यज्ञाधिकारः/एकचत्वारिंशोऽध्यायः
← चत्वारिंशोऽध्यायः | यज्ञाधिकारः एकचत्वारिंशोऽध्यायः [[लेखकः :|]] |
द्विचत्वारिंशोऽध्यायः → |
यज्ञाधिकारः।
------------------
अथैक चत्वारिंशोऽध्यायः।
---------------------------
द्वितीयादिदिनप्रयगः।
-----------------------------
द्वितीयाहं समारभ्य प्रातरर्चावसानके
कुम्भानाराध्य विधिवद्धविः सम्यङ्नि वेदयेत्। 1
पश्चात्प्रणम्य देवेशं देव्यौ नैव विचक्षणः
याने वा डोलके वाऽथ समारोप्यैव राजवत्। 2
आस्थानमण्डपे वाऽथ स्नपनालय एव वा
भक्तैः सर्वजनैः सार्धं राजवत्सं प्रवेशयेत्। 3
अत्रैव पूर्ववद्धीमान् कल्पयेच्चतुरासनम्
पूर्वोक्तं समलङ्कृत्य तापसे स्थापयेत्पुनः 4
स्नानात्पूर्वोपचाराणि कुर्यात्सर्वाणि तत्र वै
स्नानाङ्गानि च सर्वाणि कारये ( आसने।ग।) दासने तथा 5
ततः क्रमेण देवेशं प्लोतवस्त्रान्तमेव च
योगासने समारोप्य वस्त्राद्यैरपि भूषयेत् 6
पुनरर्घ्यान्तमभ्य्च्य पाद्याद्यं पूर्वमन्त्रतः
अक्षताङ्कुरदूर्वाश्च साम्बुना पूर्व हाटके 7
पात्रे तस्मिन्त्समभ्यर्च्य सोमं पश्चात्प्रगृह्य च
प्रणवाकृतिवद्धीमान् मौ?Rळेरुपरि वैष्णवैः 8
प्रदक्षिणं समावर्त्य शिश्यहस्ते ददेत्पुनः
साक्षतं पुष्पमादाय मुष्टिमात्रं विशेषतः 9
मुकुटोपरि सत्कृत्वा प्रदक्षिणं विसृजेद्दिशि
वेदानामपि तृप्त्यर्थं नमोन्तं वेदमुर्तिना 10
'विष्णुस्त्वा' मिति मन्त्रेण रक्षां कृत्वाऽथ चाक्षतैः
'देवस्य' त्वेति मन्त्रेण दर्पणं दर्शयेत्पुनः 11
छत्रं तेनैव दत्वाऽन्ते चामरादि परिच्छदान्
संयोज्य परितो धीमान् वेदनानध्यापयेत्क्रमात् 12
पुराणस्तोत्रसूत्राणि कल्प ञ्च् विधिशासु च
प्रमुखे गेयनृत्ते च कृत्वा चान्यैश्च घोषयेत् 13
द्विप्रस्थं तण्डुलं पात्रे तिलं प्रस्थं प्रगृह्य च
प्रस्थपादं घृत ञ्चैव ताम्बूलं सम्प्रगृह्य च 14
देवस्य दर्शनार्थाय दूर्वामुष्टिं पृथक् पृथक्
(पृथक् पात्रे सुसङ्गृह्य।) पात्रे सङ्गृह्य देवस्य प्रमुखे सन्न्यसेत्क्र मात् 16
ऋग्वेदं तण्डुलेऽभ्यर्च्य यजुर्वेदं तिले तथा
घृते साम त्वथर्वाणं ताम्बूले पूजयेत्क्रमात् 17
तत्तद्वेदविदो विप्रान्त्समाहुयाग्रतो हरेः
अर्चनोक्तप्रकारेण ( तण्डुलम् ।ग।) मण्डल ञ्च ददेत्क्रमात् ? 18
ताम्बूल ञ्च ददेत्पश्चात्पुराणाद्य ञ्च भूसुराः
संस्तूय पश्चाद्देवेशं प्रणामं कारयेद्गुरुः 19
पाद्यमाचमनं पश्चाद्दत्वाऽत्र प्रमुखे तथा
मण्डल ञ्चोपलिप्यैव प्रभूतं पूर्ववद्ददेत्। 20
प्रणम्यैवानुमान्यैव देवमादायचाऽसनात्
सकृत्प्रदक्षिणं ( धाम कृत्वा।) यागशालां प्रवेशयेत्। 21
वेद्यास्तु पश्चिमे भागे विष्टरे समलङ्कृते
संस्थाप्य देवदेवेशं समभ्यर्चाष्टविग्रहैः 22
तत्तत्कुम्भान्त्समाराध्य देवनान्यान् सपार्षदान्
समभ्यर्च्य हविः सम्यङ्निवेद्य मुखवासकम् 23
दत्वा सभ्यं समासाद्य परिषिच्य च पूर्ववत्
तद्दिनाधिपदैवत्यं पूर्वोक्तं मन्त्रमेव च 24
हुत्वाऽन्ते बलिमादाय चक्रवीशामितैः सह
बलिबिम्ब समायुक्तमन्य ? देवसमायुतम् 25
सर्वालङ्कार संयुक्तं ( सर्ववाद्य समायुतम्।) पूजयेत्तु यथाविधि
धात्रादिभूतपर्यन्तं परिषद्भ्यो बलिं ददेत् 26
पश्चाद्ग्रामं प्रविश्यैव बलिं विर्वाप्य पूर्ववत्
पुनरालयमाविश्व भूतपीठे समाचरेत् 27
पादौ प्रक्षाल्य चाचम्य देवदेवं प्रणम्य च
संस्नाप्यैव च चक्रादीन् शालायं सन्न्यसे त्तथा 28
हविर्भिः सनिवेद्यैव पावक ञ्च सुरक्ष येत्
पुनर्देवं समादाय यागस्थानान्मनोरमे 29
मण्डपादौ सुसन्न्यस्य वस्त्रैश्च विविधैरपि
हाराद्याभरणैरन्यैः पुष्पमालादिभिः क्रमात् 30
समलङ्कृत्य देवेसं हविश्चैवात्र राजवत्
निवेद्यैव यथाशक्ति चात्र निवेदयेत् 31
मर्दयेच्चन्दनेनैव ( देवदेवम्।ग।) देवहस्तौ पुनर्गुरुः
बहुलं मुखवास ञ्च दत्वा देवं प्रणम्य च 32
( सुत्तिराग।) स्वस्तिगान समायुक्तं भक्तैरन्यैः समावृतम्
राजवच्छिबिकारया ञ्च समारोप्यैव मन्दिरम् 33
( सद्म।) सकृत् प्रदक्षिणं कृत्वा ग्रामवीथीं प्रवेशयेत्
पुनस्तदासनाद्देवं शिभिकायां रथेऽथ वा 34
तुरगे वा गजेवाऽथ देवं संस्थाप्य राजवत्
प्रणम्य मुखवास ञ्च दत्वा शृङ्गार संयुतम् 35
ग्रामप्रदक्षिणं कृत्वा( याम।) धाममात्रगतेऽपि वा
नाभिवीथ्यां यदि भवेद्ब्रह्मस्थानं प्रदक्षिणम् 36
कृत्वा पश्चान्महावीथिं बलिमार्गेण राजवत्
कृत्वा प्रदक्षिणं पश्चादालयं सम्प्रवेश येत् 37
( अवरोप्याथ।ग।) अपरोप्य यानाद्देवेशं पश्चाद्धाम प्रदक्षिणम्
कृत्वा पूर्वोक्तवद्धीमानास्थाने स्थापये त्ततः 38
राजवत्सम्प्रणम्यैव पाद्यं दत्वाऽथ पादयोः
कुर्यादाचमनं तत्र मुखवासं ददेत्पुनः 39
यवनिकया तिरस्कृ त्य पाद्याद्यर्घान्तमेव च
पूजयित्वाऽथ देवेशं जह्याद्यवनि कां पुनः 40
नीराजन ञ्च पूर्वोक्तं दासीभी राजवत्सुखम्
कृत्वाऽन्ते मुखवास ञ्च बहुलं सन्ददेत्पुनः 41
लोकयात्राक्थाश्चान्या भक्तैर्विज्ञापयेद्गुरुः
तत्त दुक्तानि वाक्यानि गुरुस्तत्स्वयमेव च 42
श्रावयेत्तस्य वाक्य ञ्च विष्णोर्वाक्यमिति स्वयम्
स्मृत्वोक्तानि च कार्याणि सर्वे कुर्युश्च पण्डिताः 43
प्रणम्यैव गुरुः पश्चान्माल्यादीन्त्सं प्रगृह्य च
विष्वक्सेनं प्रपूज्यैव वस्त्रैरन्यैश्च शिष्टकेः 44
मुखवासं पुनर्दत्वा श्वेतवस्त्रेण बुद्धिमान्
स्कन्धोपरि समाच्छाद्य अलकान्त्सं वि कीरयेत्। 45
तैलं शिरसि संस्राव्य राजवन्मर्जयेत्पुनः
शनैस्तदलकान् बध्य पुष्पमाल ञ्च वेष्टयेत् 46
विसृज्य स्कन्धवस्त्र न्त दङ्गेष्वभ्यञ्जनं शनैः
कृत्वा देवं प्रणम्यैव चन्दनेनानुलेयेत् 47
मुखवास ञ्च दत्वाऽन्ते स्नानार्थं सम्प्रणम्य च
संयोज्य पादुके पश्चा द्राजवत्पादयोरपि 48
हस्ताभ्यां देवमादाय स्तापयेदासुरे पुनः
पाद्यमाचमनं दत्वा पूर्वोक्तविधिना बुधः 49
संस्नाप्य गन्धतोयेन प्लोतेन विमृजे त्ततः
योगासने समारोप्य समलङ्कृत्य पूर्ववत् 50
गेयनृत्तावसानान्ते हविः सम्यङ्नि वेदयेत्
महाहविर्यदि भवेत्पूर्वोक्तं सम्प्रकल्प्य च 51
तस्य पश्चामभागे तु संस्थाप्य प्रभुमव्ययम्
निवेदयित्वा पूर्वोक्तं पानीयाचमने तथा 52
दत्वा तस्मात्समादाय स्थापयेत्परमासने
अपूपादीनि भक्ष्याणि चान्यानि विविधानि च 53
बहुभिर्ना?Rळिकेरैश्च विष्णुगायत्रिया बुधः
निवेद्यविधिना पश्चाद्गन्धं दत्वाऽथ पूर्ववत् 54
मुखवास ञ्च दत्वाऽन्ते प्रणाममपि कारयेत्
कथाङिस्तत्पुराणैश्च वेदैर्वाद्यैर्विशेषतः 55
विनोदं कारयित्वान्ते देवमादाय पूर्ववत्
सकृत्प्रदक्षिणं कृत्वा यागशालां प्रवेशयेत् 56
पूर्वस्थाने सुसंस्थाप्य समभ्यर्च्य हविर्ददेत्
कुम्भानन्यान्निवेद्यैव होमं कृत्वा पुन स्तथा 57
चक्रमेकं समादाय बलिद्रव्यं प्रगृह्य च
बलिं निर्वाप्य पूर्वोक्तमालयं सम्प्रवेशयेत् 58
देवं प्रणम्य पूर्वोक्तमलङ्कृत्य मनः प्रियम्।
रथे वा शिबिकायांवा समारोप्य च पूर्ववत् 59
ग्रामप्रदक्षिणं कृत्वा मन्दिरं सम्प्रविश्य च
यानादादाय देवेशं कृत्वा धामप्रदक्षिणम् 60
संस्थाप्य स्नानवेद्या ञ्च वस्त्रमाल्यं विसृज्य च
पाद्य माचमनं दत्वा पूर्वोक्तविधिना बुधः 61
गन्धोदैरभिषिच्यैव प्लोतं दत्वाऽथ पूर्ववत्
तस्मादादाय देवेशं जीवस्थाने विशेषतः 62
संस्थाप्यैव समभ्यर्च्य जेवीभ्यां सह चाव्ययम्
हविः सम्यङ्निवेद्यैव मुखवासं ददेत्पुनः 63
'अपराधं क्षम' स्वेति देवदेवं प्रणम्य च
स्वेस्वेस्थाने च चक्रादीन् स्थापयेन्मतिमान् बुधः 64
द्वितीयाहः प्रभृत्येवं सायं प्रतर्दिनेदिने
प्रातर्नि त्यार्चनस्यान्ते द्विगुणार्चन माचरेत् 65
एवं कर्तुमशक्त श्चे त्पूर्ववद्द्विगुणार्चनम्
हविर्नि वेदनं होमं कुम्भदेव समर्चनम् 66
बलिदानं तथा कृत्वा द्विकालं चाथवाऽव्ययम्
एककाले च सायह्ने चोत्सवं कारये त्तथा 67
शत्रुचोरादिभीतौ वा महावातभये तथा
अति वृष्टिभये वाऽथ द्वितीयावरणेऽपि वा 68
उत्वं बलिनिर्वापं (च) कारयेदिति केचन
हेतुनान्येन चेत्सद्यो नाशो भवति तद्ध्रुवम् 69
इति श्री वैखानसे भगवच्छास्त्रे( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे( द्वितीयदिनोत्सवं नाम चत्वारिंशोऽध्यायः।ग।) द्वितीयाददिनोत्सव विधिर्नाम
एकचत्वारिंशोऽध्यायः