मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०९

विकिस्रोतः तः

प्रवर्ग्यः

4.9.1 अनुवाकः1
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविदेका इन्मही देवस्य सवितुः परिष्टुतिः ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे ॥
अभ्रिरसि नारिरसि ॥
उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ।
उप प्रयन्तु मरुतः सुदानवा इन्द्र प्राशूर्भवा सचा ॥
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता ।
अछा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥
देवी द्यावापृथिवी अनु मेऽमंसाथां, ऋध्यासमद्य मखस्य शिरः ॥ मखाय त्वा ॥
मखस्य त्वा शीर्ष्णे, देवीर्वम्रीरस्य भुवनस्य प्रथमजा ऋतावरी , र्ऋध्यासमद्य मखस्य शिरः ॥ मखाय त्वा ॥ मखस्य त्वा शीर्ष्णे ॥ इयत्यग्र आसीत् , अतो देवी , ऋध्यासमद्य मखस्य शिरः ॥ मखाय त्वा ॥ मखस्य त्वा शीर्ष्णे ॥
इन्द्रस्यौजोऽसि प्रजापते रेतः ॥ ऋध्यासमद्य मखस्य शिरः ॥ मखाय त्वा ॥
मखस्य त्वा शीर्ष्णे ॥ मधु त्वा मधुला कृणोतु ॥ मखस्य शिरोऽसि ॥ यज्ञस्य पदे स्थः ॥ गायत्रोऽसि ॥ त्रैष्टुभोऽसि ॥ जागतोऽसि ॥ मखस्य रास्नासि ॥
सूर्यस्य रसा आश्रयस्व ॥ वृष्णो अश्वस्य निष्पदसि, वृष्णस्त्वाश्वस्य निष्पदा धूपयामसि ॥ वरुणस्त्वा धृतव्रतो धूपयतु मित्रावरुणौ ध्रुवेण धर्मणा ॥ अदितिष्ट्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् खनत्ववट, देवानां त्वा पत्नीर्देवीर्विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वद् दधतु महावीरान् ॥
अर्चिषे त्वा शोचिषे त्वा ज्योतिषे त्वा हरसे त्वा ।
अभीमान्महिना दिवो मित्रो बभूव सप्रथाः ॥
उत श्रवस आ पृथिवीं ॥
मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमं ॥
देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः ।
सुबाहुरुत शक्त्या ॥
ऋजवे त्वा, साधवे त्वा, सुक्षित्यै त्वा ॥ इदमहममुमामुष्यायणं तेजसा ब्रह्मवर्चसेन पर्यूहामि ॥ इदमहममुमामुष्यायणं विशा क्षत्रेण पर्यूहामि ॥ इदमहममुमामुष्यायणं प्रजया पशुभिः पर्यूहामि ॥ छृणत्तु त्वा वाक्, छृणत्तु त्वोर्क्, छृणत्तु त्वा हविः ॥ देवपुरश्चरस, ऋध्यासं त्वा ॥

4.9.2 अनुवाकः2
नमो वाचे, नमो वाचस्पतये, या चोदिता या च नोदिता तस्यै वाचे नमो , नमा ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रविद्भ्यो मन्त्रपतिभ्यो , मा मां ऋषयो मन्त्रकृतो मन्त्रविदः प्रादु , र्दैवीं वाचं उद्यासं जुष्टां देवेभ्यः स्वधावरीं पितृभ्योऽनुमतान्मनुष्येभ्य, स्तन्मा देवा अवन्तु शोभायि, पितरोऽनुमदन्तु ॥ गायत्रीं छन्दः प्रपद्ये, त्रिष्टुभं छन्दः प्रपद्ये, जगतीं छन्दः प्रपद्ये , अनुष्टुभं छन्दः प्रपद्ये, पङ्क्तिं छन्दः प्रपद्ये, छन्दांसि छन्दः प्रपद्ये ॥ तानि नोऽवन्तु, तानि नः पालयन्तु, तानि सा ऋच्छतु यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामो , होतर् घर्ममभिष्टुहि , अग्नीद्रजनरोहिणौ पुरोडाशाव् अधिश्रय, प्रतिप्रस्थातर्विहर, प्रस्तोतः सामानि गाय ॥
यजुर् युक्तं सामभिर् ऋक्तखंता विश्वाभिर् धीभिः संभृतं दक्षिणाभिः ।
प्रततं पारयिष्णुं स्तुभो वहन्तु सुमनस्यमानाः ॥
भूर् भुवः स्वर् , देवस्य सवितुः प्रसवे बृहस्पतिप्रसूता ॥
ओमिन्द्रवन्तः प्रचरत ॥

4.9.3 अनुवाकः3
यमाय त्वा ॥ मखाय त्वा ॥ सूर्यस्य हरसे त्वा ॥ देवस्त्वा सविता मध्वानक्तु ॥
पृथिव्याः संपृचस्पाहि ॥ अर्चिषे त्वा, शोचिषे त्वा, ज्योतिषे त्वा, तपसे त्वा ॥
अर्चिरसि, शोचिरसि, ज्योतिरसि, तपोऽसि, सूर्यस्य तपस्तपः ॥
संसीदस्व महं असि शोचस्व देववीतमः ।
वि धूममग्ने अरुषं मेध्य सृज प्रशस्त दर्शतम् ॥
अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तो नाग्निना तपन्तः ।
पितुर्न पुत्र उपसि प्रेष्ठा आ घर्मो अग्निरमृतो न सादि ॥
अनाधृष्टासि पुरस्तादग्नेराधिपत्या, आयुर्मे दाः, पुत्रवती दक्षिणत, इन्द्रस्याधिपत्ये, प्रजां मे दाः ॥ सुषदा पश्चात्, सवितुर् आधिपत्ये, चक्षुर्मे दाः ॥ आश्रुतिरुत्तरतो, मित्रावरुणयोराधिपत्ये, श्रोत्रं मे दाः ॥ विधृतिरुपरिष्टाद् , बृहस्पतेराधिपत्ये वाचं मे दाः ॥ ब्रह्म मे दाः, क्षत्रं मे दाः , पयो मे दाः ॥
मनोरश्वासि भूरिपुत्रा सूपसदना, विश्वाभ्यो मा दंष्ट्राभ्यो पाहि ॥

4.9.4 अनुवाकः4
चिदसि ॥ स्वाहा मरुद्भ्यः परिश्रयस्व ॥ मासि ॥ प्रमासि ॥ प्रतिमासि ॥ विमासि ॥ संमासि ॥ उन्मासि ॥ अन्तरिक्षस्यान्तर्धिरसि ॥ दिवः संपृचस्पाहि ॥
अर्हन् बिभर्षि सायकानि धन्वा ।
अर्हन् निष्कं यजतं विश्वरूपं ।
अर्हन्निदं दयसे विश्वमा धन्वा ।
ओजीयो रुद्रस्तदस्ति ॥
गायत्रोऽसि ॥ त्रैष्टुभोऽसि ॥ जागतमसि ॥ मधु । मधु । मधु ॥ रुचितो घर्मः ॥

4.9.5 अनुवाकः5
दश प्राचीर्दश भासि दक्षिणा , दश प्रतीचीर्दश भास्य् उदीची , र्दशोर्ध्वा भासि सुमनस्यमानः ॥ सा नः प्रजां पशून् पाह्यरणीयमानः ॥ अग्निष्ट्वा वसुभिः पुरस्ताद् रोचयतु, स मा रुचितो रोचय ॥ पितरस्त्वा यमराजानः पितृभिर्दक्षिणतो रोचयन्तु, स मा रुचितो रोचय ॥ सविता त्वादित्यैः पश्चाद् रोचयतु, स मा रुचितो रोचय ॥ मित्रावरुणौ त्वोत्तरतो मरुद्भी रोचयेताम् , स मा रुचितो रोचय ॥ बृहस्पतिष्ट्वा विश्वैर्देवैरुपरिष्टाद् रोचयतु, स मा रुचितो रोचय ॥ देव घर्म रुचितस्त्वं देवेष्वा, सुरुचितं मां देवमनुष्येषु कुरु, रुचं मयि धेहि, रुचिरसि, रुचोऽसि, स यथा त्वं रुच्या रोचस एवमहं रुच्या रोचिषीय, तवेव मे रोचमानस्य रोचो भूयासु , र्ध्राजिरसि, ध्राजोऽसि, स यथा त्वं ध्राज्या ध्राजस एवमहं ध्राज्या ध्राजिषीय, तवेव मे ध्राजमानस्य ध्राजो भूयासु , र्भ्राजिरसि, भ्राजोऽसि, स यथा त्वं भ्राज्या भ्राजस एवमहं भ्राज्या भ्राजिषीय, तवेव मे भ्राजमानस्य भ्राजो भूयासुः ॥


4.9.6 अनुवाकः6
अपश्यं गोपामनिपद्यमानं आ च परा च पथिभिश्चरन्तम् ।
स सध्रीचीः स विषूचीर्वसाना आवरीवर्ति भुवनेष्वन्तः ॥
गर्भो देवानां जनिता मतीनां मतिः कवीनां पतिः प्रजानां धर्ता क्षत्रस्य ॥ सं देवो देवेन सवित्रा यजत्र सं सूर्येण रोचते ॥ हृदे त्वा, मनसे त्वा, दिवे त्वा, सूर्याय त्वा ॥ ऊर्ध्वमिममध्वरं दिवि देवेषु होत्रा यच्छ ॥ धर्ता दिवो रजसो विभाति धर्ता, पृथिव्या धर्तोरोरन्तरिक्षस्य धर्ता ॥ देवो देवानाममर्त्यस्तपोजा अप्सु प्रावीः ॥
विश्वासां भुवां पते विश्वस्य भुवनस्पते विश्वस्य मनसस्पते विश्वस्य वचसस्पते विश्वस्य ब्रह्मणस्पते ॥ देवश्रुत् त्वं देव घर्म देवान् पाहि तपोजान् ॥
वाजमस्मिन् निधेहि देवायुवं ॥ मधु माध्वीभ्यां , मधु माधूचीभ्यां , मधुमान् देववीतये ॥ सं अग्निरग्निनागत, सं देवो देवेन सवित्रा यजत्र, सं सूर्येणारोचिष्ट स्वाहा ॥ समग्निस्तपसागत, सं देवो देवेन सवित्रा यजत्र, सं सूर्येणायुक्त , आयुर्दास्त्वमस्मभ्यं घर्म वर्चोदा असि, पितासि पिता नो बोधिषीमहि त्वा, नमस्ते अस्तु, मा मा हिंसीः ॥ त्वष्ट्रिमन्तस्त्वा सपेम ॥

4.9.7 अनुवाकः7
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे ॥ अदित्या रास्नासि ॥ इडा एहि , असावेहि, अदिता एहि , असाव् एहि, सरस्वत्येहि , असाव् एहि ॥
यस्ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि वार्याणि ॥
अदित्या उष्णीषमसि ॥ पूषा त्वोपावसीदतु ॥ वायुरसि , अश्विभ्यां प्रधापय ॥
घर्माय शंक्ष्व ॥ बृहस्पतिष्वोर्पसीदतु ॥ दानवः स्थ ॥ प्रेरवः स्थ ॥ अश्विभ्यां पिन्वस्व ॥ सरस्वत्यै पिन्वस्व , इन्द्राय पिन्वस्वे , न्द्राय पिन्वस्व ॥ उप मेहि सहोर्जो भागेन ॥ मधुहविरसि, स्वाहा त्वा वाताय सूर्यस्य रश्मये सिता वृष्टिसनये संजुहोमि स्वाहा ॥ इन्द्राश्विना मधुनः सारघस्य घर्मं पात वसवो यजत्रा वेट् ॥ गायत्रमसि ॥ त्रैष्टुभमसि ॥ जागतासि ॥ द्यावापृथिवीभ्यां त्वा परिगृह्णामि ॥ अन्तरिक्षेणोपयछामि ॥ दिविस्पृङ् मा मा हिंसीः ॥ अन्तरिक्षस्पृङ् मा मा हिंसीः ॥ पृथिवीस्पृङ् मा मा हिंसीः ॥ तेजोऽसि, तेजोऽनुप्रेहि ॥

4.9.8 अनुवाकः8
सलिलाय त्वा वाताय स्वाहा , अर्णवाय त्वा वाताय स्वाहा, सिन्धवे त्वा वाताय स्वाहा, समुद्राय त्वा वाताय स्वाहा, शिमिद्वते त्वा वाताय स्वाहा, कुमुद्वते त्वा वाताय स्वाहा , अवस्यवे त्वा वाताय स्वाहा, दुवस्यवे त्वा वाताय स्वाहा , अनाधृष्याय त्वा वाताय स्वाहा , अप्रतिधृष्याय त्वा वाताय स्वाहा , अग्नये त्वा वसुमते स्वाहा, सोमाय त्वा रुद्रवते स्वाहा , इन्द्राय त्वा मरुत्वते स्वाहा, यमाय त्वा पितृमतेऽङ्गिरस्वते स्वाहा ॥ सवित्रे त्वर्भूमते विभूमते वाजवते बृहस्पतिवते विश्वदेव्यावते स्वाहा ॥ अहः केतुना जुषताम् , स्वर्ज्योतिर्जुषतां स्वाहा ॥ रात्रिः केतुना जुषताम् , स्वर्ज्योतिर्जुषतां स्वाहा ॥

4.9.9 अनुवाकः9
दिवि धा इमं यज्ञं, इमं यज्ञं दिवि धाः, स्वस्ति घर्माय, स्वस्ति घर्मपित्वे ॥
विश्वा आशा दक्षिणसद्विश्वान् देवानयाड् इह ॥ ओं श्रावय ॥ अस्तु श्रौषट् ॥ घर्मस्य यज ॥ अश्विना घर्मं पिबतं हार्द्रानुम् , अनु मां द्यावापृथिवी अनु मेऽमंसाताम्, इहैव रातयः सन्ति सं यजुर्भिः, स्वाहेन्द्राय, स्वाहेन्द्राय वट् ॥
स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विना, घर्ममपातमश्विना, वहद्दिव्याभिर् ऊतिभिः स्वं पेद्रवं यथा वेट् ॥ इषे पिपीहि ॥ ऊर्ज्जे पिपीहि ॥ अस्मै ब्रह्मणे पिपीहि ॥ अस्मै क्षत्राय पिपीहि ॥ इष ऊर्जे पिपीहि ॥ सुभूताय पिपीहि ॥
ब्रह्मवर्चसाय पिपीहि ॥ अस्यै विशे मह्यं ज्यैष्ठ्याय पिपीहि घर्मोऽसि, घर्ममेमि, अस्मे ब्रह्माणि धारय ॥ क्षत्रं धारय ॥ विशं धारय ॥ पूष्णे शरसि स्वाहा ॥ ग्रावभ्यः स्वाहा ॥ प्रतिरवेभ्यः स्वाहा ॥ द्यावापृथिवीभ्यां स्वाहा, पितॄभ्यो घर्मपेभ्यः स्वाहा ॥ रुद्राय रुद्रहोत्रे स्वाहा ॥ हुतं हविर्मधुहविरसि , इन्द्रतमेऽग्नौ स्वाहा ॥ अश्याम ते देव घर्म ऋभूमतो विभूमतो वाजवतो बृहस्पतिवतो विश्वदेव्यावतः पितृमतोऽङ्गिरस्वत , उशीमहि त्वा, नमस्ते अस्तु, मा मा हिंसीः ॥ संसाद्यमानायानुब्रूहि ॥ अह्ने स्वाहा ॥ रात्र्यै स्वाहा ॥

4.9.10 अनुवाकः10
पशूनां ज्योतिरसि विभृतं, देवत्रा ज्योतिर् भा असि ॥ वनस्पतीनामपामोषधीनां रसो , वाजिनं त्वा वाजिनि अवनयामि , ऊर्ध्वं मनः स्वर्ग्यम् ॥ पयोऽसि, पयस्वी भूयासं ॥ घर्म या ते दिवि शुग् या दिवि या बृहति या स्तनयित्नौ या जागते छन्दसीयं ते ताम् अवयजे, तस्यै ते स्वाहा ॥ घर्म या तेऽन्तरिक्षे शुग् यान्तरिक्षे या वाते या वामदेव्ये या त्रैष्टुभे छन्दसीयं ते ताम् अवयजे, तस्यै ते स्वाहा ॥ घर्म या ते पृथिव्यां शुग् या पृथिव्यां याग्नौ या रथन्तरे या गायत्रे छन्दसीयं ते ताम् अवयजे, तस्यै ते स्वाहा ॥ प्रस्तोतः साम गाय ॥ अन्वद्य न , इत्येषा, ब्रह्मणस्त्वा परस्पाय क्षत्रस्य तन्वस्पाहि ॥विशस्त्वा धर्मणा वयमनु परिक्रामाम सुविताय नव्यसे ॥ प्रस्तोतः साम गाय ॥ अन्वद्य न, इत्येषा, प्राणस्य त्वा परस्पाय चक्षुषस्तन्वस्पाहि ॥ श्रोत्रस्य त्वा धर्मणा वयमनु परिक्रामाम सुविताय नव्यसे ॥ प्रस्तोतः साम गाय ॥ अन्वद्य न, इत्येषा, दिवस्त्वा परस्पाय ॥ अन्तरिक्षस्य तन्वस्पाहि ॥ पृथिव्यास्त्वा धर्मणा वयमनु परिक्रामाम सुविताय नव्यसे, चतुःस्रक्तिर्ऋतस्य नाभिः सदो घर्मो विश्वायुः शर्म सप्रथाः ॥ अप द्वेषो अप ह्वरो अन्यव्रतस्य सश्चिम, वल्गुरसि शँयोर्धायाः ॥ शिशुर्जनधायाः ॥ शं च वक्षि ॥ परि च वक्षि ॥ घर्मैतत्तेऽन्नं एतत् पुरीषं ॥ तेन वर्धस्व चाप्यायस्व, वर्धिषीमहि च वयमा च प्यायिषीमहि च, व्यसौ यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥


4.9.11 अनुवाकः11
रन्तिर्नामासि दिव्यो गन्धर्व, स्तस्य ते पद्वद्धविर्धानं, अग्निरध्यक्षो , रुद्रो अधिपति, र्विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तद् ऋतेनान्ववायन् , तदिन्द्रस्य वै रुद्रो रारहाण आसां परि सूर्यस्य परिधीँरपोर्णु, वीरेभिरधि तन् नो गृणानो रजसो विमानो यद्वा घा सत्यं उत यन् न विद्म ॥ धिय इन्वानो धिय इन् नो अव्यात् ॥ सस्निमविन्दच्चरणे नदीनामपावृणोद् दुरो अस्मद्रथानां ॥ प्रासां गन्धर्वो अमृतानि वोचत् ॥ इन्दुं दक्षं परिददादहीनां ॥ वार्षाहरं साम गाय ॥ चिदसि समुद्रयोनिः ॥
इन्दुर्दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।
महान्त्सधस्थे ध्रुव आ निषत्तो नमस्ते अस्तु मा मा हिंसीः ॥
सोमपीथानु मेहि ॥ इष्टाहोत्रीयं साम गाय॥ पुनर् ऊर्जा सह रय्या , इत्येके, श्यैतं साम गाय ॥ उदु त्यं , चित्रम् , इत्येके ॥ वामदेव्यं साम गाय ॥ इममु षु त्वमस्माकं सनिं गायत्रं नव्यांसं ॥ अग्निर्देवेषु प्र वोच ॥ भूः स्वाहा ॥

4.9.12 अनुवाकः12
मा नो घर्म व्यथितो विव्यधीन्मा न आयुः परमवरं मानदोनैः ।
मो ष्वत्वमस्मान्तराधान्मा रुद्रियासो अभि गुल्बधानः ॥
मा नः क्रतुभिर् हीडिषेभिरस्मद्द्विषः सुनीथो मा परा दैः ।
मा नो अग्निं निर्ऋतिर् मा न आष्टान् मा नो द्यावापृथिवी हीडिषेथां ॥
उता नो मित्रावरुणा इहागतं मन्मा दीध्याना उता नः सखाया ।
आदित्यानां प्रसृतिर्हेतिरुग्रा शरा वाष्टाद्धविषा वार्णः ॥
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार(जगाद) ।
देवस्य पश्य काव्यं महित्वाद्या ममार सह्यः समानः ॥
जरि चेतीदभिशिषः पुरा चकृभ्या आतृद ।
संधाता संधिर्मघवा पुरुवसुर् निष्कर्ता विह्रुतं पुनः ॥
उदु तिष्ठ स्वध्वर , ऊर्ध्व ऊ षु ण , इत्येके ॥ पुनरूर्जा सह रय्या , इत्येके ॥ उदु त्यं चित्रम्, इत्येके ॥ भूः स्वाहा ॥ भुवः स्वाहा ॥ स्वः स्वाहा ॥
भूर् भुवः स्वः स्वाहा ॥


4.9.13 अनुवाकः13
भूर् भुवः स्व,र्मयि तदिन्द्रियं वीर्यम् , मयि रायो , मयि रक्षो , मयि दक्षो , मयि क्रतु , र्मयि धेहि सुवीर्यम् ॥
तिसृभिर् घर्मो विभात्याकूत्या मनसा सह, विराजा ज्योतिषा सह, तपसा ब्रह्मणा सह, तस्य दोहमशीमहि, तस्य भक्षमशीमहि, तस्य ता उपहूता उपहूतस्य भक्षयामि ॥

4.9.14 अनुवाकः14
उदस्य शुष्माद् भानोर्नाव्या बिभर्ति भारं पृथिवी न भूमीः ॥
प्र शुक्रैतु देवी मनीषा अस्मत् सुतष्टो रथो न वाणीः ॥


4.9.15 अनुवाकः15
चिदसि ॥ बृहस्पतिष्ट्वा सादयतु पृथिव्याः पृष्ठे, तेन ऋषिणा तेन विधिना तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

4.9.16 अनुवाकः16
प्रजापतिष्ट्वा सादयतु पृथिव्याः पृष्ठे, तेन ऋषिणा तेन विधिना तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

4.9.17 अनुवाकः17
उग्रश्च भीमश्च ध्वान्तश्च धनवांश्च सहसावांश्च सहीयसः ॥ विक्षिपः ॥ विज्ये विव्ये विक्षिपेत् ॥

4.9.18 अनुवाकः18
संवत्सरोऽसि, परिवत्सरोऽसि , इदावत्सरोऽसि , उद्वत्सरोऽसि, वत्सरोऽसि ॥
तस्य ते वसन्तः शिरो , ग्रीष्मो दक्षिणं पक्षम् , वर्षा उत्तरं , शरत् पुछम् ॥
हेमन्तो मध्यम् , शिशिरं प्रतिष्ठानं , तस्य ते मासाश्चार्धमासाश्च ऋतवः परिवत्सराः ॥ अहोरात्रे ते कल्पेताम् , एहि, प्रेहि, वीहि, समिह्य् उदीची ॥

4.9.19 अनुवाकः19
असृङ्मुखो रुधिरेणाभ्यक्तो यमस्य दूतश्च वाग् विधावति ॥
गृध्रः सुपर्णः कुणपं निषेवति, यमस्य दूतः प्रहित एष एति, व्यसौ यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

4.9.20 अनुवाकः20
तच्चक्षुर्देवहितं पुरस्ताच् शुक्रम् उच्चरत् ॥ पश्येम शरदः शतं जीवेम शरदः शतं ,
प्रब्रुवाम शरदः शतं, शृणुयाम शरदः शतं ॥

4.9.21 अनुवाकः21
निधायो वा३ निधायो वा३ निधायो वा३
ओं वा३ ओं वा३ ओं वा३ ए ऐ ओं स्वर्णज्योतिः ॥

4.9.22 अनुवाकः22
बृहद्भा३ बृहद्भा३ बृहद्भा३ बृहद्भा इम् बृहद्भा इम् बृहद्भा इम् ॥ इम् इम् इम् स्वर्णज्योतिः ॥


4.9.23 अनुवाकः23
पृथिवी समित् , तामग्निः समिन्धे३ं, साग्निं समिन्धेहा, तामहं समिन्धे, सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥ अन्तरिक्षं समित् , तां वायुः समिन्धेमि, सा वायुं समिन्धे े, तामहं समिन्धे, सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥ द्यौः समित् , तामादित्यः समिन्धे ि, सादित्यं समिन्धेद्, तामहं समिन्धे, सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥ दिशः समित् , तां प्रजापतिः समिन्धे , सा प्रजापतिं समिन्धेमि,
तामहं समिन्धे, सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धतां स्वाहा ॥

4.9.24 अनुवाकः24
अग्ने व्रतपते व्रतं चरिष्यामि, तत्ते प्रब्रवीमि, तन्मे गोपाय, तच् शकेयम् , तेन शकेयम् , तेन राध्यासं ॥ वायो व्रतपते व्रतं चरिष्यामि, तत्ते प्रब्रवीमि, तन्मे गोपाय, तच् शकेयम् , तेन शकेयम् , तेन राध्यासं ॥ सूर्य व्रतपते व्रतं चरिष्यामि, तत्ते प्रब्रवीमि, तन्मे गोपाय, तच् शकेयम् , तेन शकेयम् , तेन राध्यासं ॥ व्रतानां व्रतपते व्रतं चरिष्यामि, तत्ते प्रब्रवीमि, तन्मे गोपाय, तच् शकेयम् , तेन राध्यासं ॥

4.9.25 अनुवाकः25
पृथिवी समित् , तामग्निः समिन्धिष्ट, साग्निं समिन्धिष्ट, तामहं समिन्धिष्ट, सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥ अन्तरिक्षं समित् , तां वायुः समिन्धिष्ट, सा वायुं समिन्धिष्ट, तामहं समिन्धिष्ट, सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥ द्यौः समित् , तामादित्यः समिन्धिष्ट, सादित्यं समिन्धिष्ट, तामहं समिन्धिष्ट, सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥ दिशः समित् , तां प्रजापतिः समिन्धिष्ट, सा प्रजापतिं समिन्धिष्ट, तामहं समिन्धिष्ट, सा मा समिद्धा सुसमिद्धा तेजसा ब्रह्मवर्चसेन समिन्धिषतां स्वाहा ॥

4.9.26 अनुवाकः26
अग्ने व्रतपते व्रतमचार्षम् , तत्ते प्रावोचं , तदशकं , तेनाशकं , तेनारात्स्यम् ॥
वायो व्रतपते व्रतमचार्षम् , तत्ते प्रावोचं , तदशकं , तेनाशकं , तेनारात्स्यम् ॥
सूर्य व्रतपते व्रतमचार्षम् , तत्ते प्रावोचं , तदशकं , तेनाशकं , तेनारात्स्यम् ॥
व्रतानां व्रतपते व्रतमचार्षम् , तत्ते प्रावोचं , तदशकं , तेनाशकं , तेनारात्स्यम् ॥

4.9.27 अनुवाकः27
शं नो वातोऽभिवातु शं नस्तपतु सूर्यः ॥
अहानि शं भवन्तु नः शं रात्री प्रतिधीयताम् ॥
पृथिवी शान्तिः, सौषधीभिः शान्ति, रन्तरिक्षं शान्ति, स्तद्वायुना शान्ति , र्द्यौः शान्तिः, सा वृष्ट्या शान्ति , रापः शान्ति , रोषधयः शान्ति , र्वनस्पतयः शान्ति , र्विश्वे देवाः शान्ति , र्ब्रह्म शान्ति , र्ब्राह्मणाः शान्तिः, शान्तिः सर्वशान्ति, स्त्वयाहं शान्त्या सर्वशान्त्या मह्यं द्विपदे च चतुष्पदे च शान्तिं करोमि, शान्तिर्बभूव, शान्तिरसि, शान्तिर् नो अस्तु , अभयं नो अस्तु ॥
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥
यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
उशतीरिव मातरः ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥
ईशाना वार्याणां क्षयन्तीश्चर्षणीनां ।
अपो यातामभेषजं ता नः कृण्वन्तु भेषजं ॥
कया नश्चित्र आभुवद् ऊती सदावृधः सखा ।
कया शचिष्ठया वृता ॥
कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
दृढा चिदारुजे वसु ॥
अभी षु णः सखीनामविता जरितॄणां ।
शतं भवास्यूतिभिः ॥
त्रातारं इन्द्रमवितारं इन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥
स्वस्ति ना इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्यो्रों अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥
यथादित्या अंशुमाप्याययन्ति यथाक्षितिम् अक्षितयः पिबन्ति ।
एवास्मान् इन्द्रो वरुणो बृहस्पतिर् आप्याययन्तु भुवनस्य गोपाः ॥
उद्वयं तमसस्परि ज्योतिः पश्यन्ता उत्तरं ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमं ॥
मित्रस्य वश्चक्षुषा समीक्षामहे ॥ मित्रस्य वश्चक्षुषा समीक्षध्वं ॥
ब्रह्मण उपस्तरणमसि, ब्रह्मणे त्वोपस्तृणामि ॥
इति खिलकाण्डे नवमः प्रपाठकः॥