मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः १०

विकिस्रोतः तः

याज्यानुवाक्याः

4.10.1 अनुवाकः1
अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर्विपन्यया ।
समिद्धः शुक्र आहुतः ॥
त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा ।
त्वं भद्रो असि क्रतुः ॥
अग्निर्मूर्धा, भुवो यज्ञस्य ॥
पिप्रीहि देवं उशतो यविष्ठ विद्वं ऋतूँर् ऋतुपते यजेह ।
ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥
अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा ।
ऋता यजासि महिना वि यद् भूर्हव्या वह यविष्ठ या ते अद्य ॥
पृथुपाजा अमर्योना घृतनिर्णिक् स्वाहुतः ।
अग्निर्यज्ञस्य हव्यवाट् ॥
तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः ।
आचक्रुरग्निमूतये ॥
अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः ।
तपिष्ठैरजरो दह ॥
त्वं नः सोम विश्वतो रक्षा राजन्नघायतः ।
न रिष्येत् त्वावतः सखा ॥
वैश्वानरो न ऊत्या, पृष्टो दिवि ॥
विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरितानि पर्षि ।
अग्ने अत्रिवन् नमसा गृणानोऽस्माकं बोध्यविता तनूनां ॥
अग्ने त्वं पारया नव्यो अस्मान्स्वigस्तिभिरति दुर्गाणि विश्वा ।
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥
अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः ।
द्युम्नैर्वाजेभिरागतं ॥
अग्नाविष्णू महि धाम प्रियं वां पाथो घृतस्य गुह्यानि नाम ।
दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतमुच्चरण्यत् ॥
पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥
आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञं ।
हवं देवी जुजुषाणा घृताची शग्मां नो वाचं उशती शृणोतु ॥
ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः ।
तेषां ते सुम्नमीमहे ॥
यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रतं उपतिष्ठन्ता आपः ।
यस्य व्रते पुष्टिपतिर् निविष्टस्तं सरस्वन्तमवसे हुवेम ॥
अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम् ।
कविर्विप्रेण वावृधे ॥
सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः ।
सुमृडीको ना आविश ॥
त्वमग्ने वीरवद्यशो देवश्च सविता भगः ।
दितिश्च दाति वार्यम् ॥
त्वं भगो ना आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः ।
अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥
प्रेद्धो अग्ने ॥
इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ ।
प्रति न ईँ सुरभीणि व्यन्तु ॥
अग्ना आयूंषि पवसे , अग्निर् ऋषिः ॥
तं हि शस्वन्ता ईडते स्रुचा देवं घृतश्चुता ।
अग्निं हव्याय वोढवे ॥
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
हव्यवाहं पुरुप्रियम् ॥
अग्ने पावक रोचिषा, स नः पावक दीदिवो , अग्निः शुचिव्रततमा , उदग्ने शुचयस्तव ॥
स हव्यवाड् अमर्त्य उशिग् दूतश्चनोहितः ।
अग्निर्धिया समृण्वति ॥
अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् ।
हव्या देवेषु नो दधत् ॥
किमित्ते विष्णो परिचक्ष्यं भूत् प्र यद्ववक्षे शिपिविष्टो अस्मि ।
मा वर्पो अस्मदपगूह एतद्यदन्यरूपः समिथ बभूथ ॥
प्र तत्ते अद्य शिपिविष्ट नामार्यः शँसामि वयुनानि विद्वान् ।
तं त्वा गृणामि तवसं अतव्यान् क्षयन्तमस्य रजसः पराके ॥
सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणं अदितिं सुप्रणीतिम् ।
दैवीं नावं स्वरित्रामनागसं अस्रवन्तीमारुहेमा स्वस्तये ॥
महीम् ऊ षु मातरं सुव्रतानां ऋतस्य पत्नीमवसे हुवेम ।
तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणं अदितिं सुप्रणीतिम् ॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः ।
सं देवत्रा बभूवथुः ॥
युवं एतानि दिवि रोचनानि अग्निश्च सोम सक्रतू अधत्तं ।
युवं सिन्धूँरभिशस्तेरवद्यादग्नीषोमा अमुञ्चतं गृभीतान् ॥

4.10.2 अनुवाकः2
अग्ना आयाहि वीतये गृणानो हव्यदातये ।
नि होता सत्सि बर्हिषि ॥
अग्निं दूतं वृणीमहे होतारं विश्ववेदसं ।
अस्य यज्ञस्य सुक्रतुम् ॥
अग्निनाग्निः समिध्यते कविर्गृहपतिर् युवा ।
हव्यवाड् जुह्वास्यः ॥
अग्निर् वृत्राणि जङ्घनत् , अग्निं स्तोमेन बोधय , अग्ना आयूंषि पवसे , अग्ने तमद्या, आभिष्टे अद्य ॥
एभिर्नो अर्कैर्भवा नो अर्वाङ् स्वर्ण ज्योतिः ।
अग्ने विश्वेभिः सुमना अनीकैः ॥
अधा ह्यग्ने ॥
अग्नेः स्तोमं मनामहे सिध्रमद्य दिविस्पृशः ।
देवस्य द्रविणस्यवः ॥
अग्ना यो मर्यो ु दुवो धियं जुजोष धीतिभिः ।
भसन्नु ष प्र पूर्व्य इषं वुरीतावसे ॥
त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
त्वया यज्ञं वितन्वते ॥
वृषा सोम द्युमं असि वृषा देव वृषव्रतः ।
वृषा धर्माणि दधिषे ॥
अग्निर्जातो अरोचत घ्नन् दस्यून् ज्योतिषा तमः ।
अविन्दद् गा अपः स्वः ॥
अग्रे बृहन् ॥
इमं मे वरुण श्रुधी हवमद्या च मृडय ।
त्वामवस्युराचके ॥
तत् त्वा यामि , अग्निनाग्निः ॥
त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्त्सता ।
सखा सख्या समिध्यसे ॥
प्र स मित्र मर्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन ।
न हन्यते न जीयते त्वोतो नैनमँहो अश्नोत्यन्तितो न दूरात् ॥
अनमीवासा (अनमीमासा) ईडया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः ।
आदित्यस्य व्रतं उपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॥
तत् सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं संजभार ।
यदेदयुक्त हरितः सधस्थादाद् रात्री वासस्तनुते सिमस्मै ॥
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥
त्वमग्ने व्रतपा असि ॥
यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
अग्निष् टद्विश्वमापृणाति विद्वान् येभिर्देवं ऋतुभिः कल्पयाति ॥
अग्ने नय ॥
आ देवानामपि पन्थामगन्म यच् शक्नवाम तदनु प्रवोढुम् ।
अग्निर्विद्वान्त्स यजात्सेदु होता सो अध्वरान्त्स ऋतून् कल्पयाति ॥
अग्निः शुचिव्रततमा , उदग्ने शुचयस्तव , अक्रन्ददग्नि, र्नक्तोषासा॥
आयाहि तपसा जनिष्वाग्ने पावको अर्चिषा ।
उपेमां सुष्टुतिं मम ॥
आ नो याहि तपसा जनिष्वाग्ने पावक दीद्यत् ।
हव्या देवेषु नो दधत् ॥

4.10.3 अनुवाकः3
अभि त्वा देव सवितरीशानं वार्याणां ।
सदावन् भागं ईमहे ॥
मही द्यौः पृथिवी च न, स्त्वामग्ने पुष्करादधि, तमु त्वा दध्यङ्ङ् ऋषि, स्तमु त्वा पाथ्यो वृषा ॥
उत ब्रुवन्तु जन्तवा उदग्निर्वृत्रहाजनि ।
धनंजयो रणे रणे ॥
आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति ।
विशामग्निं स्वध्वरम् ॥
प्र देवं देववीतये भरता वसुवित्तमं ।
आ स्वे योनौ निषीदतु ॥
आ जातं जातवेदसि प्रियं शिशीतातिथिम् ।
स्योन आ गृहपतिम् ॥
अग्निनाग्नि, स्त्वं ह्यग्ने अग्निना ॥
तं मर्जयन्त सुक्रतुं पुरोयावानं आजिषु ।
स्वेषु क्षयेषु वाजिनं ॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमानि आसन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
समिधो अग्ना आज्यस्य व्यन्तु, तनूनपादग्ना आज्यस्य वेतु , इडो अग्ना आज्यस्य व्यन्तु, बर्हिरग्ना आज्यस्य वेतु, दुरो अग्ना आज्यस्य व्यन्तु ,
उषासानक्ताग्ना आज्यस्य वीताम् ,दैव्या होताराग्ना आज्यस्य वीताम् , तिस्रो देवीरग्ना आज्यस्य व्यन्तु स्वाहा , अग्निं स्वाहा, सोमं स्वाहा , अग्निं स्वाहा ,
अग्निं होत्रात् स्वाहा, देवा आज्यपा जुषाणा अग्ना आज्यस्य व्यन्तु ॥
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
स इद्देवेषु गच्छति ॥
त्वं नः सोम विश्वतो , अग्निर्मूर्धा, भुवो यज्ञस्य ॥
सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे ।
ताभिर् नोऽविता भव ॥
या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्वप्सु ।
तेभिर् नो विश्वैः सुमना अहेडन् राजन्सोपाम प्रति हव्या गृभाय ॥
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
अचित्ती यच्चकृमा दैव्ये जने दीनैर्दक्षैः प्रभूती पुरुषत्वता ।
देवेषु च सवितर्मानुषेषु च त्वं नो अत्र सुवतादनागसः ॥
पावका नः सरस्व, त्या नो दिवः ॥
पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः ।
पूषा वाजं सनोतु नः ॥
शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥
इहेह वः स्वतवसः कवयः सूर्यत्वचः ।
यज्ञं मरुता आवृणे ॥
प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वं ।
ये सहाँसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥
विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः ।
जुषन्तां युज्यं पयः ॥
विश्वे देवासो अस्रिधा एहिमायासो अद्रुहः ।
मेधं जुषन्त वह्नयः ॥
द्यावा नः पृथिवी इमं सिध्रम् अद्य दिविस्पृशम् ।
यज्ञं देवेषु यच्छताम् ॥
प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वं सदने ऋतस्य ।
आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथं ॥
स हव्यवा, डग्निं स्तोमेन ॥
देवं बर्हिर्वसुवने वसुधेयस्य वेतु, देवीर् द्वारो वसुवने वसुधेयस्य व्यन्तु, देवी उषासानक्ता वसुवने वसुधेयस्य वीताम् , देवी जोष्ट्रे वसुवने वसुधेयस्य वीताम् ,
देवी ऊर्जाहुती वसुवने वसुधेयस्य वीताम् , देवा दैव्या होतारा वसुवने वसुधेयस्य वीताम् , देवीस्तिस्रस्तिस्रो देवीर्वसुवने वसुधेयस्य व्यन्तु, देवो नराशंसो वसुवने वसुधेयस्य वेतु, देवो अग्निः स्विष्टकृत् सुद्रविणा मन्द्रः कविः सत्यमन्मायजी होता होतुर्होतुरायजीयान् अग्ने यान् देवानयाड् यं अपिप्रेर्ये ते होत्रे अमत्सत तां ससनुषीँ होत्रां देवंगमां दिवि देवेषु यज्ञमेरयेमं , स्विष्टकृच् चाग्ने होताभूर्
वसुवने वसुधेयस्य नमोवाके वीहि ॥ वाजे वाजे शं नो भवन्तु ॥

4.10.4 अनुवाकः4
प्र देवं देव्या धिया भरता जातवेदसं ।
हव्या नो वक्षदानुषक् ॥
अयमु ष्य प्र देवयुर् होता यज्ञाय नीयते ।
रथो न योरभीवृतो घृणीवाञ् चेतति त्मना ॥
अयमग्निरुरुष्यत्यमृतादिव जन्मनः ।
सहसश्चित्सहीयान् देवो जीवातवे कृतः ॥
इडायास्त्वा पदे वयम् ॥
अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तं प्रथमः सीद योनिम् ।
कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥
सीद होत, र्नि होता ॥
त्वं दूतस्त्वमु नः परस्पास्त्वं वस्या आ वृषभ प्रणेता ।
अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन् दीद्यद् बोधि गोपाः ॥
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे ।
यशसं वीरवत्तमं ॥
गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः ।
सुमित्रः सोम नो भव ॥
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
तद् वां चेति प्र वीर्यम् ॥
प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च ।
प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या ॥
मरुतो यद्ध वो दिवः सुम्नायन्तो हवामहे ।
आ तू ना उपगन्तन ॥
या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि ।
अस्मभ्यं तानि मरुतो वियन्त रयिं नो धत्त वृषणः सुवीरं ॥
 इमं मे वरुण, तत्त्वा यामि, कया नः, को अद्य, पिप्रीहि देवान् , अग्ने यदद्य , अप्स्वग्ने सधिष्टव ॥
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
आपश्च विश्वशंभुवः ॥
उदुत्तमं वरुण पाशमस्मत् ॥
अव ते हेडो वरुण नमोभिरव यज्ञेभिर् ईमहे हविर्भिः ।
क्षयन्न् अस्मभ्यमसुर प्रचेता राजन्न् एनांसि शिश्रथः कृतानि ॥
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्रमुमुग्ध्यस्मत् ॥
स त्वं नो अग्नेऽअवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
अव यक्ष्व नो वरुणं रराणो वीहि मृडीकं सुहवो न एधि ॥

4.10.5 अनुवाकः5
अग्निर् वृत्राणि जङ्घनत् , त्वं सोमासि सत्पतिः ॥
अनीकैर् द्वेषो अर्दयाग्ने विश्वाभिरूतिभिः ।
रयिं नो धेहि यज्ञियम् ॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवं आयजिष्ठः स्वस्ति ।
अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥
पिप्रीहि देवा, ना देवानां ॥
सांतपना इदं हविर्मरुतस्तज्जुजुष्टन ।
युष्माकोती रिशादसः ॥
यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।
द्रुहः पाशान् प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तं ॥
अग्निः प्रत्नेन मन्मना, सोम गीर्भिष्ट्वा वयम् ॥
गृहमेधासा आगत मरुतो मापभूतन ।
इमा हव्या जुजुष्टन ॥
प्र बुध्न्या व ईरते महाँसि प्र नामानि प्रयज्यवस्तिरध्वं ।
सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वं ॥
प्रेद्धो अग्न , इमो अग्ने ॥
अग्निमीडे पुरोहितं यज्ञस्य देवं ऋत्विजं ।
होतारं रत्नधातमं ॥
वृषा सोम द्युमं असि ॥
क्रीडँ वः शर्धो मारुतमनर्वाणं रथेशुभम् ।
कण्वा अभि प्रगायत ॥
अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः ।
ते हर्ये ःष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीडिनः पयोधाः ॥
तं हि शश्वन्तो , अग्निमग्निम् ॥
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतं ।
साकमेकेन कर्मणा ॥
श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् ।
इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥
तं इन्द्रं वाजयामसि ॥
युजे रथं गाएषणं हरिभ्यां उप ब्रह्माणि जुजुषाणमस्थुः ।
विबाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥
विश्वकर्मन्, वाचस्पतिम् ॥

4.10.6 अनुवाकः6
उशन्तस्त्वा हवामहे ॥
आ नो अग्ने सुचेतुना रयिँ विश्वायुपोषसं ।
मार्डीकं धेहि जीवसे ॥
त्वं सोम महे भगं त्वं यून ऋतायते ।
दक्षं दधासि जीवसे ॥
त्वं सोम प्रचिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थां ।
तव प्रणीती पितरो न इन्दो देवेषु रत्नं अभजन्त धीराः ॥
त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।
वन्वन्नवातः परिधीँरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥
त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी आततन्थ ।
तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणां ॥
बर्हिषदः पितर ऊत्यर्वाग् इमा वो हव्या चकृमा जुषध्वं ।
त आगतावसा शंतमेनाथा नः शं योररपो दधातन ॥
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
त आगमन्तु त इह श्रुवन्त्वधिब्रुवन्तु तेऽवन्त्वस्मान् ॥
आहं पितॄन्त् सुविदत्रं अवित्सि नपातं च विक्रमणं च विष्णोः ।
बर्हिषदः स्वधया ये सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥
इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः ।
ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥
उदीरताम् अवरा उत्परासा उन्मध्यमाः पितरः सोम्यासः ।
असुँ य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥
अग्निष्वात्ता ऋतावृधः पितरो मृडता सु नः ।
दीर्घायुत्वाय जीवसे ॥
अग्निष्वात्तान् ऋतुमतो हवामहे नराशँसे सोमपीथं य आशुः ।
ते नो विप्रासः सुहवा मृडन्तु शं नो भवन्तु द्विपदे शं चतुष्पदे ॥
अग्निष्वात्ताः पितरा एह गच्छत सदः सदः सदत सुप्रणीतयः ।
अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिँ सर्ववीरं दधातन ॥
स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बडधत्त विश्वा ।
आपश्च मित्रं धिषणा च साधन् देवा अग्निं धारयन् द्रविणोदाम् ॥
स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनां ।
विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन् द्रविणोदाम् ॥
ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।
आग्ने याहि सुविदत्रेभिरर्वाक् सत्यैः कव्यैः पितृभिर् घर्मसद्भिः ॥
प्र वायुमछा बृहती मनीषा बृहद्रयिँ विश्ववारं रथप्राम् ।
द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो ॥
प्र याभिर् यासि दाश्वाँसमछा नियुद्भिर्वाय इष्टये दुरोणे ।
नि नो रयिँ सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥
इन्द्रं वयं शुनासीरमस्मिन् यज्ञे हवामहे ।
स नः पर्षदति द्विषः ॥
सोऽहोरात्रैः सोऽर्धमासैः स मासैः स ऋतुभिः परि यज्ञं बभूव ।
संवत्सरस्य महिमानमेतं शुनासीरमिन्द्रमद्याहुवेम ॥
सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
शोचिःकेशं पुरुप्रिय ॥
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
विश्वमाभासि रोचनं ॥


इति खिलकाण्डे दशमः प्रपाठकः