मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०६

विकिस्रोतः तः
Jump to navigation Jump to search

अध्वरादीनां त्रयाणां विधिः

4.6.1 अनुवाकः1

नवैते प्रातर्ग्रहा गृह्यन्ते , इमे वा एते गृह्यन्ते नव प्राणा , आश्विनो दशमो गृह्यते, व्यानो वा एष गृह्यते, नाभिरेव दशमो गृह्यते, तृतीयो हूयते, तृतीयो ह्ययं प्राणः, प्राणानां संतत्यै, सर्वे वा एते ग्रहाः स्तोत्रवन्तः शस्त्रवन्तो निदानवन्तो , निदानवान् भवति य एवं वेद, होता वा अद्य प्रातरुपांशुमयजत् , तेनैत उक्थवन्तो ,अथ यं होता तूष्णींशँसँ शंसति तेनैवैत उक्थवन्तो , नवैते प्रातर् ग्रहा गृह्यन्ते, नवभिर् बहिष्पवमाने स्तुवते, तैरेते सामन्वन्तो , हिंकारेणाश्विनः सामन्वान् , ऐन्द्रवायवेणैन्द्रवायवो , मैत्रावरुणेन मैत्रावरुण , ऐन्द्रेण शुक्रामन्थिनौ, वैश्वदेवेनाग्रयण , उक्थायोक्थ्यो गृह्यते , उक्थाय ध्रुवः, संतत्या ऐन्द्राग्नः, संतत्यै मरुत्वतीया , अध्वर्युर्जुहोति, होता वषट्करोति, प्राणान् वा एतत् प्रधत्तो , येन मन्त्रेणाध्वर्युः प्रयच्छति तेन होता प्रतिगृह्णाति, प्राणानां गोपीथाय, प्रजापतिर्वै स्वयं होतासीत् , सोऽताम्यत् , तं देवा द्विदेवत्यैरभ्यधावन् , प्राणा वै द्विदेवत्या , यदध्वर्युर् द्विदेवत्यान् हुत्वा क्षिप्रं होतारं अभ्याद्रवति प्राणैर्वा एतद्धोतारं अभिधिनोति, वषट्कारे वषट्कारे वै होता प्राणस्यान्तं गच्छति, प्राणा वै द्विदेवत्या , यदध्वर्युर् द्विदेवत्यान् हुत्वा क्षिप्रं होतारं अभ्याद्रवति, प्राणैर्वा एतद्धोतारं अभिधिनोति, प्राणा वै द्विदेवत्याः, पशवा इडा, यद् द्विदेवत्यानभक्षयित्वेडामुपह्वयेत पशुभिः प्राणानन्तरियात् , अथ यद् द्विदेवत्यान् भक्षयित्वेडामुपह्वयते प्राणान् वा एतदात्मन् धित्वाथ पशून् उपह्वयते , इन्द्रियं वै सोमः, पशव इन्द्रियम् , यत् सोमं भक्षयति इन्द्रियमेवात्मन्धत्ते, सर्वत आश्विनं परिहारं भक्षयति, तस्मात्सर्वा दिशः शृणोति ॥

4.6.2 अनुवाकः2

यद्वै पात्रं रिक्तमनुन्मुक्तं तदनु रक्षांसि यज्ञं अवयन्ति, यदैन्द्रवायवे पुरोडाशमवदधाति मैत्रावरुणे पयस्यामाश्विने धानां, अरिक्तत्वाय, वि वा एतद्यज्ञश्छिद्यते यत्सवनानि संतिष्ठन्ते, यदेतानि पात्राण्या तृतीयात्सवनात् परिशेरे, यज्ञस्य संतत्या अविछेदाय, वायव्यायां शस्यमानायां पात्राणि विमुञ्चति, प्राणो वै वायुः, प्राणेन यज्ञः संततः, प्राणेनैव यज्ञं संतनोति ॥ एकया च दशभिश्च स्वभूते द्वाभ्यां इष्टये विंशत्या च तिसृभिश्च वहसे त्रिंशता च नियुद्भिर्वाय इह ता विमुञ्च ॥ इत्याह, विमुक्त्या एव , अवगतं वा अध्वर्युपात्रम् , निरुद्धं प्रतिप्रस्थानं , यदि कामयेत, यो बहिस्तं ग्रामे कुर्यां, यो ग्रामे तं बहिरिति ॥ इदमहममुमामुष्यायणं अमुष्याः पुत्रममुष्या विशो निरूहामि ॥ इत्यध्वर्युपात्रं निरुह्य ॥ इदमहममुमामुष्यायणं अमुष्याः पुत्रममुष्यां विशि सादयामि ॥ इति प्रतिप्रस्थानं सादयेत् , यो बहिस्तं ग्रामे करोति यो ग्रामे तं बहि , रध्वर्युपात्रं वै यजमानस्य पात्रं , प्रतिप्रस्थानं भ्रातृव्यस्य, यदि कामयेत, समावद्वीर्यमेनं भ्रातृव्येण कुर्यामिति, प्रबाहुग् गृह्णीयातां, प्रबाहुक् सादयेतां, प्रबाहुग् जुहुयाताम् , समावद्वीर्यमेवैनं भ्रातृव्येण करोति , अध्वर्युपात्रं वै पात्रं , पापीयः प्रतिप्रस्थानं , यदि कामयेत, पापवसीयसं स्यादिति पूर्वो गृह्णीयात् , पूर्वः सादयेत् , पूर्वो जुहुयात् , एतेन वै विपूजनः सौराकिः पापवसीयसं चकार, तत्पापवसीयसं एवैतेन करोति, यज्ञस्य वै सृष्टस्य शिरोऽछिद्यत, तस्मै देवाः प्रायश्चित्तिम् ऐच्छन् , अथ वा एतौ तर्हि देवानां भिषजा आस्तामश्विना असोमपौ, ता उपाधावन् , यथा भिषजमुपधावन्येतैवमिदं यज्ञस्य शिरः प्रतिधत्तं इति, ता अब्रूताम् , भागो ना अस्त्विति, वृणाथां इत्यब्रुवन् , ता अब्रूताम् , ग्रहं नौ गृह्णन्तु, सोमपीथमश्नवावहा इति, तद्वा अश्विनौ प्रत्यधत्तां , तस्मादाश्विनीभिरभिष्टुवन्ति , अश्विनौ हि प्रत्यधत्तां , तौ वै बहिष्पवमानेनैव पावयित्वा ताभ्यां पूताभ्यां यज्ञियाभ्यां भूताभ्यां ग्रहमगृह्णन् , तस्माद् बहिष्पवमाने स्तुत आश्विनौ गृह्येते, तस्माद् ब्राह्मणेन बहिष्पवमानं अभिसृप्यम् , पवित्रं हि तत् , तस्माद् यं द्विष्यात् तं परिबाधेत, तद्वै भेषजं त्रेधा विन्यदधु , रग्नौ तॄतीयम् , ब्राह्मणे तॄतीयम् , अप्सु तॄतीयम् , तद्य एवं विद्वानग्नेरन्ते ब्राह्मणाय प्रोच्याप्सु भेषजं करोति समर्धुकं ह भवति, यावद्धि भेषजं तत् क्रियते वास्तुहानि वा एतत्पात्राणि भवन्ति, यद् ग्रहान् गृहीत्वा बहिष्पवमानं सर्पन्ति वैष्णव्य ऋचा पुनरेत्य संमृशति, विष्णुर्वै यज्ञो , विष्णुनैवैनानि यज्ञेन स्वर्गं लोकं समारोहयति ॥

4.6.3 अनुवाकः3

प्रजापतेर्वा एते चक्षुषी यच् शुक्रामन्थिनौ , असा आदित्यः शुक्र, श्चन्द्रमा मन्थी, तस्य वै प्रजापतेः सव्यं चक्षुरश्वयत् , ततो ये स्तोका अवापद्यन्त तैरिदं वर्षति , एकविंशतिर्वै तेऽवपेदु, स्तान् वायुरमुतो विसृजति, प्रजानां क्लृप्त्यै, तस्य या कनीनिका परापतत्स यवोऽभवत् , यन्मन्थिनं सक्तुभिः श्रीणाति चक्षुरेवास्य संभावयति, मिथुनं वै सोमश्च सक्तवश्च, यन्मन्थिनं सक्तुभिः श्रीणाति, मिथुनत्वाय , आर्तं वा एतत्पात्रं यन्मन्थिपात्रम् , यं द्विष्याद् ऋत्विजां तस्मै हरेत् , आर्तिम् आर्छति , षण्डामर्कौ वा असुराणां पुरोहिता आस्ताम् , तान् देवा नाशक्नुवन् हन्तुम् , ब्राह्मणवन्तो ह्यासन् , तौ देवा अपाशासु , रुप ना आवर्तेथां इति, ता अब्रूताम् , भागो ना अस्त्विति, वृणाथां इत्यब्रुवन् , ता एतौ शुक्रामन्थिना अवृणाताम् , ते देवा अमन्यन्त, यदिमा असुर्यौ सोमौ होष्याम, स्तदन्व् असुरा आभविष्यन्ति, यन् न होष्यामस्तदन्व् आभविष्यन्तीति, ता अपनुद्याथेन्द्रायाजुहुवु, स्तस्मादेता अन्यदेवत्यौ गृह्येते, अथेन्द्राय हूयेते, अपनुत्तौ षण्डामर्कौ सह तेन यं द्विष्म इति, षण्डामर्कयोरेवैनं सहापनोदेनापनुदते ॥ आयुः पाहि, प्रजां पाह्यमुष्य वीरतां पाहि ॥ इति सादयेद् , योऽस्य प्रियः स्यात्तस्य, शुक्रं वै प्रति राष्ट्रं मन्थिनं निरुद्धं मथ्यता , इति ह्येतद् राष्ट्रम् आहुर्यन् निरुद्धं भवति, यदि कामयेत, यो बहिस्तं ग्रामे कुर्यां, यो ग्रामे तं बहिरिति ॥ इदमहममुमामुष्यायणं अमुष्याः पुत्रममुष्या विशो निरूहामि ॥ इति शुक्रपात्रं निरुह्य ॥ इदमहममुमामुष्यायणं अमुष्याः पुत्रममुष्यां विशि सादयामि ॥ इति मन्थिपात्रं सादयेत् , यो बहिस्तं ग्रामे करोति, यो ग्रामे तं बहि , रार्तं वा एतत्पात्रं यन्मन्थिपात्रम् , यच् शुक्रपात्रं पुनः प्रयुज्यते तस्मादिमे समावद्वीर्ये, तस्मादाभ्यां समावत् पश्यति , असौ वा आदित्यः शुक्रश्चन्द्रमा मन्थी, यदपिधाय प्राञ्चा इतस्तस्मादेतौ प्राञ्चौ यन्तौ न पश्यन्ति , अथ यदनपिधाय प्रत्यञ्चौ तिष्ठन्तौ जुहुतस्तस्मात् प्रत्यञ्चौ यन्तौ पश्यन्ति, यदपिधाय प्राञ्चा इतस्तस्मात् पराङ् प्राणः , अथ यदनपिधाय प्रत्यञ्चौ तिष्ठन्तौ जुहुतस्तस्मात् पुनरपानो , यदपिधाय प्राञ्चा इतस्तस्मात् पराञ्चो गर्भा धीयन्ते , अथ यदनपिधाय प्रत्यञ्चौ तिष्ठन्तौ जुहुतस्तस्मात् प्रत्यञ्चः प्रजायन्ते, चक्षुषी वै शुक्रामन्थिनौ, नासिकोत्तरवेदि , र्यदङ्गुष्ठाभ्यां आक्रमेते, चक्षुषी वा एतत् प्रधत्तो, अथ यदुपरिष्टादाक्रमेते तस्मादिमे उपरिष्टाच्चक्षुषी, तुथोऽसि जनधाया , देवास्त्वा शुक्रपाः प्रणयन्त्व् इति, या अत्रीः प्रजास्तासां एष योनिः, ता एतमनुप्रजायन्ते, तुथोऽसि जनधाया , देवास्त्वा मन्थिपाः प्रणयन्त्व् इति, या आद्याः प्रजास्तासामेष योनिः, ता एतमनुप्रजायन्ते , उभयीरेव प्रजाः प्रजनयत्यत्रीश्चाद्याश्च, शुक्रमन्वारभन्ते, तेजो वै शुक्रो ब्रह्मवर्चसं , तेज एव ब्रह्मवर्चसं अन्वारभन्ते , इन्द्रेण मन्युना युजे, ति शुक्रेण परियन्ति, मन्युना वै युजेन्द्रोऽसुरानवाबाधत, मन्युना वा एतद् युजा यजमानो भ्रातृव्यमवबाधते, संजग्मानौ दिवा पृथिव्ये, त्यरत्नी संधत्ते , इमानि वा एतत् संधत्तो यत्पात्रे संदध्याताम् , नेदमन्तरा स्यात् , अथ यदरत्नी संधत्तस्तस्मादिदमन्तरा चक्षुषोर् विधृत्यै, पुमांसं गर्भमाधत्तं गवीन्योरिति, तदनु स्त्रीष्वो यजमानस्य गावो भवन्ति, वीरं पत्नी जनयति, शुक्रस्याधिष्ठानं असि, मन्थिनोऽधिष्ठानं असी, ति शकलौ प्रास्यतः, समिद्वा एषैतयो, रथो आहुतीनां प्रतिष्ठित्यै, निरस्तः षण्डो , निरस्तो मर्कः सह तेन यं द्विष्म, इति शकलौ निरस्यत , एतावांल्लोको यावदुद्धतं , यावान् एव लोकस्तस्माद्यजमानो भ्रातृव्यं निर्भजति, श्रीणन्त्यन्यान्त् सोमान्नान्यान् , तत् सोमानां मिथुनं , याञ् श्रीणन्ति ताननुवर्षति, यान् न श्रीणन्ति ताननुवीध्रति, दारुमयानि अन्यानि पात्राणि, मृन्मयानि अन्यानि, तत्पात्राणां मिथुनं , यो वै सोमस्य च पात्राणां च मिथुनं वेद मिथुना एनं पशवा उपतिष्ठन्ते ॥

4.6.4 अनुवाकः4

प्रजापतिर्वा आग्रायणः , ये देवा दिव्येकादश स्थेति , एतावन्तो वै देवा, यावन्त एव देवास्तेभ्यो गृह्यते , आग्रायणं वै गृहीत्वा देवाः स्वर्गं लोकमायन् , अपासुरा अभ्रंशन्त, ततो देवा अभवन् , परासुरास्तद्य एवं विद्वानाग्रायणं गृह्णीते, भवत्यात्मना, परास्य भ्रातृव्यो भवति, य आनुजावरः स्यात्स आग्रायणाग्रान् ग्रहान् गृह्णीत , अग्रं ह्याग्रायणः , यद्यभिचरेत् ॥

विदद्यदि सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक् कः ।

अग्रं नयत् सुपद्यक्षराणामछा रवं प्रथमा जानती गात् ॥

इति पुरोरुचं कुर्यात् , रुजति हैव , अथो वाग् वै सरमा, वाचं एवैषां वृङ्क्ते, त्सरा वा एषा यज्ञस्य, तस्माद्यत् किंच प्राचीनं आग्रायणात्तदुपांशु चरन्ति , अथ वा एतदाग्रायणं प्रति वाचं विसृजन्ते, यज्ञमेवाप्त्वा वाचं विसृजन्ते, वाग् वै देवेभ्योऽपाक्रामत् , ते देवास्तूष्णीं यज्ञमतन्वत, सा वागमन्यत , अन्तर्वै मा यज्ञाद्यन्तीति, साग्रायणं प्रति न्याद्रवत् , तस्मादाग्रायणं प्रति वाचं विसृजन्ते, हिंकृत्य वाचं विसृजन्ते, प्राणो वै हिंकारो, वाक् प्राणः, तद्वाच एवैषा युक्तिस्त्रिर् हिंकरोति, त्रेधा हीयं वाग् वदति, शनैरुच्चैरथ सूच्चै , र्यावत्येव वाक् सास्य युज्यते, त्रयो वै प्राजापत्या ऋत्विज, उद्गाता प्रस्तोता प्रतिहर्ता, ते वा अस्यैतर्ह्यवृक्ता अयुक्ता , यद्धिंकरोति तेनैवास्य ते वृत्ता युक्ता भवन्ति, वाक् च मनश्चावदेताम् , अहं श्रेयानस्म्यहं श्रेयानस्मीति, तौ प्रजापतिं प्रश्नं ऐताम् , सा वागब्रवीत् , नैव मया किं चनानभ्युदितं क्रियता इति , अथ मनोऽब्रवीत् , नैव मया किं चनानभिगतं क्रियता इति, स मनसेऽन्वब्रवीत् , सा वागब्रवीत् , अहव्यवाडेवाहं तुभ्यमसानीति, तस्मादेषा प्रजापतयेऽहव्यवाट्, तस्माद्यत् किंचोपांशु क्रियते तदाहुः कृतमेतत् क्रियता इति, प्रजापतये हि क्रियते, द्वाभ्यां धाराभ्यां प्रातःसवने गृह्णाति, तिसृभ्यो माध्यंदिने सवने, चतसृभ्यस्तृतीयसवने, तन् नव, नव प्राणा , आत्माग्रायणः, प्राणान् एवात्मन् धत्ते, वि वा एतद्यज्ञश्छिद्यते यत्सवनानि संतिष्ठन्ते, ये देवा दिव्येकादश स्थ पृथिव्यामध्येकादश स्थाप्सुक्षितो महिनैकादश स्थेति, देवताभिर्वै यज्ञः संततो , देवताभिरेव यज्ञं संतनोति, प्रजापतिर्वा आग्रायणो , यत्सर्वेषु सवनेष्वभिप्रस्कन्दयति प्रजापतिर्वा एतत् प्रजा अभिजिघ्रति, प्रजापतिर्वा आग्रायणो , यत्सर्वेषु सवनेषु गृह्णात्यात्मनैव यज्ञं संतनोति, प्रजापतिर्वा आग्रायणः , यदेषोऽतिरिच्यते तस्मात् पुरुषः पशूनां दविष्ठमेति , आग्रायणो वै गायत्र्या वत्सस्तं वा एतदा तृतीयात्सवनादभिप्रतिधावति, गायत्र्या वा एते लोके सर्वे सोमा गृह्यन्ते, तां वा एतत्सर्वाणि सवनानि अभिप्रतिधावन्ति , अथ यत् स्थाल्या गृहीतो विज्ञातस्थाल्या होष्यन्ती३ दारुमयेणा३ इति, तस्मादविज्ञातेन गर्भेण भ्रूणहा , अथ यत् स्थालीं रिञ्चन्ति न दारुमयम् तस्मात् पुमान् दायादः स्त्य्यदायात् , अथ यत् स्थालीं परास्यन्ति न दारुमयम् तस्मात् स्त्रियं जातां परास्यन्ति न पुमांसं, अथ स्त्रिय एवातिरिच्यन्ते ॥

4.6.5 अनुवाकः5

इन्द्रो वै वृत्राय वज्रं उदयच्छत्, स वज्रं उद्यतं दृष्ट्वाबिभेत् , सोऽब्रवीत् , अस्ति वा इदं त्यस्मिन्नन्तर् वीर्यम् , तत्ते प्रदास्यामि, मा मा वधीरिति, तद्वा अस्मै प्रायच्छत् , यज्ञं वा अस्मै तत् प्रायच्छत् पशून् उक्य्दमेव, यदुक्यो गृह्यते यज्ञस्य च पशूनां चावरुद्यैर् , एतावान् वै यज्ञो यावान् उक्थ्यः , अन्तः श्लेषणमेवान्ये ग्रहाः, प्लवो वा एष यज्ञस्य यदुक्थ्यः , यथा वा इदं प्लवं संनह्य प्रस्नात्येवं वा एतदुक्य्वमालभ्य प्रस्नाति, स एनं आ यज्ञस्योदृचः संपारयति , अङ्गानि वा उक्थ्यः , यज्ञस्य संतत्यै गृह्यते, तस्मै त्वा विष्णवे त्वेति, विष्णुर्वै यज्ञो , विष्णुना यज्ञः संततो , विष्णुनैव यज्ञेन यज्ञं संतनोति , एतेन वा इदं उक्थानि संततानि, तस्मात् पुरुषः स्नावभिरनुसंततः, सद आलभ्यावनयति, यज्ञं वा एतत् संतत्य संप्राप्यावनयति, चक्षुर्वै शुक्र , श्चक्षुरुक्थ्यः , चक्षुर्वा एतत् पुरस्ताद् ध्रियते , अथो यथेदं पुरस्तात् पश्चात् पश्यन्नन्वेत्येवं तत् , अथ यदेकः संस्त्रेधा क्रियते तस्मादेकः श्रेष्ठः पूर्वार्धेऽवस्यति, यदेतौ ग्रहौ भूयिष्ठाः सोमा अनु हूयन्ते, पापवसीयसस्य व्यावृत्त्यै, यदेतत्पात्रं भूयिष्ठाः सोमा अन्वायन्ति, तस्मादेकं श्रेष्ठं यन्तं बहवः पश्चादनुयन्ति, पात्राणि वा अध्वर्युं पुरो विदुह्रे , उक्थामदानि पश्चा , ऐन्द्र्या सदा उपचरति , आग्नेय्याग्नीध्रं , वैष्णव्या हविर्धानं , यथादेवतं एवैनानि उपचरति, तथा हैनं न विदुह्रे , अन्तराहवनीयं च हविर्धानं चाध्वर्योर् लोको , अन्तरा हविर्धानं च सदश्च यजमानस्य, सदः सदस्यानां , यदि कामयेत , अध्वर्युं यश ऋछेदिति , अन्तराहवनीयं च हविर्धानं चावनयेत् , सोमो वै यश , एषोऽध्वर्योर् लोको , अध्वर्युमेव यशसार्पयति, यदि कामयेत यजमानं यश ऋछेदिति , अन्तरा हविर्धानं च सदश्चावनयेत् , सोमो वै यश , एष यजमानस्य लोको , यजमानं एव यशसार्पयति, यदि कामयेत, सदस्यान् यश ऋछेदिति , अन्तः सदस्यावनयेत् , सोमो वै यश , एष सदस्यानां लोकः, सदस्यान् एव यशसार्पयति, सद आलभ्यावनयति , ऐन्द्रं वै सद , ऐन्द्राण्य् उक्थानि , उक्थानां संतत्यै , उक्थानामनपछेदाय ॥ उपयामगृहीतोऽसि, मित्रावरुणाभ्यां त्वा ॥ इति गृह्णाति प्रातःसवने मैत्रावरुणाय ॥ इन्द्राय त्वा ॥ इति ब्राह्मणाञ्शँसिने ॥ इन्द्राग्निभ्यां त्वा ॥ इत्यछावाकाय ॥ उपयामगृहीतोऽसि , इन्द्राय त्वेन्द्राय त्वा ॥ इति गृह्णाति सर्वेभ्यो माध्यंदिने सवने ॥ उपयामगृहीतोऽसि इन्द्रावरुणाभ्यां त्वा ॥ इति गृह्णाति तृतीयसवने मैत्रावरुणाय ॥ इन्द्राबृहस्पतिभ्यां त्वा ॥ इति ब्राह्मणाञ्शँसिने ॥ इन्द्राविष्णुभ्यां त्वा इत्यछावाकाय , एवमस्य यथोक्थं यथादेवतं गृहीता भवन्ति ॥

4.6.6 अनुवाकः6

आयुर्वै ध्रुव, स्तं उत्तमं गृह्णाति , उत्तमं ह्यायुः, स्थाल्या गृह्णाति , आयुषो धृत्यै, पूर्णं गृह्णाति, सर्वमायुरेति, प्राणो वै गायत्री , आयुर्ध्रुवो , यदेष आ तृतीयात्सवनात् परिशयेत् तस्माद्यावदायुस्तावान् प्राणः , आयुर्वै ध्रुवो , यदग्निष्टोमं आस्ते आयुरेवाप्त्वा निःसर्पति , आयुर्वै ध्रुवो , यत् केवलं जुहुयादायुः प्रजानां प्रदध्यात् , परिधानीयायां शस्यमानायामवनयति, स ह्यन्तो , होतुश्चमसेऽवनयति, वैश्वदेवो वै होता, वैश्वदेवीरिमाः प्रजाः, सर्वासु वा एतत् प्रजास्व् आयुर्दधाति, जनानां इत्या, हुः, सर्वासां वा एतत् प्रजानां आयुः सर्वाभ्यः प्रजाभ्यो गृह्यते , उभयतो वैश्वानरो गृह्यते , उभयतो वैश्वानरो ह्ययं प्राणः , अयं वाव वैश्वानरो योऽयमवाङ् प्राणः , यदेष केवला उत्तरे हविर्धाने साद्यते तस्मादेषोऽर्धभाक् प्राणाना, मर्धभाजा इतरे, हिरण्येऽधि सादयेदायुःकामस्य , अमृतं वै हिरण्यम् , आयुर्ध्रुवो , अमृत एवास्यायुर्दधाति , उपोप्तेऽन्ये ग्रहाः साद्यन्तेऽनुपोप्ते ध्रुव, स्तस्मादस्थ्नान्ये पशवः प्रतितिष्ठन्ति, मांसेन पुरुषः, प्राणा वा उपरवा , यदेत उपोप्ते ग्रहाः साद्यन्ते स्वे वा एतद् योनौ साद्यन्ते, पूर्वार्धे वा इमे मुखस्य प्राणा , एतत् खलु वै हविर्धानस्य पूर्वार्धं यद् दक्षिणं हविर्धानं , तस्माद् दक्षिणे हविर्धाने, प्राणा वा एत इतरे ग्रहा , आयुर्ध्रुवो , नव वै प्राणा , आयुर्दशमं , तस्मादेष दशमो गृह्यते, दशमं ह्यायू , राजपुत्रो ध्रुवं गोपायति, सर्वासां वा एतत् प्रजानामायुर्गोपायति, तस्माद् राजपुत्रो वीर्यवत्तमो, यद्यभिचरेत् ॥ इदमहममुष्यामुष्यायणस्यायुः प्रवर्तयामि ॥ इति ध्रुवं प्रवर्तयेत् , आयुरेवास्य प्रवर्तयति, यत् प्रवर्तयेत्सर्वासां प्रजानां आयुः प्रवर्तयेत् , शुक् प्रजा ऋछेत् , अवर्तिर् यजमानं गृह्णीयात् , क्षोधुकोऽध्वर्युः स्यात् , तद्व्यङ्य्श एव ॥ ध्रुवं त्वा ध्रुवक्षितिम् अमुमास्थानाच् च्यावयामि ॥ इति , आस्थानादेवैनं च्यावयति, प्रमायुको भवति, ध्रुवं वै प्रच्यवमानं विश्वा भूताऽनु प्रच्यवन्ते, प्र यजमान आस्थानाच्च्यवते, तदभिमृश्यो , दिवि दिव्यान् दृंहान्तरिक्षे अन्तरिक्ष्यान् पृथिव्यां पार्थिवान् इति, यथास्थाम वा एतत् प्रजा दृंहति, स्व आयतने यजमानं, आयुषा वा एष वीर्येण व्यृध्यते यस्य ध्रुवः स्कन्दति , आयुर् वीर्यं ध्रुव, स्तदभिमृश्यः ॥ आयुर्धा असि ध्रुवा , आयुर्मे धेहि ॥ इति , आयुरेवास्मिन् दधाति, वरो दक्षिणा, वरेणैव वरं स्पृणोति , आत्मा हि वरः, पुत्रसेनस्य ह वै भैमसेने ध्रुव उपददास, तं शृण्वानः स्थैरब्रह्मण ऋतेनैभ्यो लोकेभ्य आप्याययांचकार ॥ स्वाहा दिव आप्यायस्व ॥ इति स तृतीयं बभूव ॥ स्वाहान्तरिक्षादाप्यायस्व ॥ इति स द्विभागं बभूव ॥ स्वाहा पृथिव्या आप्यायस्व ॥ इति स पुपूरे, तद् ऋतेनैवैभ्यो लोकेभ्यो ध्रुव आप्याययितव्यो , द्वादशे स्तोत्रेऽवनयति ॥ द्वादश मासाः संवत्सरः, संवत्सरो यज्ञो , यज्ञः प्रजापतिः, प्राजापत्यः पुरुषो, यावानेव पुरुषस्तस्मिन्नायुर्दधाति, यत् स्तूयमानेऽवनयेद् गर्भाः प्रपादुकाः स्यु, र्यच् शस्यमाने युवानः प्रमीयेरन् , यच् शस्ते बहिः प्राणान् दध्यात् , सकृच् शस्तायां मध्यतोऽवनीयो , मध्यतो वा एतत् प्रजानामायुर्दधाति ॥ स्वयंभूरसि श्रेष्ठो रश्मिः प्रियो देवानां संसदनीयः ॥ तं त्वा सुभव देवा अभिसंविशन्तु ॥ आयुर्धा असि ध्रुवा , आयुर्मे धेहि ॥ इति , आयुरेवास्मिन् दधाति ॥ वर्चोधा असि ध्रुव, वर्चो मे धेहि ॥ इति वर्च एवास्मिन् दधाति ॥ इषोऽसि, त्वेषोऽसि, नृम्णोऽसि, व्रतोऽसि, दक्षोऽसि, तस्य त इषस्य त्वेषस्य नृम्णस्य व्रतस्य दक्षस्य भक्षीय, स्वस्य चारणस्य च शूद्रस्य चार्यस्य च, यथा त्वं सूर्यासि विश्वदर्शत एवमहं विश्वदर्शतो भूयासं ॥इति विश्वदर्शतो ह भवति , असौ वा आदित्यः स्वयंभूः श्रेष्ठो रश्मि , र्यथैष स्वयमभवदेवं स्वयं भवति य एवं वेद ॥

4.6.7 अनुवाकः7

अथैत ऋतुग्रहाः, संवत्सरस्य वा एते विधृत्यै गृह्यन्ते, द्वादश मासाः संवत्सर, स्तस्माद् द्वादश ऋतुग्रहा, मधुश्च माधवश्च वासन्तिका ऋतू, असन्ना हूयन्ते , असन्ना हीम ऋतवो , नान्योऽन्यम् अभिप्रपद्यते, यदन्योऽन्यमभिप्रपद्येत ऋता ऋतुरभीयात् , अथ यदन्योऽन्यः प्रपद्यते तस्मादिदं ऋता ऋतुरनुनिहिताः परिप्लवन्ते , उभयतोमुखम् ऋतुपात्रम् , उभयतोमुखा हीम ऋतवो , न वै तद्विद्म यत ऋतूनां मुखम् , सह प्रथमं गृह्णाते, सहोत्तमं , सह युज्येते सह विमुच्येते, चतुर्दश वा एतत् कुरुतो , अति वा एतद् रेचयतो , अस्ति मासस्त्रयोदश, स्तं एवैतेनाप्त्वावरुन्धे े , ऋतुभ्यो वै प्रजाः प्रजायन्ते, यत् षड् ऋतुना चतुर् ऋतुभि , र्ऋतुभ्यो वावास्मा एतच्चतुष्पदः पशून् प्रजनयतो , अथ यच्चतुर् ऋतुभिर् द्विर् ऋतुना , ऋतुभ्यो वावास्मा एतद् द्विपदः पशून् प्रजनयतो , यद् द्विर् ऋतुना, द्वौ हीमा ऋतू, अथ यद् द्वे ऋतुपात्रे, द्वौ द्वौ हीम ऋतवो , नानुयजति, वैश्वानरो वषट्कारो , यदनुयजेद् वैश्वानरम् ऋतुष्वन्ववसृजेत् , अन्धो वा इदमासीदव्यावृत्तं, अहरासीन् न रात्रि, स्तद्देवा ऋतुग्रहैर् व्यावर्तयन् , यद् ऋतुग्रहा गृह्यन्ते , अहोरात्रयोर् व्यावृत्त्यै, संवत्सरो वै स्वर्गो लोक, स्तस्य वा एत आक्रमा यद् ऋतुग्रहा, यद् ऋतुग्रहा गृह्यन्ते, स्वर्गस्य लोकस्याक्रान्त्यै ॥

4.6.8 अनुवाकः8

आदित्या वा इत उत्तमाः स्वर्गं लोकमायन् , ते वा इतः प्रतिसंहिताः पुरस्तादेवान्यत्सर्वं , संवत्सरो वै स्वर्गो लोकः, संवत्सरमेतौ कल्पयितुं प्लायेते यदध्वर्यू , यदैन्द्राग्नम् ऋतुपात्रेण गृह्णाति, संवत्सरं वा एतदन्वारभते स्वर्गाय लोकाय , अथो ज्योतिरुपरिष्टाद् दधाति स्वर्गस्य लोकस्य समष्ट्यै , असौ वा आदित्यः शुक्रः, पुरुषो वैश्वदेवो , यच् शुक्रपात्रेण वैश्वदेवं गृह्णाति तस्मात् पुरुष एवामुं प्रत्यक् , सर्वेऽन्ये न्यञ्चः पशवो , देवाश्च वा असुराश्चास्पर्धन्त, ते देवाः प्रातःसवने वैश्वदेवे यज्ञं संस्थाप्यमपश्यन् , तं प्रातःसवने समस्थापयन् , यद् वैश्वदेवः प्रातःसवने गृह्यते, प्रातःसवने वा एतद् वैश्वदेवे यज्ञं संस्थापयति, तेन संस्थितेनारिष्टेन भूतेन प्रचरन्ति, देवा वै सर्वे प्रातःसवनं अभ्यायच्छन्, नोत्तराभ्यां सवनाभ्यां अतिष्ठन्त, यद् वैश्वदेवः प्रातःसवने हूयते, प्रातःसवने वा एतद् वैश्वदेवे देवतास्तर्पयन्ति, तास्तृप्ता उत्तरे सवने अभिसृज्यमाना यन्ति, वज्रो वै मरुत्वतीया , वज्र एव प्रथमो , अपगूर्तिर् द्वितीयः, स्तृतिरुत्तमो , वज्रो वै धनु , र्धनुरेव प्रथमः, प्रतिहितिर् द्वितीयो , विसृष्टस्तृतीय , श्चक्रियौ वा एते यज्ञस्य यन्मरुत्वतीया , अक्षो मध्यमः, पक्षसी अभितो , मरुद्भिर्वै वीर्येणेन्द्रो वृत्रमहन् , न ऋते मरुद्भ्योऽशक्नोद्वीर्यं कर्तुम् , यन्मरुत्वतीयो ग्रहो गृह्यते मरुत्वतीयं शस्यते तेन माध्यंदिनं सवनं वीर्यवत् कथं सवनानि ऋतुमन्ति वेछेति(वेत्थेति) पृछेत् , ऋतुग्रहैः प्रातःसवनं ऋतुमत् , मरुत्वतीयैर्माध्यंदिनं सवनं , सावित्रेण तृतीयसवनं , मरुत्वतीययोः सन्नयोर्दक्षिणा दीयन्ते, स्वे वा एतद् योनौ दक्षिणा दीयन्ते, परिधयो वा एते यज्ञस्य यन्मरुत्वतीया, स्तस्मान्मरुत्वतीयान् दक्षिणा नातिदीयन्ते, यदतिदद्याद्यथा बहिष्परिधि स्कन्नं एवं स्यात् , यदि कामयेत विड् ओजीयसी स्यादबलीयः क्षत्रम् इति, यस्या मरुत्वतीयः पूर्वोऽर्धऋचस्तां पुरोरुचं कुर्यात् , विशँ वा एतदोजीयसीमकरबलीयः क्षत्रम् , यदि कामयेत, क्षत्रम् ओजीयः स्यादबलीयसी विड् इति, यस्या ऐन्द्रः पूर्वोऽर्धऋचस्तां पुरोरुचं कुर्यात् , क्षत्रं वा एतदोजीयोऽकरबलीयसीं विशम् , जामि वा एतद्यज्ञे क्रियते यन्मरुत्वतीयो ग्रहो गृह्यते मरुत्वतीयं शस्यते, पशवो वै मरुतो , अजामि पशव, स्तेन तदजाम्यृतुपात्रमालभ्य प्रतिगृह्णाति , ऋतवो वै मरुतः, संवत्सर ऋतवो , आयुः संवत्सर , आयुषि वा एतदध्वर्युः श्रयते, वृत्रं वा एष हन्ति यो मरुत्वतीयान् ग्रहान् गृह्णीते, माहेन्द्रे सर्वे कामाः, सर्वान् वा एतत् कामानाप्नोति सर्वान् व्यश्नोति , इन्द्रो वै वृत्रमहन् , सोऽन्यान् देवानत्यमन्यत, स महेन्द्रोऽभवत् , स एतं उद्धारम् उदहरत वृत्रं हत्वा, तदुद्धार एव , अस्यैष भाग एव, तस्माद् राजा संग्रामं जित्वोदाजं उदजते, शुक्रपात्रेण माहेन्द्रं गृह्णाति, वदन्ति ग्रावाणः , वदन्त्यौलूखला , मन्थन्याशुशिरं, इन्द्रे वा एतदग्रा आगते घोषमकुर्वता , अथो यजमान एव तेजो दधति ॥

4.6.9 अनुवाकः9

एतद्वा एषाभ्यनूक्ता ॥
अष्टौ पुत्रासो अदितेर् ये जातास्तन्वस्परि ।
देवं उप प्रैत्सप्तभिः परा मार्ताण्डमास्यत् ॥
इति , एष वाव स उपांशुसवनो ग्रावा, तस्य वा एष सोमपीथो यदादित्यं मेक्षयन्ति ॥ विवस्वन्नादित्यैष ते सोमपीथः ॥ इति सोमपीथनैवैनं समर्धयति, व्यानो वा उपांशुसवनः, प्रजा आदित्यो , व्यानं वा एतत् प्रजासु दधाति, पशवो वा आदित्यो , यद् दध्ना मध्यतः श्रीणाति, मध्यतो वा एतत् पशूनां पयो दधाति , अथ यत्तप्तातङ्क्यम् , तस्मादामा सती पक्वं दुहे, यदि कामयेत, वर्षेत् पर्जन्या इति ॥ या दिव्या वृष्टिस्तया त्वा श्रीणामि ॥ इति दध्नोपरिष्टादादित्यं श्रीणीयात् , पशवो वा आदित्यः, पशुभ्य एषोऽमुतो वर्षति, पशून् एव वृष्ट्याभिजिघर्ति, यदि कामयेत, गर्भाः श्रीव्येयुरिति , उद्गृह्यादित्यमवेक्षेत, गर्भा ह श्रेवुका भवन्ति, शुक्रवती वै पूर्वे सवने, अशुक्रं तृतीयं सवनं , यद् द्विदेवत्यानां संस्रवानवनयत्याग्रायणमभिप्रस्कन्दयति, तेन तृतीयसवनं शुक्रवत् , देवा असुरान् हत्वा मृत्योरबिभयु, स्तेनाथैषिणो न्यञ्चनैषिण एता देवता भूयिष्ठाः प्राविशन् , यद् द्विदेवत्यान् , तस्माद् द्विदेवत्येभ्य आदित्यो निर्गृह्यते, बृहतीभ्यां गृह्णाति, पशवो वै बृहतीः, प्रजा आदित्य , एतावांल्लोको यावदुद्धतं , यत् संप्रसारयित्वा गृह्णाति
लोकं वा एतदन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्ते , अथो इमा एव प्रजा अन्नाद्यायावरुन्धेात, यद्यस्य भ्रातृव्यो यजेत बहिर्वेदि तिष्ठेत् , तथा हैनं नावरुन्धेपत , पशवो वा आदित्यो , अग्नी रुद्रो , अग्नेरेतास्तन्वो यद्धिष्याति , यत् संप्रसारयित्वा गृह्णाति रुद्राद्वा एतत् पशूनन्तर्दधाति , अपिधायोप निष्क्रामति, पशूनां गोपीथाय , आदित्यो वै द्विदेवत्यानामनुयाज, स्तस्मात्तान्नानुयजति, द्विदेवत्या वा आदित्यस्य प्रयाजा, स्तस्मात्तान्नानुयजति,
पशवो वा आदित्यो , अग्नी रुद्रो , ब्राह्मण उपद्रष्टा, यदीक्षमाणो जुहुयात् प्रधीयमानानां एषामुपद्रष्टा स्यात् , अन्यत्रेक्षमाणेन होतव्यं, अनूपद्रष्टैषां भवति ॥
इति खिलकाण्डे षष्ठः प्रपाठकः॥