सामग्री पर जाएँ

मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः १३

विकिस्रोतः तः

याज्यानुवाक्याः

4.13.1 अनुवाकः1
प्र देवं देव्या धियेत्यष्टौ ॥
अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन ।
यद् ऊर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ॥
उच् श्रयस्व वनस्पते वर्ष्मन् पृथिव्या अधि ।
सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥
समिद्धस्य श्रयमाणः पुरस्ताद् ब्रह्म वन्वानो अजरं सुवीरं ।
आरे अस्मदमतिं बाधमाना उच् श्रयस्व महते सौभगाय ॥
ऊर्ध्व ऊ षु ण ऊतये ॥
ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह ।
कृधी न ऊर्ध्वाञ् चरथाय जीवसे विदा देवेषु नो दुवः ॥
जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः ।
पुनन्ति धीरा अपसो मनीषा देवया विप्रा उदियर्ति वाचं ॥
युवा सुवासाः परिवीता आगात् स उ श्रेयान् भवति जायमानः ।
तं धीरासः कवया उन्नयन्ति स्वाध्यो मनसा देवयन्तः ॥
अभि त्वा देव सवित, रिति त्रयोदश

4.13.2 अनुवाकः2
होता यक्षदग्निं समिधा सुषमिधा समिद्धं नाभा पृथिव्याः संगथे वामस्य वर्ष्मन् दिव इडस्पदे, वेत्व् आज्यस्य, होतर्यज, होता यक्षत्तनूनपातं अदितेर्गर्भं भुवनस्य गोपाम् , मध्वाद्य देवो देवेभ्यो देवयानान् पथो अनक्तु, वेत्व् आज्यस्य, होतर्यज, होता यक्षन् नराशंसं नृशस्तं नॄँष्प्रणेत्रं , गोभिर्वपावान्स्या द्वीरैः शक्तीवान् रथैः प्रथमयावा हिरण्यैश्चन्द्री, वेत्व् आज्यस्य, होतर्यज, होता यक्षदग्नि, मिड ईडितो देवो देवं आ च वक्षत् , दूतो हव्यवाड् अमूरा, उपेमं यज्ञं उपेमां देवो देवहूतिमवतु, वेत्व् आज्यस्य, होतर्यज, होता यक्षद् बर्हिः सुष्टरीमोर्णम्रदा , अस्मिन् यज्ञे वि च प्र च प्रथतां स्वासस्थं देवेभ्यो , एमेनदद्य वसवो रुद्रा आदित्याः स्वदन्तु, प्रियमिन्द्रस्यास्तु , वेत्व् आज्यस्य, होतर्यज, होता यक्षद्दुर ऋष्वाः कवष्यो कोशधावनी , रुदाताभिर् जिहतां, वि पक्षोभिः श्रयन्ताम् , सुप्रायणा अस्मिन् यज्ञे विश्रयन्तामृतावृधो , व्यन्व् ् आज्यस्य, होतर्यज, होता यक्षदुषासानक्ता बृहती सुपेशसा नॄँष्पतिभ्यो योनिं कृण्वाने, संस्मयमाने इन्द्रेण देवैरेदं बर्हिः सीदताम् , वीतामाज्यस्य, होतर्यज, होता यक्षद् दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा, स्विष्टमद्यान्यः करदिषा स्वभिगूर्तमन्य ऊर्जा, सतवसेमं यज्ञं दिवि देवेषु धत्तां , वीतामाज्यस्य, होतर्यज, होता यक्षत् तिस्रो देवीरपसामपस्तमा , अछिद्रमद्येदमपस्तन्वताम् , देवेभ्यो देवीर्देवमपो , व्यन्व्दे आज्यस्य, होतर्यज, होता यक्षत् त्वष्टारं अचिष्टुमपाकं रेतोधां विश्रवसं यशोधां पुरुरूपमकामकर्शनं , सुपोषः पोषैः स्यात् सुवीरो वीरै , र्वेत्व् आज्यस्य होतर्यज,होता यक्षद्वनस्पतिम् उपावस्रक्षद्धियो जोष्टारं , शशमन् नरः, स्वदात् स्वधिति , र्ऋतुथाद्य देवो देवेभ्यो हव्यावाट् ,वेत्व् आज्यस्य, होतर्यज ॥

4.13.3 अनुवाकः3
समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसि प्रचेताः ॥
तनूनपात् पथ ऋतस्य यानान्मध्वा समञ्जन्स्वेशदया सुजिह्व ।
मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं नः ॥
नराशँसस्य महिमानं एषामुपस्तोषाम यजतस्य यज्ञः ।
ये सुक्रतवः शुचयो धियंधाः स्वदन्तु देवा उभयानि हव्या ॥
आजुह्वाना ईड्यो वन्द्यश्चायाह्यग्ने वसुभिः सजोषाः ।
त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान् ॥
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नां ।
व्युउ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनं ॥
व्यचस्वतीरुर्विया विश्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
देवीर् द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥
आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥
दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥
आ नो यज्ञं भारती तूयमेत्व् इडा मनुष्वदिह चेतयन्ती ।
तिस्रो देवीर् बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु ॥
य इमे द्यावापृथिवी जनित्री रूपैरपिँशद् भुवनानि विश्वा ।
तमद्य होतरिषितो यजीयान् देवं त्वष्टारं इह यक्षि विद्वान् ॥
उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।
वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥

4.13.4 अनुवाकः4
अग्निर् होता नो अध्वरे वाजी सन् परिणीयते ।
देवो देवेषु यज्ञियः ॥
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव ।
आ देवेषु प्रयो दधत् ॥
परि वाजपतिः कविः ॥ अजैदग्निरसनद्वाजं , नि देवो देवेभ्यो हव्यावाट्, प्राञ्जोभिर् हिन्वानो धेनाभिः कल्पमानो यज्ञस्यायुः प्रतिरन् उपप्रेष्य होतर्हव्या देवेभ्यो , दैव्याः शमितार उत मनुष्या आरभध्वं, उपनयत मेध्या दुर आशासाना मेधपतये मेधम् , प्रास्मा अग्निं भरत, स्तृणीत बर्हि , रन्वेनं माता मन्यताम् अनु पितानु भ्राता संगर्भ्यो , अनु सखा सयूथ्य , उदीचीनां अस्य पदो निधत्तात्, सूर्यं चक्षुर्गमयतात्, वातं प्राणमन्ववसृजतात् , अन्तरिक्षमसुम् , पृथिवीं शरीरं, एकधास्य त्वचं आछ्यतात् , पुरा नाभ्या अपिशसो वपामुत्खिदतात् , अन्तरेवोष्माणं वारयतात् , श्येनं अस्य वक्षः कृणुतात् , प्रशसा बाहू, शला दोषणी, कश्यपेवांसा , अछिद्रे श्रोणी, कवषोरूस्रे, कपर्णाष्ठीवन्ता, षड्विंशतिरस्य वङ्क्रय, स्ता अनुष्टुयोच्च्यावयतात् , गात्रं गात्रं अस्यानूनं कृणुतात् , ऊवध्यगोहं पार्थिवं खनतात् , अस्ना रक्षः संसृजतात् , वनिष्टुमस्य मा राविष्ट , उरूकं मन्यमाना , नेद्वस्तोके तनये रविता रवत् , अध्रिगो शमीध्वं , सुशमि शमीध्वं , शमीध्वमध्रिगो ॥
अध्रिगुश्च विपापश्च देवानां शमितारा ।
ता एनं प्रविद्वांसौ श्रपयतं यथास्य श्रपणं तथा ॥

4.13.5 अनुवाकः5
जुषस्व सप्रथस्तमं ॥
इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व ।
स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥
घृतवन्तः पावक ते स्तोकाः श्चोतन्ति मेदसः ।
स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् ॥
तुभ्यँ स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य ।
ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव ॥
तुभ्यँ श्चोतन्त्यध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य ।
कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥
ओजिष्ठं ते मध्यतो मेदा उद्भृतं प्र ते वयं ददामहे ।
श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि ॥
होता यक्षदग्निं स्वाहा , आज्यस्य स्वाहा, मेदसः स्वाहा, स्तोकानां स्वाहा, स्वाहाकृतीनां स्वाहा, हव्यसूक्तीनां स्वाहा, देवा आज्यपा जुषाणा अग्ना आज्यस्य व्यन्तु, होतर्यज ॥
सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत् पुरोगाः ।
अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥
अग्निर् वृत्राणि जङ्घनत् ॥ होता यक्षदग्निमाज्यस्य, जुषतां हवि , र्होतर्यज ॥
त्वं सोमासि सत्पतिः ॥ होता यक्षत् सोमं आज्यस्य, जुषतां हवि , र्होतर्यज ॥
शुचिं नु स्तोमं ॥ होता यक्षदिन्द्राग्नी छागस्य वपाया मेदसो, जुषेतां हवि , र्होतर्यज ॥ श्नथद् वृत्रम् , उभा वां इन्द्राग्नी ॥ होता यक्षदिन्द्राग्नी पुरोडाशस्य,
जुषेतां हवि , र्होतर्यज ॥ प्र चर्षणिभ्यो , इडामग्ने, होता यक्षदग्निं पुरोडाशस्य, जुषतां हवि , र्होतर्यज ॥
अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः ।
त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् ॥
इडोपहूता , उपहूतेडा , उपास्मं इडा ह्वयताम्, इडोपहूता मानवी घृतपदी मैत्रावरुणी ॥ ब्रह्म देवकृतं उपहूतं , दैव्या अध्वर्यवा उपहूता, उपहूता मनुष्या य इमं यज्ञमवान् ये च यज्ञपतिं वर्धान् , उपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे, उपहूतोऽयं यजमाना उत्तरस्यां देवयज्यायां, उपहूतो भूयसि हविःकरणे , दिव्ये धामन्नुपहूतो , देवा म इदं हविर्जुषन्तामिति, तस्मिन्नुपहूतः ॥

4.13.6 अनुवाकः6
त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।
त्वं सीँ वृषन्नकृणोर् दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥
अधा होता न्यसीदो यजीयान् इडस्पद इषयन्न् ईड्यः सन् ।
त्वं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनुग्मन् ॥
वृतेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जागृवांसो अनुग्मन् ।
रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसं ॥
पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तं ।
नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥
त्वाँ वर्धन्ति क्षितयः पृथिव्यां त्वाँ राय उभयासो जनानां ।
त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन्मानुषाणां ॥
सपर्येण्यः स प्रियो विक्ष्वग्निर् होता मन्द्रो निषसादा यजीयान् ।
तं त्वा वयं दमा आ दीदिवांसं उप ज्ञुबाधो नमसा सदेम ॥
तं त्वा वयं सुध्यो नव्यमग्ने सुम्नायव ईमहे देवयन्तः ।
त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥
विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनां ।
प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणां ॥
सो अग्न ईजे शशमे च मर्तो यस्ता आनट् समिधा हव्यदातिम् ।
य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः ॥
अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः ।
वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेम ॥
आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः ।
बृहद्भिर्वाजैः स्थविरेभिरस्मे रेवद्भिरग्ने वितरं विभाहि ॥
नृवद्वसो सदमिद् धेह्यस्मे भूरि तोकाय तनयाय पश्वः ।
पूर्वीरिषो बृहतीरारेअघा अस्मे भद्रा सौश्रवसानि सन्तु ॥
पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन्वसुता ते अश्याम् ।
पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वे ॥

4.13.7 अनुवाकः7
आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक् ।
युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतं उत्तमेभिः ॥
होता यक्षदिन्द्राग्नी छागस्य हविषा आत्तामद्य मध्यतो मेदा उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासेअज्राणां यवसप्रथमानां सुमत्क्षराणां शतरुद्रियाणामग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतोऽङ्गादङ्गाद् अवत्तानां करत एवेन्द्राग्नी जुषेतां हविर्होतर्यज ॥
गीर्भिर्विप्रः प्रमतिमिछमाना ईट्टे रयिँ यशसं पूर्वभाजं ।
इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः ॥
देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम् ।
प्रदक्षिणिद्रशनया नियूय ऋतस्य वक्षि पथिभी रजिष्ठैः ॥
होता यक्षद्वनस्पतिम् , अभि हि पिष्टतमया रभिष्ठया रशनयाधित यत्राग्नेराज्यस्य प्रिया धामानि यत्र सोमस्याज्यस्य हविषः प्रिया धामानि
यत्रेन्द्राग्न्योश्छागस्य हविषः प्रिया धामानि यत्र वनस्पतेः प्रिया पाथांसि यत्र देवानामाज्यपानां प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतं प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षत् रभीयांसमिव कृत्वी करदेवं देवो वनस्पति, र्जुषतां हवि , र्होतर्यज ॥
वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् ।
वहा देवत्रा दधिषो हवींषि प्र च दातारं अमृतेषु वोचः ॥
पिप्रीहि देवान् ॥ होता यक्षदग्निं स्विष्टकृतं, अयाडग्निरग्नेः प्रिया धामानि , अयाट् सोमस्याज्यस्य हविषः प्रिया धामानि , अयाड् इन्द्राग्न्योश्छागस्य हविषः प्रिया धामानि , अयाड् वनस्पतेः प्रिया पाथांसि , अयाड् देवानामाज्यपानां प्रिया धामानि, यक्षदग्नेर् होतुः प्रिया धामानि, यक्षत् स्वं महिमानं, आयजतामेज्या इषः, कृणोतु सो अध्वराञ् जातवेदा , जुषतां हवि , र्होतर्यज ॥ अग्ने यदद्य , इडोपहूता ॥

4.13.8 अनुवाकः8
देवं बर्हिः सुदेवं देवैः स्यात् , सुवीरं वीरै , र्वस्तोर् वृज्येता , अक्तोः प्रभ्रियेता , अत्यन्यान् राया बर्हिष्मतो मदेम, वसुवने वसुधेयस्य वेतु, यज, देवं बर्हिर्
वसुवने वसुधेयस्य वेतु, देवीर् द्वारः संघाते वीड्वीर्यामञ् शिथिरा ध्रुवा देवहूतौ, वत्स ईमेनास्तरुणा आमिमीयात् कुमारो वा नवजातो , मैना अर्वा रेणुककाटः प्रणक् , वसुवने वसुधेयस्य व्यन्तु, यज, देवीर् द्वारो, वसुवने वसुधेयस्य व्यन्तु, देवी उषासानक्ताद्यास्मिन् यज्ञे प्रयत्यह्वेताम् , अपि नूनं दैवीर्विशः प्रायासिष्टाँ सुप्रीते सुधिते, वसुवने वसुधेयस्य वीताम् , यज, देवी उषासानक्ता, वसुवने वसुधेयस्य वीताम् , देवी जोष्ट्री वसुधिती ययोरन्याघा द्वेषांसि यूयवदान्या वक्षद्वसु वार्याणि यजमानाय, वसुवने वसुधेयस्य वीताम् , यज, देवी जोष्ट्री, वसुवने वसुधेयस्य वीताम् , देवी ऊर्जाहुती इषं ऊर्जमन्या वक्षत्सग्धिँ सपीतिम् अन्या, नवेन पूर्वं दयमानाः स्याम पुराणेन नवं , ताम् ऊर्जं ऊर्जाहुती ऊर्जयमाने अधाताम् , वसुवने वसुधेयस्य वीताम् , यज, देवी ऊर्जाहुती, वसुवने वसुधेयस्य वीताम् , देवा दैव्या होतारा पोतारा नेष्टारा हताघशँसा आभरद्वसुवने वसुधेयस्य वीताम् , यज, देवा दैव्या होतारा, वसुवने वसुधेयस्य वीताम् , देवीस्तिस्रस्तिस्रो देवीरिडा सरस्वती भारती, द्यां भारत्यादित्यैरस्पृक्षत् सरस्वतीमं रुद्रैर्यज्ञमावीत् , इहैवेडया वसुमत्या सधमादं मदेम, वसुवने वसुधेयस्य व्यन्तु, यज, देवीस्तिस्रस्तिस्रो देवी , र्वसुवने वसुधेयस्य व्यन्तु, देवो नराशंसस्त्रिशीर्षा षडक्षः, शतं इदेनं शितिपृष्ठा आदधति, सहस्रमीं प्रवहन्ति, मित्रावरुणेदस्य होत्रमर्हतो , बृहस्पतिः स्तोत्रम्, अश्विनाध्वर्यवं , वसुवने वसुधेयस्य वेतु, यज, देवो नराशंसो वसुवने वसुधेयस्य वेतु, देवो वनस्पतिर्वर्षप्रावा घृतनिर्णिग् द्यामग्रेणास्पृक्षत् , आन्तरिक्षं मध्येनाप्राः, पृथिवीं उपरेणादृंहीत् , वसुवने वसुधेयस्य वेतु, यज, देवो वनस्पतिर् वसुवने वसुधेयस्य वेतु, देवं बर्हिर्वारितीनां निधेधासि प्रच्युतीनामप्रच्युतं निकामधरणं पुरुषस्पार्हं यशस्वत् , एना बर्हिषान्या बर्हीँष्यभिष्याम, वसुवने वसुधेयस्य वेतु, यज, देवं बर्हिर्वारितीनां वसुवने वसुधेयस्य वेतु, देवो अग्निः स्विष्टकृत् , यज, देवो अग्निः स्विष्टकृत् ॥


4.13.9 अनुवाकः9
अग्निमद्य होतारं अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं गृह्णन्नग्नया आज्यं गृह्णन्त् सोमायाज्यं बध्नन्निन्द्राग्निभ्यां छागम् , सूपस्था अद्य देवो वनस्पतिरभवदग्नया आज्येन सोमायाज्येनेन्द्राग्निभ्यां छागेन , अघस्तां तं , मेदस्तः प्रतिपचत , अग्रभीष्टाम्, अवीवृधेतां पुरोडाशेन, त्वामद्य ऋष आर्षेय ऋषीणां नपादवृणीतायं यजमानो , बहुभ्या आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यता इति, ता या देवा देवदानानि अदुस्तानि अस्मा आ च शास्वा च गुरस्व , इषितश्च होतरसि भद्रवाच्याय प्रेषितो , मानुषः सूक्तवाकाय, सूक्ता ब्रूहि , इदं द्यावापृथिवी भद्रमभूत् , आर्म्द सूक्तवाकमुत नमोवाकं, ऋध्यास्म सूक्तोच्यं, अग्ने त्वं सूक्तवाग् अस्य् उपश्रुति दिवो पृथिव्यो , रोमन्वती तेऽस्मिन् यज्ञे यजमान द्यावापृथिवी स्ताँ शंगवी जीरदानू अत्रस्नू अप्रवेदे असंबाधे उरुगव्यूती अभयंकृतौ वृष्टिद्यावा रीत्यापा शंभुवौ मयोभुवा ऊर्जस्वती च पयस्वती च सूपचरणा च स्वधिचरणा च, तयोराविद्यग्निरिदं हविरजुषत , अवीवृधत, महो ज्यायोऽकृत, सोम इदं हविरजुषता , अवीवृधत, महो ज्यायोऽकृत , इन्द्राग्नी इदं हविरजुषेताम् , अवीवृधेताम् , महो ज्यायोऽक्राताम् , वनस्पतिरिदं हविरजुषता , अवीवृधत, महो ज्यायोऽकृत, देवा आज्यपा आज्यमजुषन्ता , अवीवृधन्त, महो ज्यायोऽक्रता, अग्निर् होत्रेणेदं हविरजुषता , अवीवृधत, महो ज्यायोऽकृता , अस्यां ऋधद्धोत्रायां देवंगमायां आशास्तेऽयं यजमाना , आयुराशास्ते, सुप्रजास्त्वमाशास्ते, विश्वं प्रियमाशास्ते, यदनेन हविषाशास्ते तदश्यात् , तद् ऋध्यात् , तदस्मै देवा रासन्ताम् , तदग्निर्देवो देवेभ्यो वनुताम् , वयम् अग्नेर्मानुषा इष्टं च वीतं च , उभे च नो द्यावापृथिवी अंहसस्पाताम् , एह गतिर्वामस्य , इदं नमो देवेभ्यः ॥

4.13.10 अनुवाकः10
तं शंयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ॥
आप्यायस्व, सं ते पयांसि ॥
इह त्वष्टारं अग्रियं विश्वरूपमुपह्वये ।
अस्माकमस्तु केवलः ॥
तन् नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ।
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥
देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।
याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥
उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट् ।
आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनां ॥
राकामहं , यास्ते राके, सिनीवालि, या सुपाणिः, कुहूमहं , कुहूर्देवानां ॥
अग्निर् होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः ।
देवानां उत यो मर्त्यानां यजिष्ठः स प्रयजतामृतावा ॥
हव्यवाडग्नि , रिडोपहूता ॥


इति खिलकाण्डे त्रयोदशः प्रपाठकः