मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०५

विकिस्रोतः तः
Jump to navigation Jump to search

अध्वरादीनां त्रयाणां विधिः

4.5.1 अनुवाकः1

अपो वै वृत्रः पर्यशयत्, ततो या अत्यमुच्यन्त ता जीवा यज्ञिया , गिरिर्वै वृत्रो या अतिमुमुचाना धावन्ति ता जीवा यज्ञिया, यद्वहन्तीनां गृह्णाति या एव जीवा यज्ञियास्तासां एव गृह्णाति, प्रतीपमुपमारयति अछम्बट्काराय, सूर्यस्यावकाशे गृह्णाति, सेन्द्रा एव गृह्णाति, हविष्मतीरिमा आपा इति, हविष्मतीरेव गृह्णाति , आविःसूर्ये गृह्या , उत्तरं एव यज्ञक्रतुमभिगृह्णाति , अनुष्टुभा गृह्णाति , अनुष्टुब् वै सर्वाणि छन्दांसि, सर्वैरेवैनाश्छन्दोभिर्गृह्णाति, वर्ष्म वा एषा छन्दसां , वर्ष्मैनं समानानां गमयति, चतुर्भिर्गृह्णाति त्रिभिः सादयति, तत्सप्त, सप्तपदा शक्वरी, शाक्वराः पशवः, पशून् एवावरुन्धेना , अपो वै रात्रिर् दिवा भूते प्रविशति, तस्मादापो दिवा कृष्णा , अपोऽहर्नक्तं , तस्मादापो नक्तं शुक्ला , यद्दिवा गृह्णाति उभे एवाहोरात्रे गृह्णाति, दिवा वै मनुष्या यज्ञेन चरन्ति, नक्तं देवा, स्तस्माद् रात्रिभिः श्रवस्यते, संस्थाप्य वै मनुष्या यज्ञं निःपद्यन्ता , आपः खलु वै विश्वे देवा, यदपः परिहरन्ति , अद्भ्यो वा एतद्यज्ञं संप्रादात् , अन्यस्तेऽस्य यज्ञे क्रियते, यद्वै यज्ञस्यान्तर्यन्ति तच् छिद्रम् , तदनु रक्षांसि यज्ञं अवयन्ति , आपो वै रक्षोघ्नी , अपो रक्षांसि न तरन्ति, यदपः परिहरन्ति रक्षसामनन्ववायाय, या दिवा गृह्णाति या अत्रीः प्रजास्तासां एता योनिः, ता एता अनुप्रजायन्ते, या नक्तं गृह्णाति या आद्याः प्रजास्तासां एता योनिः, ता एता अनुप्रजायन्ते , उभयीरेव प्रजाः प्रजनयत्यत्रीश्चाद्याश्च , आग्नीध्रे सादयति , एतद्वा अनभिजितं, अथो अत्र हि तां रात्रिं देवता उपवसन्ति, देवा वै यज्ञस्य श्वस्तनं नापश्यन् , ते वा एतदेव यज्ञस्य श्वस्तनं अपश्यन् यद्वसतीवरी , र्यद्वसतीवरीर्गृहीत्वोपवसन्ति श्वस्तनं वा एतद्यज्ञस्यालभ्योपवसन्ति , अथो आपो वै विश्वे देवाः, सर्वा वा एतद्देवता आलभ्योपवसन्ति, यस्यागृहीताः सूर्योऽभिनिम्रोचेद्य आहिताग्निः सोमयाजी तस्य कुम्भाद् गृह्या, स्तस्य हि गृहीता अग्निम् उपरिष्टाद् धारयेयु , रथ गृह्णीयात् , ज्योतिष्मतीरेवैना गृह्णाति, हिरण्यं हस्ते भवति , अथ गृह्णाति, सत्यं वै हिरण्यम् , सत्येनैवैना गृह्णाति, वरो दक्षिणा, वरेणैवैना गृह्णाति, यत्तत्र धनं अदास्यन्त् स्यात्तद्देयम् ॥

4.5.2 अनुवाकः2

प्रचरण्यामग्रे गृह्णाति , एषा ह्यग्रे प्रचरति , अपो वै सोमस्य रसः प्रविष्टो , अग्निः सर्वा देवता , वैश्वदेवीरापो , यज्ञमुखं ग्रावाणः, सवितृप्रसूतो वा एतत्सर्वाभिर्देवताभिरपां सोमस्य रसं अच्छैति, शृणोत्वग्निः समिधा हवं मा इति, यस्मिन्न् एवाग्नौ जुहोति तं एतदाह, शृण्वन्व्ो आपा इति, या एवापोऽच्छैति ता एतदाह, धिषणा च देवीति, वाग् वै धिषणा देवी, वाचं वा एतदाह, शृणोत ग्रावाणो विदुषो नु यज्ञं इति यज्ञमुखं हि ग्रावाणः, शृणोतु देवः सविता हवं मा, इत्याह, प्रसूत्या एव ॥ अप इष्य होतः ॥ इति यज्ञं प्रेष्ये, ति वा एतदाह ॥ प्र ब्रह्मणा इति, ब्रह्मणैव यज्ञं अच्छैति, मैत्रावरुणस्य चमसेनाच्छैति , एष ह्यग्रे प्रचरति , अथो मित्रावरुणौ ह्यपाम् ईशाते, यज्ञमुखं वै मित्रावरुणौ, यज्ञमुखमापो , यज्ञमुखेनैव यज्ञमुखमच्छैति, यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृणुयात्तदपोऽध्वर्युर्गृह्णीयात् , यन् नोपशृणुयाद् बधिरः स्यात् , वाचो हि छिद्यते , अथ यज्जुहोति हविर्भूता एवैना गृह्णाति , अथो अभिघृता एव तॄणं प्रास्य जुहोति , अग्निमत्येव जुहोत्या, यतनवति अन्धोऽध्वर्युः स्याद्, यदनायतने जुहुयात् , घृतं वै देवा वज्रं कृत्वा सोमं अघ्नन् , अभि खलु वा एता घारयन्ति, तस्मादाहुतिम् अपप्लावयति , अथो आहुतिं नेद्धराणीति, कार्य्,सीत्या, हुतिम् अपप्लावयति, समुद्रस्य वोऽक्षित्या उन्नया, इत्य् उपसारयति(उपमारयति) , अपामेवाक्षित्यै , अपो वै सोमस्य रसः प्रविष्टः, सोममपां रसो , अपाच्च खलु वै नपाच् चापां सोमस्य रसस्येशाते, तौ वा एतदाहुत्या भागधेयेनापां सोमस्य रसं निरयाचिष्ट , उभे अहोरात्रे वसतीवरीषु ग्रहीतव्ये इत्याहुः, पूर्वेद्युरन्या गृह्णाति, पुरान्याः सूर्यस्योदेतो, स्तथास्योभे अहोरात्रे वसतीवरीषु गृहीते भवतः, पूर्वेद्युरन्या गृह्णाति पुरान्याः सूर्यस्योदेतो , रुभयीरेवैनाः सद्योगृहीता अकर् , भ्रातृव्या वा एता गृह्यन्ते या मैत्रावरुणस्य चमसे याश्च निग्राभ्या, स्ता उभयीरुपरिष्टाच् चात्वालस्य समनक्ति, संज्ञानं आभ्यः करोति, मित्रमाभ्यो ददाति, चात्वालान् निर्गृह्यन्ते , एष वा अपां योनिः, स्वादेव योनेर् निर्गृह्यन्ते अस्कन्नत्वाय ॥ अवेरपोऽध्वर्या३ ओम् ॥ इति , अविदो यज्ञा३म् इति वा एतदाह ॥ उतेमनम्नमु , रुतेमं पश्य ॥ अयं मे रद्ध , इति वा एतदाह, यद्यग्निष्टोमो जुहोति, न वा अग्निमग्निष्टोमस्य स्तोत्रेण न शस्त्रेणातियन्ति , अग्निष्टोमं एव यज्ञक्रतुमनुसंतनोति, यद्युक्यःत् परिधिमनक्ति, परे वा अग्नेः परिधयः, पराणि परिधिभ्य उक्थानि , उक्थानि एव यज्ञक्रतुमनुसंतनोति, यद्यतिरात्र, एतदेव यजुर्वदन् हविर्धानं प्रपद्येत, परं वै परिधिभ्यो हविर्धानं , परोक्थेभ्यो रात्री, रात्रीमेव यज्ञक्रतुमनुसंतनोति, स्तेनं मनो , अनृतवादिनी वाक् , अथ केन सोमा गृह्यन्ते केन हूयन्ता, इति पृछेत् , ऋतं वै सत्यं हिरण्यम् , ऋतेनैव सत्येन गृह्यन्त, ऋतेन हूयन्ते ॥

4.5.3 अनुवाकः3

देवेभ्यो वै मनुष्येभ्यः स्वर्गाय लोकाय यज्ञ आह्रियते, यद्धृदे त्वेति, तेन देवेभ्यो , यन्मनसे त्वेति, तेन मनुष्येभ्यो , यदाह, दिवे त्वा सूर्याय त्वेति, तदनु यज्ञं स्वर्गं लोकं समारोहयति, वि वा एतद्यज्ञश्छिद्यते यस्मै कमाह्रियते, तद्ये, नं अनु स्वर्गं लोकं समारोहयति, यदाह, दिवि देवेषु होत्रा यच्छेति, होत्राभिर्वै यज्ञः संततो , होत्राभिरेव यज्ञं संतनोति ॥ देवेभ्यः प्रातर्यावभ्योऽनुब्रूहि ॥ इति, छन्दांसि वै देवाः प्रातर्यावाणः , छन्दोभ्यो वा एतदनुवाच आह, पुरा वाचः प्रवदितोः प्रातरनुवाकमन्वाह, यजमानायैव वाचं गृह्णाति, न वा एतर्हि यजमानो हस्ता अवनेनिक्ते, यदप्सुमतीं प्रथमामन्वाह, प्रातरवनेगो वा एष यजमानस्य, यत्र वा अदोऽपः परिहरन्त्यद्भ्यो वा एतद्यज्ञं संप्रादात् , यदप्सुमतीं प्रथमामन्वाह , अद्भ्यो वा एतद्यज्ञं पुनरालभते, सर्वेषां वै देवानां प्रातरनुवाक , आपः खलु वै विश्वे देवा, यदप्सुमतीं प्रथमामन्वाह सर्वा वा एतद्देवता आप्नोति सर्वा व्यश्नोति, यथा वै सामिधेनीर् एवं प्रातरनुवाक , आसाद्य वै हविः सामिधेनीरन्वाहु , रेतत् खलु वा एतर्हि हविर्यत् सोम, स्तस्मात् सोमं उपावहृत्यान्वाह, गायत्रीं च संपादयति जगतीं च, तद् द्वे छन्दसी, एकं छन्दोऽभिसंपादयति बृहतीम् , त्रिष्टुभं च ककुभं च, तद् द्वे छन्दसी, एकं छन्दोऽभिसंपादयति बृहतीम् , अनुष्टुभं च पङ्क्तिं च, तत् षट् छन्दांसि , एकं छन्दोऽभिसंपादयति बृहतीम्, अनुष्टुप्प्रतिपत्कानि छन्दांसि कुर्याद्यज्ञावकीर्णस्य, वाग् वा अनुष्टुब्, वाचैवैनं भिषज्यति, समया त्रिष्टुभं च जगतीं चानुब्रूयात् पशुकामस्य, पशवो वै जगती, पशुमान् भवति, सर्वाणि छन्दांस्यन्वाह, प्रजापतिर्वै छन्दांसि, प्रजापतिमेवाप्नोति, प्रजापतेर्वा एतदुक्थं यत् प्रातरनुवाको , व्युष्टायां पुरा सूर्यस्योदेतोरनुब्रूयात् , एष हि प्रजापतेर् लोकः, पवित्रं वै प्रातरनुवाको , यजमानं एवैतेन पुनाति, शतमनुब्रूयादायुःकामस्य, शतायुर्वै पुरुषः शतवीर्यो , आयुरेव वीर्यमाप्नोति, सप्त च शतानि विंशतिं चानुब्रूयात् पशुकामस्य ,
एतावन्ति वै संवत्सरस्याहोरात्राणि, संवत्सरेणैवास्मै पशूनवरुन्धेए्, सहस्रमनुब्रूयात् स्वर्गकामस्य, यावद्वै सहस्रं तावदितोऽसौ लोकः, स्वर्गस्य लोकस्य समष्ट्यै , अपरिमिता अन्वाह , अपरिमितस्यावरुद्यैपश, पङ्क्त्या परिदधाति , उत्तरं एव यज्ञक्रतुमभिगृह्णाति ॥

4.5.4 अनुवाकः4

यज्ञस्य वा एताः पन्नेजनीः, पुंसामग्नीत्, स्त्रीणां नेष्टा, यदग्नीन् नेष्टुरुपस्थमासीदति, मिथुनं वा एतत् संभवतो , यत्तर्ह्यप उपप्रवर्तयति तस्मिन्न् एव मिथुने रेतो दधाति, पत्नि उपप्रवर्तयति, पत्न्या हि प्रजाः प्रजायन्ते , ऊरुणोपप्रवर्तयति , ऊरुं ह्यनु प्रजाः प्रजायन्ते, दक्षिणेनोरुणोपप्रवर्तयति, दक्षिणं ह्य् ऊरुमनु प्रजाः प्रजायन्ते , अन्तरत उपप्रवर्तयति , अन्तरतो हि प्रजाः प्रजायन्ते, यद् दक्षिणा प्रवर्तयेत् पितृलोक एना निधुवेत् , अथ यदुदीचीरुपप्रवर्तयति मनुष्यलोकं एवैना उपप्रजनयति, प्राजापत्यो वा उद्गाता, संक्शाप्यमानो वा उद्गाता पत्न्या रेता आदत्ते, यदाह, वामी ते संदृशि विश्वं रेतो धेषीयेति, तथा ह नादत्ते, द्वादशे स्तोत्र उपप्रवर्तयति, द्वादश मासाः संवत्सरो , द्वादशाग्निष्टोमे स्तोत्राणि , आपः शान्ति , र्यत्तर्ह्यप उपप्रवर्तयति, शमयत्येव, देवस्य त्वा सवितुः प्रसव इति, सवितॄप्रसूत एवैनं आदत्ते , अश्विनोर्बाहुभ्यां इति , अश्विनौ वै देवानामध्वर्यू, पूष्णो हस्ताभ्यां इति, देवताभिरेव, ग्रावासीति, राते ह्येष देवेभ्यः सोमं, अध्वरकृद्देवेभ्यो इति , अध्वरं ह्येष देवेभ्यः करोति , इन्द्राय त्वा सुषुत्तमं मधुमन्तं पयस्वन्तमिति , ऐन्द्रो हि यज्ञो , इन्द्रं खलु वा एतर्ह्यन्या देवता अनु , इन्द्राय त्वा वसुमते रुद्रवता इति, वसवश्च ह्येनं एतर्हि रुद्राश्चानु , इन्द्राय त्वादित्यवता इति , आदित्या ह्येनं एतर्ह्यनु , अग्नये त्वा रायस्पोषद इति , अग्निर्वै सर्वा देवता, एता ह्येनं एतर्हि देवता अनु, विष्णवे त्वेति, विष्णुर् हि यज्ञो , व्यानो वा उपांशुसवनः, प्रजा अंशवो , व्यानं वा एतत् प्रजासु दधाति, श्वात्राः स्थ वृत्रतुरा इति , एष वा अपां सोमपीथ, एतं वै विश्वामित्रोऽपां सोमपीथं विदांचकार, तस्मै सिन्धवो धोक्षमनमन्त , अपां वा एष सोमपीथो , अपो वा एतत् सोमपीथेन समर्धयति, यो वा अपां सोमपीथं वेद न ह वा आस्व् आर्तिम् आर्छति करोत्यासु वीर्यम् , यत्ते सोम दिवि ज्योतिरिति, सोमो वै वाज, स्तस्य चन्द्रमास्तृतीयम्, अयं यः पवते स तृतीयम् , येन यजन्ते स तृतीयम् , गर्भानमुना दाधार, प्राणाननेन यच्छति , अयं यः पवतेऽन्नमनेन दाधार, येन यजन्ते तस्य वै वाजस्य सत्यं वाजिनं, अन्नं वाजिनं , दक्षिणा वाजिनं , ता वा अस्यैतत्तन्वः संभृत्य तं सर्वं सतनुं भूतमाप्याययन्ति, वज्रो वै ग्रावा, हनू अधिषवणे, क्रूरमिव वा एतद्यज्ञे क्रियते, यदाह, धिषणे ईडिते ईडेथां इति, शमयत्येव ॥

4.5.5 अनुवाकः5

वसतीवरीभिः सोमं आप्याययन्ति, न हि सोमेन सोम आप्यायते , अद्भिर् हि सोम आप्यायते, निग्राभ्याभिरुपांशुम्, अतो हीतरे सोमा गृह्यन्ते, प्राणो वा उपांशु , रङ्गानीतरे ग्रहा , यदन्यत आप्याययेयुः प्राणेन यज्ञं विछिन्द्यु , रष्टौ कृत्वः प्रातरभिषुणोति , अष्टाक्षरा गायत्री, गायत्रीँ वा एतत् प्रातःसवने व्यायातयन्ति, देवाश्च वा असुराश्चास्पर्धन्त, ते देवा उपांशौ यज्ञं संस्थाप्यमपश्यन् , तं उपांशौ समस्थापयन् , तदुपांशा एव यज्ञः संस्थाप्यो , अष्टौ कृत्वः प्रातरभिषुणोति , अष्टाक्षरा गायत्री, गायत्रीमेवाप्नोति, यदेकादश, त्रिष्टुभं तेन, यद् द्वादश, जगतीं तेन, त्रिर्विगृह्णाति, त्रीणि वै सवनानि, सवनानि एवाप्नोति , एतद्वा उपांशौ यज्ञं समतिष्ठिपन् , तेन संस्थितेनारिष्टेन भूतेन प्रचरन्ति, त्रिर्विगृह्णाति, त्रयो हीमे प्राणाः, प्राणोऽपानो व्यानो, अथो त्रयो वा इमे लोका , इमान् एव लोकानाप्नोति , असौ वा उपांशुरन्तरिक्षमन्तर्याम , इयम् उपयामो , यदुपयामगृहीता गृह्यन्ते अनया वा एतद् गृह्यन्ते, तदस्कन्ना वा एते , अनया हि गृह्यन्ते, यत् स्थाल्या गृह्यन्ते , अनया वा एतद् गृह्यन्ते , अस्या वा एषाधिक्रियते, तदस्कन्ना वा एते , अनया हि गृह्यन्ते, यद् दारुमयेण गृह्यन्ते , अनया वा एतद् गृह्यन्ते , इयं हि वनस्पतीनां योनिः, तदस्कन्ना वा एते , अनया हि गृह्यन्ते , एष ते योनि, रिति सादयति , इयं वै सोमस्य योनिः , अस्याः सोमोऽधि जायते, स्व एवैनं योनौ दधाति , इयं वै देवपात्रम् , तद्य एवं वेद प्र वसीयसः पात्रं आप्नोति, ब्राह्मणं तु पात्रे न मीमांसेत यः पात्रिय इव स्यात् , अनुपयामगृहीतो गृह्यते , अनुपयामगृहीतं हि प्रजाः प्राणं उपजीवन्ति , अपवित्रपूतो गृह्यते , अपवित्रपूतं हि प्रजाः प्राणं उपजीवन्ति , असन्नो हूयते , असन्नं हि प्रजाः प्राणं उपजीवन्ति, पवित्रपूता वा अन्ये सोमा, अथ वा एष वाक्पूतो यदुपांशु, स्तस्माद्वाचस्पतये पवस्वे, त्याह, वाक्पूतो ह्येषो , अंशुभिः पावयति, प्राणा वा अंशवः, प्राणैरेवैनं पावयति, द्वाभ्यां द्वाभ्यां पावयति, द्वौ द्वौ हीमे प्राणा , देवो देवानां पवित्रं असीति, यत् स्वित् सोमं सोमेन पुनाति, स्वांकृतोऽसीति, प्राणमेव स्वमकृत, मनस्त्वाष्ट्विति, मनसैव प्राणमाप्नोति, स्वाहा त्वा सुभव सूर्यायेति, सूर्यदेवत्या हि सर्वे सोमा हूयन्ते , अथो अत्र वै देवानां प्रियास्तन्व, स्ता एवावरुन्धेकृ, देवेभ्यस्त्वा मरीचिपेभ्या इति, रश्मयो वै देवा मरीचिपाः, परिधयो रश्मयो , असा आदित्य आहवनीय, स्तान् एव प्रीणाति , ऊर्ध्वस्तिष्ठन् जुहोति , ऊर्ध्वो हि तिष्ठन् वीर्यवत्तरो, यं द्विष्यात्तस्य जिह्मस्तिष्ठन् जुहुयात् , प्राणानस्य व्लिनाति, विह्वारुको भवति, यद्यभिचरेदा तमितोस्तिष्ठेत् , अग्निराहुतिम् अभित्वरमाणस्ताजगनुगच्छति, यदि कामयेत, वर्षेत् पर्जन्या, इति परिमृज्योर्ध्वम् उन्मृज्यात् , ओषधीभ्यो वा एषोऽमुतो वर्षति , ओषधीरेव नेदीयो वृष्ट्या अकर्, यदि कामयेत, वर्षेत् पर्जन्या, इति परिमृज्यावाचीनं अवमृज्यात् , वैश्वानरेणैव वृष्टिमपि हन्ति, नापिधेयो , यदपिदध्यात् प्राणमस्यापिदध्यात् , प्रमायुकः स्यात् , यं द्विष्यात्तस्यापिदध्यात् , प्राणमेवास्यापिदधाति, यद्यभिचरेत् ॥ इदमहममुष्यामुष्यायणस्य प्राणमपिदधामि ॥ इत्यपिदध्यात् , प्राणमेवास्यापिदधाति ॥ इदमहममुष्यामुष्यायणस्य प्राणे सादयामि ॥ इत्यभिचरन्त् सादयेत् , प्राण एवास्य सादयति, प्रमायुको भवति, प्राणाय त्वेत्यनभिचरन्सा दयेत् ॥

4.5.6 अनुवाकः6

पवित्रं वितन्वन्ति प्राणापानयोर्विधृत्यै , उपयामगृहीतो गृह्यते , अपानेन वै प्राणो धृतः, प्राणस्य धृत्यै , अन्तरिक्षं वा अन्तर्यामो , अन्तरिक्षम् इमाः प्रजा , यदेतद् पात्रं सूदवत् सादयति प्रजास्व् एव रसं दधाति, देवाश्च वा असुराश्चास्पर्धन्त, ते देवा उपांशुमपश्यन् , तमगृह्णत, तं पुरा स्तोत्रात् पुरा शस्त्राद्धोतुमुपोदतिष्ठन् , तेऽसुरा अचिकयु , र्जुह्वति वा इति, ते वज्रं आदायाभ्यपतन् , ते देवा अन्तर्यामं अपश्यन् , तमगृह्णत, तेनासुरान् एभ्यो लोकेभ्योऽन्तरदधत, ततो देवा अभवन् , परासुरा, स्तद्य एवं विद्वानन्तर्यामं गृह्णीते, ऽन्तर्यामेनैव भ्रातृव्यं एभ्यो लोकेभ्योऽन्तर्धत्ते, भवत्यात्मना, परास्य भ्रातृव्यो भवति, प्राणापानौ वा उपांश्वन्तर्यामौ, व्यान उपांशुसवनो , यदेष ग्रावान्तरैते पात्रे साद्यते, प्राणापानयोर्विधृत्यै, यो वा एता ईजते, येनैतौ विधृता एष वाव स उपांशुसवनो ग्रावा, प्राणापानौ वा उपांश्वन्तर्यामौ, व्यान उपांशुसवनो , यदेते पात्रे एतं ग्रावाणमा तृतीयात्सवनान् न जहीतस्तस्मात् सुप्तस्य सर्वाण्यन्यानि श्रोत्राण्यपक्रामन्ति प्राणापानौ त्वेनं न जहीतो , अथ यत् पुनरर्दयति, तस्मात् सुप्त्वा पुनः प्रबुध्यन्ते, प्राणापानौ वा उपांश्वन्तर्यामौ, व्यान उपांशुसवनो , यदेते पात्रे एतं ग्रावाणमा तृतीयात्सवनान् न जहीतो तस्मात् पक्षिणो वियत्य पक्षान् ईरयन्तो नावपद्यन्ते , अथ यत् पुनरर्दयति तस्मात् पुनरभ्यायुवते, प्राणापानौ वा उपांश्वन्तर्यामौ, व्यान उपांशुसवनो , यदेते पात्रे पुनः प्रयुज्येते तस्मादिमौ द्वा अधस्तात् प्राणौ, घ्नन्ति वा एतत् सोमं यदभिषुण्वन्ति , अध्वर्युः प्रथमोऽभिषुणोति, व्यर्धुको भवति, यत्र मूलं तदभिषुत्य , एतद्वा अस्य विदेवतमं , तथा हाव्यर्धुको ह भवति, यो वै देवक्षेत्रं विद्वांसमर्पयत्यार्तिम् आर्च्छति, पात्राणि वाव देवक्षेत्रम् , यत्र वा अग्रेऽध्वर्युः सोमं जुहोति तदेनं देवताः प्रत्यासते , इह नो परमा ह रिष्यतीति, यत्ततोऽन्यत्र जुहुयाद्यदस्य स्वं तदन्येभ्यः प्रयछेत् , अस्वो ह भवति , एतद्वा अध्वर्योः स्वं यदाश्रावयति, यदाश्राव्याहुत्वा प्रच्यवेत यदस्य स्वं तस्मात् प्रच्यवेत , अस्वो ह भवति , एतद्वा अध्वर्योः स्वं यद्वायव्यं , यद्वायव्यमनालभ्याश्रावयेद्यदस्य स्वं तस्माच् छिद्येत , अस्वो ह भवति, तद्य एवं विद्वानाश्राव्य हुत्वा वाहुत्वा वा प्रच्यवते बह्वस्य स्वं भवति, न स्वाच् छिद्यते, वायव्यमालभ्याश्रावयति, स्ववान् एव भवति ॥

4.5.7 अनुवाकः7

ब्रह्मवादिनो वदन्ति, किं तद्यज्ञे क्रियते यस्माद्धस्तादाना अन्ये पशवो मुखादाना अन्य इति, यदुपांशुर्हस्तेन गृह्यते तस्मान्मर्कटः पुरुषो हस्ती ते हस्तादाना, मुखं वै वायव्यं यद्वायव्ये नेतरे ग्रहा गृह्यन्ते तस्मादितरे पशवो मुखादाना, ब्रह्मवादिनो वदन्ति, किं तद्यज्ञे क्रियते यस्मात्सद्यो जाताः पशवः प्रतितिष्ठन्ति संवत्सरे पुरुषा इति , उपांश्वन्तर्यामौ वा अन्व् अन्ये पशवः, पुरुषस्त्वै यज्ञेन संमितः, प्राणापानौ वा उपांश्वन्तर्यामौ, यदेतौ ग्रहा असन्नौ हूयेते तस्मात्सद्यो जाताः पशवः प्रतितिष्ठन्ति, संवत्सरो वा अग्निष्टोमो , द्वादश मासाः संवत्सरो , यदेत इतरे ग्रहाः साद्यन्ते तस्मात् पुरुषो जातः संवत्सरे प्रतितिष्ठति, यत्ते सोमादाभ्यं नाम जागृवीति , एष वै सोमस्य सोमपीथः, सोमं वा एतत् सोमपीथेन समर्धयति, यो वै सोमस्य सोमपीथं वेद न सोमपीथाच् छिद्यते, सोमो वा इमा दिशोऽभ्यकामयत, प्रागपागधरागुदग् इति , आभिर् एनं दिग्भिः समूहति , आभिः समर्धयति, कामं एनं गमयति, कामं ह गच्छति, कामुका एनं स्त्रियो भवन्ति, यां कामयेत तां तर्हि मनसा ध्यायेत् , सा हैनं कामयते , अम्ब निस्मरेति, स्मरे, ति वा एतदाह, समरिर्विदामिति, समनेन वित्स्वे, ति वा एतदाह, चत्वारो वै पृश्नेः स्तना आसन् , ततो त्रिभिर्देवेभ्योऽदुहत् कुशीभिरेकोऽनुनद्ध आसीत् , तं वा इन्द्र एवापश्यत् , तेनेन्द्रायैवादुहत्, तद्वा अस्य कौशिकत्वं , यदाह ॥ ब्राह्मण कौशिका इव ॥ इति चतुर् निग्राभमुपैति, चत्वारि वै पयांसि, यावदेव पयस्तदाप्नोति, त्रिः संभरति, तस्मादेतस्यां त्रयो भागाः प्रातर्मध्यंदिने सायम् , चतुर् निग्राभमुपैति, त्रिः संभरति, तत्सप्त, सप्तपदा शक्वरी, शाक्वराः पशवः, पशून् एवावरुन्धेमु, नव कृत्वो निग्राभमुपैति, त्रिः संभरति, तद् द्वादश, द्वादश मासाः संवत्सरो , द्वादशाग्निष्टोमे स्तोत्राणि , एषा यज्ञस्य मात्रा, स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत् , तस्य देवास्तमोऽपाघ्नन् , यत् प्रथमं तमोऽपाघ्नन्सारोविः कृष्णाभवत् , यद् द्वितीयं सा लोहिनी, यत् तृतीयं सा बलक्षी, स स्वेन रूपेण निरमुच्यत, यद् बलक्षः पवित्रं भवति ततः शुक्रो गृह्यते, यजमानस्य वा एतत् पवित्रं , यजमानं एवैतेन पुनाति , अमोतं स्यात् , आत्मन एवैनदकृत, यदन्यत्रोतमपवित्रं , तद्यजमानस्य ॥

4.5.8 अनुवाकः8

वाग् वा ऐन्द्रवायवः, सा वै वाग् एकधावदद्यावदव्यावृत्तासीत् , स इन्द्रोऽब्रवीत् , मह्यमत्रापि सोमं गृह्णीताहं व एतां वाचं व्यावर्तयिष्यामीति स वै वाचैव वाचं व्यावर्तयत् , यदैन्द्रवायवो गृह्यते, वाचो व्यावृत्त्यै, वायवे प्रथमं गृह्णाति, वायव उत्तमं, मध्यत इन्द्राय , इन्द्रियेण वा इयं वाङ् मध्यतो विधृता , इन्द्रियवतीं वाचं वदति य एवं वेद, देवा वै सोमं अजिघांसन् , तं नाशक्नुवन् हन्तुम् , वायुर् ह्यस्मिन्नन्तरासीत् प्राण, स्तं देवा अपाशासु , रुप ना आवर्तस्वेति, सोऽब्रवीत् , भागो मेऽस्त्विति, वृणीष्वे, त्यब्रुवन् , सोऽब्रवीत् , मद्देवत्यानि एव पात्राण्यासन्न् इति, तस्मादपतुरीयं वायोः पात्रं, अथ वायव्यानि उच्यन्ते, ततो वै देवाः सोमं अघ्नन् , स हतोऽपूयत् , तस्माद्देवा उदबीभत्सन्त, स वायुरब्रवीत् , अहं व एतं सोमं स्वदयिष्यामि, भागो मेऽस्त्विति, वृणीष्वे, त्यब्रुवन् , सोऽब्रवीत् , मदग्रा एव ग्रहा गृह्यान्ता इति, तं वायुर्मध्यतो व्यवाट् , तमस्वद्यत् , तस्माद्वाय्वग्रा ग्रहा गृह्यन्ते, तस्मादु शुक्तं प्रवाते विषजन्ति, देवा वै प्रातःसवनं उद्यमं नाशक्नुवन् , तृतीयसवने तर्हि वायुरासीत् , तं देवाः प्रातःसवनं अभिपर्यौहन् , तेन प्रातःसवनं उदयच्छन्त, यदैन्द्रवायवः प्रातःसवने गृह्यते, प्राणो वै वायुः, प्राणेन वा एतन् मुखतो यज्ञं उद्यच्छन्ते, देवा वै वृत्रमजिघांसन् , स मित्रोऽब्रवीत् , मित्रोऽहमस्मि, नाहं हनिष्यामीति, तेऽब्रुवन् , जह्येवेति, सोऽब्रवीत् , भागो मेऽस्त्विति, वृणीष्वे, त्यब्रुवन् , सोऽब्रवीत् , पयसैव मे सोमं श्रीणानिति, तस्मात् पशवोऽपाक्रामन् , मित्रः सन्नद्रुहा इति, पशूनां हि पयो यन् मैत्रावरुणं पयसा श्रीणाति, पशुभिरेवैनं सम्यञ्चं दधाति यन् मैत्रावरुणं पयसा श्रीणाति, द्विदेवत्यत्वाय, यच् शीतं तेन मैत्रम् , यत्तप्तं तेन वारुणं , ब्रह्म वै मित्रः, क्षत्रं वरुणः , ब्रह्मणि च वा एतत् क्षत्रे च पयो दधाति, तस्माद् ब्रह्म च क्षत्रं च पयस्वितमे, पञ्च वै ब्राह्मणस्य देवता अग्निः सोमः सविता बृहस्पतिः सरस्वती, तस्माद् ब्राह्मणमन्ये मनुष्या उपधावन्ति , एतस्य हि भूयिष्ठा देवता, स्तासां तिस्रोऽवान्तरं श्रोत्रियस्या, ऽग्निर्बृहस्पतिः सरस्वती, तस्माच् श्रोत्रियमश्रोत्रिया उपधावन्ति , एतस्य ह्यवान्तरं भूयिष्ठा देवता, स्ता मैत्रावरुणं प्रति न्यागच्छन्ति, यन् मैत्रावरुणं पयसा श्रीणाति तास्व् एव पयो दधाति, नाना वै पुरा मित्रावरुणाभ्यां सोमा अगृह्णन् , ताः प्रजा अन्यान्यस्याः परिहायमाददत, ततो मित्रावरुणाभ्यां सह सोमं अगृह्णन् , ततो वा अकल्पत, यन् मैत्रावरुणं पयसा श्रीणाति, मित्रेण वा एतद्वरुणं कल्पयति, वरुणेन मित्रम् , मित्रं वै वृत्रं जघ्निवांसं वरुणोऽगृह्णात् , स देवेष्वनाथत, तेऽब्रुवन् , वरुणे नाथस्वेति, स वरुणेऽनाथत, सोऽब्रवीत् , भागो मेऽस्त्विति, वृणीष्वे, त्यब्रुवन् , सोऽब्रवीत् , सहैव नौ पयसा सोमं श्रीणानिति, यन् मैत्रावरुणं पयसा श्रीणाति, यजमानस्य निर्वरुणत्वाय, यद्येनं भ्रातृव्योऽतीव स्यादङ्गुल्याङ्गुष्ठमवगृह्णीयात् , यद्यन्वङ्गुष्ठेनाङ्गुलिम् ॥

यो नो मित्रावरुणा अभिदासात्सपत्नो भ्रातृव्य उत्पिपीते बृहस्पते ।

इदमहं तमधरं पादयामि यथाहमुत्तमश्चेतयानि ॥

इति उत्तमो ह चेतयति ॥

4.5.9 अनुवाकः9

देवा वै सत्त्रमासत कुरुक्षेत्रे,ऽग्निर्मखो वायुरिन्द्र, स्तेऽब्रुवन्, यतमो नः प्रथम ऋध्नवत् तं नः सहेति, तेषां वै मख आर्नो ्त्, तं न्यकामयत, तं न समसृजत, तदस्य प्रासहादित्सन्त, स इत एव तिस्रोऽजनयत , इतो धनु, स्तत् तिसृणां च धन्वनश्च जन्म, स प्रतिधायापाक्रामत्तं नाभ्यधृष्णुवत् , स धन्वार्तिं प्रतिष्कभ्यातिष्ठत् , स इन्द्रो वम्रीरब्रवीत् , एतां ज्यामप्यत्तेति, ता अब्रुवन् , अभिमृतायां वा अस्यां न शक्ष्यामो जीवितुम् , भागो नोऽस्त्विति, सोऽब्रवीत् , रसं एवास्या उपजीवाथेति, तस्मादेताः शुष्कादार्द्रम् उद्दिहन्ति, रसं ह्यस्या उपजीवन्ति, ता वै ज्यामप्यादन् , तस्य धन्वार्तिरुदर्द्य (उदय्य) शिरोऽछिनत् , स सम्राड् अभवत् , अथतरं त्रेधा व्यगृह्णताग्निः पूर्वार्ध, मिन्द्रो मध्यं, वायुर्जघनार्धम् , तस्मादाग्नेयं प्रातःसवन, मैन्द्रं माध्यंदिनं सवनं, वैश्वदेवं तृतीयसवनं , वायुर् हि विश्वे देवाः, प्राणापानौ वा उपांश्वन्तर्यामौ, व्यान उपांशुसवनो , वाग् ऐन्द्रवायवो , दक्षक्रतू मैत्रावरुणः , आश्विनः श्रोत्रं , चक्षुषी शुक्रामन्थिनौ , आत्माग्रायणः , अङ्गानि उक्यात्, आयुर्ध्रुवः, स्तना ऋतुपात्रे, मूर्धा द्रोणकलशः, कुक्षी कलशौ, हनू अधिषवणे, जिह्वाधिषवणं , ग्रावाणो दन्ता , अक्षाः परिधयो , नासिकोत्तरवेदिः, शिखा यूपः, शिरो हविर्धानं , पृष्ठमाग्नीध्रं, उदरं सदो , यदन्तरुदरे तद्धिष्ण्याः पाणी, आग्नीध्रश्च मार्जालीयश्च पार्ष्णी, गार्हपत्यः प्रतिष्ठा वेदि , रेष वै प्रजापतिः पात्रीयः, स ह त्वा एनं वेद य एवं वेद ॥
इति खिलकाण्डे पञ्चमः प्रपाठकः॥