यज्ञाधिकारः/चत्वारिंशोऽध्यायः

विकिस्रोतः तः
← नवत्रिंशो‌ऽध्यायः यज्ञाधिकारः
चत्वारिंशोऽध्यायः
[[लेखकः :|]]
एकचत्वारिंशोऽध्यायः →


यज्ञाधिकारः।
-------------------
अथ चत्वारिंशोऽध्यायः।
----------------------
उत्सवभ्रमणम्।
-----------------------------
उत्सवार्थं विशेषेण सम्भारानाहरे त्ततः
रथ ञ्च शिबिका ञ्चैव यन्त्रडोलादिकां स्तथा। 1
कारयित्वाऽथ शिल्पोक्तं दीपानन्यान् प्रगृह्य च
वाद्यान् भेर्यादिकानन्यान् शङ्खकाह?Rळकान् हरेत् 2
तालवृन्तध्वजानन्यान् छत्रचामरबर्हिणः
नर्तकान् गायकानन्यान् यथोक्तं पूर्वमाहरेत् 3
आलयं समलङ्कृत्य तोरणाद्यैर्विभूष्य च
परिचारकान् समाहुय स्वस्वकर्म निवेदयेत् 4
मण्डपादीनि सर्वाणि प्रपाद्यानि च सर्वतः
आस्थानार्थ ञ्च नृत्यार्थं कारयेच्छिल्पिशास्त्रवत् 5
' अवधू' तेति मन्त्रेण ग्रामवीथीर्वि शेषतः
विप्रा वेदविदः शुद्धाः शोधयेयुर्मनोरमम् 6
'आशासु सप्त' इत्युक्त्वा ( गव्याद्यैः ग।)गन्धोदैः सर्वतश्शुभम्
समभ्युक्ष्यैव लिप्यैव तण्डुलानव कीरयेत् 7
कदलीक्रमककुम्भा द्यैर्ध्वारेद्वारे प्रतिप्रति
वितानाद्यैर्वविशेषेण भूषयेत्सछर्वतः शुभम्। 8
तद्ग्रामवासिनः सर्वेऽलङ्कृत्वाऽनन्यतत्पराः
नैमित्तिकान् विना भक्त्या ध्यायेयुर्मनसा हरिम्। 9
तद्ग्रामसीमन्यन्तस्था नित्यकर्मक्रियां विना
नैमित्तिकानि काम्यानि तीर्थन्तं नाचरेद्बुधः 10
प्रवृत्ते चोत्सवे विष्णोः सौम्यमार्गण वास्तुषु
अन्यदेवोत्सवं तत्र नाचरेच्चेद्विनश्यति 11
अस्मिन् देवोत्सवे यागे तद्वास्तुषु विशेषतः
सङ्कल्प्य चोत्तरां वेदिं प्रवृत्तेऽन्यानि नाऽचरेत् 12
यजि (चोत्सव)चेत्सर्वनाशः स्यात्कर्ता भर्ता विनश्यति
तस्मात्परिहारेद्धीमान् तीर्थान्तं तेषु वास्तुषु 13
उत्वादिदिनात्पूर्वं सप्तमेप़ञ्चमेऽथ वा
अङ्कुरान्पयित्वा तु पूर्वोक्तस्योत्सवस्य तु 14
आरम्भः स्नपनार्थ ञ्च पूर्वरात्रौ विशेषतः
सायमर्चावसाने तु देवमादाय मण्डपे 15
विष्टरोपरि संस्थाप्य समभ्यर्च्याऽष्ट विग्रहैः
राजवन्मुखवास ञ्च तैलं दद्याच्च पूर्ववत् 16


पूर्वोक्तं देवमादाय स्थापयेदासुरे पुनः
शुद्धस्नानोक्तमार्गेण स्नापयेदव्ययं पुनः 17
योगासने समारोप्य नृत्तगेयावसानकम्
आसनाद्यं समभ्यर्च्य हविः समङ्नि वेदयेत् 18
आलयाद्दक्षिणे पार्श्वे गोमयेनोपलिप्य च
धान्योपरि प्रतिष्टोक्त मण्डजादीं त्समाहरेत् 19
सम्प्रोक्ष्यात्रैव देवेशं देवीभ्यां सहवाविना
समारोप्य समभ्यर्च्य कौतुकं बन्धये त्तथा 20
तथैव शाययित्वाऽत्र नृत्तगेयादिभिः सह
ततादिवाद्यैःसर्वैश्च रात्रिशेषं नयेत्क्रमात् 21
प्रभाते देवमुद्थाप्य हविर्नैव समर्च्य च
स्नपनोक्तप्रकारेण मध्याह्ने स्नपनं चरेत् 22
ततो हविर्निवेद्यैन स्थापयेद्यागमण्डपे
अर्चास्थाने ऽथ वा धीमान् चक्राद्यैस्सह चाव्ययम् 23
कौतुकं यजि चेद्धीमान् प्रातरर्चावसानके
देव्यौ नैव समादाय स्नापयेत्स्नपन न्तु वा 24
संस्नाप्यैव समभ्यर्च्य हविः समङ्निवेद्य च
पश्चात्सन्ध्यार्च्यनार्थाय स्थाप्येद्वेदिकोपरि 25
प्रथमेऽहनि सायह्ने चक्रवीशामितैः सह
संस्नाप्य च समभ्यर्च्य हविः सम्यङ्नि वेदयेत् 26
पालिकादीन् समादाय चक्राद्यैः समलङ्कृतम्
यामनारोप्य वीशाद्यान् धूपदीप समायुतम् 27
गच्छेन्मृद्ग्रहणार्थाय ग्रामादौ बाह्यतः सुधीः
प्राच्यामैशेऽथ वा सौम्ये गत्वा चक्रादिभिः सह 28
गोमयेनोपलिप्यैव शुद्धे तत्र मनोरमे
नवतालेन मानेन पौष्णीं तत्र लिखेद्गुरुः 29
प्रासार्यमाणां नैर् ऋत्यां पादमैशान्य मौलिकम्
ऊर्ध्वानना ञ्च द्विबुजां सर्वाभरण भूषिताम् 30
लिखित्वाऽत्र समभ्यर्च्य पुण्याहमपि वाच्य च
भूमौ तु पश्चिमे चक्रं शान्तं चैवोत्तरे तथा 31
प्राच्यं वीशं समभ्यर्च्य खनित्रे शेषमर्चयेत्
नववन्त्रेण चावेष्ट्य खनित्रमादाय मन्त्रवित् 32
(नाभेरूर्ध्वं खनित्वा तु तालमात्रं विशेषतः ग, आदर्शेऽधिकः पाठः।)स्तनयोर्मध्यमे वाऽथ बाहूर्वा मस्तकेऽथ वा
उदङ्मुखः स्थितो भूत्वा 'त्वां खना' मीति मन्त्रतः 33
खनित्रेण खनित्वा तां गृहित्वाऽथ मृदं पुनः
पात्रेण शिरसाऽऽदाय देवै रन्यैस्तथा क्रमात् 34
ग्रामं प्रदक्षिणं कृत्वा मन्दिरं सम्प्रविश्य च
पूर्वस्मिन्नुत्तरे पार्श्वे चाङ्कुरानर्पये त्तथा 35


चक्रादीनभिषिच्यैव हविः सम्यङ्यिवेद्य च
स्वेस्वे स्थाने सुसंस्थाप्य यागं पश्चात्समारभेत् 36
आलयाभिमुखे वाऽथ दक्षिणे वा मनोरमे
यमपावक योर्मध्ये पावकां शेऽथ वा चरेत् 37
ऐशान्यां वाऽथ वा केचित्सोमेशाना न्तरेऽथ वा
कल्पयेद्यागशाल ञ्च प्रिविष्टोक्तेन मार्गतः 38
वेदिं तस्मध्यमे पङ्क्तौ पङ्क्तिमानेन कारयेत्
उत्सवाद्यर्थमात्रं वा तर्निमात्रोदयं क्रमात् 39
पञ्चाग्नीन् कल्पयेद्धी मानुत्तमे चोत्सवे तथा
त्रेताग्नीन् कल्पयेद्विद्वान् मध्यमे चोत्सवे क्रमात् 40
अधमं यदि चेत्सभ्यं कल्पयेत्पूर्ववत्सुधीः
त्रेताग्नि कल्पनं यत्र प्रधानं गार्हपत्यकम् 41
उभयोरन्ययोः सभ्यं प्रधान ञ्चाऽचरे त्तधा
भूमियज्ञेन सर्वत्र शोधयेच्च यथा विधि 42
पूर्वोक्तविधिना धीमान् नवकुम्भं प्रहृह्य च
( इन्द्रं प्रणवम् 'ग।) 'इन्द्रं नरो न' इत्युक्त्वा तन्तुवा वेष्टये त्तथा 43
वेद्यामुपरि पूर्वोक्तं धान्यान्यास्तीर्य मस्त्रवित्
विभज्य नवभाग ञ्च तस्मिन् कुम्भान् न्यसेतत्क्रमात् 44
कुम्भानद्भिः प्रपूर्यैव कुशकूर्चाक्षतादिकम्
मङ्गलान्यायुधान्रत्नान् कुम्भं प्रति पृथक् पृथक् 45
गायत्र्या सुविनिक्षिप्य मध्यकुम्भे विशेषतः
द्वियङ्गुल प्रमाणेन स्रुगाद्यानपि पूर्ववत् 46
हाटकेनैव कृत्वा तु विष्मुसूक्तेन निक्षिपेत्
आवृयाणुद्वस्त्रयुग्मेन सर्वानपि पृथक् पृथक् 47
वेद्यामधस्ता त्पूर्वे तु वीशं वै पश्चिमामुखम्
सन्न्यस्य दक्षिणे पश्चाच्चक्र ञ्चैवोत्त रामुखम् 48
पङ्क्तीशं प्राङ्मुखं पश्चा त्पश्चिये चोत्तरे तथा
दक्षिणाभिमुखं शान्तं स्थण्डिलोपरि सन्न्यसेत् 49
अलाभे गरुडादीनां स्थाने वै तत्र तत्र च
कुम्भान्त्सन्यस्य तन्मध्ये ध्यात्वैवाऽवाहये त्क्रमात् 50
यावत्तीर्थावसानं स्यात्तावत्कुम्भे च पार्षदान्
सन्ध्याम्प्रति विशेषेण पूजयेत्क्रमशः सुधीः। 51
प्रतिष्टोक्तविधानेन आघारावाहने च वै
जुष्टाकार ञ्च कृत्वैव स्वाहारकार ञ्च कारयेत् 52
होमक्रमं निरुक्तोक्तं मध्यमोत्तमयोरपि
तथैव कारयेद्विद्वानस्य मार्गः प्रवक्ष्यते 53
उत्तराभिमुखस्तिष्ठ न् वेद्यास्तद्दक्षिणे गुरुः
प्राणायाम ञ्च कृत्वाऽत्र प्रतिष्ठोक्तध्यान मारभेत् 54


प्रधानकुम्भमध्ये तु विष्णु देव्यौ च पार्षदान्
ध्रवादावाहयेन्मन्त्री प्रागादिषु यथा क्रमम् 55
पुरुषं कपिलं सत्यं यज्ञमच्युतमेव च
नारायणं ततः पश्चादनिरुद्धं पुण्यमेव च 56
प्रागाद्य ञ्च समावाह्य समभ्यर्च्याष्टविग्रहैः
परिषिच्य पावकं पश्चाद्वैष्णवं जुहुयात्क्रमात् 57
वेद्यां तत्पश्चिमे वाऽथ वायव्यां वा विशेषतः
स्थण्डिलं कल्पयित्वाऽत्र चास्तरेदण्डजादिकान् 58
यजमानसमायुक्तो गरुर्देवं प्रणम्य च
कुसुमा़ञ्जलिमुत्सृज्य 'प्रतद्विष्णु' रिति ब्रुवन् 59
देवीभ्यांसह देवेशमादाय स्थण्डिलोपरि
प्राङ्मुख ञ्च सुसंस्थाप्य पूजयेदष्टविग्रहैः 60
उत्सवप्रतिमाभावे स्नापने वा विशेषतः
स्नापनस्याप्यभावे तु कौतुके वा चरेत्तु वा 61
कौतुके यदि चेद्देव्यौ नैवादाय तथा चरेत्
नाचरेन्नित्यवैकल्यं विसर्गावाहने तथा 62
आचरेदुत्सवं विद्वान् सित्यार्चां वा यथाक्रमात्
अस्ति चेन्नित्यवैकल्यं सर्वनाशो भवेद्ध्रुवम् 63
स्नापने यजि चेद्विद्वान्मध्यमे चोत्सवस्य तु
स्नपने यजि सम्प्राप्ते कौतुके स्नपनं चरेत् 64
स्नपनप्रतिमाभेवे स्नपनं यजि चोत्सवे
(आचरेत्तत्प्रवृत्तेन्य मौत्सवो त्तममध्यमे) 65
सम्भवे त्स्नपनं ? चात्र कौतुके चोत्सवं विना
आचरेत्कर्मसाङ्कर्यं नाचरेदुभयोर्बुधः 66
उत्सवे वर्तमाने तु कौतुके स्नपनं यदि
सम्भवेदुक्तकाले तु क्रमात्कर्माणि वाऽऽचरेत् 67
पुराप्रवृत्तकार्यस्य नास्ति दोषोऽत्र केचन
कौतुकं चेद्त्यथैकाग्नौ बहुकर्माणि वच्चरेत् 68
( यथा।ग। ) गहे त्रेताग्निवन्नित्यं प्रणीयारोपणं विना
स्नापनोत्सवबेरो तु कौतुकेसि दिनं प्रति 69
आरोपणं यदि भवे ( ध्रुवात्।) द्ध्रुवे तत्कर्मपूर्वतः
आवाह्य कर्मणामन्ते तथा साये विसर्जयेत् 70
प्रातरावाहनं नित्यमर्चनादौ विशेषतः
विसर्ज्यं सायमर्चान्ते कौतकेहि यथा तथा 71
तथा चेत्सवदीक्षादौ समावाह्य ध्रुवात्सुधीः
विसर्गं नाऽचरेन्मध्ये तीर्थान्ते तं ( समर्चयेत्।क।) समाचरेत् 72
एवं सङ्कल्प्य तान् सर्वान् देवेशं स्थण्डिलोपरि
संस्थाप्य च समभ्यर्च्य पुण्याहमपि वाचयेत् 73


हेमपात्रे तु सौवर्णं कौतुकं स्थण्डिलोपरि
सन्यस्य पूर्ववद्दीमान् बन्धयेद्दक्षिणे करे 74
कुम्भान् देव्यौ च चक्राद्यान् समाबद्ध्य समर्चयेत्
परिषिच्य पावकं पश्चाद्विष्णु सूक्तमतः परम् 75
वैष्णवं नरसूक्त ञ्च ( श्री सूक्त ञ्च।ग।) श्री भूसूक्तं तथैव च
तद्दिनाधिपदैवत्यं हुत्वा देवं प्रणम्य च 76
चक्रवीशामितात्यैश्च सार्धं ग्रामं प्रविश्य च
घोषणोक्त बलिं दत्वा प्रविशेदालयं पुनः 77
भूतपीठे समारोप्य बलिशेषं जलैः सह
यदि तद्राजधान्या ञ्चेद्राजवेश्माङ्कणं बुधः 78
त्र्यंशीकृत्य च तन्मध्ये नमोन्त ञ्च शचीपतेः
पत्नीभिः सह निक्षिप्य पश्चामांशे विशेषतः 79
श्रियै च परितो धीमान् वसुभ्यश्च बलिं क्षिपेत्
शङ्खपद्मनिधी द्वारे पार्श्वयोरुभयोरपि। 80
पश्चादालयमाविश्य देवदेवं प्रणम्य च
अलङ्कृत्यैव वस्त्राद्यैश्चान्यैर्नेत्रमनः प्रियम् 81
'वेदाह' मिति मन्त्रेण यानमारोप्य पूर्ववत्
देवी युक्तं वियुक्तं वा बलिमार्गे प्रदक्षिणम्। 82
कुर्याद्भक्तजनैः सार्धं सर्वालङ्कार संयुतम्
राजचिह्न समायुक्तं तोयधारा पुरस्सरम्। 83
ग्राम्परदक्षिणे काले बलिमार्गं विनाऽन्यतः
न गच्चेद्यदि चेच्छून्यं परचक्रभयं भवेत् 84
गृहप्रवेशने स्वेस्वे विप्रा स्तद्ग्रामवासिनः
कुर्यार्दीपादिभिः सार्धं प्रत्युत्थानं ससम्भ्रमम् 85
देवेशं ये तु सेवन्ते ते जनाः पुण्यभागिनः
पदेपदे क्रतुफलं लभन्त्येते न संशयः 86
कृत्वा प्रदक्षिणं सम्य क्प्रविशेदालयं पुनः
अवरोप्य यानाद्देवेशमास्थाने विष्टरोपरि 87
संस्थाप्य च समभ्यर्च्य संस्नाप्य कलशोदकैः
रक्षाबन्धं विसृज्यैव स्नापयेत्पूर्ववत्सुधीः 88
श्वभ्रादादाय देवेशं यागशालां प्रविश्य च
संस्थाप्य पश्चिमे कुम्भाद्देवीभ्यांसह पूजयेत् 89
कुम्भांश्चक्रादिकानन्यान् देवानपि जनार्दनम्
हविः सम्नङ्निवेद्यैव शान्तिमग्नौ यजेत्पुनः 90
प्रणम्य देवमादाय देवीभ्यांसह पूर्ववत्
जीवस्थाने प्रतिष्टाप्य प्रणम्यैवानु मानयेत् 92
कौतुकं यदि तत्काले वेद्यां संस्थाप्य प