मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०३

विकिस्रोतः तः
Jump to navigation Jump to search

राजसूय-ब्राह्मणम्

4.3.1 अनुवाकः1
अरातीयन्ति वा अन्ये पुरुषाय नान्ये, येऽरातीयन्ति सा निर्ऋति , र्ये नारातीयन्ति सानुमति, स्तेभ्य उभयेभ्यः सह निर्वपन्ति , उभौ सह शृतौ कुर्वन्ति, नैर्ऋतेन पूर्वेण प्रचरन्ति दक्षिणा परेत्य स्वकृता इरिणे , एतद्वै निर्ऋतिगृहीतं पृथिव्या , निर्ऋतिगृहीत एव निर्ऋतिं निरवदयते , एकोल्मुकं निधाय विस्रंसिकायाः काण्डाभ्यां जुहोति, जुषाणा निर्ऋतिर् वेतु , स्वाहा, वासः कृष्णं भिन्नान्तं दक्षिणेति , एतद्धि निर्ऋत्या रूपं, अर्धं वै पुरुषस्य निर्ऋतिगृहीतं, अर्धमनिर्ऋतिगृहीतं , यन् निर्ऋतिगृहीतं तदेवास्मात्तेन निरवदयते, पुनरेत्यानुमत्या अष्टाकपालेन प्रचरन्ति निर्ऋतिमेव निरवदाय , इयं वा अनुमतिर्वाग् वै , अनुमतं एवैनं सवमाक्रमयति , अष्टाकपालो भवति, गायत्री हीयं, गायत्री वाक् , धेनुर्दक्षिणा , एतद्ध्यनुमत्या रूपं, अथ य उदञ्चः शम्यामतिशीयन्ते तान् उदङ् परेत्य वल्मीकवपाम् उद्रुज्य जुहुयात् , इदममुष्यामुष्यायणस्य क्षेत्रियम् अवयजा इति, तत् पुनरपिदधाति , इदमहममुष्यामुष्यायणस्य क्षेत्रियमपिदधामीति, क्षेत्रियं वा एतं गृह्णाति, ये चैनं अन्वियं क्षेत्रस्य पत्नी , अस्यां एव क्षेत्रियमवयज्याथैनं सवमाक्रमयति, श्वो भूत आदित्येभ्यो भुवद्वद्भ्यो घृते चरुरिति , आदित्या वा इत उत्तमाः स्वर्गं लोकमायन् , तेभ्य एव प्रोच्य स्वर्गं लोकं एति , आदित्या वा अस्मिंल्लोक ऋद्धा, आदित्या अमुष्मिन् , उभयोरेव लोकयोर् ऋध्नोति, वरो दक्षिणा, वरेणैव स्वर्गं लोकमभ्यारोहति, श्वो भूत आग्नावैष्णव एकादशकपाला इति , अग्निर्वै सर्वा देवता, विष्णुर्यज्ञो , देवताश्चैव यज्ञं चालब्धा , अग्निर्वै यज्ञस्यान्तोऽवस्तात् , विष्णुः परस्तात् , उभयत एव यज्ञस्यान्ता उदग्रहीत् , उभयत एव यज्ञस्यान्ता उद्गृह्य यथोत्सङ्ग आवपेत , एवं वा एतद्यज्ञं आवपते, तस्य यथाकामं निर्वपमाण एति , अनड्वान् वामनो दक्षिणा, यद्वही तेनाग्नेयो , यद्वामनस्तेन वैष्णवो , रूपेणैवैनं समर्धयति, श्वो भूतेऽग्नीषोमीया एकादशकपाला इति , अग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रमहन् , वृत्रं खलु वा एष हन्ति यो राजसूयेनाभिषिञ्चते, तद्वार्त्रघ्नं एवैतद्धिरण्यं दक्षिणा, सत्यं वै हिरण्यम् , सत्येनैव हन्ति, श्वो भूत ऐन्द्राग्न एकादशकपाला इति , अग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रमहन् , स ओजसा वीर्येण व्यार्ध्यत, स एतमैन्द्राग्नमपश्यत् , तेनौजो वीर्यमात्मन्नधत्त , ओजसा वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते , ओजो वीर्यमिन्द्राग्नी, ओजसैवैनं वीर्येण समर्धयतो , अनड्वान् ऋषभो दक्षिणा, यद्वही तेनाग्नेयो , यन् मुष्करस्तेनैन्द्रो , रूपेणैवैनं समर्धयति, श्वो भूत आग्नेयोऽष्टाकपालो माहेन्द्रं दधीति , ऋद्याम एवाग्नेय , इन्द्रो वै वृत्रमहन् , सोऽन्यान् देवानत्यमन्यत, स महेन्द्रोऽभवत् , स एतं उद्धारम् उदहरद् वृत्रं हत्वा, तदुद्धार एवास्य , एष भाग एव, तस्माद् राजा संग्रामं जित्वोदाजं उदजयत् , पयसा वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते, यत् पयः, पयसैवैनं समर्धयति , इन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते, यदैन्द्रम् , इन्द्रियेणैवैनं वीर्येण समर्धयति, देवताभिर्वा एष व्यृध्यते यो राजसूयेनाभिषिञ्चते, सर्वदेवत्यं वै वासो , यद्वासः क्षौमं दक्षिणा देवताभिरेवैनं समर्धयति ॥

4.3.2 अनुवाकः2
देवा ओषधीषु पक्वास्व् आजिमयुः, स इन्द्रोऽवेत् , अग्निर्वावेमाः प्रथम उज्जेष्यतीति, सोऽब्रवीत् , यतरो नौ पूर्व उज्जयेत्तन् नौ सहेति, ता अग्निरुदजयत् , तदिन्द्रोऽनूदजयत् , तस्मादैन्द्राग्नम् , अथो आहु , राग्नेन्द्रं कार्यम् इति , अग्निर्हि ता अग्र उदजयत् , तदुज्जित्या एव , आग्रायणो द्वादशकपालो भवति, द्वादश मासाः संवत्सरः, संवत्सराद्धि तदध्यभवत्, सप्तदश सामिधेनीः कार्याः, पञ्च ऋतवो द्वादश मासा एष संवत्सरः, संवत्सराद्धि तदधि भवति , एका वै तर्हि यवस्य मुष्टिरासी, देका व्रीहे, रेका माषस्यै, का तिलस्य, तद्विश्वेदेवा अब्रुवन् , वयं व एतत् प्रथयिष्यामो , भागो नोऽस्त्विति, तद्विश्वे देवा अप्रथयन् , तद् भूम्न एव वैश्वदेवो , अथो प्रथयत्येवै, तेन पयसि स्याद् वैश्वदेवो , वैश्वदेवं हि पयो , अथ वा इयमब्रवीन्मयि वा एतदध्यसौ वृष्ट्या पचति, नैतदितोऽध्युज्जेष्यथ, भागो ना अस्त्विति, तदाभ्यां वावैष भागः क्रियते उज्जित्यै , अथो प्रतिष्ठित्या एव, यद् द्यावापृथिवीयः, सौमीर्वा ओषधयः, सोमा ओषधीनामधिराज, स्तस्य वा एष भागो यदकृष्टपच्यं , तदुद्धार एवा,ऽस्यैष एष भाग एव, तस्माद् राजा संग्रामं जित्वोदाजं उदजते, ग्राम्या वा अन्या ओषधय आरण्या अन्या, स्ता एवास्यैतेनोभयीरवेष्टा भवन्ति, याः फालकृष्टास्तासां एतेनाग्रायणं करोति या आरण्यास्तासां उत्तरेण , आनीतो वा एष देवानां य आहिताग्नि , र्यदकृत्वाग्रायणं नवस्याश्नीयाद्देवानां भागं प्रतिक्लृप्तमश्नीयादार्तिम् आर्छेत्, सर्वेभ्यो वा एषोऽन्येभ्योऽभिषिच्यते यो राजसूय, आग्रायणोन्नाद्यस्यावरुद्यैवा, वत्सः प्रथमजो दक्षिणा, रेत इव ह्येषोऽप्रजातः, प्रजात्यै ॥

4.3.3 अनुवाकः3
अथैतानि चातुर्मास्यानि, संवत्सरं वै चातुर्मास्यानि परीज्यन्ते, संवत्सरादेवैनानि अध्याप्त्वावरुन्धेरो , उत्सन्नयज्ञो वा एष, संवत्सराद्वा अध्य् उत्सन्नयज्ञोऽवरुध्यते, संवत्सरादेवैनं अध्याप्त्वावरुन्धेज्, पशवो वा एते चातुर्मास्येभ्योऽध्यतिरिच्यन्ते, यच् शुनासीर्यम् , तान् एवाप्नोति, वर्ष्य उदके यजेत , एतद्धि पशूनां नेदिष्ठम्, अथैतानि पञ्च हवींषि संतत्यै ग्रामकामो यजेत, वायुर्वा इमाः प्रजा नस्योता इत्थं चेत्थं च नेनीयते, यद्वायवे, वायुरेवास्मै नस्योतां विशं निनयति , अन्नकामो यजेत, संवत्सरो वा इन्द्रः शुनासीरः, संवत्सरोऽन्नाद्यस्य प्रदाता, तं एव भागधेयेनोपासरत् , सोऽस्मा अन्नाद्यं प्रयच्छति, वर्ष्य उदके यजेत , एतद्ध्यन्नाद्यस्य नेदिष्टं वृष्टिकामो यजेत, वायुर्वा इमे समीरयति, स आप्याययति, ततो वर्षति, संवत्सरो वा इन्द्रः शुनासीरः , संवत्सरम् अनुवर्षति ॥

4.3.4 अनुवाकः4
देवाश्च वा असुराश्चास्पर्धन्त, स वृत्र इन्द्रमब्रवीत्, त्वं देवानां श्रेष्ठोऽसि , अहमसुराणां, संशक्नवाव, मा ना अन्योऽन्यं ऽवधीद् इति, तौ वै समामेताम् अनभिद्रोहाय, ते देवा वृत्रममन्यन्त , अयं वावेदं भविष्यतीति, त इन्द्र ऐच्छन् , हनामेमं इति , सोऽब्रवीत् संधा वै मे संहितान्भिद्रोहायेति, तमग्निरब्रवीत् ,अहं एव त्वेतः पास्यामीति पृथिव्या , अहमन्तरिक्षादिति वरुणः , अहं दिव इति रुद्रो, ततो वै देवा वृत्रमघ्नन्, वृत्रं खलु वा एष हन्ति यो राजसूयेनाभिषिञ्चते तद्वार्त्रघ्नं एवैतत् , देवाश्च वा असुराश्च समयतन्त तानग्निस्त्रेधात्मानं कृत्वा प्रत्ययतता, अग्निरेवास्मिंल्लोके भूत्वा वरुणोऽन्तरिक्षे रुद्रो दिवि , स इन्द्रोऽमन्यत , अयं वावेदं भविष्यतीति, सोऽब्रवीत् , अहं विश्वाभ्या आशाभ्या इति, ततो वा अजयन् , स्तज् जित्या एवैतत् , एतेनैव याजयेत् संग्रामे, जयति संग्रामं, एतेनैव याजयेद् , भ्रातृव्यवन्तं, यो वास्य प्रियः स्यात् तं , भवत्यात्मना, परास्य भ्रातृव्यो भवति, यद्वै तदिन्द्रस्तुरीय उपसमपद्यत तस्मादिन्द्रतुरीयम् , धेनुरनड्वाही दक्षिणा, यद्वहिनी तेनाग्नेयी, यद् धेनुः सती दान्ता तेन वारुणी, यद् गौस्तेन रौद्री, यत् पयस्तेनैन्द्री, रूपैरेवैनां समर्धयति , इन्द्रो वै नमुचिं नालभत, स रश्मीन् कुलायं कृत्वान्वारोहदमुमादित्यं , तं वा अन्वमन्त्रयत , सखाया असावेति, सोऽब्रवीत् , नाहं हनिष्यामीति, सोऽब्रवीत्, संधां ते संदधै यथा त्वा न दिवा हनानि न नक्तं न शुष्केण नार्द्रेणेति, तस्य वा उपोदये सूर्यस्य नीहारं, संतत्यापां फेनेन शिरोऽछिनत् , तद्वा एनं अन्ववर्तत, मित्रद्रुगसीति, पाप्मा वै नमुचेः शिरः, पाप्मा वा एनं तदन्ववर्तत, पाप्मानं वै स तेनापाहत, तत्पाप्मानं एवैतेनापहते , अपां न्ययनादपामार्गानाहरन्ति , आपो वै रक्षोघ्नी , रपो रक्षांसि न तरन्ति रक्षसामपहत्यै, वरो दक्षिणा, वरेणैव वरं स्पृणोति , आत्मा हि वर , आत्मानं हि तस्य तदन्ववर्तत, ये देवाः पुरःसदो अग्निनेत्रा रक्षोहणस्ते नोऽवन्तु, ते नः पान्तु , तेभ्यः स्वाहेति , एतद्देवत्या वा इमा दिशो , यथादेवतं वा एतदाभ्यो दिग्योताऽधि रक्षांस्यपहन्ति , अनुपरिक्रामं जुहोति, सर्वाभ्य एव दिग्योआतऽधि रक्षांस्यपहन्ति , इदमहं रक्षोभिः समूहामि , अग्ने संदह रक्षः, संदग्धं रक्षा, इत्याह रक्षसां ध्वरायै रक्षसामन्तरित्यै , अथ यत् पुनः समूह्य जुहोति याभ्य एव दिग्योयाऽधि रक्षांस्यपावधीत्ता भागिनीः करोति अहिंसायै, रथः पञ्चवाही दक्षिणा, पञ्च दिशः पञ्च देवताः समृद्यैत् ॥

4.3.5 अनुवाकः5
सोमेनेजानं याजयेत् , संवत्सरं वा एतस्य छन्दांसि यातयामानि भवन्ति यः सोमेन यजते, छन्दांसि वै देविका , श्छन्दांसि वावास्मा एतदयातयामानि पुनर्यामाणि करोति, राजसूयेनाभिषिषिचानं याजयेत्, पष्ठौही दक्षिणा , आशां वा एष उपाभिषिञ्चते , आशा पष्ठौही , आशामेवास्मा अकः, पशुकामं याजयेत् , छन्दांसि वै देविकाः, पशवश्छन्दांसि, गायत्य्ानुमति , स्त्रैष्टुब् राका, जगती सिनीवाली, कुहूरनुष्टुब् , धाता वषट्कारो , या पूर्वा पौर्णमासी सानुमति , र्योत्तरा सा राका, या पूर्वामावास्या सा सिनीवाली, योत्तरा सा कुहू, श्चन्द्रमा एव धाता, यद्द्वे अवरे द्वे परे तन् मिथुनं , यत् पूर्यतेऽन्यां नान्यां तन् मिथुनं , यत् पश्यन्त्यन्यां नान्यां तन् मिथुनं , यदमावास्याया अधि चन्द्रमाः प्रजायते तन् मिथुनं , तस्मादेवास्मै मिथुनात् पशून् प्रजनयति, प्रजाकामं याजयेत् , धातारं उत्तमं कुर्यात् , स्त्रियो वै देविकाः, पुमान् धाता, पराचीर्वै प्रजा रेतो दधते, पराचीष्वेवासु रेतो दधाति, तदाहु , र्न वै तेन पराधत्ते यदन्तरा प्रवीयता, इति व्यवदध्याद् धातारं मध्यतः , सर्वा एवैना वृषमोदिनीः करोति, तदाहु , र्जायत एव, पश्चाच्चर इव तु भवति, स्त्रीभ्यो ह्येनं पश्चात् परिणयन्तीति, स यदा जायेताथ धात्रे पुरस्तान् निर्वपेत् , अग्रं वै धाता , अग्रमेवैनं परिणयति ॥

4.3.6 अनुवाकः6
आमयाविनं याजयेत् , धातारं मध्यतः कुर्यात्, संवत्सरो वै धाता, संवत्सरो हि वा एतस्य मुग्धो , अथैतस्यामयति, संवत्सरं वावास्मा एतन्मध्यतोऽचीक्लृपत् , अथैनं एतस्मान् मिथुनात् प्रजनयति , ईश्वराणि वा एतं एतानि छन्दांस्य् ऋते पशोरशान्तानि निर्मृजः, पशुरप्यालभ्यः शान्त्या अनिर्मार्गाय , एते वै पशवो यद् व्रीहयश्च यवाश्च, यद् व्रीहिमयः पुरोडाशो भवति तेनैव पशुरालभ्यते शान्त्या अनिर्मार्गाय, वीरस्था वा अन्ये पशवोऽवीरस्था अन्ये, ये पुरस्तात्पुरोडाशास्ते वीरस्था , ये पश्चात्पुरोडाशास्तेऽवीरस्था , ये पुरस्तात्पुरोडाशा भुञ्जतस्त उपतिष्ठन्ते, प्रजापतिं ह्येते प्रतिष्ठां अभ्यसृज्यन्त, ये पश्चात्पुरोडाशाः परा ते भवन्ति, यासु स्थालीषु सोमाः स्युस् ते चरवः स्युः, सोमो वै रेतोधाः प्रजननाय, सर्ववेदसेनेजानं याजयेत्, पशुभिर्वा एष व्यृध्यते यः सर्वं ददाति , अत्र वा एष जघन्यं पशून् पश्यति यत्रैनान् विभजति, यत्रैवैनान् विभजति तत एनान् पुनरवरुन्धे े, य एव कश्च सोमेन यजेत तं याजयेत् , संवत्सरं वा एतस्य छन्दांसि यातयामानि भवन्ति यः सोमेन यजते, छन्दांसि वै देविका, श्छन्दांसि वावास्मा एतदयातयामानि पुनर्यामाणि करोति ॥

4.3.7 अनुवाकः7
अथैतत् त्रिषंयुक्तं , यत् पूर्वं त्रिषंयुक्तं इत एवास्मै तेनोर्ध्वान् इमांल्लोकान् दाधार, यदुत्तरं त्रिषंयुक्तं अमुत एवास्मै तेनार्वाच इमांल्लोकान् दाधार, तदेषां वावैते लोकानां विधृत्यै, यत् पूर्वं त्रिषंयुक्तं वीरजननं तत् , यदुत्तरं पशुजननं तत् , यत् पूर्वं त्रिषंयुक्तं वीरान् एवास्मै तेन जनयति, यदुत्तरं पशूंस्तेन, यत् पूर्वं त्रिषंयुक्तं रेत एव तेन दधाति, यदुत्तरं प्र तेन जनयति, यत् पूर्वं त्रिषंयुक्तं तेन यज्ञकामो यजेत , अग्निर्वै सर्वा देवता , विष्णुर्यज्ञो , देवताश्चैव यज्ञं चालब्ध , ऐन्द्रो वै यज्ञो , विष्णुर्यज्ञ, स्तद्यज्ञस्यैवैष आरंभो , अथ यद् वैष्णवो , विष्णुर्वै यज्ञो , यज्ञ एव प्रतितिष्ठति, यदुत्तरं त्रिषंयुक्तं तेन पशुकामो यजेत, सोमो वै रेतोधाः, पूषा पशूनां प्रजनयिता, सोम एवास्मै रेतो दधाति, पूषा पशून् प्रजनयति , इन्द्रियेण वै पशवः प्रजायन्ते, पूषा प्रजनयति , इन्द्रियेणैवास्मै पूषा पशून् प्रजनयति , अथ यत् पौष्णः, पशवो वै पूषा, पशुष्वेव प्रतितिष्ठति , अथैतद् वैश्वानरवारुणं , संवत्सरो वा अग्निर्वैश्वानर, स्तस्य वा एते स्वा यद् ऋतवो, तेषां वा एषोऽभिषिक्तो राजा , अभिषिक्तो वै देवानां वरुणः , एतौ वै देवानां सूतौ , एतौ सवपती, एतौ सवस्येशाते, ता एनं सुवाते, यावन्तो वा एतस्य स्वा अनुका वै त एतं, अनुका देवा वरुणं , यावन्त एवास्य स्वास्तानस्मा अनुकानविवादिनः करोति , इयांश्चरुर्भवति , एतावान् वा आत्मा, यावान् एवास्यात्मा तं वरुणान् मुक्त्वा, संवत्सरो वा अग्निर्वैश्वानरः, संवत्सर एवैनं प्रतिष्ठापयति, संवत्सरायुषं एनं करोति, तस्माद् राजसूयाभिषिक्तस्य जरसा दन्ता अवशीयन्ते, संवत्सरे ह्येनं प्रतिष्ठापयति, संवत्सरायुषं एनं करोति, यो ज्योगामयावी स्यात् तं एतेन याजयेत् , वरुणेन हि वा एष पाप्मना गृहीतो , अथैतस्य ज्योग् आमयति, यद्वारुणः , वरुणादेवैनं तेन मुञ्चति , इयांश्चरुर्भवति , एतावान् वा आत्मा, यावान् एवास्यात्मा तं वरुणान् मुक्त्वा, संवत्सरो वा अग्निर्वैश्वानरः, संवत्सर एवैनं प्रतिष्ठापयति, संवत्सरायुषं एनं करोति ॥

4.3.8 अनुवाकः8
अथैते रत्निनः, क्षत्रस्य वा एतानि अङ्गानि, यस्य वा एतानि ओजस्वीनि भवन्ति तद् राष्ट्रम् ओजस्वी भवति तानि एवास्यौजस्वीनि करोति, क्षत्रस्य वा एतानि अङ्गानि, यस्य वा एतानि तेजस्वीनि भवन्ति तद् राष्ट्रं तेजस्वी भवति, तानि एवास्य ब्रह्मणा तेजस्वीनि करोति, बार्हस्पत्यश्चरुर् ब्रह्मणो गृह इति, ब्रह्म वै बृहस्पति , र्बृहस्पतिपुरोहित खलु वै राष्ट्रम् ऋध्नोति, ब्रह्म वा एतत् पुरस्ताद् राष्ट्रस्यात्यौहीत् , अथो ब्रह्मण एव राष्ट्रम् अनुकं करोति , ऐन्द्र एकादशकपालो राज्ञो गृह इति , इन्द्रियं वा इन्द्र, इन्द्रिय एव प्रतितिष्ठति , आदित्यश्चरुर्महिष्या गृह इति , इयं वा अदिति , रस्या एवैनं मात्रां गमयति , इमां एवैनं प्रजाभ्य उपजीवनीयं करोति, धेनुर्दक्षिणा , एतद्ध्यदित्या रूपं , नैर्ऋतश्चरुर्नखावपूतानां परिवृक्त्या गृह इति, निर्ऋतिगृहीता हि वा एषा , अथैतां परिवृञ्जन्ति निर्ऋतिमेव निरवदाय , इयं वा अनुमति , रस्या एवैनं मात्रां गमयति , इमां एवैनं प्रजाभ्य उपजीवनीयं करोति, श्येनी वण्डापस्फुरा दक्षिणा , एतद्धि निर्ऋत्या रूपं, आग्नेयोऽष्टाकपालः सेनान्यो गृह इति , अग्निर्वै सर्वा देवता , देवताभिरेवास्य सेनामुखं जित्यै संश्यति, हिरण्यं दक्षिणा, सत्यं वै हिरण्यम् ,
सत्येनैव जयति , आश्विनो द्विकपालः संग्रहीतुर्गृह इति, रथरेषं एवास्मात्तेन निरवदयते, सवत्यौ दक्षिणेति, सवत्या इव हि सव्यस्थसारथी रथमभि, सावित्रोऽष्टाकपालः क्षत्तुर्गृहे प्रसूत्यै , अथो सवितेव ह्येष प्रजाभ्यः प्रसुवति, वारुणो यवमयो दशकपालः सूतस्य गृहे, मारुतः सप्तकपालो वैश्यस्य ग्रामण्यो गृह इति, सूतमुखा वै विट् क्षत्रमुपतिष्ठते, सूतमुखां वावास्मा एतद्विशं मुखतोऽन्नाद्यायोपदधाति, पौष्णश्चरुर्भागदुघस्य गृह इति, पुष्टिर्वै पूषा, पुष्टिमेवास्य भागे दधाति, वैष्णवस्त्रिकपालस्तक्षरथकारयोर्गृह इति, विष्णुर्वै यज्ञो , यज्ञ एव प्रतितिष्ठति, रौद्रो गावीधुकश्चरुरक्षावापस्य गृहे गोविकर्तस्य चेति , अन्तत एवास्मात्तेन रुद्रं निरवदयते , अथो रुद्र इव ह्येतौ पशू अभिमन्येते, एकादश वा एतानि हवींषि , एकादशाक्षरा त्रिष्टुब् , वीर्यं त्रिष्टुब् , वीर्य एव प्रतितिष्ठति, नाना वा एत एतेषामाशिषोऽवरुन्धते, यत्सह निर्वपेयुररत्निनः स्यु , रैन्द्र एकादशकपालो राज्ञो गृह इति , इन्द्रियं वा इन्द्र , एकधा वा एतद्यजमाने यज्ञस्याशीः प्रतितिष्ठति ,
ऐन्द्रो हि यजमानः ॥

4.3.9 अनुवाकः9
इन्द्रायांहोमुचा एकादशकपालं निर्वपेत् , यदेव किंचार्वाचीनं जनितोरेनः करोति तत एनं अंहोमुङ् मुञ्चति , इन्द्राय सुत्राम्णा एकादशकपालं , य एवोपवादी योऽभिदासति तत एनं सुत्रामा त्रायते , अथैतन् मैत्राबार्हस्पत्यं , सत्यं वै मित्रो , ब्रह्म बृहस्पतिः, सत्यं चैव ब्रह्म चालभ्य दीक्षते, क्षत्रं वै मित्रो , ब्रह्म बृहस्पतिः, क्षत्रं चैव ब्रह्म चालभ्य दीक्षते, यस्य राष्ट्रं शिथिरमिव स्यात् तं एतेन याजयेन् मैत्राबार्हस्पत्येन, क्षत्रं वै मित्रो , ब्रह्म बृहस्पति, र्ब्रह्मणि वा एतत् क्षत्रं प्रतिष्ठापयति द्रढिम्नेऽशिथिरत्वाय , अथैते देवस्व , एते वै देवानां सूता , एते सवपतय , एते सवस्येशते, त एनं सुवते, तस्माद्वा एतमाहुः, पूर्वेद्युर्वा एष सूयतेऽभितश्च सिच्यता इति , अथैष मारुत एकविंशतिकपाल, स्त्रिर्वै सप्तसप्त मरुतो , विण् मरुतो , विशो वा एतन्मध्यतः सूयते, तस्माद्वा एष विशः प्रियो , विशो हि मध्यतः सूयते, वरुणस्य वा अभिषिच्यमानस्येन्द्रियं वीर्यमपाक्रामत् , तत् त्रेधाभवत्, भृगुस्तृतीयमभवत् , श्रायन्तीयं तॄतीयम् , सरस्वतीं तॄतीयं प्राविशत् , यद् भार्गवो होता भवति श्रायन्तीयं ब्रह्मसामं सारस्वतीरापस्तदेवेन्द्रियं वीर्यं तेज आप्नोति, वाचा वा एतमभिषिञ्चन्ति यमभिषिञ्चन्ति, वाक् सरस्वती, सारस्वतीरापो , यत् सारस्वतीभिः सूयते यावत्येव वाक् तया सूयते ॥

4.3.10 अनुवाकः10
अपां वा एतानि चित्राणि , अपां वा एतच् चित्राणि संभरन्ति , अपामेनं चित्रिरभिषिञ्चन्ति, चित्रमस्मिन् दधति, तस्माद्वा एषोऽभिषिक्तश्चित्रं राजेति श्रूयते , अपां ह्येनं चित्रैरभिषिञ्चन्ति, चित्रमस्मिन् दधति, यथा वा इदं मधुकृतो मधु संभरन्येअिवं वा एतदपामोषधीनां रसं संभरन्ति , अपामेनं ओषधीनां रसेनाभिषिञ्चन्ति, रसं अस्मिन् दधति, तस्माद्वा एतमाहु , रसी राजा पुण्या इति , अपां ह्येनं ओषधीनां रसेनाभिषिञ्चन्ति, रसं अस्मिन् दधति, वरुणसवो वा एष, वारुणीरापो , यदद्भिरभिषिञ्चति वरुणमेवैनं अक, र्विषुवान् वै सरस्वती, सारस्वतीरापो , यत् सारस्वतीभिः सूयते विषुवान् भवति, षोडश ग्रहा गृह्यन्ते, षोडश होमा हूयन्ते, तद् द्वात्रिंशत् , द्वात्रिंशदक्षरानुष्टुब्, वागनुष्टुब् , यावत्येव वाक् तया सूयते ॥
इति खिलकाण्डे तृतीयः प्रपाठकः।।