मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०७

विकिस्रोतः तः
Jump to navigation Jump to search

अध्वरादीनां त्रयाणां विधिः

4.7.1 अनुवाकः1

गायत्रो वै देवानां सविता, गायत्र्या एष लोके सोमो गृह्यते, यदाग्रयण, स्तस्मादाग्रायणात् सावित्रो निर्गृह्यते, सोऽद आ तृतीयात्सवनात् परिशयेत् क्रियमाणस्य क्रियमाणस्य प्रसवाय , अन्तरिक्षं वा अन्तर्यामो , अन्तरिक्षम् इमाः प्रजा , यदन्तर्यामपात्रेण सावित्रं गृह्णाति, सविता वा एतत् प्रजाः प्रसुवति प्रजननाय , असन्नो हूयते , असन्ना हीमाः प्रजा नेलयन्ति, नानुयजति, यदनुयजेत् सृष्टिं प्रजानां विछिन्द्यात् , अथो समानपात्रौ ह्येतौ सोमौ गृह्येते तस्मान् नानुयजति, देवा वै तृतीयसवनं उद्यमं नाशक्नुवन् , प्रातःसवने तर्हि सवितासीत् , तं देवास्तृतीयसवनं अभिपर्यौहन् , तेन तृतीयसवनं उदयच्छन्त, यत् सावित्रस्तृतीयसवने गृह्यते सवितॄप्रसूता वा एतत् तृतीयं सवनं उद्यच्छन्ते, सावित्रस्य संस्रवे वैश्वदेवमभिगृह्णाति, वैश्वदेवीरिमाः प्रजाः, सवितॄप्रसूताः खलु वै प्रजाः प्रजायन्ते, मनो वै सविता, वैश्वदेवीरिमाः प्रजाः, सर्वासु वा एतत् प्रजासु मनो दधाति , आशीर्मतः सवनस्य गृह्णाति, वैश्वदेवत्वाय, सुशर्मासि सुप्रतिष्ठान इति, यत् स्वित् सोमः सोमे प्रतितिष्ठति, बृहदुक्षे नमा इति, यद् बृहदिति तेन देवेभ्यो , यन् नमा इति तेन पितृभ्यो , उक्थभाजो वै पितरोऽस्तोमभाज , उक्थायैष गृह्यते न स्तोत्राय, यत्र गृह्यते तच् शस्यते स्व आयतने ॥

4.7.2 अनुवाकः2

घृतस्य यजति , एष वै प्रथमो धिष्या ्नां यदाहवनीय, स्तं वा एतदग्रे व्याघारयति , आग्नावैष्णव्या व्याघारयति, पराङ् वा एतर्हि यज्ञो , अग्निः सर्वा देवता , विष्णुर्यज्ञो , देवताश्चैव यज्ञं चालब्ध, घ्नन्ति वा एतत् सोमं यदभिषुण्वन्ति, यत्सौम्यः, सोमं वा एतत् संभावयन्ति, सोममाप्याययन्ति , अवधिषुर्वा एतत् सोमं यदभ्यसुषुवु , रनुस्तरणी वा एषा सोमस्य, यत्सौम्यः पितॄणामनुस्तरणी, तस्मात् पितृमत्या यजति, दक्षिणा तिष्ठन् जुहोति, दक्षिणा हि पितॄणां, उपसदां वा एतेऽनुयाजा, आग्नावैष्णव्या घृतस्य यजति, सौम्या सोमस्य, या एवाद उपसत्सु देवता अयाक्षीत्ता एतत् , अमुत्र वा एष भूताय क्रियते, यद्वा एतस्य व्यार्धि यत् प्रामायि तदस्यामुं लोकं गच्छति , अथ पूत एवोच्शिष्यते, पवित्रं वै सौम्यो, यजमानं एवैतेन पुनाति, सामदेवत्यो वै सोमः, सोमस्य खलु वै सौम्यः, साम्ने वा एतद् ध्रियते ॥ सत्रा त एतद्यदु त इह ॥ इति परिपश्यति, योऽगतासुः स परिपश्यति, यो गतासुर्न स परिपश्यति, यदि न परिपश्येदथ वदेत् ॥

यन्मे मनो यमं गतं यद्वा मे अपरागतं ।

राज्ञा सोमेन तद्वयम् अस्मासु धारयामसि ॥

हृदिस्पृक् क्रतुस्पृग् वर्चोधा असि, वर्चो मे धेहि ॥

इति आशिषं एवाशास्ते ॥


4.7.3 अनुवाकः3

अथैतेऽतिग्राह्या , देवा वै सोमं अगृह्णत , अथ वा एतानिन्द्रोऽगृह्णीत, सोऽवेत् , न वा अहं इमान् ऋते ब्रह्मणः सविष्यामीति, स ब्रह्मोपाधावत् तान् ब्रह्मणासघ्नोत् , ब्रह्म वै गायत्री, तस्माद् गायत्रीभिर्गृह्यन्ते, यदेवादः परं अन्नाद्यमनवरुद्धं तस्यैतेऽवरुद्यै त गृह्यन्ते, ये वा अमी वैराजस्य स्तोभा अतिरिक्तास्तैरेते सामन्वन्तः, सर्वे वा एत ऐन्द्रा, य ऐन्द्र ऐन्द्रः सो , असा आदित्य इन्द्रः, समानं अग्निश्चासौ चादित्यो , विराजो वै तेज आग्नेयः, शक्वरीणामैन्द्रो , रेवतीनां सौर्यो , यत्र पृष्ठानि युज्येरंस्तदेतान् जुहुयात् , साम्नां सतेजस्त्वाय, सं वा एतद्यज्ञः पश्चात् स्तोत्रेण च शस्त्रेण चाधीयते, यदतिग्राह्याः, प्रत्युत्तब्ध्यै, चक्रियौ वा एते यज्ञस्य यत्पृष्ठानि , उपस्तंभनं अतिग्राह्या, स्तस्मात् प्रातःसवने गृह्याः, प्रत्युत्तब्ध्यै, यदाग्नेयस्तेजस्तेनावरुन्धे, यदैन्द्र इन्द्रियं तेन, यत्सौर्यो रुचं तेन, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति, तेजो वा अग्नि, रिन्द्रियमिन्द्रो, ब्रह्मवर्चसमसा आदित्य, स्तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयत इन्द्रियं परिगृह्णाति ॥ अग्नेश्च त्वा ब्रह्मणश्च तेजसा जुहोमि तेजोदाम् , तेजो मा मा हासीत् , माहं तेजो हासिषं , स्वाहा , इन्द्रस्य च त्वा क्षत्रस्य चौजसा जुहोम्योजोदाम् , ओजो मा मा हासीत् , माहं ओजो हासिषं , स्वाहा, सूर्यस्य च त्वौषधीनां च वर्चसा जुहोमि वर्चोदाम् , वर्चो मा मा हासीत् , माहं वर्चो हासिषं , स्वाहा , अग्न आयुःकारायुष्माँस्त्वं तेजस्वान् देवेष्वेधि , आयुष्मन्तं मां तेजस्वन्तं मनुष्येषु कुरु , इन्द्रौजस्कारौजस्वांस्त्वं सहस्वान् देवेष्वेधि , ओजस्वन्तं मां सहस्वन्तं मनुष्येषु कुरु, सूर्य भ्राजस्कार भ्राजस्वांस्त्वं वर्चस्वान् देवेष्वेधि, भ्राजस्वन्तं मां वर्चस्वन्तं मनुष्येषु कुरु ॥ एते होमा भक्षंकारश्च भवन्ति , एतेषां वै वीर्येण बम्बविश्ववयसा इमांल्लोकानर्वाचश्च पराचश्च प्राजानीताम् , सं ह वा अस्मा इमे लोका अर्वाञ्चश्च पराञ्चश्च भान्ति य एवं वेद, सुप्रज्ञाना वा इत इत्थं लोका , अमुतस्त्वा अर्वाञ्चो दुःप्रज्ञाना , एष ह त्वेवामुतोऽर्वाच इमांल्लोकान् प्रजानान्ति यस्यैते हूयन्ते ॥

4.7.4 अनुवाकः4

उपांशुपात्रेण पात्नीवतं गृह्णाति, प्राणो वा उपांशुः, प्राणेन वा एतत् प्रयन्ति प्राणेनोद्यन्ति , अथो प्राणानां प्रतिप्रज्ञात्यै , अथो यत् प्रथमं पात्रं युज्यते तदुत्तमं विमुच्यते, प्राणानां गोपीथाय, होता वा अद्य प्रातरुपांशुमयजत् , यदेतं होता वषट्कुर्याद्यत् पुरोऽकस्तत् पश्चात् परिहरेत् , प्रमायुकः स्यात् , तस्मादेतमग्नीद्वषट्करोति, पुरो ह्यग्नीत् , प्राणो वा उपांशुः, प्राणादधि प्रजाः प्रजायन्ते, यदुपांशुपात्रेण पात्नीवतं गृह्णाति, प्रजननाय , असन्नो हूयते, असन्ना हि प्रजाः प्रजायन्ते, नानुयजति, यदनुयजेत् प्रजननं अपिहन्यात् , अथो समानपात्रौ ह्येतौ सोमौ गृह्येते, तस्मान् नानुयजति, मिथुनं वै घृतं च सोमश्च, यत्पात्नीवतं घृतेन श्रीणाति, मिथुनत्वाय, बृहस्पतिसुतस्य ता इति, ब्रह्म वै बृहस्पति , र्ब्रह्मणो वै योनेः प्रजापतिः प्रजा असृजत, ब्रह्मणो वा एतद् योनेर्यजमानः प्रजायते , इन्द इन्द्रियावता इति , इन्द्रियं हि गर्भो , अग्ना३इ पत्नीवा३न् इति, मिथुनं वा अग्नीच्च पत्नीश्च, सजूस्त्वष्ट्रा सोमं पिबेति, त्वष्टा हि रूपाणि विकरोति, घृतं वै देवा वज्रं कृत्वा सोमं अघ्नन् , अभि खलु वा एतं घारयन्ति, यत्पात्नीवतं घृतेन श्रीणाति , इन्द्रियेण वा एतत् पत्नी व्यर्धयति, तस्मान् निरिन्द्रिया स्त्री, पुमानिन्द्रियवान् , तस्मात् पुमांसः सभाँ यन्ति न स्त्रियो , यदितरान्त् सोमाच् श्रीणीयुर्न पात्नीवतं , स्त्रियः सभाम् ईयुर्न पुमांसा , इन्द्रो वै वृत्रमहन् , तस्य यन् मूर्धानं उदरुजत्स द्रोणकलशोऽभवत् , ततो यः सोमः समस्रवत्स हारियोजन, स्तस्मादेतं द्रोणकलशेन जुहोति, योनिर् ह्यस्यैष , इन्द्रो वृत्रं हत्वा तस्य यत् क्लोम्नो हृदयात् सोमं समसिञ्चत्स हारियोजनोऽभवत् , स इन्द्रोऽमन्यत, यदिमं असुर्यं सोमं होष्यामि तदन्व् असुरा आभविष्यन्ति, यन् न होष्यामि तदन्व् आभविष्यन्तीति, तं संस्थिते प्रहृतेषु परिधिष्वजुहोत् , यत् संस्थिते प्रहृतेषु परिधिषु जुहोति तत् स्विदुभयमकर् , जुहोत्यह, संस्थिते जुहोति , अतिरिक्तो वा एष ऋत्विजां य उन्नेता, तस्मादेतं न वृणते न वषट्करोति , अत्येष सोमोऽरेचि, स वा उन्नेतारं एवाभ्यतिरिच्यन्ते , अध्वर्युर्वै पूर्वान्सो ुमान् जुहोति, यदेतमध्वर्युर्जुहुयादाहुतीः संसृजेत् , समदं कुर्यात् , तस्मादेतं उन्नेता जुहोति, प्रजापतिर्वा एतममन्यत सोमं होष्यन् , तमग्निरब्रवीत् , न मयि त्वं एतमसुर्यं सोमं होष्यस्यशृतमद्वतीयम् , द्वितीयमस्त्विति, यद् धानाभिः श्रीणाति, शृतत्वाय , अथो द्वितीयत्वाय , अथैता धाना , यत्र वा अदो देवेभ्यः कामदुघाः कामं अदुह्र तदेता अपि दुदुह्रे, तत् पुष्टिमेवैताभिरवरुन्धेभ् , प्रजापतिर्वा आग्रायणः , यदेषोऽतिरिच्यते तस्मादयम् अतिरिक्तोऽपरिमित इमाः प्रजा अभिपवते , ऋक्सामे वा इन्द्रस्य हरी, तयोः परिधय आधानं , निराधानाय खलु वा अश्वाय घासं अपिदधाति, यत् संस्थिते प्रहृतेषु परिधिष्वजुहोत् , यत् संस्थिते प्रहृतेषु परिधिषु जुहोति निराधानाभ्यां एवाभ्यां घासं अपिदधाति, पशवो वै धाना , यत् संखादेत् पशून् हिंस्यात् , यन् न संखादेदयताः स्युः, संदृश्य, रय्यै त्वा पोषाय त्वेत्य् उपवपति, तत् स्विदुभयमकः, पशूनां यत्यै, भुञ्जन्त एनं पशवा उपतिष्ठन्ते ॥

4.7.5 अनुवाकः5

यज्ञेन वै देवाः स्वर्गं लोकमायन् , तेऽमन्यन्त , अनेन वै नोऽन्ये लोकमन्वारोक्ष्यन्तीति, ते छन्दांस्यपश्यन् , तानि व्यत्यषजन् , स्वर्गस्य लोकस्याननुक्शात्यै, यच् छन्दांसि व्यतिषजति, लोकं वा एतच् छन्दांसि यजमानो भ्रातृव्यस्य मोहयति स्वर्गस्य लोकस्याननुक्शात्यै, देवेषु वा अन्यानि छन्दांस्यासन्नसुरेष्वन्यानि, कनीयांसि देवेष्वासन् ज्यायांस्यसुरेषु, ते देवाः कनीयोभिश्छन्दोभिर् ज्यायांसि छन्दांस्यसुराणामवृञ्जत, यत् कनीयोभिश्छन्दोभिर् ज्यायांसि छन्दांसि विशंसति लोकं वा एतच् छन्दांसि यजमानो भ्रातृव्यस्य वृङ्क्ते, लोकं एनं अछन्दस्कमकर् अनुष्टुभं सर्वाणि छन्दांस्यभिसंशँसति, वाग् वा अनुष्टुब् , आनुष्टुभः पुरुष, तस्मात् पुरुषः सर्वा वाचो वदति, पशवो वै छन्दांसि, वाग् अनुष्टुब् आनुष्टुभः पुरुषो , यत्सर्वाणि छन्दांसि संशस्यानुष्टुभमुत्तमां शंसति तस्मात् पुरुष उपरिष्टादवाचः पशूनत्ति, सर्वाणि छन्दांसि संशंसति, पजापतिर्वै छन्दांसि, प्रजापतिमेवाप्नोति, षडक्षराणि स्तोत्रादतिरिच्यन्ते, षड् वा ऋतव , ऋतुष्वेव प्रतितिष्ठति, ततश्चत्वारि शस्त्रं पुनरुपावर्तन्ते, चतुष्पदस्तेन पशूनवरुन्धेयो ,
अथ द्वे एवातिरिच्येते, द्वे विराजमति सत्यं चानृतं च, विराजं एवाप्नोति ॥

4.7.6 अनुवाकः6

प्रजापतिर्वै देवेभ्यो यज्ञान् व्यकल्पयत् , सोऽमन्यत , आत्मानं अन्तरगां इति, तेषां वा इन्द्रियाणि वीर्याणि पुनः समबृहत् , स षोडश्यभवत् , अथ वै तर्हीन्द्रो देवानामासीदवमतमः शिथिरतम, स्तस्मै वा एतं षोडशिनं प्रायच्छत् , तेनेन्द्रोऽभवत् , ततो देवा अभवन् , परासुरा, स्तद्य एवं विद्वान् एतं षोडशिनं गृह्णीते भवत्यात्मना, परास्य भ्रातृव्यो भवति, प्रजापतिर्वै देवेभ्यस्तनूर् व्यकल्पयत् , तासां या हरिवत्यासीत्तामात्मन्नशिँषत् प्रेणा, यद्धरिवती पुरोरुग् ग्रहस्य भवति, यैवास्य हरिवती प्रिया तनूस्तामेवाप्नोति, न षोडशी नाम यज्ञोऽस्तीत्या, हु , अथ कस्मात् षोडशीति, यत् स्तोत्रेण च शस्त्रेण च संपद्यते तस्मात् षोडशी, यज्ञेन वै देवाः स्वर्गं लोकमायन् , स एषां न प्राभवत् , तस्मिन् वा एतं षोडशिनं प्रत्यग्रथ्नन् , तेनामुं लोकं व्याप्नुवन् , तदमुष्य वाव लोकस्य व्याप्त्यै षोडशी गृह्यते, ऽमुष्य लोकस्य समष्ट्यै , अग्निष्टोमे राजन्यस्य गृह्णीयात् , अशान्त एनं वज्रो भूत्या इन्धेमु , अतिरात्रे ब्राह्मणस्य, वज्रो वै षोडशीश्वरोऽशान्तो यजमानं हिंसितो , रात्रिरेव वज्रं शमयति, प्रातःसवने गृह्य, स्तेजो वै प्रातःसवनं , तेजस एव वज्रं निर्मिमीते, माध्यंदिने सवने गृह्या , ओजो वै माध्यंदिनं सवनं, ओजस एव वज्रं निर्मिमीते, तृतीयसवने गृह्यः, पशवो वै तृतीयसवनं , पशुभ्य एव वज्रं निर्मिमीते, यत् प्रातःसवने गृह्णीयाद्वज्रा उत्तरे सवने अभ्यतिरिच्येत(अभ्यतिरिच्यते), यन्माध्यंदिने सवने मध्यतो वज्रो निहन्यात् , तृतीयसवने गृह्य, स्तत् सर्वेषु सवनेषु गृह्णाति, न पूर्वे सवने आर्तिं नीतः, पञ्चदशः कार्यो , वज्रो वै पञ्चदशो , वज्रं एवास्मा आधात् , तेन विजितिं भूतिं गच्छति, षोडशी कार्यो , यजमानो वै पञ्चदशो, वज्रः षोडशी, वज्रं एवास्मा आधात् , स एनं भूत्यै श्रेम्ण इन्धेजै, सप्तदशः कार्यः, प्रजापतिर्वै सप्तदशः, प्राजापत्यः षोडशी, स्व एवैनं योनौ दधाति , एकविंशः कार्या , एकविंशतिधाम्नी वा अनुष्टुब् , आनुष्टुभः षोडशी , एतद्वा अस्यायतनतमं , तस्मादेकविंशः कार्यो , मध्यमेऽहंस्त्रिरात्रस्य गृह्यो , मध्यमं वा अहस्त्रिरात्रस्य शिथिरम् , अह्नो द्रढिम्नेऽशिथिरत्वाय, चतुर्थेऽहंश्चतूरात्रस्य गृह्य ,
श्चतुर्थं वा अहश्चतूरात्रस्य शिथिरम् , अह्नो द्रढिम्नेऽशिथिरत्वाय, चतुर्थे चतुर्थेऽहन्नहीनस्य गृह्य , श्चतुर्थंचतुर्थं वा अहरहीनस्य शिथिरम् , अह्नो द्रढिम्नेऽशिथिरत्वाय, न द्विरात्रेऽवकल्पते, द्वे वा एते छन्दसी गायत्रं च त्रैष्टुभं च , ऽऽछन्दस्कमनायतनं गृह्णीते,ऽनायतनो यजमानो भवति , उत्तरेऽहन् द्विरात्रस्य गृह्यो , रात्रिमेवायतनं अभ्यतिरिच्यते ॥

4.7.7 अनुवाकः7

अथैषोऽदाभ्यो , देवाश्च वा असुराश्चास्पर्धन्त, ते देवा एतमपश्यन् , तमगृह्णत, तानसुरा नादभ्नुवन् , तददाभ्यस्यादाभ्यत्वं , नैनं भ्रातृव्यो दभ्नोति य एतं गृह्णीते, घ्नन्ति वा एतत् सोमं यदभिषुण्वन्ति , एषा वै सोमस्यातिमोक्षिणी तनूर् यान् एतान् अंशून् प्रवृहन्ति , एवं वा एतं लोकं यजमानोऽन्वतिमुच्यते, वि वा एतद्यज्ञश्छिद्यते यत्सवनानि संतिष्ठन्ते, यदेतान् अंशून् पुनरप्यस्यति, यज्ञस्य संतत्या अविछेदाय, वृष्ट्यै वा एष गृह्यते, मरुन्नामानि हि, वर्षति पर्जन्यो यत्रैष गृह्यते, अग्निः प्रातःसवनात्पात्वस्मान् इति, सवनानि वा एतेन देवा असुराणामवृञ्जत, सवनानि एवैतेन यजमानो भ्रातृव्यस्य वृङ्क्ते , अग्नये त्वा प्रवृहामि गायत्रेण छन्दसेति, छन्दांसि च वा एतेन देवताश्च देवा असुराणामवृञ्जत, छन्दांसि चैवैतेन देवताश्च यजमानो भ्रातृव्यस्य वृङ्क्ते, चतुर् आधूनोति, दिशो वा एतेन देवा असुराणामवृञ्जत, दिश एवैतेन यजमानो भ्रातृव्यस्य वृङ्क्ते, जीवग्रहो वा एष सोमस्य , अहुतस्य ह्यनभिषुतस्य गृह्यते, यजुषा च वा आहुत्या च यज्ञः संततो , यद्यजुर्वदन्नाहुतिं जुहोति यजुषा चैवाहुत्या च यज्ञं संतनोति, देवा वै सोमं अगृह्णत, स प्रजापतिरवेत् , यो वा इह प्रथमः सोमं ग्रहीष्यते स इदं भविष्यतीति, स एतमगृह्णीत सोऽभवत् , यो भूतिकामः स्यात्स एतं गृह्णीते, भवति, यदि शक्नोति ग्रहीतुमुभौ भवतो , यदि न शक्नोति ग्रहीतुमुभौ न भवतः, पराचीनेन प्राणता ग्रहीतव्यः, पराङ् हि स प्राणैः श्रियोऽन्तमगच्छत् , अपानता ग्रहीतव्यो , अपानं हि स तमगृह्णीत, प्राण्यापान्याव्यवानता ग्रहीतव्यो , अव्यवानं हि स तमगृह्णीत, यद्व्यवानेत् प्राणान् विछिन्द्यात् , यदि व्यवानेद्धिरण्येनापिदध्यात् , अमृतं वै हिरण्यम् , अमृतेनैव प्राणान्त्संदधाति, सकृदभिषुणोति सकृद् गृह्णाति , एको वै प्रजापतिः, प्रजापतिमेवाप्नोति, चतुःस्रक्तिना ग्रहीतव्य , श्चतुःस्रक्तिना वा एतं प्रजापतिरगृह्णीत, स सर्वासु दिक्वाषुर्नोतात् , स सर्वासु दिक्व्एु ऋध्नोति य एवं विद्वान् एतं चतुःस्रक्तिना गृह्णीते , अपो वै सोमस्य रसः प्रविष्टः, सोममपां रसो , यथा वा इदं गावौ संजग्माने अन्यान्यां हत एवं वा एतौ संजग्माना अन्योऽन्यस्येन्द्रियं वीर्यं विनिर्हत, स्तयोर्वा एष रसो यद् दधि, यद् दध्ना जुहोति स्वेनैवैनौ रसेन शमयति ॥

4.7.8 अनुवाकः8

कृष्णशीर्षाग्नेयो , मेषी सारस्वती, बभ्रुः सौम्यः, श्यामः पौष्णः, शितिपृष्ठो बार्हस्पत्यः, पिशङ्गो वैश्वदेवो , वृष्णिरैन्द्रः, कल्माषो मारुतः, संहित ऐन्द्राग्नो, अधोरामः सावित्रः, पेत्वो वारुणः, प्रजापतिः प्रजाः सृष्ट्वा रिरिचानोऽमन्यत, स एतामेकादशिनीमपश्यत् , तयात्मानं आप्रीणीत, यज्ञो वै प्रजापति, स्तद्य एवं विद्वान् एतामेकादशिनीं विबध्नीते यदेवास्यात्मन ऊनं तदाप्रीणीते, प्रजापतिः प्रजाः सृष्ट्वा रिरिचानोऽमन्यत, स एतानीन्द्रियाणि वीर्याण्यपश्यत् , तानि द्वन्द्वमात्मानं अभिसमबध्नीत , आत्माग्नेयो , वाक् सरस्वती , इन्द्रियं सोमो वाचं चैवेन्द्रियं चात्मानं अभिसमबध्नीत, पुष्टिः पौष्णो , ब्रह्म बृहस्पतिः, पुष्टिं चैव ब्रह्म चात्मानं अभिसमबध्नीत, बलं विश्वे देवा , वीर्यमिन्द्रो , बलं चैव वीर्यं चात्मानं अभिसमबध्नीत , ओजो मरुतः, सह इन्द्राग्नी, ओजश्चैव सहसश्चात्मानं अभिसमबध्नीत, प्रसवाय सावित्रो , निर्वरुणत्वाय वारुण , आग्नेयाय सर्वा उपबध्यन्ते , अग्निर्वै सर्वा देवताः, सर्वाभ्य एव देवताभ्य उपबध्यन्ते, मिथुनत्वायैव सारस्वती , अथ यत्सौम्यः, सोमो वै रेतोधा रेतोऽस्मिन् दधाति , अथ यत् पौष्णः, प्रजननं वै पूषा, प्रजननाय, ब्रह्म बृहस्पति , र्वैश्वदेवीरिमाः प्रजा , ब्रह्म वा एतत् पुरस्तादासां प्रजानामत्यौहीत् , अथो ब्रह्मण एवेमाः प्रजा अनुकाः करोति, विण् मरुतो , विशँ वा एतत् क्षत्राय नियुनक्ति , अथो विशमेव क्षत्रायानुकां करोति , ओज इन्द्राग्नी, ओजसा वा एतद्विशं क्षत्राय परिगृह्णाति , आलब्ध आग्नेय , आलब्ध ऐन्द्रो , अथैष ऐन्द्राग्न आलभ्यते, ब्रह्म चैव क्षत्रं च सयुजा अकर् , यदग्निश्चेन्द्रश्च भूयिष्ठभाजौ देवतानां , तस्माद् ब्राह्मणश्च राजा च भूयिष्ठभाजौ मनुष्याणां , प्रसवाय सावित्रो , निर्वरुणत्वाय वारुणः, समुद्रो वै वरुणो , दक्षिणा समुद्रो , यद्वारुणो दक्षिणार्ध आलभ्यते, यजमानस्य निर्वरुणत्वाय , एतद्वा एषाभ्यनूक्ता ॥

सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।

अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥ इति ॥


4.7.9 अनुवाकः9

ये देवानां बलपतयस्तेभ्यो दक्षिणार्ध आलभ्यन्ते, तस्मात् प्रजा दक्षिणाभिजयन्तीर्यन्ति, यदाग्नेयः सौम्यो बार्हस्पत्यस्ते सार्धमालभ्यन्ते , ओज एवैतत् संधीयते, यदाग्नेयश्च बार्हस्पत्यश्च सौम्यमभितस्तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयत इन्द्रियं परिगृह्णाति , एकादश वा एतेषां पशूनां देवता , मेषी सारस्वती देवतानां द्वादशी, यदेषातिरिच्यते तस्मात् स्त्रियः पुंसोऽतिरिच्यन्ते , अथ द्वे एकस्य रशने, द्वे एकस्य, तस्मात् स्त्रियं जातां परास्यन्ति, न पुमांसं, अथ स्त्रिय एवातिरिच्यन्ते, यं वा अमुमिन्द्रो वृत्राय वज्रं प्राहरत्स त्रेधाभवत् , यदग्रं तेजा आसीत्स स्फ्योऽभवत् , यन्मध्यं स रथो , यज्जघनं स यूपः, स्फ्येन परिलिखति, रथाक्षेण विमिमीते, यूपो भवति, वज्र एवैष संभ्रियते , एतावती वा इयं पृथिवी यावती वेदि , र्वज्र एकादशिनी, तिरश्चीं मिनोति, वज्रेण वा एतदिमां जयति, दक्षिणत उन्नता मेतव्या, देवयजनस्य रूपं, अथो वज्रं वा एतद्यजमानो भ्रातृव्यायोच्श्रयति, त्रयो मध्यतः समा मेतव्याः, समत्वाय, समं हि पशवोऽनूपतिष्ठन्ते, पशुभिरेवैनं सम्यञ्चं दधाति, यं कामयेत, पितृलोक ऋध्नुयादिति, तस्योपरसंमितां मिनुयात् , पितृलोक एव ऋध्नोति , अथ यं कामयेत, मनुष्यलोक ऋध्नुयादिति तस्य मध्यसंमितां मिनुयात् , मनुष्यलोक एव ऋध्नोति , अथ यं कामयेत, देवलोक ऋध्नुयादिति , तस्य चषालसंमितां मिनुयात् , देवलोक एव ऋध्नोति, तासां वा एषा समृद्धतमा या चषालसंमिता, तस्माच्चषालसंमिता मेतव्या, समृद्धत्वाय, यस्य पश्चादुपस्थः पुरस्तान् निर्णतं तं मिनुयाद् , यं कामयेत, भ्रातृव्याय लोकं कुर्याद्यजमानं निर्बाधेतेति, भ्रातृव्यायैव लोकं करोति, यजमानं निर्बाधते , अथ यस्य पुरस्तादुपस्थः पश्चान् निर्णतं तं मिनुयाद् , यं कामयेत , यजमानाय लोकं कुर्याद् भ्रातृव्यं निर्बाधेतेति, यजमानायैव लोकं करोति, भ्रातृव्यं निर्बाधते, सर्वेऽग्निष्ठाः कार्या , या अग्निष्ठा अश्रयस्ता अग्निष्ठाः कार्या, स्तेन सर्वेऽग्निष्ठा , अथ यदग्निष्ठादधि रशना विह्रियन्ते तेन सर्वेऽग्निष्ठा , नाना वा एतेषां पशवो , नाना देवता , अथ य एष द्वादशो यजमान एवैतस्य पशु , र्यदस्मै पशुं न निर्दिशेत्तत् प्रमायुको यजमानः स्यात् , यं द्विष्यात् तं ब्रूयात् ॥ असौ ते पशुः ॥ इति, तं एवास्मै पशुं निर्दिशति, प्रमायुको भवति, यद्यभिचरेत् ॥ इदमहममुमामुष्यायणं अमुष्याः पुत्रमिन्द्रवज्रेणाभिनिदधामि ॥ इत्यभिनिदध्यात् , इन्द्रवज्रेणैवैनं अभिनिदधाति, प्रमायुको भवति , अथो द्वादशस्यैवैष मासोऽवरुद्यैत् ॥