सामग्री पर जाएँ

मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः १४

विकिस्रोतः तः

याज्यानुवाक्याः

4.14.1 अनुवाकः1
सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति ।
सादन्यꣳ विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै ॥
अषाढꣳ युत्सु पृतनासु पप्रिꣳ स्वर्षामप्साꣳ वृजनस्य गोपाम् ।
भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनुमदेम सोम ॥
त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं दक्षैः सुदक्षो विश्ववेदाः ।
त्वं वृषा वृषत्वेभिर्महित्वा द्युम्नेभिर् द्युम्नि अभवो नृचक्षाः ॥
या ते धामानि दिवि या पृथिव्याम् ॥
त्वं इमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः ।
त्वमाततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥
या ते धामानि हविषा यजन्ति, सोमापूषणा , इमौ देवौ ॥
सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वं ।
विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥
दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे ।
ता अस्मभ्यं पुरुवारं पुरुक्षुꣳ रायस्पोषं विष्यतां नाभिमस्मे ॥
धियं पूषा जिन्वतु विश्वमिन्वो रयिꣳ सोमो रयिपतिर् दधातु ॥
अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः ॥
विश्वानि अन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति ।
सोमापूषणा अवतं धियं मे युवाभ्यां विश्वाः पृतना जयेम ॥
प्रजापते नहि त्वत्तानि अन्यो विश्वा जातानि परि ता बभूव ।
यस्मै कं जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयीणां ॥
रयीणां पतिं यजतं बृहन्तमस्मिन् भरे नृतमं वाजसातौ ।
प्रजापतिं प्रथमजां ऋतस्य यजाम देवमधि नो ब्रवीतु ॥
प्रजापते त्वं निधिपाः पुराणो देवानां पिता जनिता प्रजानां ।
पतिर् विश्वस्य जगतः परस्पा हविर् नो देव विहवे जुषस्व ॥
तवेमे लोकाः प्रदिशो दिशश्च परावतो निवत उद्वतश्च ।
प्रजापते विश्वसृग् जीवधन्य इदं नो देव प्रतिहर्य हव्यं ॥
प्रजापतिं प्रथमं यज्ञियानां देवानामग्रे यजतं यजध्वं ।
स नो ददातु श्रवणं पितॄणां तस्मै ते देव हविषा विधेम ॥
यो राय ईशे शतदाय उक्थ्यो यः पशूनां रक्षिता विष्ठितानां ।
प्रजापतिः प्रथमजा ऋतस्य सहस्रधामा जुषतां हविर्नः ॥

4.14.2 अनुवाकः2
वायो शतं हरीणां युवस्व पोष्याणां ।
उत वा ते सहस्रिणो रथा आयातु पाजसा ॥
ईशानाय प्रहुतिं यस्ता आनट् शुचिꣳ सोमं शुचिपास्तुभ्यꣳ वायो ।
कृणोषि तं मर्त्येषु प्रशस्तं जातो जातो जायते वाज्यस्य ॥
युक्वाना हि त्वं रथासहा युवस्व पोष्या वसो ।
आन् नो वायो मधु पिबास्माकं सवनागहि ॥
कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यासा आसन् ।
ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥
आ नो वायो महे तने याहि मखाय पाजसे ।
वयं हि ते चकृमा भूरि दावने सद्यश्चिन्महि दावने ॥
सं ते वायुः ॥
पीवोअन्नं रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः ।
ते वायवे समनसो वितोथुर्विश्वेन्नरः स्वपत्यानि चक्रुः ॥
राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवं ।
अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥
आ वायो, प्र वायुम् , प्र याभिः ॥
आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुपयाहि यज्ञं ।
वायो अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥
देवानां भद्रा सुमतिर् ऋजूयतां देवानां रातिरभि नो निवर्तताम् ।
देवानां सख्यम् उपसेदिमा वयं देवा ना आयुः प्रतिरन्तु जीवसे ॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर् व्यशेम देवहितं यदायुः ॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनां ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
आ वो देवास ईमहे ॥
उत देवा अवहितं देवा उन्नयथा पुनः ।
उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥
यज्ञेन यज्ञमयजन्त देवाः ॥

4.14.3 अनुवाकः3
अग्ने नय ॥
प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतं ।
यो दैव्यानि मानुषा जनूꣳष्यन्तर्विश्वानि विद्मना जिगाति ॥
अग्ने त्वं पारय ॥
अछा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः ।
सुसंदृशꣳ सुप्रतीकं स्वञ्चꣳ हव्यवाहमरतिं मानुषाणां ॥
अग्ने त्वमस्मद् युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः ।
पुनरस्मभ्यꣳ सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र ॥
प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः ।
दक्षिणावाड् वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची ॥
उदुत्तमं, अस्तभ्नाद् द्यां, इमां धियम् ॥
कितवासो यद् रिरिपुर्न दीवि यद्वा घा सत्यं उत यन् न विद्म ।
सर्वा ता विष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः ॥
अव ते हेडो वरुण, तत्त्वायामि ॥
पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।
ग्नाभिरछिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥
आ नो दिवः ॥
इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व ।
तव शर्मन् प्रियतमे दधाना उपस्थेयाम शरणं न वृक्षं ॥
यस्ते स्तनः शशयो यो मयोभूर्येण विश्वा पुष्यसि वार्याणि ।
यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे कः ॥
सरस्वत्यभि नो नेषि वस्य , इदं ते हव्यं ॥

4.14.4 अनुवाकः4
आ वेधसं नीलपृष्ठं बृहन्तं बृहस्पतिं सदने सादयध्वं ।
सादद्योनिं दमा आ दीदिवांसं हिरण्यवर्णमरुषं सपेम ॥
स हि शुचिः शतपत्रः स शुन्ध्युर् हिरण्यवाशीरिषिरः स्वर्षाः ।
बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥
बृहस्पतिः, स सुष्टुभा ॥
बृहस्पते अति यदर्यो अर्हाद् द्युमद्विभाति क्रतुमज्जनेषु ।
यद् दीदयच् शवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥
एवा पित्रे विश्वदेवाय वृष्णे ॥
सूर्यो देवीं उषसं रोचमानां मर्यो न योषामभ्येति पश्चा ।
यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥
भद्रा अश्वा, स्तत्सूर्यस्य ॥
तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्यौरुपस्थे ।
अनन्तमन्यद् रुशदस्य पाजः कृष्णमन्यद्धरितः संभरन्ति ॥
अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥
चित्रं देवानां उदगाद् अनीकं , सुत्रामाणं , महीम् ऊ षु , अदितिः पाशान् ॥
अदितिर् द्यौर् अदितिर् अन्तरिक्षमदितिर् माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्च जना अदितिर् जातं अदितिर्जनित्वं ॥
विष्टंभो दिवः, स्तीर्णं बर्हिः ॥


4.14.5 अनुवाकः5
विष्णोर्नु कं , तदस्य, प्र तद्विष्णुः ॥
परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।
उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥
विचक्रमे पृथिवीं एष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् ।
ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥
त्रिर्देवः पृथिवीं एष एतां विचक्रमे शतर्चसं महित्वा ।
प्र विष्णुरस्तु तवसस्तवीयाꣳस्त्वेषं ह्यस्य स्थविरस्य नाम ॥
इन्द्रं नरो नेमधिता, युजे रथं ॥
जगृह्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनां ।
विद्मा हि त्वा गोपतिꣳ शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दाः ॥
तवेदं विश्वमभितः पशव्यं यत् पश्यसि चक्षसा सूर्यस्य ।
गवां असि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥
समिन्द्र नः ॥
आराच् शत्रुमपबाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन ।
अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥
इन्द्रो बलं रक्षितारं दुघानां करेणेव विचकर्ता रवेण ।
स्वेदाञ्जिभिराशिरं इछमानोऽरोदयत् पणिमा गा अमुष्णात् ॥
अध्वर्यवो यो दृभीकं जघान यो गा उदाजदपि हि बलं वः ।
तस्मा एतमन्तरिक्षे न वातं इन्द्रं सोमैर् ओर्णुत जूर्न वस्त्रैः ॥
इन्द्रा ओषधीरसनोदहानि वनस्पतीꣳरसनोदन्तरिक्षम् ।
बिभेद वलं नुनुदे विवाचोऽथाभवद् दमिताभिक्रतूनां ॥
यो हत्वाहिमरिणात्सप्त सिन्धून् यो गा उदाजदपधा वलस्य ।
यो अश्मनोर् अन्तरग्निं जजान सꣳवृक् समत्सु स जनासा इन्द्रः ॥
अभि स्ववृष्टिम् ॥
भिनद्वलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितानि ऐरत् ।
रिणग् रोधांसि कृत्रिमानि एषां सोमस्य ता मदा इन्द्रश्चकार ॥

4.14.6 अनुवाकः6
विष्णुं देवं वरुणं ऊतये भगं मेदसा देवा वपया यजध्वं ।
ता नो यज्ञं आगतं विश्वधेना प्रजावदस्मे द्रविणेह धत्तं ॥
मेदसा देवा वपया यजध्वं विष्णुं च देवं वरुणं च रातिम् ।
ता नो अमीवां अपबाधमाना इमं यज्ञं जुषमाणा उपेतं ॥
विष्णूवरुणा युवमध्वराय नो विशे जनाय महि शर्म यच्छतं ।
दीर्घप्रयज्यू हविषा वृधाना ज्योतिषारातीर्दहतं तमांसि ॥
ययोर् ओजसा स्कभिता रजांसि वीरेभिर् वीरतमा शविष्ठा ।
या पत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणा पूर्वहूतिम् ॥
विष्णूवरुणा अभिशस्तिपावा देवा यजन्त हविषा घृतेन ।
अपामीवां सेधतं रक्षसश्चाथा धत्तं यजमानाय शं योः ॥
अंहोमुचा वृषभा सुप्रतूर्ती देवानां देवतमा शविष्ठा ।
विष्णूवरुणा प्रतिहर्यतं न इदं नरा प्रयतं ऊतये हविः ॥
आ देवो याति सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः ।
हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ् च भूम ॥
अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् ।
आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥
स घा नो देवः सविता सहावासाविषद्वसुपतिर्वसूनि ।
विश्रयमाणो अमतिम् उरूचीं मर्तभोजनं अध रासते नः ॥
आ कृष्णेन रजसा, वामं अद्य ॥
भगं धियं वाजयन्तः पुरंधिं नराशंसो ग्नास्पतिर्नो अव्यात् ।
आये वामस्य संगथ रयीणां प्रिया देवस्य सवितुः स्याम ॥
या ओषधयो , अश्वावतीम् , ओषधीरिति मातरो , अति विश्वाः परिष्ठा , यदोषधयः संगच्छन्ते , अन्या वो अन्याम् ॥
 
4.14.7 अनुवाकः7
मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिरर्कैः ।
यत् सीꣳ वरिष्ठे बृहती विमिन्वन् रुवद्धोक्षा पप्रथानेभिरेवैः ॥
प्र पूर्वजे ॥
स इत् स्वपा भुवनेष्वास य इमे द्यावापृथिवी जजान ।
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् ॥
भूरि द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते ।
नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
इदं द्यावापृथिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वां ।
भूतं देवानामवमे अवोभिर्विद्यामेषं वृजनं जीरदानुम् ॥
उर्वी पृथ्वी बहुले दूरेअन्ते उपब्रुवे नमसा यज्ञे अस्मिन् ।
दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
इन्द्रो भूतस्य भुवनस्य राजेन्द्रो दाधार पृथिवीं उतेमां ।
इन्द्रे ह विश्वा भुवना श्रितानीन्द्रं मन्ये पितरं मातरं च ॥
इन्द्रः पृणन्तं पपुरिं चेन्द्रा इन्द्रः स्तुवन्तं स्तवितारमिन्द्रः ।
दधाति शक्रः सुकृतस्य लोक इन्द्रं मन्ये पितरं मातरं च ॥
इन्द्रो द्यौरु३र्व्युत भूमिरिन्द्रा इन्द्रः समुद्रो अभवद् गभीरः ।
उर्वन्तरिक्षं स जनासा इन्द्रा इन्द्रं मन्ये पितरं मातरं च ॥
इन्द्रो वृत्रं वज्रेणावधीद्धीन्द्रो व्यंसं उत शुष्णमिन्द्रः ।
इन्द्रः पुरः शम्बरस्याभिनद्धीन्द्रं मन्ये पितरं मातरं च ॥
इन्द्रो बभूव ब्रह्मणा गभीर इन्द्रा आभूतः परिभूष्विन्द्रः ।
इन्द्रो भविष्यदुत भूतमिन्द्रा इन्द्रं मन्ये पितरं मातरं च ॥
इन्द्रोऽस्मं अवतु वज्रबाहुरिन्द्रे भूतानि भुवनानीन्द्रे ।
अस्माकमिन्द्रो भवतु प्रसाह इन्द्रं मन्ये पितरं मातरं च ॥
उत स्या नः सरस्वती जुषाणोपश्रुवत् सुभगा यज्ञे अस्मिन् ।
द्युतद्युभिर्नमस्यैरियाणा राया युजा चिदुत्तरा सखिभ्यः ॥
प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः ।
प्र बाधमाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः ॥
एकाचेतत् सरस्वती नदीनां शुचिर्यती गिरिभ्या आ समुद्रात् ।
रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय ॥
इदमददाद्रभसं ऋणच्युतं दिवोदासं वध्रीयश्वाय दाशुषे ।
या शस्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥
अयम् उ ते सरस्वति वसिष्ठो द्वारा ऋतस्य सुभगे व्यावः ।
वर्ध शुभ्रे स्तुवते रासि वाजान् यूयं पात स्वस्तिभिः सदा नः ॥
इयं शुष्मेभिर् बिसखा इवारुजत् सानु गिरीणां तविषेभिर् ऊर्मिभिः ।
पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमाविवासेम धीतिभिः ॥

4.14.8 अनुवाकः8
शुचिं नु स्तोमं , श्नथद् वृत्रम्, उभा वां इन्द्राग्नी, प्र चर्षणिभ्या , आ वृत्रहणा ,
गीर्भिर्विप्र, स्त्वष्टा दधत् , तन् नस्तुरीपं , त्वष्टा वीरम् ॥व
पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।
प्रजां त्वष्टा विष्यतु नाभिमस्मे अधा देवानामप्येतु पाथः ॥
देव त्वष्टः ॥
आविष्ट्यो वर्धते चारुरासु जिह्मानां ऊर्ध्वः स्वयशा उपस्थे ।
उभे त्वष्टुर् बिभ्यतुर् जायमानात् प्रतीची सिंहं प्रतिचेतयेते ॥
जगृह्मा ते दक्षिणमिन्द्र हस्तं ॥
सुब्रह्माणं देववन्तं महान्तम् उरुं गभीरं पृथुबुध्नमिन्द्र ।
श्रुतऋषिमुग्रम् अभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दाः ॥
वनीवानो मम दूतासा इन्द्रं स्तोमाश्चरन्ति सुमतीरियाणाः ।
हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥
स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणां ।
चर्कृत्यं शंस्यं भूरिवारं उग्रम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥
अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजमिन्द्र ।
भद्रव्रातं विप्रवीरं स्वर्षामस्मभ्यं चित्रं वृषणं रयिं दाः ॥
सनद्वाजं विप्रवीरं तरुत्रं धनुस्पृतं शूशुवांसं सुदक्षम् ।
दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यं चित्रं वृषणं रयिं दाः ॥

4.14.9 अनुवाकः9
त्वष्टा पत्नीभिरिह नः सजोषा देवो देवीभिर्हविषो जुषाणः ।
उपो रयिं बहुलं विष्यता नः शृणोत नः सुमतिं यज्ञियासः ॥
रेतोधा यस्य भुवनस्य देवः ससाद योनौ जनिता जनिष्ठः ।
रूपाणि कृण्वन् विदधद्वपूꣳषि त्वष्टा पत्नीभिश्चरति प्रजानन् ॥
त्वष्टा पत्नीभिरनु मंहनेवाग्रेयावा धिषणे यं दधाते ।
विश्वा वसु हस्तयोरादधानोऽन्तर्मही रोदसी याति साधन् ॥
आ नो वीरेभिर्जनिता मतीनां गोभिरश्वेभिर्वसुभिर्वसूयन् ।
समञ्जानो धामभिर्विश्वरूपैस्त्वष्टा पत्नीभिश्चरति प्रजानन् ॥
त्वष्टा रेतो भुवनस्य पत्नीर्विकृण्वानास्तनयं भूरि पश्वः ।
ग्ना वो देवी रोदसी तच् शृणोता नो रयिं जनत विश्ववारं ॥
यज्ञं च नस्तन्वं च प्रजां च रयिं च नो जनत विश्वरूपं ।
योनौ रेतो दधदस्मे नु त्वष्टा देवीः पत्नीर्जनत जीवसे नः ॥
वि मच् श्रथाय रशनां इवाग ऋध्याम ते वरुण खाम् ऋतस्य ।
मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः ॥
पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजं ।
अव्युष्टा इन्नु भूयसीरुषासा आ नो वीरान्वरुण तासु शाधि ॥
अपो षु म्यक्ष वरुण भियसं मत् सम्राड् ऋतावोऽनु नो गृभाय ।
दामेव वत्साद्विमुमुग्ध्यꣳहो नहि त्वदारे निमिषश्चनेशे ॥
यो मे राजन् युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह ।
स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान् ॥
मा नो वधैर्वरुण ये त इष्टा एनः कृण्वन्तमरुण भ्रीणन्ति ।
मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥
क्व त्यानि नौ सख्या बभूवुः सचावहै यदवृकं पुरा चित् ।
बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥
मूर्धानं दिवः, पृष्टो दिवि, वैश्वानरस्य सुमतौ स्याम, त्वमग्ने शोचिषा शोशुचानो,
अग्निः प्रातः सवनात् , विश्वं विव्याच ॥

4.14.10 अनुवाकः10
आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर् यात्वश्वैः ।
घृतवर्तनिः पविभी रुचान इषां वोढा नृपतिर्वाजिनीवान् ॥
स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसायातु युक्तः ।
विशो येन गच्छथो देवयन्तीः कुत्रा चिद्यामं अश्विना दधाना ॥
स्वश्वा यशसायातमर्वाग् दस्रा निधिं मधुमन्तं पिबाथः ।
वि वां रथो वध्वा यादमानोऽन्तान् दिवो बाधते वर्तनिभ्यां ॥
यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः ।
तेन नः शं योरुषसो व्युष्टौ नि अश्विना वहतं यज्ञे अस्मिन् ॥
युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायां ।
यद्देवयन्तमवथः शचीभिः परि घ्रंसं ओमना वां वयो गात् ॥
युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः ।
पतत्रिभिरश्रमैरव्यथिभिर् दंसनाभिरश्विना पारयन्ता ॥
ब्रह्मणस्पते त्वमस्य यन्ता ॥
स ईꣳ सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः ।
ब्रह्मणस्पतिर् वृषभिर्वराहैर् घर्मस्वेदेभिर्द्रविणं व्यानट् ॥
ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः ।
यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक् ॥
इन्धानो अग्निं वनवद्वनुष्यतः कृतब्रह्मा शूशुवद् रातहव्या इत् ।
जातेन जातं अति स प्रसर्सृते यं यं युजं कृणुते ब्रह्मणस्पतिः ॥
ब्रह्मणस्पते सूयमस्य विश्वहा ॥
स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरते धना नृभिः ।
देवानां यः पितरं आविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम् ॥
आयातं मित्रावरुणा सुशस्त्य् उप प्रिया नमसा हूयमाना ।
सं या अप्नःस्थो अपसेव जनाच् श्रुधीयतश्चिद्यतथो महित्वा ॥
युवं वस्त्राणि पीवसा वसाथे युवोरछिद्रा मन्तवो ह सर्गाः ।
अवातिरतमनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥
को नु वां मित्रावरुणा ऋतायन् दिवो वा महः पार्थिवस्य वा दे ।
ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो नु वाजान् ॥
तत् सु वां मित्रावरुणा महित्वं ईर्मा तस्थुषीरहभिर् दुदुह्रे ।
विश्वाः पिन्वथः स्वसरस्य धेना अनु वां एकः पविराववर्त ॥
यद् बंहिष्ठं नातिविधे सुदानू अछिद्रं शर्म भुवनस्य गोपा ।
तेन नो मित्रावरुणा अविष्टꣳ सिषासन्तो जिगीवांसः स्याम ॥
प्र बाहवा ॥

4.14.11 अनुवाकः11
आ नो विश्वा आस्क्रा गमन्त देवा मित्रो अर्यमा वरुणः सजोषाः ।
भुवन् यथा नो विश्वे वृधासः करन्सुत्षाहा विथुरं न शवः ॥
शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।
शमभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥
ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः ।
ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे ॥
सुगा वो देवो , विश्वे देवाः ॥
द्यौः पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृडता नः ।
विश्व आदित्या अदिते सजोषा अस्मभ्यꣳ शर्म बहुलं वियन्त ॥
ईडे अग्निं स्ववसं नमोभिरिह प्रसत्तो विचयत् कृतं नः ।
रथैरिव प्रभरे वाजयद्भिः प्रदक्षिणिन्मरुतां स्तोमं अश्याम् ॥
त्विषीमन्तो अध्वरस्येव दिद्युत् त्रिषुच्यवसो जुह्वो नाग्नेः ।
अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥
अग्ने याहि दूत्यं मा रिषण्यो देवं अछा ब्रह्मकृता गणेन ।
सरस्वतीं मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय विश्वान् ॥
प्र चित्रमर्कं गृणते तुराय ॥
ये अग्नयो न शोशुचन्निधाना द्विर्यत् त्रिर्मरुतो वावृधन्त ।
अरेणवो हिरण्ययास एषां साकं नृम्णैः पौꣳस्येभिश्च भूवन् ॥
आ वो यन्तूदवाहासो अद्य ॥
सत्यं बृहद् ऋतं उग्रं दीक्षा तपो ब्रह्म यज्ञाः पृथिवीं धारयन्ति ।
सा नो भूतस्य भुवनस्य पत्नि उरुं लोकं पृथिवी नः कृणोतु ॥
असंबाधा या मध्यतो मानवेभ्यो यस्या उद्वतः प्रवतः समं महत् ।
नानारूपा ओषधीर् या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥
यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादं ।
सा नो मधु घृतं दुहामथो उक्षतु वर्चसा ॥
यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन् ।
या बिभर्ति बहुधा प्राणदेजत् सा नो भूमिः पूर्वपेयं दधातु ॥
यास्ते प्राचीः प्रदिशो या उदीचीर् याश्च भूम्यधराग् याश्च पश्चा ।
शिवास्ता मह्यं चरते भवन्तु मा निपप्तं भुवने शिश्रियाणः ॥
विश्वंभरा वसुधानी पुरुक्षुद्धिरण्यवर्णा जगतः प्रतिष्ठा ।
वैश्वानरं बिभ्रती भूमिरग्निमिन्द्र ऋषभा द्रविणं नो दधातु ॥

4.14.12 अनुवाकः12
आ वां मित्रावरुणा हव्यदातिं नमसा देवा अवसा ववृत्याम् ।
अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर् दिव्या सुपारा ॥
ऋतस्य गोपा अधितिष्ठथो रथं सत्यधर्माणा परमे व्योमन् ।
यमत्र मित्रावरुणावथो युवं तस्मै वृष्टिर्मधुमत् पिन्वते दिवः ॥
[]वाचं सु मित्रावरुणा ऋतावरीं पर्जन्यश्चित्राꣳ वदति त्विषीमतीम् ।
अभ्रा वसत(वसथ) मरुतः सु मायया द्यां वर्षयतमरुणामरेपसं ॥
सम्राजा अस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा ।
वृष्टिꣳ वां राधो अमृतत्वं ईमहे द्यावापृथिवी विचरन्ति तन्यवः ॥
आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिम् उक्षतं इडाभिः ।
प्रति वां अत्र वरं आ जनाय पृणीतं उद्नो दिव्यस्य चारोः ॥
सम्राजा उग्रा वृषभा दिवस्पती पृथिव्या मित्रावरुणा विचर्षणी ।
चित्रेभिरभ्रैरुपतिष्ठतो रवं द्यां वर्षयतो असुरस्य मायया ॥
आ ते महो , यो जात एवा , अभि गोत्राणि ॥
आभिः स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र ।
आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽवतारीर्दासीः ॥
अयं शृण्वे अध जयन्नुत घ्नन्नयम् उत प्रकृणुते युधा गाः ।
यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृढं भयता एजदस्मात् ॥
अनु स्वधामक्षरन्नापो अस्यावर्धत मध्या आ नाव्यानां ।
सध्रीचीनेन मनसा तमिन्द्रा ओजिष्ठेन हन्मनाहन्नभि द्यून् ॥
इन्द्रस्तरस्वानभिमातिहोग्रो हिरण्यवर्ण इषिरः स्वर्षाः ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
हिरण्यवर्णो अभयं कृणोत्वभिमातिहेन्द्रः पृतनासु जिष्णुः ।
स नः शर्म त्रिवरूथं वियंसद् यूयं पात स्वस्तिभिः सदा नः ॥
इन्द्रं स्तुहि वज्रिणं सोमपृष्ठं पुरोडाशस्य जुषतां हविर् नः ।
हत्वाभिमातीः पृतनाः सहस्वानथाभयं कृणुहि विश्वतो नः ॥
स्तुहि शूरं वज्रिणमप्रतीकं वृत्रहणं पुरुहूतं इन्द्रम् ।
य एका इच् शतपतिर्जनेषु तस्मा इन्द्राय हविषा जुहोत ॥
इन्द्रो देवानामधिपाः पुरोहितो विशां पतिरभवद्वाजिनीवान् ।
अभिमातिहा तविषस्तुविष्मानस्मभ्यं चित्रं वृषणं रयिं दात् ॥
य इमे द्यावापृथिवी महित्वा बलेनादृंहदभिमातिहेन्द्रः ।
स नो हविः प्रतिगृभ्णातु रातये देवानां देवो निधिपा नो अव्यात् ॥

4.14.13 अनुवाकः13
इन्द्रो वृत्रमतरद् वृत्रतूर्येऽनाधृष्यो मघवा शूरा इन्द्रः ।
अन्वेनं विशो अमदन्त पूर्वीरयं राजा जगतश्चर्षणीनां ॥
स एव वीरः स उ वीर्यावान्त्स एकराजो जगतः परस्पाः ।
यदा वृत्रमतरच् शूरा इन्द्रो अथैकराजो अभवज्जनानां ॥
इन्द्रो यज्ञं वर्धयन् विश्ववेदाः पुरोडाशस्य जुषतां हविर् नः ।
वृत्रं तीर्त्वा दानवं वज्रबाहुर् दिशोऽदृंहद् दृंहिता दृंहणेन ॥
इमं यज्ञं वर्धयन् विश्ववेदाः पुरोडाशं प्रतिगृभ्णात्विन्द्रः ।
यदा वृत्रमतरच् शूरा इन्द्रो अथाभवद् दमिताभिक्रतूनां ॥
अहन् वृत्रम् ॥
इन्द्रो देवाञ् शम्बरहत्य आवदिन्द्रो देवानामभवत् पुरोगाः ।
इन्द्रो यज्ञे हविषा वावृधानो वृत्रतूर्नो अभयं शर्म यंसत् ॥
इन्द्रस्य वृष्णो, जनिष्ठा उग्र , इन्द्र एषां नेता, भूरि चकर्थ ॥
त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः ।
स्तवानेभिः स्तवस इन्द्र देवैर्विद्यामेषं वृजनं जीरदानुम् ॥
यः सप्त सिन्धूꣳरदधात् पृथिव्यां यः सप्त लोकानकृणोद्दिशश्च ।
इन्द्रो हविष्मान्त्सगणो मरुद्भिर् वृत्रतूर्नो यज्ञं इहोपयासत् ॥
समिद्धा इन्द्रो , अनवस्ते ॥
इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री ।
अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत् पर्वतानां ॥
अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमवजग्मुरापः ॥
इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
सेदु राजा क्षयति चर्षणीनामरान् न नेमिः परि ता बभूव ॥
अभि सिध्मो अजिगाद् अस्य शत्रून् वि तिग्मेन वृषभेणा पुरोऽभेत् ।
सं वज्रेणाभिनद् वृत्रमिन्द्रः प्र स्वां मतिमतिरच् शाशदानः ॥

4.14.14 अनुवाकः14
त्वमपो वि दुरो विषूचीरिन्द्र दृढमरुजः पर्वतस्य ।
राजाभवो जगतश्चर्षणीनां साकं सूर्यं जनयन् द्यां उषासं ॥
इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति ।
ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश्चिदर्वाक् ॥
स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्दस्रा मदन्ति शोभसे वस्वीरनु स्वराज्यं ॥
युध्मस्य ते वृषभस्य स्वराज्ञ उग्रस्य यूनः स्थविरस्य घृष्वेः ।
अजूर्यतो वज्रिणो वीर्याणीन्द्रः श्रुतस्य महतो महानि ॥
इदं नमो वृषभाय स्वराज्ञ उक्थशुष्माय तवसेऽवाचि ।
अस्मिन्निन्द्र वृजने सर्ववीराः स्मत् सूरिभिस्तव शर्मन्स्यायंम ॥
अस्माकमिन्द्रः समृतेषु ध्वजेषु ॥
आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शंतमेन ।
अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥
न दक्षिणा विचिकिते न सव्या न प्राचीनं आदित्या नोत पश्चा ।
पाक्या चिद्वसवो धीर्या चिद् युष्मानीतो अभयं ज्योतिरश्याम् ॥
धारयन्तः ॥
तिस्रो भूमीर् धारयंस्त्रीन् रुत द्यूंस्त्रीणि व्रता विदथे अन्तरेषाम् ।
ऋतेनादित्या महि वो महित्वं तदर्यमन्वरुण मित्र चारु ॥
यज्ञो देवानां प्रत्येतु सुम्नम् ॥
शुचिरपः सूयवसा अदब्धा उपक्षयन्ति वृद्धवयाः सुवीरः ।
नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ ॥
आदित्यो देव उदगात् पुरस्ताद्विश्वा भूतानि प्रति मोदमानः ।
तस्य देवाः प्रसवं यन्ति सर्वे यत्रास्य नाम परमं गुहा विदुः ॥
यस्य भान्ति केतवो यस्य रश्मयो यस्येमा विश्वा भुवनानि सर्वा ।
तस्यादित्यस्य प्रसवं मनामहे यस्तेजसा प्रथमजा विभाति ॥
विभाति केतुररुणः पुरस्तादादित्यो विश्वा भुवनानि सर्वा ।
सुगं नु पन्थां अन्वेति प्रजानन् पिता देवानामसुरो विपश्चित् ॥
व्रतेन यं व्रतिनो वर्धयन्ति देवा मनुष्याः पितरश्च सर्वे ।
तस्यादित्यस्य प्रसवं मनामहे यस्तेजसा प्रथमजा विभाति ॥
आदित्यः शुक्र उदगात् पुरस्ताज्ज्योतिः कृण्वन् वि तमो बाधमानः ।
आभासमानः प्रदिशो नु सर्वा भद्रस्य कर्ता रोचमाना आगात् ॥
यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम् ।
यदा चरिष्णू मिथुना अभूताम् आदित् प्रापश्यन् भुवनानि विश्वा ॥

4.14.15 अनुवाकः15
वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहन्तम् ।
अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा संशिशाधि ॥
अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर्नशते देवयुष्टे ।
यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः ॥
तेजिष्ठा यस्यारतिर्वनेराट् तोदो अध्वन् न वृधसानो अद्यौत् ।
अद्रोघो न द्रविता चेतति त्मन्नमर्योअेऽवर्त्र ओषधीषु ॥
आ यदिषे नृपतिं तेजा आनट् शुचि रेतो निषिक्तं द्यौरभीके ।
अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत् सूदयच्च ॥
स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः ।
अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः ॥
स इदस्तेव प्रतिधादसिष्यञ् शिशीत तेजोऽयसो न धारां ।
चित्रध्रजतिररतिर् यो अक्तोर् वेर्न द्रुषद्वा रघुपत्मजंहाः ॥
हव्यवाडग्निरजरः पिता नः ॥
मथीद्यदीꣳ विष्टो मातरिश्वा होतारं विश्वाप्सुꣳ विश्वदेव्यं ।
नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावं ॥
अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ ।
ज्येष्ठेभिर् यो भानुभिर् ऋभूणां पर्येति परिवीतो विभावा ॥
अदिद्युतत् स्वपाको विभावाग्ने यजस्व रोदसी उरूची ।
आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः ॥
स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात् ।
विश्वायुर् यो अमृतो मर्त्येषु पर्यभूदतिथिर् जातवेदाः ॥
यो भानुभिर्विभावा विभात्यग्निर्देवेभिर् ऋतावाजस्रः ।
आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ॥
यदग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र ।
रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥
एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।
शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः ॥
वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः ।
सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः ॥
आ नो गहि सख्येभिः शिवेभिर्महान्महीभिर् ऊतिभिः सरण्यन् ।
अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः ॥
कुर्मस्ता आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्याः ।
अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥
हविषीव भजमानो ना आभाग् देवेभ्यः शिक्षन्नुत मानुषेभ्यः ।
त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान् ॥

4.14.16 अनुवाकः16
अग्ने दा , दा नो अग्ने , अग्निर्ददाति , अन्नपते अन्नस्य नो देहि , अग्निना रयिमश्नवत् , संसमिद् युवसे वृषन् , यास्ते ॥
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ ।
यत्रा नः पूर्वे पितरः परेयुर् एना जज्ञानाः पथ्या अनु स्वाः ॥
प्रेहि प्रेहि पथिभिः पूर्वेभिर्यत्रा नः पूर्वे पितरः परेताः ।
उभा राजाना स्वधया मदन्ता यमं पश्यासि वरुणं च देवं ॥
अङ्गिरोभिरागहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व ।
विवस्वन्तं हुवे यः पिता तेऽस्मिन् यज्ञे बर्हिष्या निषद्य ॥
इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः ।
आ त्वा मन्त्राः कविशस्ता वहन्व्दा एना राजन् हविषा मादयस्व ॥
मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर् ऋक्वभिर्वावृधानः ।
यांश्च देवा वावृधुर् ये च देवान्स्वा हान्ये स्वधयान्ये मदन्ति ॥
परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थां अनुपस्पशानं ।
वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥
यास्ते पूषन्नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति ।
ताभिर् यासि दूत्यं सूर्यस्य कामेन कृतः श्रव इछमानः ॥
शुक्रं ते अन्यद्यजतं ते अन्यत् ॥
पूषेमा आशा अनुवेद सर्वाः सो अस्मं अभयतमेन मेषत् ।
स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन् पुर एतु प्रजानन् ॥
प्रपथे पथां अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।
उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥
पूषा सुबन्धुर्दिव आ पृथिव्या इडस्पतिर्मघवा दस्मवर्चाः ।
यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चं ॥
अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः ।
अष्ट्रां पूषा शिथिरामुद्वरीवृजत् संचक्षाणो भुवना देव ईयते ॥

4.14.17 अनुवाकः17
यद्देवा देवहेडनं यद्वाचानृतमोदिम ।
आदित्यास्तस्मान् मुञ्चतर्तस्य त्वेनं आमुतः ॥
देवा जीवनकाम्या यद्वाचानृतमोदिम ।
तस्मान् न इह मुञ्चत विश्वे देवाः सजोषसः ॥
ऋतेन द्यावापृथिवी ऋतेन त्वं सरस्वति ।
कृतान् नः पाह्यंहसो यत् किंचानृतमोदिम ॥
इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः ।
ते नो मुञ्चन्वेयानसो यत् किंचानृतमोदिम ॥
सजातशꣳसादुत जामिशꣳसाज्ज्यायसः शꣳसादुत वा कनीयसः ।
अनाधृष्टं देवकृतं यदेनस्तस्मात् त्वमस्मान् जातवेदो मुमुग्धि ॥
यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिंसिम ।
अग्निर्नस्तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरितानि यानि कानि च चकृम ॥
येन त्रितो अर्णवान् निर्बभूव येन सूर्यं तमसो निरमोचि ।
येनेन्द्रो विश्वा अजहादरातीस्तेनाहं ज्योतिषा ज्योतिरानशान अयाक्षि ॥
यद् दैव्यं ऋणमहं बभूव धिप्स्यꣳ वा संचकर जनेभ्यः ।
अग्निर्नस्तस्मादिन्द्रश्च संविदानौ प्रमुञ्चताम् ॥
यत् कुसीदमप्रतीतं मयेह येन यमस्य निधिना चरावः ।
एतत् तदग्ने अनृणो भवामि जीवन्न् एव प्रति हस्तानृणानि ॥
यद्धस्ताभ्यां चकर किल्बिषाण्यक्षाणां वग्मुमवजिघ्रमापः ।
उग्रं पश्याच्च राष्ट्रभृच्च तानि अप्सरसामनुदत्तानृणानि ॥
उग्रं पश्येद् राष्टभृत् किल्बिषानि यदक्षवृत्तमनुदत्तमेतत् ।
नेम् न ऋणान् ऋणवानीप्समानो यमस्य लोके निधिरजराय ॥
इमं मे वरुण श्रुधी हवमद्या च मृडय ।
त्वामवस्युराचके ॥
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्य् उरुशꣳस मा ना आयुः प्रमोषीः ॥
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥
अव ते हेडो वरुण नमोभिरव यज्ञेभिर् ईमहे हविर्भिः ।
क्षयन्न् अस्मभ्यमसुर प्रचेता राजन्न् एनांसि शिश्रथः कृतानि ॥
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्रमुमुग्ध्य् अस्मत् ॥
स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
अवयक्ष्व नो वरुणꣳ रराणो वीहि मृडीकं सुहवो न एधि ॥
संकसुको विकसुको निर्ऋतो यश्च निस्वनः ।
तेऽस्मद्यक्ष्ममनागसो दूराद् दूरम् अचीचतं ॥
निर्यक्ष्ममचीचते कृत्यां निर्ऋतिं चकार ।
तेन योऽस्मत् समृछातै तमस्मै प्रसुवामसि ॥
दुःशꣳसानुशꣳसाभ्यां घनेनानुघनेन च ।
तेन योऽस्मत् समृछातै तमस्मै प्रसुवामसि ॥
सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन ।
त्वष्टा सुदत्रो विदधातु रायोऽनु नो मार्ष्टु तन्वो यद्विरिष्टं ॥


4.14.18 अनुवाकः18
शुची वो हव्या मरुतः शुचीनां शुचिꣳ हिनोम्यध्वरं शुचिभ्यः ।
ऋतेन सत्यं ऋतसाप आयञ् शुचिजन्मानः शुचयः पावकाः ॥
या वः शर्म शशमानाय सन्ति ॥
अंसेष्वा मरुतः खादयो वो वक्षःसु रुक्मा उपशिश्रियाणाः ।
वि विद्युतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यच्छमानाः ॥
ऋष्टयो वो मरुतो अंसयोरधि ॥
इमे तुरं मरुतो रामयन्तीमे सहः सहसा आनमन्ति ।
इमे शंसं वनुष्यतो निपान्ति गुरु द्वेषो अररुषे दधन्ति ॥
अरा इवेदचरमा अहेव प्र प्रजायन्ते अकवा महोभिः ॥
पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः संमिमिक्षुः ॥
अग्नीषोमा इमं , युवमेतानि ॥
अग्नीषोमा यो अद्य वां इदं वचः सपर्यति ।
तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् ॥
आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः ।
अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकं ॥
अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् ।
स प्रजया सुवीर्यं विश्वमायुर् व्यश्नवत् ॥
अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथां ।
सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः ॥
आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः ।
स्तुतः श्रवस्यन्नवसोप मद्रिग् युक्त्वा हरी वृषणायाह्यर्वाक् ॥
विवेष यन्मा धिषणा जजान ॥
तं सध्रीचीर् ऊतयो वृष्या॥ुनि पौꣳस्यानि नियुतः सश्चुरिन्द्रम् ।
समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिरा आविशन्ति ॥
सत्यमित् तन्न त्वावं अन्योऽस्तीन्द्र देवो न मर्योन् ज्यायान् ।
अहन्नहिं परिशयानमर्णोऽवासृजो अपो अछा समुद्रम् ॥
प्रससाहिषे पुरुहूत शत्रून् ॥
स शेवृधमधिधा द्युम्नमस्मे महि क्षत्रं जनाषाड् इन्द्र तव्यं ।
रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या इषे धाः ॥
इति खिलकाण्डे चतुर्दशः प्रपाठकः।।

  1. तु. ऋ. ५.६३.६