समायुतम्। 52
घोषयेल्लक्षणोपेतं स्तुतिभिः स्तूयते प्रभुः
तण्डुलं चाढकार्थं स्यात्तिलं प्रस्थं घृतं पुनः 53
कु़डुबं मुखवास ञ्च पात्रे तान्याहरेत्पृथक्

तस्मिन् वेदां त्समभ्यर्च्य वेदविद्भ्यो ददेत्पुनः 54
पूर्वं दूर्वां ददेद्गोभ्यः देवदेवस्य सन्निधौ
गुरुप्रणामं कृत्वाऽन्ते 'क्षम' स्वेति जनार्धनम् 55
प्रभूतं ( च हविः) चात्रसन्दद्यात्पूरोक्तविधिना ततः
लब्धे महाहविः पश्चात् खिलोक्तविधिना ददेत्। 56
(प्रक्षिप्यै वान्यतो देवदेवं संस्थाप्य चाथवा।)पानीयाचमनं दत्वा प्लोतं गन्ध ञ्च हस्तयोः
मुखवासं ततो दत्वा देवदेवं प्रणम्य च 57
तस्मादारोपयेद्देवं राचवत्परमासने
अपूपादीनि भक्ष्याणि सर्वाणि विविधानि च 58
निवेदयेद्यथान्यायं ना?Rळिकेरोदकं तथा
(पानीयचमनं पश्चात्।) आचमनं ददेत्पश्चान्मुखवासं निवेदयेत्। 59
विनोदनृत्तं कृत्वाऽन्ते देवदेवं प्रणम्य च
याने देवं समारोप्य सर्वालङ्कार संयुतम्।60
ग्रामे देवालये वाऽथ प्रदक्षिण मथाचरेत्
आलये च विशेषेण प्रदक्षिण मथाचरेत् 61
जीवस्थाने प्रतिष्ठाप्य देवीभ्यां सह चाव्ययम्‍
समभ्यर्च विशेषेण प्रणाममपि कारयेत् 62
सर्वेषामुपचाराणां मन्त्रः प्रोक्तः पुरा खिले
मया तथा चरेद्विद्वान् नित्यनैमित्ति कार्चने 63
(तेनैव विधिना विद्वान्मन्त्राणां स्थलने ऽपि च, निगृह्य (ग्रह) मूर्तिभिः कुर्यात्केचिदष्टाक्षरेण च।) मन्त्राणां स्खलने केचित्कुर्युर्टाक्षरेण वा
एवं यः कुरुते भक्त्या इदं नैमित्तिकार्चनम् 64
सर्वपापैर्विमुक्तात्मा विष्णुलोकं स गच्छति 654
इदि श्री वैखानसे भगवच्छास्त्रे(उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे नैमित्तिकार्चन विधिर्नाम
( द्वात्रिंशोऽध्यायःग।) त्रयस्त्रिंशोऽध्यायः।