मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०४

विकिस्रोतः तः
Jump to navigation Jump to search

राजसूय-ब्राह्मणम्

4.4.1 अनुवाकः1
प्रतीपमन्य ऊर्मिर् युध्यत्यन्वीपमन्यो मिथुनत्वाय, यत्तस्य गृह्णाति यः प्रतीपं युध्यति ओजसा वा एष वीर्येण प्रतीपं युध्यति , ओजसा वा एतद्वीर्येण राष्ट्र ओजो वीर्यं दधाति , अथ यत्तस्य गृह्णाति योऽन्वीपं ईरयति माहिषं तेन तोकं प्रजनयति , अथ यन् नदीपतेर् अपां वा एतन् मिथुनं, अपां वा एतन् मिथुनेन राष्ट्रे मिथुनं दधाति , अथ यदप्रहावरीणां मध्यमेष्ठेयं तेनावरुन्धेमि , अथ यत् परिवाहिणीनां पारेवस्यन्त्यास्तेन तोकं प्रजनयति , अथ या आपोऽञ्शेरा, ओजसा वा एता वीर्येणापोऽञ्शेरा , ओजसा वा एतद्वीर्येण राष्ट्र ओजो वीर्यं दधाति , अथ यत् कूप्यानां उभयीस्तेनापोऽवरुन्धेओ्, याश्च समुद्रिया याश्चासमुद्रिया ईश्वरा वा एतं एता स्रोतस्या आपोऽशान्ता निर्मृजो , यत् स्थावराणां गृह्णाति, शान्त्या अनिर्मार्गाय, या आतपति वर्षति याश्च परिददृशे ता आपो ब्रह्मवर्चस्या, स्ताभी राष्ट्रे ब्रह्मवर्चसं दधाति , अथ यद्ध्रादुनीनां विशस्तेन वीर्यमवरुन्द्धे , अथ यत् पुष्पाणां आरण्यं तेन अथ यदुल्ब्यानां , वज्रो वै पशवो , वज्रा उल्ब्या , वज्रेण वा एतद् राष्ट्रे वज्रं दधाति , अथ यत् पयसः, पयसा वा एतद् राष्ट्रे पयो दधाति , अथ यद् घृतस्य , एता वा आपोऽनाधृष्या, स्ताभी राष्ट्रम् अनाधृष्यं करोति , अथ यन्मधो , रपां वा एष ओषधीनां रसो , अपां वा एतदोषधीनां रसेन राष्ट्रे रसं दधाति, षोडश वा एते ग्रहाः प्राजापत्याः, समानीतः सप्तदशः, प्रजापतिः सप्तदशः, प्रजापतिमेवाप्नोति ॥

4.4.2 अनुवाकः2
देवीरापो मधुमतीः संसृज्यध्वं महि क्षत्रं क्षत्रियाय वन्वाना इति , एता हि क्षत्रस्य वन्रीरा , रनाधृष्टाः सीदतोर्जस्वतीर्महि वर्चः क्षत्रियाय दधतीरिति , एता हि क्षत्रस्य धात्री, रनिभृष्टमसीति , अनिभृष्टँ ह्येव राष्ट्रम् अक, स्तपोजा इति , तपोजा हि राष्ट्रम् , सोमस्य दात्रम् इति, सोमस्य ह्येतद् दात्रम् , शुक्रा वः शुक्रेण पुनामि, चन्द्रा वश्चन्द्रेण पुनामीति , आयुर्वै हिरण्यम् , आयुष्या एवैना अकर् , वर्चो वै हिरण्यम् , वर्चस्या एवैना अकर् , देवो वः सविता पुनात्वछिद्रेण पवित्रेणेति , एतद्वा अछिद्रं पवित्रं यत् सूर्यस्य रश्मयो , अछिद्रेणैवैनाः पवित्रेण पुनाति, स्वाहा राजसूया इति , राजसूया ह्येताः सधमादो द्युम्न्या ऊर्जा एका, इति व्यानयति वारुण्या, वारुणीर् ह्यापः, स्वयैव देवतया, रुद्र यत्ते गिरिपरं नामेति, रुद्रमेवास्मात्तेन निरवदयते, तस्मिन् हुतमसि, यमेष्टमसि, स्वाहेति (स्वाहेसि) , मृत्युर्वै यमो , मृत्युमेवास्मात्तेन निरवदयते, सोमा इन्द्रो वरुणो मित्रो अग्निस्ते देवा धर्मधृतो धर्मं धारयन्व्ये इति , एते वै देवा धर्मधृतो यदिमे प्राणा , यदेनं एतेभ्योऽप्रोच्याभिषिञ्चेयुरपरोधुका एनं स्यु , रथ यदेनं एतेभ्यः प्रोच्याभिषिञ्चन्ति तथा हैनं अनपरोधुका भवन्ति, पर्णस्य वा अग्रेऽन्ते ब्रह्म समवदन्त, तद्वाव सुश्रवा यत्तदशृणोत् , पर्णमयेनाभिषिञ्चति, ब्रह्माभिषिञ्चति, ब्रह्मवर्चसेनैवैनं अभिषिञ्चति , अथो ब्रह्म वै ब्रह्मा, ब्रह्मणैवैनं ब्रह्माभिषिञ्चति , आश्वत्थेन वैश्यो , विशो वीर्यमपाक्रामत् , तदश्वत्थं प्राविशत् , स तेन वीर्येण भर्भराभवत् , तद्विश एवैतेन वीर्यमवरुन्धेक् , औदुम्बरेण भ्रातृव्या, ऊर्ग् वा उदुम्बरा , ऊर्जं वा एतदन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्ते, यो जन्यो मित्रं स नैय्यग्रोधेन, मित्रेण वै क्षत्रं व्यवततं , अवरोधैर् न्यग्रोधो, मित्रेण वा एतत् क्षत्रं व्यवतनोति द्रढिम्नेऽशिथिरत्वाय ॥

4.4.3 अनुवाकः3
क्षत्रस्य योनिरसि, क्षत्रस्योल्बमसि, क्षत्रस्य नाभिरसि , इति , इन्द्रो वै यदजायत तस्य वा एष योनिरासीद्यत्तार्प्यम् उल्बं पाण्डरम् , नाभिरुष्णीषः, सूतवशाया अध्यजायत, सूना चतुःपद्यूधरासीत् , नीवाराः पीयूष, स्तस्मान् नैवारः पुरोडाशः, पञ्चाशतमन्यस्मिन्नक्षण्यानक्येयूकपञ्चाशतमन्यस्मिन् , शतायुर्वै पुरुषः शतवीर्या , आयुरेव वीर्यमाप्नोति , अप उपस्पृशति , अमृतं वा आपो , अमृतेनैवैनं संरंभयति , आवित्तो अग्निर्गृहपतिरिति, गार्हपत्यायैवैनं आवेदयति , आवित्ता इन्द्रो वृद्धश्रवा इति , इन्द्रियं वा इन्द्र, इन्द्रियायैवैनं आवेदयति , आवित्तौ मित्रावरुणौ धृतव्रता इति , अहोरात्रे वै मित्रावरुणा , अहोरात्राभ्यां एवैनं आवेदयति , आवित्ते द्यावापृथिवी ऋतावृधा इति, द्यावापृथिवीभ्यां एवैनं आवेदयति , आवित्तः पूषा विश्ववेदा इति, पशवो वै पूषा, पशुभ्य एवैनं आवेदयति , आवित्ता देव्यदितिरिति , आदित्या वा इमाः प्रजा, स्ताभ्य एवैनं आवेदयति , आवित्तोऽयमसा आमुष्यायणोऽमुष्याः पुत्रोऽमुष्यां विशीति, विश एवैनं आवेदयति, तस्माद्वा एष विशः प्रियो , विशे ह्येनं आवेदयति , एष ते जनते राजेति, जनताया एवैनं आवेदयति, सोमोऽस्माकं ब्राह्मणानां राजे, ति, ब्रह्मोद्धरति, सर्वेभ्य एवैनं अन्येभ्यो भूतेभ्य आवेदयति, ब्रह्मोद्धरति, तस्मादाहु , र्ब्रह्मोद्धृतं इति, ब्रह्म ह्य् उद्धरति , इन्द्रस्य वज्रोऽसि वार्त्रघ्न, स्त्वयायं वृत्रं वध्या, दिति धनुः प्रयच्छति, वज्रो वै धनुः , वज्रो राजन्यः , वज्रेणैव वज्रं समर्धयति, शत्रुबाधनाः स्थे, ति बाणवतो , अन्तो वै बाणवन्तो , अन्तो राजन्यो , अन्तेनैवान्तं समर्धयति, त्रीन् प्रयच्छति, तिस्रो वै शरव्या, दिव्या पार्थिवा समुद्रिया, ता अस्माद् योयाव, पात प्राञ्चं , पात प्रत्यञ्चं , पात तिर्यञ्चं , पातान्वञ्चं , पातोर्धम् , दिग्भ्य एनं पातेति, दिग्भ्य एनं पान्ति, मित्रोऽसीतीममभिमन्त्रयते, मित्रस्य ह्येतद् रूपं , वरुणोऽसी, तीमं , वरुणस्य ह्येतद् रूपं , हिरण्यवर्णमुषसो व्युष्टा, इत्युद्यता अभिमन्त्रयेतो ,
र्ध्वबाहुस्तिष्ठन्तमभिषिञ्चति, बृहत् साम भवति, स्वर्गं एवैनं लोकमभिसंतनोति ॥

4.4.4 अनुवाकः4
दिश एनं व्यास्थापयति, वज्रेण वा एतदिमा दिशोऽभिजयति, तस्माद्वा एतस्य सर्वा दिशोऽभिजिता यांयामभिपर्यावर्तते, दिशो वै स्वर्गो लोक , एतद्देवत्या वा इमा दिशो , यथादेवतं वा एतदाभ्यो दिग्योम्ऽधि स्वर्गं लोकं एति, सोमस्य त्विषिरसि त्विषिमत्, तवेव मे त्विषिर्भूया, दिति व्याघ्रचर्मं विवेष्टयति, सोमे वा एका त्विषि , र्व्याघ्र एका, सर्प एका, ता एवावरुन्धेव्, प्रत्यस्तं नमुचेः शिरा, इति सीसं पण्डगाय प्रत्यस्यति, पाप्मा वै नमुचेः शिरः, पाप्मानं वावास्मा एतत् प्रत्यस्यति स्वर्गं लोकमभ्यारोहन् , अवेष्टा दन्दशूका, इति लोहितायसं केशवापाय, दन्दशूकान् एवास्मात्तेन निरवदयते, तस्माद्वा एतस्य नाभिचारोऽस्ति, यावन्तो हि मृत्यवस्तानस्मान् निरवदयते, मृत्योः पाही, ति रजतं रुक्मं अधस्तादुपोहते, मृत्योर्वा एतद् रूपं यद् व्याघ्रो , अमृतं हिरण्यम् , अमृतेनैव मृत्युमन्तर्धत्ते, दिदिवः पाही, ति हरितं रुक्मं उपरिष्टादध्यूहते, दिव्याया एवैनं अशन्या योयाव , इयं वै रजता , असौ हरिणी , आभ्यामेवैनं परिगृह्य , आयुर्वै हिरण्यम् , आयुष्या एवैनं अभ्यतिक्षरन्ति, वर्चो वै हिरण्यम् , वर्चस्या एवैनं अभ्यतिक्षरन्ति, वरुणस्य वा अभिषिच्यमानस्याप इन्द्रियं वीर्यं निरघ्नन् , यद् रुक्ममन्तर्दधाति इन्द्रियस्य वीर्यस्यानिर्घाताय, शतमानो भवति शतक्षरः, शतायुर्वै पुरुषः शतवीर्या , आयुरेव वीर्यमाप्नोति ॥

4.4.5 अनुवाकः5
अथैतानि पार्थानि, संवत्सरो वै पार्थानि, संवत्सरं वा एतन्मध्यतः प्रविशति, तस्माद्वा एष दुःपराणोदः, संवत्सरं हि मध्यतः प्रविशति, गिरी वा एतौ राजसूयस्य, बार्हस्पत्यमन्येषामुत्तमं भवत्य् ऐन्द्रमन्येषां प्रथमं , वीर्यं वै बृहस्पति , र्वीर्यमिन्द्रो , वीर्य एवैनं अभिसंधत्ते , आदित्यनामानि वा एतानि , आदित्या वा इमाः प्रजा, स्ताभ्य एव सूयते, सोमस्य त्वा द्युम्नेनाग्नेस्तेजसेन्द्रस्येन्द्रियेण विश्वेषां त्वा देवानां क्रतुनाभिषिञ्चामीति , एतैरेवैनमिन्द्रियैरेताभिर्देवताभिरभिषिञ्चति , इन्द्रस्य योनिरसि, जनयेति , अतो वा अधीन्द्रोऽजायत, स्वादेवैनं योनेर्जनयति , अति द्यून्पाहीत्या, ह स्वर्गस्य लोकस्य समष्ट्यै, समाववृत्रन्नधरागुदक्ता, इति समुन्मार्ष्टि , इन्द्रियं वा एतद्वीर्यमभिषिच्यमानस्य व्यवैति, तदेव समुन्मार्ष्टि, तेनैनं समर्धयति , ऐन्र्या त्रिष्टुभा ब्रह्मान्वेति , ऐन्द्रो वै राजन्यस्त्रिष्टुप्छन्दाः, स्वेनैवैनं छन्दसान्वेति , अथो प्रजापतिर्वै ब्रह्मा यज्ञस्य, प्रजापतेरधीन्द्रोऽसूयत, प्रजापतेरेवाधि सूयते , इन्द्रस्य वज्रोऽसि वाजसनिः , त्वयायं वाजं से, दिति रथं उपावहरति, स्वयैव देवतया, मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मी, ति युनक्ति, स्वयैव देवतया, विष्णोः क्रमोऽसि सपत्नहे, ति रथमभ्यातिष्ठति , अतो वै विष्णुरिमांल्लोकान् उदजयत् , विष्णोरेवोज्जितिम् अन्व् इमांल्लोकान् उज्जयति, प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते, मरुतां प्रसवे जयेति, मारुत एव गणो भूत्वोज्जयति, राजन्यं जिनाति , अन्तमेवाक्रमीत् , तदस्य न कश्चनाज्येय उच्शिष्यते, तस्मै तामिषुमस्यति, तदस्यामोघायास्तमभूत् , आप्तं मनः समिन्द्रियेणेत्य् उक्त्वा वर्तते , अन्तमेव गत्वावर्तते , आत्मनोऽहिंसायै , एष वज्रो वाजसातम, स्तेन नौ पुत्रो वाजं से, दिति पत्यैव धन्वार्तिं प्रयच्छति , एष वै पत्न्या यज्ञस्यान्वारंभः, सह स्वर्गे लोके भवतः ॥

4.4.6 अनुवाकः6
इयदसि , आयुरसि , आयुर्मे धेहीति , आयुरेवास्मिन् दधाति, युङ्ङ् असि, वर्चोऽसि, वर्चो मे धेही, ति वर्च एवास्मिन् दधाति , ऊर्गसि , ऊर्जं मयि धेहीति , इयं वै रजता , असौ हरिणी , इमे एवालभ्य , ऊर्ग् वा उदुम्बरा , ऊर्जं वा एतन्मध्यत आत्मनो धत्ते, प्रजानां च मित्रोऽसी, तीमं उपावहरति, मित्रस्य ह्येतद् रूपं वरुणोऽसी, तीमं , वरुणस्य ह्येतद् रूपं , सदसि, समहं विश्वैर्देवै, रिति हस्ता आमिक्षामभ्यवहरति, सद्वा आमिक्षा, सदेवाभ्यवहरति, तत्र ते हिरण्ये ददाति, सा दक्षिणा, हिनस्ति खलु वा एष पशून् पृथिवीमभ्यवरोहन् , नमो मात्रे पृथिव्या इति, वाराही उपानहा अभ्यवरोहति , आरण्यान् एव पशूनभ्यवरोहति, वराहस्त्वेवैतं सग्धुमर्हति, तद्वराह एवैनं सघ्नोति, प्रति त्यन्नाम राज्यमधायि स्वां तन्वं वरुणोऽसुषोदिति, वरुणसवो वा एष, वरुणायैवैनं प्राह, नि त्रितो जरिमाणं न आनड् इति, जरिमाणमेवास्मिन् युनक्ति, स्योनासि सुषदेति, स्योना ह्येषा सुषदा,
स्योनामासीद, सुषदामासीदेति, सुषदैवैनं सादयति ॥
निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ॥
इति, वरुणसवो वा एष, वरुणमेवैनं अकर् , अग्नये स्वाहा, सोमाय स्वाहा , इन्द्रस्यौजसे स्वाहा, मरुतां बलाय स्वाहे, ति रथविमोचनीयं जुहोति, यजुषैव युज्यन्ते, यजुषा विमुच्यन्ते, हंसः शुचिषद्वसुरन्तरिक्षसदिति, रथं वा एतत् परिवदति, सह सारथिना रथवाहने रथं आदधति, सर्वत्वायैव प्रसवाय, ब्रह्मां३स्त्वं ब्रह्मासीति, किमभूं किमभू, मिति वा एतदाह, सवितासि सत्यसवा इति , इदमसीदमसी, ति वावैनं एतदाह यद्यद् भवति , एष वज्र, स्तेन मे रध्ये, ति स्फ्यं प्रयच्छति, वज्रो वै स्फ्यो , वज्रेण वा एतद् राष्ट्रं रन्धयते, तमवरस्परं प्रयच्छति, तेनावरस्परं राष्ट्रं रन्धयमाण एति, तस्माद्वा एत एतस्मा अवरस्परं रद्धा , बलिं हरन्ति, तेन स्फ्येनाधिदेवनं कुर्वन्ति, तत्र पष्ठौहीं विदीव्यन्ते , आशां वा एष उपाभिषिञ्चते , आशा पष्ठौही , आशामेवास्मा अक, स्ततश्चतुःशतमक्षाणवोह्याह ॥ उद्भिन्नं राज्ञः ॥ इति, चत्वारो वै पुरुषा , ब्राह्मणो राजन्यो वैश्यः शूद्र, स्तेषामेवैनं उद्भेदयति, ततः पञ्चाक्षान् प्रयच्छन्न् आह, दिशो अभ्यभूदयमिति , इमा एवास्मै पञ्च दिशोऽन्नाद्याय प्रयच्छति, क्षेत्रं ददाति, तेन क्षेत्रे धृतो भवति, वरं वृणीते, सोऽस्मै कामः समृध्यते यत्कामो भवति, मङ्गल्यनाम्नो ह्वयति, यत् पूर्वं व्याहार्षं तन् नेन् मोघमसदिति , असा अमुष्य पुत्रोऽमुष्यासौ पुत्र, इति नामनी व्यतिषजति स्वर्गस्य लोकस्य समष्ट्यै ॥

4.4.7 अनुवाकः7
समानो वा एष यज्ञक्रतुः संवत्सरं भवति, वि वा एतद् दशपेयश्छिद्यते यदवभृथमवयन्ति, यदपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाग्नये गृहपतये स्वाहे, ति जुह्वत आयन्ति यज्ञस्य संतत्या अविछेदाय, यज्ञो वै देवेभ्यस्तिरोऽभवत्, तं देवाः संसृप्स्व् अन्वैच्छन् , यत् सावित्रः, सवितॄप्रसूता एवान्वैच्छन् , यत् सारस्वतो , वाग् वै सरस्वती, वाच्येवान्वैच्छन् , यत् पौष्णः, पशवो वै पूषा, पशुष्वेवान्वैच्छन् , यद् बार्हस्पत्यो , ब्रह्म वै बृहस्पति , र्ब्रह्मण्येवान्वैच्छन् , यदैन्द्र , इन्द्रियं वा इन्द्र, इन्द्रिय एवान्वैच्छन्, यद्वारुणो , वरुण एवान्वैच्छन्, यत् त्वाष्ट्रः, संवत्सरो वै त्वष्टा, संवत्सर एवान्वैच्छन् , यदाग्नेयो , अग्निर्वै सर्वा देवता , देवतास्व् एवान्वैच्छन् , यत्सौम्यः, सौमीर्वा ओषधया , ओषधीष्वेवान्वैच्छन् , यद् वैष्णवो , विष्णुर्वै यज्ञो , यज्ञ एवान्वैच्छन् , तं विष्णा अविन्दन् दशमे, तस्मादेष दशमो , दशमे ह्यविन्दन्, दश चमसा , दश चमसाध्वर्यवो , दश दश चमसानभिता आ दशमात् पुरुषादन्वाचष्टे समृद्ध्यै, दशसमृद्धो ह्येष यज्ञ, एतं वै ते तद्यज्ञमन्वैच्छन् , त आर्ध्नुवन् , तद्य एतेन यजत ऋध्नोति, सप्तदशः सर्वो भवति, प्रजापतिर्वै सप्तदशः, प्रजापतिमेवाप्नोति , उत्सन्नयज्ञो वा एष, संवत्सराद्वा अध्य् उत्सन्नयज्ञोऽवरुध्यते, संवत्सरादेवैनं अध्याप्त्वावरुन्द्धा , इन्द्रो वै वृत्रमहन् , तस्येमे रूपाण्य् उपैताम् , चित्राणीयम् नक्षत्राण्यसौ, नक्षत्राणां वा अवकाशे पुण्डरीकं जायते, क्षत्रस्य वा एतद् रूपं, क्षत्रस्यैव रूपं प्रतिमुञ्चते, द्वादशपुण्डरीका भवन्ति, द्वादश मासाः संवत्सरः, संवत्सरमेवाप्त्वावरुन्धेत् ॥

4.4.8 अनुवाकः8
रुक्मो होतु , राग्नेयो वै होता, न वा एतस्मै व्युच्छति, व्येवास्मै वासयति, स्रग् उद्गातुः, सौर्यो वा उद्गाता , अथो अमुं एवास्मा आदित्यमाप्त्वोन्नयति, प्रावेपा अध्वर्योsर्यमा इव ह्यध्वर्युः ॥ अश्वः प्रस्तोतुः, प्राजापत्यो वा अश्वः, प्राजापत्यः प्रस्तोता , अथो प्रेव ह्येष प्रोथति, प्रेव प्रस्तोता, धेनुः प्रतिहर्तुः, प्रतीवा ह्येषा हरति, प्रतीव प्रतिहर्ता, वशा मैत्रावरुणस्य, वशं मा नयादिति , ऋषभो ब्राह्मणाञ्शँसिनः सेन्द्रियत्वाय, वासः पोतुः पवित्रत्वाय , अनड्वान् नेष्टुरग्नीधोऽन्यो , युक्त्या एव, स्थूरि यवाचितमछावाकस्य, स्थूरीरिव ह्येषा होत्रा स्वर्ग्या यदछावाक्या , अथो निर्वरुणत्वायैव यवा , न वा अस्यै तर्हि सदस्येभ्यो दक्षिणा दीयन्ते, त एवास्यै तेनाभीष्टाः प्रीता भवन्ति, द्वादश पष्ठौहीगर्भिणीर् ब्रह्मणो , वाग् वै धेनु, र्गर्भो मन्त्रो, वाच्येवास्य मन्त्रं दधाति , आमन्त्रणीयो ह भवति, धेनुंभव्या भवन्ति, द्वादश वै पयांसि, तानि अस्मिन् दधाति, तस्माद्वा एतमाहुः, पयस्वी राजा पुण्या इति, यावद्धि पयस्तदस्मिन् धीयते ॥

4.4.9 अनुवाकः9
श्रायन्तीयं ब्रह्मसामं भवति , अनुष्टुप्सु यज्ञायज्ञियं प्रोहन्ति, वारवन्तीयमग्निष्टोमसामं, इन्द्रो वै वृत्रमहन् , स ओजसा वीर्येण व्यार्ध्यत, स एतत् सामापश्यत् , तेनात्मानं समश्रयत , ओजसा वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते, तदेतेनैवात्मानं संश्रयते, ब्रह्म वै यदग्रे व्यभवद् ऋक् साम यजु, स्तस्य वा एष रसो यद्यज्ञायज्ञियम् , यद्यज्ञायज्ञियं गायते ब्रह्मण्येव रसं दधाति, वाचा वा एष व्यृध्यते यो राजसूयेनाभिषिञ्चते, वाग् अनुष्टुब् , यदनुष्टुप्सु यज्ञायज्ञियं भवति वाच्येवास्य रसं दधाति , इन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते , इन्द्रियं वीर्यं वारवन्तीयम् , यद्वारवन्तीयमग्निष्टोमसामं भवति इन्द्रियस्य वीर्यस्यावरुद्यै े , अश्रयन् वाव श्रायन्तीयेन , अवारयन्त वारवन्तीयेन, तदिन्द्रियस्यैवैते वीर्यस्य परिगृहीत्यै, यत्र वा एनं अदो दिशो व्यास्थापयति तत् स्वर्गं लोकमभ्यारोहति, यदिमं लोकं पुनर् नोपावरोहेदतिजनं वा गछेदुद्वा माद्येत् , यदेता दिशामवेष्टय , इमं वा एतं लोकं पुनरुपावरोहति , अन्नकामो यजेत , एतद्देवत्या वा इमा दिशो , यथादेवतं वा एतदाभ्यो दिग्यो ंऽध्यन्नाद्यमवरुन्धेद्, यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेत् , यदि वैश्यो वैश्वदेवं , यदि राजन्य ऐन्द्रम् , एकधैवास्मिन्नन्नाद्यं प्रतिष्ठापयति, समानो वा एष यज्ञक्रतुः संवत्सरं भवति, वि वा एतद्यज्ञश्छिद्यते यत् संतिष्ठते, यदेताः प्रयुज उपैति सायमन्याः प्रातरन्या, द्वौ वा ऋतू अहश्च रात्रिश्च, ता एव प्रयुङ्क्ते, षडन्याः षडन्याः, षड् वा ऋतवो , ऋतून् एव प्रयुङ्क्ते, ता उभयीर् द्वादश, द्वादश मासाः संवत्सरः, संवत्सरमेव प्रयुङ्क्ते , अनड्वाहौ दक्षिणा, युक्त्या एव, मारुती पृश्निः पष्ठौही गर्भिणीति, विड्वै मरुतो , विशो वा एनं एतद् गर्भं करोति, तस्माद्वा एष विशः प्रियः, प्रियो हि गर्भ , आदित्याजा मलिहा गर्भिणीति , इयं वा अदिति , रस्या वा एनं एतद् गर्भं करोति, तस्माद्वा एष दुःपराणोदो , अस्या हि गर्भो , अथैते सत्यदूताः , प्रसवाय सावित्रो , देवा असुरैर्विजयम् उपयन्तोऽश्विनोः पूषणि सत्यं न्यदधत, वाग् वै सरस्वती, वाचा सत्यं प्रहिणोति ॥ अभ्यषिक्षि राजाभूम् ॥ इति, श्रद्धास्मै सुषुवाणाय दधति, संवत्सरम् अग्निहोत्रं जुहोति अनुसंतत्यै ॥

4.4.10 अनुवाकः10
अग्निष्टोममग्रे ज्योतिष्टोमं आहरति, यज्ञमुखं वा अग्निष्टोमो , यज्ञमुखमेवालभ्य सवमाक्रमते , अथैष त्रिष्टोम, स्तस्य त्रिवृत् प्रातःसवनं पञ्चदशं माध्यंदिनं सवनं , तेजो वै त्रिवृत्, क्षत्रं पञ्चदश, स्तेज एवास्य क्षत्रे दधाति, न वा अत्रापि सप्तदशस्तायते, प्रजापतिर्वै सप्तदशो , यज्ञः प्रजापति , र्यद्यज्ञस्तायते तेन सप्तदशोऽनन्तरितः, पञ्चदशं माध्यंदिनं सवनं, एकविंशं तृतीयसवनमिति, विड् वा एकविंशः, क्षत्रं पञ्चदशो , विशि वावास्यैतत् क्षत्रं प्रतिष्ठापयामकः, सर्वे चतुस्त्रिंशाः पवमाना अभिषेचनीयस्य, त्रयस्त्रिंशद्देवता, स्ता एवास्यैतेनाभीष्टाः प्रीता भवन्ति , अथ य एष चतुस्त्रिंशः, प्रजापतिर्वै चतुस्त्रिंशः, प्रजापतिमेवाप्नोति, संशरो वा एष स्तोमानामयथापूर्वं यद्विषमाः स्तोमा यत्समाः पवमानास्तेनैवासंशरस्तेन यथापूर्वं आत्मना वा अग्निष्टोमेन ऋध्नोत्य् आत्मना पुण्यो भवति, प्रजा वा उक्थानि, पशव उक्थानि, यदुक्थ्योऽनुसंतत्यै, यो वै सवादेति नैनं सव उपनमति, यः सामभ्या एति पापीयान्त् सुषुवाणो भवति, यानि देवराजानां सामानि यत्तेभ्यो नैति तेनैव सवान् नैति , एतानि वै सामानि यत्पृष्ठानि यत्पृष्ठानि उपयन्ति तेनैव सामभ्यो नैति, यानि देवराजानां सामानि तैरस्मिंल्लोक ऋध्नोति, यानि मनुष्यराजानांस्तैरमुष्मिन् , तदुभयोरेवैतैर् लोकयोर् ऋध्नोत्यस्मिंश्चामुष्मिंश्च , उद्वतीषु स्रुवते , उद्वद्वा अनुष्टुभो रूपं, आनुष्टुभो राजन्य, स्तस्मादुद्वतीषु स्रुवते , अनुष्टुप् प्रथमा भवत्यनुष्टुब् उत्तमा, वाग् वा अनुष्टुब् , वाचा वा एतत् प्रयन्ति वाचोद्यन्ति, सौर्यनुष्टुब् उत्तमा भवति स्वर्गस्य लोकस्य समष्ट्यै , एकविंशं केशवपनीयस्य बहिष्पवमानं एकविंशमभिषेचनीयस्योत्तमं इति, विड् वा एकविंशः, क्षत्रं सप्तदशो , विशो वा एतन्मध्यतः सूयते, तस्माद्वा एष विशः प्रियो , विशो हि मध्यतः सूयते यत्र वा एनं अदो दिशो व्यास्थापयति तत् स्वर्गं लोकमभ्यारोहति, यदिमं लोकं पुनर् नोपावरोहेदतिजनं वा गछेदुद्वा माद्येत् ,
यदेष प्रतीचीनस्तोम , इमं वा एतं लोकं पुनरुपावरोहति ॥
इति खिलकाण्डे चतुर्थः प्रपाठकः