मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०८
अध्वरादीनां त्रयाणां विधिः
4.8.1 अनुवाकः1
मनोर्वै पात्राण्यासन् , तेषां समाहन्यमानानां यावन्तोऽसुरा उपाशृण्वंस्तावन्तस्तदहर्नाभवन् , अथ वा एतौ तर्य्नसुराणां ब्राह्मणा आस्तां तृष्टावरुत्री, ता अब्रुवन् , चिकित्सतं ना इति, ता अब्रूताम् , मनो यज्वा वै श्रद्धादेवोऽसी, मानि नौ पात्राणि देहीति, तानि वा आभ्यां अददात्, तानि अग्निना समक्षापयताम् , तान् ज्वालान् ऋषभः समलेट्, तं सा मेनिरन्वपद्यत, तस्य रुवतो यावन्तोऽसुरा उपाशृण्वंस्तावन्तस्तदहर्नाभवन् , ता अब्रूताम् , मनो यज्वा वै श्रद्धादेवोऽस्य, नेन त्व ऋषभेण याजयावेति, तेन वा एनं अयाजयताम् , तस्य श्रोणिमनवत्तां सुपर्ण उदमथ्नात् , सा मनाय्या (मनाद्या) उपस्थमापद्यत, तां सा मेनिरन्वपद्यत, तस्या वदन्त्या यावन्तोऽसुरा उपाशृण्वंस्तावन्तस्तदहर्नाभवन् , ता अब्रूताम् , मनो यज्वा वै श्रद्धादेवोऽस्य, नया त्वा पत्न्या याजयावेति, तां प्रोक्ष्य पर्यग्निं कृत्वेध्माबर्हिर् अच्छैताम् , स इन्द्रोऽवेत् , इमे वै ते असुरमाये मनुं पत्न्या व्यर्धयता इति, तं इन्द्रो ब्राह्मणो ब्रुवाण उपैत् , सोऽब्रवीत् , मनो यज्वा वै श्रद्धादेवोऽसि, याजयानि त्वा, कतमस्त्वमसि ब्राह्मणः ॥
किं ब्राह्मणस्य पितरं किमु पृच्छसि मातरं ।
श्रुतं चेदस्मिन् वेद्यं स पिता स पितामहः ॥
केनेति , आभ्यां ब्राह्मणाभ्यां, इति ईशेऽहं ब्राह्मणयो, रिति ईशिषे हीत्यब्रवीत् , अतिथिपतिर्वावातिथीनां ईष्टा इति, स द्वितीयां वेदिम् उद्धन्तुमुभपापद्यत, ता इध्माबर्हिर् बिभ्रता ऐताम् , ता अब्रूताम् , किमिदं करोषीति , इमं मनुं याजयिष्यामीति, केनेति, युवाभ्यां इति, ता अवित्तां, इन्द्रो वावेति, तौ न्यस्येध्माबर्हिः फलायेताम् , तौ यदधावतां परस्तादेवेन्द्रः प्रत्यैत् ॥ तौ वृशश्चैवाषश्चाभवताम् , तद् वृशस्य चैवाषस्य च जन्म, स मनुरिन्द्रमब्रवीत्, सं मे यज्ञं स्थापय, मा मे यज्ञो विकृष्टो भूद् इति, सोऽब्रवीत् , यत्काम एताम् आलब्धाः स ते कामः समृध्यताम् , अथोत्सृजेति, तां वा उदसृजत्, तद् ऋद्याधा एव, पात्नीवतस्त्वाष्ट्रः स्यात् , त्वाष्ट्रा हि पशवो , अवाचीनं नाभ्याः कार्यो , अवाचीनं हि नाभ्याः स्त्रिया वीर्यवत् , व्यवव्लिनाति वा एकादशिनी यज्ञं , यत्पात्नीवतः, प्रत्युत्तब्यैरि ॥
4.8.2 अनुवाकः2
अमुष्मिन्वै लोके यजमानो बुभूषति , अमुष्य खलु वा आदित्यस्यासौ लोको , यत्सौरीभ्यां जुहोति , अमुष्मिन् वा एतल्लोके यजमानो भवति, द्वाभ्यां जुहोति, द्विपाद्यजमानः, प्रतिष्ठित्यै, हिरण्यमवधाय जुहोति, हिरण्यज्योतिषं एवैनं स्वर्गं लोकं गमयति, बद्धेन जुहोति, दक्षिणानां वा एषोऽन्वारंभो , द्यां गच्छ स्वर्गच्छेत्युद्धरति, स्वर्गस्य लोकस्य समष्ट्यै, रूपं वो रूपेणाभ्येमीति, रूपं हिरण्यं, रूपं पशव, स्तुथो वो विश्ववेदा विभजत्व् इति , एष वै तुथो विश्ववेदा यदग्नि , रेष वै तं वेद यो दक्षिणीयो, योऽदक्षिणीय , एतत्ते अग्ने राध एति सोमच्युतं इति , अग्नीधे वा एतद् दीयते, तत् सोमश्च्यावयति, तन् मित्रस्य पथा नयेति , एष वै मित्रस्य पन्था यद्यज्ञ , आग्नेय्याग्नीध्रे जुहोति , आग्नेयं ह्याग्नीध्रं , वारुण्या द्वितीयया, यद्यनो वा रथो वा दीयते वारुणं हि तत् , ऋतस्य पथा प्रेतेति , एष वा ऋतस्य पन्था यद्यज्ञो , चन्द्रदक्षिणा इति, चन्द्रं हि दीयते, ब्राह्मणमद्य ऋध्यासं पितृमन्तं पैतृमत्यं इति , एष वै ब्राह्मणः पितृमान् पैतृमत्यो य आर्षेयः शुश्रुवान् , सुधातुदक्षिणं इति, सुधात्व् एवास्य यज्ञं दधाति, वि स्वः पश्य, व्यन्तरिक्षमिति , अद एव प्राप्य वदति, यतस्व सदस्यैरिति , अरातीयन्ति वा एत एतस्मै ददते , ईश्वरा ब्राह्मणाः सोमपाश्चक्षुषापहन्तो, स्तान् एव शमयति , अस्मद्राता मधुमतीर्देवत्रा गच्छत, प्रदातारं आविशतेति, तथा हैनं अमुत्रागच्छन्ति, बहुमर्या यज्ञकुणपी, ति ह स्माह यज्ञवचा राजस्तम्बायनः, प्र वा इतो मनुष्या दक्षिणाश्च्यावयन्ति, नामुत्र गच्छन्तीति, यदाह , अनवहायास्मान् देवयानेन पथा सुकृतां लोके सीदत तन् नः संस्कृतं इति, तथा हैनमिह चामुत्र चागच्छन्ति ॥
4.8.3 अनुवाकः3
घ्नन्ति वा एतत् सोमं यदभिषुण्वन्ति, यज्ञं वा एतद् घ्नन्ति, यद् दक्षिणा दीयन्ते यज्ञं वा एतद् दक्षयन्ति, तद् दक्षिणानां दक्षिणात्वं, यत्तद् दक्षयन्ति, स्वर्गो वै लोको माध्यंदिनं सवनं , यन्माध्यंदिने सवने दक्षिणा दीयन्ते, स्वर्गस्य लोकस्याक्रान्त्यै, बहु देयम् , सेतुं वा एतत् कुरुते, स्वर्गस्य लोकस्य समष्ट्यै, हिरण्यं हस्ते भवत्य, थ नयति, सत्यं वै हिरण्यम् , सत्येनैवैना नयति , अग्रेण गार्हपत्यं , जघनेन सद, स्ता उदीचीरुत्सृजन्त्यन्तरा चात्वालं चाग्नीध्रं च , एतेन वा अङ्गिरसः स्वर्गं लोकमायन् , तं एवैनाः पन्थां अपिनयति, द्वाभ्यां गार्हपत्ये जुहोति , इमां तेनाक्रमते , आग्नेय्याग्नीध्रे , अन्तरिक्षं तेन , अथ यद् दक्षिणा दीयन्ते स्वर्गं तेन लोकं, अग्नीधे ऽग्रे ददाति, यज्ञमुखं वा अग्नीत् , यज्ञमुखमेव नापाराट् , अथो अग्निर्वै सर्वा देवता , देवता एवास्य तयाभीष्टाः प्रीता भवन्ति, ब्रह्मणे ददाति, प्राजापत्यो वै ब्रह्मा, प्रजापतिमेव तया प्रीणाति , ऋत्विग्भ्यो ददाति, होत्रा एव तया प्रीणाति, यां सदस्येभ्यो ददाति सोमपीथं तया निष्क्रीणीते, यामार्षेयाय शुश्रुवुषे ददाति छन्दांसि तया प्रीणाति, न हि तस्मादर्हन्ति सोमपीथं निष्रीतियम् , यामार्षेयाय शुश्रुवुषे ददाति देवलोके तया ऋध्नोति, यामनार्षेयाय शुश्रुवुषे मनुष्यलोके तया, यामप्रसृप्ताय ददाति वनस्पतयस्तया प्रथन्ते, यां याचमानाय ददाति भ्रातृव्यं तया जिन्वति, यां भीषा क्षत्रं तया ब्रह्मात्ति, यां प्रतिनुदते सा व्याघ्री दक्षिणा, यत् तां पुनः प्रतिगृह्णीयाद् व्याघ्येप्नं भूता प्रव्लिनीयात् , अन्यया सह प्रतिगृह्या, तथा हैनं न प्रव्लिनाति, यदजं ददाति , आग्नेयो वा अजो , अग्नेरेव तेन प्रियं धामोपैति, यदविं ददाति , आव्यन् (अव्यन्) तेनापजयति, यद् गां ददाति, वैश्वदेवी गौ , र्विश्वेषां देवानां तया प्रियं धामोपैति, यद्वासो ददाति, सर्वदेवत्यं वै वासो , देवता एवास्य तेनाभीष्टाः प्रीता भवन्ति, यत् कृतान्नं ददाति मांसं तेन निष्क्रीणीते, यदनो वा रथं वा शरीरं तेन, यद्धिरण्यं ददाति आयुस्तेन वर्षीयः कुरुते, यदश्वं ददाति, प्राजापत्यो वा अश्वः, प्रजापतेरेव तेन प्रियं धामोपैति , अथो अमुष्यादित्यस्य लोकं जयति , अन्ततः प्रतिहर्त्रे देयम् , रौद्रो वै प्रतिहर्ता, यन्मध्यतः प्रतिहर्त्रे दद्यान्मध्यतो रुद्रमन्ववनयेत् , तस्मादन्ततः प्रतिहर्त्रे देयम् , स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत् , तमत्रिरन्वपश्यत् , यदात्रेयाय हिरण्यं ददाति तम एवापहते , अथो ज्योतिरुपरिष्टाद् दधाति, स्वर्गस्य लोकस्यानुक्शात्यै ॥
4.8.4 अनुवाकः4
विश्वरूपो वा एतत् त्वाष्रोस् यज्ञस्य व्यृद्धममन्यत, यद् ऋक्सामे व्युह्येते स एतानि अपश्यत् , यज्ञस्य निष्कृत्यै, यदेवात्र यज्ञस्य व्यृद्धं तस्यैतानि निष्कृत्यै हूयन्ते, षड् ऋग्म्याणि भवन्ति, षड् वा ऋतव , ऋतुष्वेव प्रतितिष्ठति, त्रीणि यजूंषि, त्रीणि वै सवनानि, सवनानि एवाप्नोति, नवैतानि समिष्टयजूंषि जुहोति, नवभिर् बहिष्पवमाने स्तुवते, तन् नव, नव प्राणाः, प्राणान् एवात्मन् धत्ते , ऊर्ध्वस्तिष्ठन् जुहोति , ऊर्ध्वो हि तिष्ठन् वीर्यवत्तरो , यं द्विष्यात्तस्य तूष्णीं तिष्ठन् जुहुयात् , प्राणानस्यान्तरेति, संततं जुहोति, प्राणानां संतत्यै , अविछिन्दन् जुहोति, प्राणानामविछेदाय, यद्विछिन्द्यात् प्राणान् विछिन्द्यात् , यं द्विष्यात्तस्य विछिन्द्यात् , प्राणानस्य विछिनत्ति, समानेन विग्राहं जुहोति, समाना हीमे प्राणा , यज्ञस्य वा एता आणी, एतौ वै विश्वामित्रो यज्ञस्याणी अपश्यत्, तद्यज्ञस्यैवैता आणी क्रियेते, यतो यज्ञ आदीयते तत् पुनर् निधेया, इति ह स्माह भरद्वाजो , यतो वा एतद्यज्ञ आदीयते तत् पुनर् निधीयते ॥
4.8.5 अनुवाकः5
पञ्चसवनो वै यज्ञ, स्त्रीणि सवनानि , अवभृथोऽनूबन्ध्या सवनानां पञ्चमी, पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्ध, यद्वै यज्ञस्यातिरिच्यते तद्वरुणो गृह्णाति , अतिरिक्तं वा एतद्यज्ञस्य यद् ऋजीषो , अधिषवणमधिषवणे, तस्मात्तेनावभृथमभ्यवयन्ति , अपोऽभ्यवयन्ति , आपो हि वरुणः, स्थावरा अभ्यवयन्ति, ता हि साक्षाद्वरुणः , यद्वहन्तीरभ्यवेयुः पशून् निर्वहेयु , रथ यत् स्थावरा अभ्यवयन्ति, पशूनामनिर्वाहाय , आपो वै वरुणः , वातो वरुणः , यदुदञ्चोऽवभृथमभ्यवेयुरभीपतः प्रजा वरुणो गृह्णीयात् , अथ यद् दक्षिणावभृथमभ्यवयन्ति यजमानस्य निर्वरुणत्वाय , उरुं हि राजा वरुणश्चकारे, ति चात्वालात् प्रयन्तो वदन्ति , एष वा अपरिपरः पन्था अरक्षस्यो येनासा आदित्य एति , अमुष्य वा एतदादित्यस्य पथ इति, शतं ते राजन् भिषजः सहस्रम् इत्यपः परादृश्य वदन्ति , अपो वा एतद् भूषन्ति, पूताभिराभिः पूताश्चरन्ति , एककपाला भवन्ति, न वै पुरुषः कपालैराप्य , एकधैवैनं आप्नोति, अथो एका वा इयम्, अस्यां एव प्रतितिष्ठति, तॄणं प्रास्य जुहोति , अग्निमत्येव जुहोत्यायतनवति , अन्धोऽध्वर्युः स्याद्यदनायतने जुहुयात् , अपबर्हिषः प्रयाजान् यजति, प्रजा वै बर्हिः, प्रजा एव मृत्योरुत्सृजति , आज्यभागौ यजति, यज्ञतायै, वरुणं यजति, निर्वरुणतायै , अग्नीवरुणौ यजति , उभयत एवैनं वरुणान् मुञ्चति, नानुयाजान् यजति, न संस्थापयन्ति , अतिरिक्तं इव हि तन्मन्यन्ते, समुद्रे ते हृदयमप्स्वन्त, रिति सह स्रुचोपमारयति, यदेवात्र क्रूरं क्रियते तच् शमयति , अवभृथ निचुङ्कुणेति , अवभृथ एवास्यैष, ततो य ऋजीष उत्प्लवते तं भक्षयन्ति, सोमपीथमिव हि तन्मन्यन्ते, वरुणो वा ऋजीषो , यद् भक्षयेद्वरुणमात्मनि अञ्जीत, तदाहु , र्भक्षयितव्यं एव, पशवो वा ऋजीषः, पशून् एवात्मनि अङ्क्ता इति, विचृत्तो वरुणस्य पाशा इति, वरुणपाशमेव विष्यति, प्रत्यस्तो वरुणस्य पाशा इति, वरुणपाशमेव प्रत्यस्यति, नमो वरुणस्य पाशायेति, वरुणपाशायैव नमोऽकर् , अङ्गिरसो वा उत्तिष्ठतो रक्षांस्यनूदतिष्ठन् , तान् वा एतेन बृहस्पतिरन्ववैत् , तेनैभ्यो रक्षांस्यपाहन् , यदेतेनान्ववैति, रक्षसामपहत्यै, यद् ऊर्ध्वस्तोभम् तेन बार्हस्पत्यं, अथ यत् त्रिस्तोभम् , त्रयो वा इमे लोका , एभ्यो वा एतल्लोकेभ्यो यज्ञाद्रक्षांस्यपहन्ति, यदतिछन्दसा, सर्वाणि वै छन्दांस्यतिछन्दाः, सर्वैर्वा एतच् छन्दोभिर्यज्ञाद्रक्षांस्यपहन्ति, यदाग्नेय्या , अग्निर्वै सर्वा देवताः, सर्वाभिर्वा एतद्देवताभिर्यज्ञाद्रक्षांस्यपहन्ति , अपोऽभ्यवयन्ति , आपो वै रक्षोघ्नी , रपो रक्षांसि न तरन्ति, रक्षसामपहत्यै , अनपेक्षमाणा आयन्ति, वरुणस्यानन्ववायाय, परोगोष्ठं मार्जयन्ते, परोगोष्ठमेव वरुणं निरवदयन्ते , एधोऽस्येधिषीमहीति, निर्वरुणा एव भूत्वैधितुमुपयन्ति, समिदसि , समेधिषीमहीति, समिद्यार् एव ॥
4.8.6 अनुवाकः6
यः कामयेत, सर्वो मे यज्ञः स्यात्सरसा इति, स एतास्तिस्रो वशा आलभेत, यज्ञस्य सर्वत्वाय , अथो सरसत्वाय, वैश्वदेवीं मध्यत आलभेत, रेतो वा एतन्मध्यतो दधाति, मध्यतो हि रेतोऽनिरुक्तया प्रचरन्ति , अनिरुक्तमिव हि रेतो , यातयामं वा एतस्य देवताश्च ब्रह्म च, यद् वैश्वदेवी च बार्हस्पत्या च वशे भवतो , देवतानां च ब्रह्मणश्चायातयामत्वाय, दुग्धानि वा एतस्य छन्दांसि यातयामानि भवन्ति, छन्दस्येव रसं दधाति, बार्हस्पत्यामन्तत आलभेत, ब्रह्म वै बृहस्पति , र्ब्रह्मणि वा एतदन्ततो यज्ञस्य यजमानः प्रतितिष्ठति, यद्वै यज्ञः संतिष्ठते मित्रोऽस्य स्विष्टँ युवते, वरुणो दुरिष्टं , यन् मैत्रावरुण्यनूबन्ध्या भवति मित्रेण वा एतन् मित्राद्यज्ञस्य स्विष्टं मुञ्चति, वरुणेन वरुणाद् दुरिष्टं, उभयत एनं मुक्त्वा यजमानाय प्रयच्छति, यथा वै लाङ्गलेनोर्वरां प्रभिन्दन्येण्वं उक्थामदानि यज्ञं प्रभिन्दन्ति, यथा मत्यमन्ववास्यत्येवं एषा यज्ञस्य, यद् दुष्टुतं यद् दुःशस्तं यद्विलोमं तदेतया कल्पयति, विदेवो वा ईजानः, सदेवोऽनीजाना , आ ह्यनीजाने देवताः शंसन्ते, यथा वा अनड्वान् विमुक्तो ऽपक्रामत्येवं ईजानाद्देवता अपक्रामन्ति, यदाग्नेय उदवसानीयो भवति , अग्निर्वै सर्वा देवता , देवता एव पुनरालभते , अष्टाकपालो भवति, गायत्रो ह्यग्निर् गायत्रछन्दाः, पञ्चकपालः कार्यः, पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्ध, यत्र वा अदोऽग्नौ पुरुषं प्रमीतमादधति तदेनं अभि सत्यं , सर्वा एनं अन्या देवता जहति , अग्निर् एनं देवतानां न जहाति ॥
4.8.7 अनुवाकः7
प्र वा ऋचा ह प्रयच्छति, यजुषा गमयति ग्रहेण, स्तोत्राय वा ऋक् , शस्त्राय यजुः, संबद्धे वै स्तोत्रं च शस्त्रं च, संबद्धे ऋक् च यजुश्च , उच्चैर् ऋचा क्रियत , उच्चैः साम्नो, पांशु यजुषा, ते देवा अमन्यन्त , इदं यज्ञस्य शिथिरमिति, तत् पुरोरुचं उपादधु, रशिथिरत्वाय, देवता वै सर्वा आशँसन्ते ग्रहे गृह्यमाणे, मह्यं गृह्णाति मह्यं गृह्णातीति, यत् पुरोरुक् , देवतानां व्यावृत्त्यै ॥ जीवा नाम स्थ, ता इमं जीवयत, जीविका नाम स्थ, ता इमं जीवयत, संजीवा नाम स्थ, ता इमं संजीवयत ॥ इति यवान् एकविंशतिं दर्भपिञ्जूलानि चावधाय परिब्रूयात् , अथाभिमन्त्रयेत ॥ प्राणापानौ त उपांश्वन्तर्यामौ पाताम् , व्यानं त उपांशुसवनः पातु, वाचं त ऐन्द्रवायवः पातु, दक्षक्रतु ते मैत्रावरुणः पातु, श्रोत्रं त आश्विनः पातु, चक्षुषी ते शुक्रामन्थिनौ पाताम्, आत्मानं त आग्रायणः पातु , अङ्गानि त उक्थ्यः पातु , आयुस्ते ध्रुवः पातु, स्तनौ त ऋतुपात्रे पाताम् , मूर्धानं ते द्रोणकलशः पातु, कुक्षी ते कलशौ पाताम् , पुष्टपते चक्षुषे चक्षुः स्मने स्मानं वाचे वाचं प्राणाय प्राणं पुनर्देह्यस्मै स्वाहा ॥ इति जुहुयात् , एतद्ध स्म वा आह वासिष्ठः सात्यहव्यः, पात्रेषु वा अहं तद् ब्राह्मणं वेद, यथा पुरुषः सकृदाहृतिमाहृयते सकृत् त्वेव कुर्यान् न ततः पुरो , यत् पुनः कुर्यात् प्रमीयेत, यद्यभिचरेदेतदेव यजुरुदित्वाथाभिमन्त्रयेत ॥ पुनरितरथा ॥
4.8.8 अनुवाकः8
पुनरन्यानि पात्राणि प्रयुज्यन्ते, नान्यानि, यानि पुनः प्रयुज्यन्ते तानि अस्मै लोकाय, यानि न पुनः प्रयुज्यन्ते तानि अमुष्मै क्षयाय , अथैतदुक्थ्य् पात्रं पुनः प्रयुज्यते , आरण्यान् वा एतत् पशून् प्रति , आरण्यान् एवैतेन पशून् दाधार, यदेतत् पुनः प्रयुज्यते तस्मादेतान् पश्यतः परीत्य घ्नन्ति , अथैतद् ऋतुपात्रं पुनः प्रयुज्यते , अश्वं वा एतत् प्रति , अश्वमेवैतेन दाधार, यदेतत् पुनः प्रयुज्यते तस्मादेतस्याश्वस्येवाधस्ताच् शफो, अथैतदादित्यपात्रं पुनः प्रयुज्यते, गां वा एतत् प्रति, गां एवैतेन दाधार, यद् भूयिष्ठाभिर् ऋग्भिर्भूयिष्ठः सोमो गृह्यते तस्माद् गौर्हन्यमानाद्यमाना पशूनां भूयिष्ठा , अथैतच् शुक्रपात्रं पुनः प्रयुज्यते, पुरुषं वा एतत् प्रति, पुरुषं एवैतेन दाधार , असौ वा आदित्यः शुक्रो , रश्मय ऋतवो , अन्तरं ऋतुपात्रम् , शुक्रपात्रं पुनः प्रयुज्यते , अन्तरे ह्यमुष्मादादित्याद्रश्मयो , अथैतदुपांशुपात्रं पुनः प्रयुज्यते , अविं वा एतत् प्रति , अविमेवैतेन दाधार , अथैतदन्तर्यामपात्रं पुनः प्रयुज्यते , अजां वा एतत् प्रति , अजां एवैतेन दाधार, प्रजापतिर्वा आग्रायणो , यदेष पुनः प्रयुज्यते तस्मात् प्रजापतिः प्रजा वेद, प्रजापतेर्वा एतत्पात्रं यद् द्रोणकलशो , यदेष पुनः प्रयुज्यते तस्मादयं क्षयोऽस्ति, सप्त वै पात्राणि पुनः प्रयोगं अर्हन्ति, तानि हि बन्धुमन्ति सप्त छन्दांसि, छन्दांसि वाग् , यावत्येव वाक् तामाप्नोति, सप्त छन्दांसि, सप्त होत्राः, सप्त ग्राम्याः पशवो, तान् एवावरुन्धे ्, त्रीणि वै पात्राणि प्रत्यक्षबन्धूनि, परोक्षबन्ध्व् एवान्यत्सर्वं , गायत्यैवान्द्रवायव, स्त्रिष्टुप् शुक्रो , जगत्याग्रायणः , अछिन्नं स्रावयितव्यः, कामो हास्य समर्धुको भवति , अथो अजीमूतवर्षी पर्जन्यो भवति, न चमसमभ्युपाकुर्यात् , यच्चमसमभ्युपाकुर्याद् गर्भमृतः प्रजाः स्यु , र्येनैवाग्रे सर्पन्ति तेन पुनः सर्पेयु , र्यदन्येन सर्पेयुर्गर्भा वेष्टुकाः स्यु , र्यूपेन वा आहुतयः स्वर्गं लोकं यन्ति , अध्वर्युणा दक्षिणा , ऊर्ध्वो यूपो मीयत, ऊर्ध्वस्तिष्ठन् प्रतिगृणाति, स्वर्गस्य लोकस्य समष्ट्यै ॥
4.8.9 अनुवाकः9
यो ज्येष्ठबन्धुः स्यात्स ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीत , अग्रं ह्यैन्द्रवायवो , य आमयावी स मैत्रावरुणाग्रान्, प्राणापाणौ हि मित्रावरुणौ, यः पश्चात् सोमपीथः स आश्विनाग्रान् , पश्चेव ह्येतौ सोमपीथमाश्नुवाताम् , यो ब्रह्मवर्चसकामः स शुक्राग्रान् , तेजो वै शुक्रो ब्रह्मवर्चसं , योऽभिचरेत्स मन्थ्यग्रान् , आर्तं वा एतत्पात्रं यन्मन्थिपात्रम् , य आनुजावरः स आग्रायणाग्रान् , अग्रं ह्याग्रायणः , एति वा एष यज्ञमुखाद्य ऐन्द्रवायवाग्रेभ्यो ग्रहेभ्योऽन्याग्रान् ग्रहान् गृह्णीते, धारयेयुस्तं यं कामाय गृह्णीयात् , अथैन्द्रवायवं सादयेत् , यथापूर्वं वा एतत् क्रियते, न यज्ञमुखादेति, यद्याग्रायणः स्कन्देदुप वा दस्येदितरेभ्यो ग्रहेभ्यो निर्गृह्णीयात् , यथा पिता पुत्रान् क्षित उपधावत्येवं तत् , यदीतरे ग्रहाः स्कन्देयुरुप वा दस्येयुराग्रायणान् निर्गृह्णीयात् , यथा पुत्राः पितरं क्षित उपधावन्येरुवं तत् द्रोणकलशान् निर्गृह्यन्ते , एष वा एतेषां योनिः, स्वादेव योनेर् निर्गृह्यन्ते , अस्कन्नत्वाय, सोमः स्कन्त्स्यति, तं इतो ग्रहीष्यामीति, तस्य वा एष परिशये यदा वा एतमवनयति , अथैष उभयतःशुक्रो, ऽथो सर्वतःशुक्रः, पशुभिर्वा एष व्यृध्यते यस्य सोमः स्कन्दति, व्यस्य यज्ञश्छिद्यते, पशवो वै पृषदाज्यं , यत्पृषदाज्यं जुहोति, पशुभिरेवैनं सम्यञ्चं दधाति, मनो ज्योतिर्जुषतामाज्यस्य विछिन्नं यज्ञं समिमं दधात्व् इति, यज्ञमेव संदधाति ॥ वर्धतां भूतिर् दध्ना घृतेन मुञ्चतु यज्ञं यज्ञपतिम् अंहसः ॥ स्वाहा ॥ इति जुहुयात् , इयं वा एतद्यज्ञस्य गृह्णाति यदार्छति , इयं भूति , अस्या एवैनदधि मुञ्चति, द्रप्सश्चस्कन्द पृथिवीमनु द्यां इत्यभिमृशति, होत्रास्व् एवैनत् प्रतिष्ठापयति, त्रयस्त्रिंशदपोऽन्वतिषिञ्चति , आपो हि यज्ञो , यज्ञं वा एतस्य विमथ्नते यस्य पशुं विमथ्नते, व्यस्य यज्ञश्छिद्यते, यदवदानं न विन्देत्तदाज्यस्यावद्येत् , सर्वा वा अन्या देवता यातयाम्नीः, प्रजापतिरेवायातयामा, प्राजापत्यमाज्यं , प्राजापत्या देवाः, प्रजापतिहुतं एवास्य भवति, यदि कामयेत, ये पशुं व्यमथिषत त आर्तिम् आर्छेयुरिति, कुविदङ्ग यवमन्तो यवं चिदिति, नमउक्तिमत्य ऋचाग्नीध्रे जुहुयात् , नमउक्तीरेवैषां वृङ्क्ते, ताजग् आर्तिम् आर्च्छन्ति , अथैषाष्टापदी, यद् गर्भस्यावद्येदवदानानि अतिरेचयेत् , यन्नावद्येत् प्रोक्षितस्य हविषो नावद्येत् , रसेन जुहोति , अव प्रोक्षितस्य हविषो द्यति, नावदानानि अतिरेचयति ॥
4.8.10 अनुवाकः10
यथा वै शालैवं संवत्सर, स्तस्य यथा पक्षसी एवं पक्षसी, यथा मध्यमो वंश एवं दिवाकीर्त्यम् , यथा वा इदं शालायाः पक्षसी मध्यमं वंशमभिसमागच्छन्त्येवं वा एतत् संवत्सरस्य पक्षसी, दिवाकीर्त्यमभिसंतनोति, यथा मध्यमो वंश एवं दिवाकीर्त्यम् , यदेष शिथिरः स्यादवशीर्येत, यदेतस्मिन्नहनि एते ग्रहा गृह्यन्ते , अह्नो द्रढिम्नेऽशिथिरत्वाय, शुक्राग्रा एतदहर् ग्रहा भवन्ति, त्रैष्टुभो वै शुक्र, स्त्रैष्टुभमेतदहः प्रत्युत्तब्ध्यै सयत्त्वाय, सौर्यो ग्रहो गृह्यते, सौर्यः पशुरालभ्यते , असा आदित्य एतदह, स्तं साक्षाद् ऋध्नोति, षड् ग्रहा गृह्यन्ते, पशुः सप्तम आलभ्यते, सप्त वै शीर्षन् प्राणा , असा आदित्यः शिरः, शीर्षन् वा एतत् प्राणान् दधाति , इन्द्रो वै वृत्रमहन् , स इमं लोकमभ्यजयत् , अमुं तु लोकं नाभ्यजयत् , तं विश्वकर्मा भूत्वाभ्यजयत् , यद् वैश्वकर्मणो ग्रहो गृह्यते , अमुष्य लोकस्याभिजित्यै, यन्ति वा एतेऽस्माल्लोकाद् ये वैश्वकर्मणं ग्रहं गृह्णते, पराञ्चो हि यन्ति ईश्वराः प्रमेतोः, श्वो भूत आदित्यं गृह्णीरन् , इयं वा अदितिरियं प्रतिष्ठा, यदादित्यो, अस्यामेव प्रतितिष्ठन्ति, तयोरन्यमन्यमा परार्धात् पक्षसो गृह्णीरन् , विश्वमन्येन कर्म कुर्वाणा यन्ति , इयं वा अदिति, रस्यामन्येन प्रतितिष्ठन्ति, ता उभौ सहार्के गृह्णीरन्नन्तं गत्वा , अन्तमेव गत्वोभयोर् लोकयोः प्रतितिष्ठन्ति , आदित्येनास्मिंल्लोके, वैश्वकर्मणेनामुष्मिन् ॥
इति खिलकाण्डे अष्टमः प्रपाठकः