मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०२

विकिस्रोतः तः

गोनामिकः

4.2.1 अनुवाकः1

प्रजापतिर्वा एक आसीत् , सोऽकामयत , बहुः स्यां प्रजायेयेति , स मनसात्मानं अध्यायत् , सोऽन्तर्वाणभवत् , स विजायमानो गर्भेणाताम्यत् , स तान्तः कृष्णः श्यावोऽभवत् , तस्मात्तान्तः कृष्णः श्याव इव भवति , तस्य वा असुरेवाजीवत् , तेनासुनासुरानसृजत , तदसुराणामसुरत्वं , स यस्तदसुराणामसुरत्वं वेदासुमान् ह भवति नैनं असुर्जहाति , सोऽसुरान्त्सृष्ट्वा पितेवामन्यत , तेन पितॄनसृजत , तत् पितॄणां पितृत्वं , स यस्तत् पितॄणां पितृत्वं वेद पितेव ह समानानां भवति , यन्त्यस्य पितरो हवं , तस्मै पितॄन्त्ससृजानाय दिवाभवत् , तेन देवानसृजत , तद्देवानां देवत्वं , स यस्तद्देवानां देवत्वं वेद दिवा ह वा अस्मै देवत्रा भवति , यन्त्यस्य देवा देवहूतिम् , स देवान्त्सृष्ट्वामनस्यतेव , तेन मनुष्यानसृजत , तन्मनुष्याणां मनुष्यत्वं , स यस्तन्मनुष्याणां मनुष्यत्वं वेद मनस्वान् ह भवति नैनं मनो जहाति , उत यदतीव वदत्यति वा चरति तिष्ठन्तेऽस्य मनुष्या मनुषे ततो या योनिरुदशिष्यत सा गौरभवत् , योनिर्वै नामैषा , एतद्वा अस्याः प्रत्यक्षं नाम , अथो आहुः , परोक्षमिति , प्र सहस्रं पशूनाप्नोति य एवं वेद, तस्यां वै पयः पर्यपश्यन् , तां देवा अदुह्र हरितेन पात्रेणामृतं , दुहेऽमृतं य एवं वेद , अथ पितरोऽदुह्र रजतेन पात्रेण स्वधां , दुहे स्वधां य एवं वेद , अथ मनुष्या अदुह्र दारुपात्रेणान्नं ववृ , दुहेऽन्नं ववृ य एवं वेद , अथासुरा अदुह्रायस्पात्रेण स्रवता सुरां , तेऽस्रवन् , स्रवत्यस्य भ्रातृव्यो य एवं वेद , तस्मात् स्रवता न हस्ता अवनेनिजीत , न पिबेत् , एते वा अस्या दोहाः , सर्वैरेवास्या दोहैः सर्वैः कामैर् भुङ्क्ते य एवं वेद चत्वारि वै नभांसि , देवाः पितरो मनुष्या असुराः , सर्वेषु ह वा एतेष्वम्भो नभ इव भवति य एवं वेद , तां वा अकामयन्त , मयि स्यान्मयि स्यादिति , तां देवाः काम्ये ॥ इत्याह्वयन् , सा वा एनानभ्यकामयत , उभये ह वा एनं देवमनुष्या अभिकामयन्ते वारुका एनं आर्त्विज्ये भवन्ति य एवं वेद ॥ श्रव्ये ॥ इति मनुष्याः , सा वा एनानशुश्रूषत , उभये ह वा एनं देवमनुष्याः शुश्रूषन्ते पूर्वास्य जनतामायतः कीर्तिर् आगच्छति य एवं वेद ॥ इलान्दे ॥ इति पितरस्तेभ्यो वा अतिष्ठत , तिष्ठन्त्यस्मिन् पशवो य एवं वेद , अथ यथासुरा आह्वयंस्तेभ्यो वा अत्रसत् , यं द्विष्यात्तस्य तथा गोष्ठ आह्वयेत् , त्रसन्त्यस्मात् पशव , एतैरेव जुहुयात् ॥ गोनामैः संशृङ्या गोर्मूर्धन् पशुकामः ॥ काम्यायै स्वाहा श्रव्यायै स्वाहेलान्दायै स्वाहा ॥ इति गोष्ठो वै नामैष लक्ष्मीः , स्वे वा एतद्गोष्ठे यजमानो भ्रातृव्यस्य पशून् वृङ्क्ते , एतैर्वै ते ता अवृञ्जत , तैरेवैना वृङ्क्ते , संशृङ्गी भवति पशूनां परिगृहीत्यै , यो वै चक्षुषो विभक्तिं वेद चक्षुष्मान् ह भवति , नैनं चक्षुर्जहाति , यद्दिवा पश्यामस्तद्देवानां चक्षुषा पश्यामो , असौ वा आदित्यो देवानां चक्षुः , पश्यन् ह वै देवत्रा करोति , प्र देवयानं पन्थां जानाति य एवं वेद , यज्ज्योत्स्नायां पश्यामस्तत् पितॄणां चक्षुषा पश्याम , श्चन्द्रमा वै पितॄणां चक्षु , र्न ह वा एनं अमुष्मिंल्लोके चक्षुर्जहाति प्र पितृयाणं पन्थां जानाति य एवं वेद यत्तमिस्रायां पश्यामस्तन्मनुष्याणां चक्षुषा पश्याम , एतावद्वाव नः स्वं चक्षु , र्न ह वा एनं अस्मिंल्लोके चक्षुर्जहाति , सर्वमायुरेति य एवं वेद , यदग्नेरन्ते पश्यामस्तदसुराणां चक्षुषा पश्यामा , उच्च वा एष दीप्यते नि च रिष्यति , दीप्यमानं भ्रातृव्यस्य गृहाद्धरेत् , रयिमेवास्य पुष्टिं हरति , आ तु सूर्यस्योदेतोर् जागृयात् , यत् स्वप्नादार्तिम् आर्छेत्तज्जागरितव्यं , रयिमेव पुष्टिमनुजागर्ति ॥

4.2.2 अनुवाकः2

यो वा इडां धेनुं वेद सर्वा ह वा अस्मै दिशो धेनवो भवन्ति सर्वे प्रतिजना दानकामा, स्तामिष्वाशनीरामित्रशोचनिर्विदांचकार , तस्मै सर्वा दिशो धेनवोऽभवन्त्सर्वे प्रतिजना दानकामा,स्तस्मात्स सर्वैः प्रतिजनैर् व्यवहतोपजनन्त्सन्स््र्वा ह्यस्मै दिशो धेनवोऽभवन्त्सर्वे प्रतिजना दानकामा, स्तद्य एवं वेद सर्वा एवास्मै दिशो धेनवो भवन्ति सर्वे प्रतिजना दानकामास्तस्या वा इयमेव पादो , अन्तरिक्षं पादो , द्यौः पादः
समा पादो , अथो आहुः , कृषिः पादा इति , तेन प्रति त्वदानीं तिष्ठति न त्वदानी , यदा सुसस्यं भवत्यथ प्रतितिष्ठति , यदा न सस्यं भवत्यथ न प्रतितिष्ठति , भवति ह वा अस्य सस्यं नास्य सस्यं व्यृध्यते य एवं वेद , तस्या वा अद एव पृष्ठम् , अन्तरिक्षमात्मा , इयम् उरस् , दिशः पार्श्वे , समुद्रौ कुक्षी , असा आदित्यः शिरस् , अग्निरास्यम् , वातः प्राणः , गायत्य््भिधानी , सर्वमायुरेति य एवं वेद , ऊधरुत्तरवेदिः , पवमानो वत्सः , एष वा एनां प्रस्तौति , प्रत्तान् ह वा इमांल्लोकान् दुहे य एवं वेद , बृहद्रथन्तरे द्वौ स्तनौ , वामदेव्यं च यज्ञायज्ञियं च द्वौ , ओषधीरेव देवेभ्यो रथन्तरेणादुह, पशून् बृहता , आपो वामदेव्येन , यज्ञं यज्ञायज्ञियेन , तद्य एवं वेदौषधीरेवास्मै रथन्तरेण दुहे , पशून् बृहता , आपो वामदेव्येन , यज्ञं यज्ञायज्ञियेन , इडा वा इदं सर्वं , स सहस्रं पशून् प्राप , प्र सहस्रं पशूनाप्नोति य एवं वेद ॥

4.2.3अनुवाकः3

यत्र प्राचीनप्रवणं समूलं भूम्या स्यात्तदुपोदये सूर्यस्य हस्ता अवनिज्य दर्भस्तंब उदशरावं निनयेत् , कामंकामं मा आवर्तय ॥ इति कामेनैवास्मै कामं आवर्तयति यत्कामो भवति , यो वै कामं साक्षाद् वेद ताजग्घ वा एनं स कामा आगच्छति यत्कामो भवति , पशुषु वा अस्माकं कामः , पशूनामोषधीषु , ओषधीनामप्सु ,ओषधीरेव कामेन समस्राट् , ता अस्मै कामं समर्धयन्ति यत्कामो भवत्याप एव , अस्या वा एष वव्रिरुत्सृष्टश्चरति लोमशो लोमशाया , स्तस्मादेषा शाश्वसत्येति , अग्निर् ह्यस्या आस्यं , वातः प्राणः , यत्र गोभिः संगच्छेत तद् ब्रूयात् ॥ प्रशस्ताः स्थ कल्याण्यः ॥ इति , इयं वा एषा , इमां वा एतत्सभागयति ,
अत्रासुका अस्मात् पशवो भवन्ति य एवं वेद , देवाश्च वा असुराश्चास्पर्धन्त , अदितिर् देवेष्वासीत् कुस्तासुरेषु , ते देवा अमन्यन्त यद्यभिजेष्यामः कुस्तायाः शिरा आहनिष्यामा इति , यद्यभिजेष्यामा , इत्यसुरा अमन्यन्तादित्याः शिरा आहनिष्यामा इति , तां देवा अभिजित्याघ्नत , यस्य वै जितं यस्य विजितं तस्यैषा गृहे हन्यते , एषा वै क्षुत् , क्षुधं वा एतद्धते , तद्य एवं विद्वान् एकाष्टकायां गां हते संवत्सरायैव क्षुधं हते, प्रजापतिर्वा एक आसीत् , सोऽकामयत , बहुमनु स्यां प्रजायेयेति , स आत्मानमैट्ट , स मनोऽसृजत , तन्मन एकधासीत् , तदात्मानमैट्ट , तद्वाचमसृजत , सा वाग् एकधासीत् , सात्मानमैट्ट , सा विराजमसृजत , सा विराडेकधासीत् , सात्मानमैट्ट , सा गामसृजत , सा गौरेकधासीत् , सात्मानमैट्ट , सेडामसृजत , सेडैकधासीत् , सात्मानमैट्ट , सेमान् भोगानसृजत , यैरस्या इदं मनुष्या भुञ्जत एते वा अस्या भोगाः , सर्वैरेवास्या भोगैः सर्वैः कामैर् भुङ्क्ते य एवं वेद , गौर्वै वाक् , गौर्विराट् , गौरिडा, गौः खल्वेव गौ , र्गौरिदं सर्वं , सर्वा ह वा एनं एताः श्रयन्ते य एवं वेद , यद्वै तदात्मानं ऐट्ट सेडाभवत् ,
तदिडाया इडात्वं , स यस्तदिडाया इडात्वं वेदेट्टे ह वै स्वमात्मानं , भूत्यै ॥

4.2.4 अनुवाकः4

या रोहिणी तामरुणा , तां गौरी , तां बभ्रूः ॥ तदिन्द्रा उदाजत वसुर्नाम रूपं पशूनां ॥ विन्दते वसु , न वसु रुणद्धि य एवं वेद, या शितिपृष्ठा तां मन्दिस्तां मेनी , तां शबली , तां शितिबाहुस्तां शुद्धवाला ॥ तद् बृहस्पतिरुदाजतेडा नाम रूपं पशूनां ॥ बह्वीर्ह वा एनं इडाः श्रयन्ते य एवं वेद , या पृषती तां पिशङ्गी , तां सारङ्गी , तां कल्माषी , तां पृश्निस्तां श्वेता ॥ तन्मरुता उदाजन्त ज्योतिर्नाम रूपं पशूनां ॥ ज्योतिष्मान् भवति य एवं वेद , या सुरूपा तां श्यामा , तां श्येनी , तां कृष्णा ॥ तत् प्रजापतिरुदाजतायुर्नाम रूपं पशूनां ॥ आयुष्मान् भवति य एवं वेद , चतस्रः प्रथमा, श्चतस्र उत्तमाः , द्विः षण् मध्यतो, ता द्विर्दश , दशाक्षरा विराट् ,वैराजाः पशवः , पशून् एवावरुन्धेष ॥ वस्व्यै हिंकुरु , तस्यै प्रस्तुहि , तस्यै मेऽवरुद्यै, ॥ इति पुरस्ताद् बहिःपवमानस्य वदेत् ॥ इडायै हिंकुरु , तस्यै प्रस्तुहि , तस्यै मेऽवरुद्यैपु ॥ इति पुरस्तादाज्यानां वदेत् ॥ ज्योतिषे हिंकुरु , तस्यै प्रस्तुहि , तस्यै मेऽवरुद्यैपु ॥ इति पुरस्तान्माध्यंदिनस्य पवमानस्य वदेत् ॥ आयुषे हिंकुरु , तस्यै प्रस्तुहि , तस्यै मेऽवरुद्यैस् ॥ इति पुरस्तादार्भवस्य पवमानस्य वदेत् ॥ यज्ञो वै पशूनामायतनं , स्वे वा एतदायतने यजमानो भ्रातृव्यस्य पशून् वृङ्क्ते , अनपक्रामुका अस्मात् पशवो भवन्ति ॥

4.2.5 अनुवाकः5

वसीयस्येहि , श्रेयस्येहि , भूयस्येहि , चित्ता एहि , दधृष्येहि , इडा एहि , सूनृता एहि , चिदसि , मनासि , धीरसि वस्वी रन्तिः सुमनाः ॥
सूनरि विश्वा त्वा भूतानुप्राणन्तु , विश्वा त्वं भूतानुप्राण , भूयस्यायुरसि , इष्टिरसि , सरूपवर्षा एहि ॥ एमामनु सर्पतेमौ भद्रौ धुर्या अभि । नीव शीर्षाणि मृढ्वं॥
सा नः सुप्रतूर्तिः प्रिया नः सुहार्णः प्रियवनिर्मघवनिरन्ता एहि , जुष्टा एहि , इडा एहि , अदिता एहि , उपहूत उपहवं तेऽशीय , सुहवा ना एहि सह रायस्पोषेण ,
देवीर्देवीरभि मा निवर्तध्वं ॥ स्योना स्योनेन घृतेन मा समुक्षत ॥ नमे तदुपदंभिषर्धृषिर् ब्रह्मा यद् ददौ । समुद्रादुदजनि वः स्रुचा ॥ वारग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर् दिशम् ॥

4.2.6 अनुवाकः6

वसीयस्येहीति ,
ब्रह्म वै वसीयो , ब्रह्म वा एतदत्याह्वयति , श्रेयस्येहीति क्षत्रं वै श्रेयः , क्षत्रं वा एतदत्याह्वयति , भूयस्येहीति , विड्वै भूयसी , विशँ वा एतदत्याह्वयति , चित्ता एहीति , मनो वै चित्तं , मनो वा एतदत्याह्वयति , दधृष्येहीति , वाग् वै दधृषि , वाचं वा एतदत्याह्वयति , इडा एहीति , पशवो वा इडा , पशून् वा एतदत्याह्वयति , सूनृता एहीति , अन्नं वै सूनृता , अन्नं वा एतदत्याह्वयति , एता वै सप्त देवगव्य , स्ताः क्रीतो वैतहोत्रो विदांचकार , ताभिरदः कुरूणां कौन्ते पशूनत्याह्वयत् , ताः कुरवो ब्राह्मणेष्वन्वैच्छन् , ताः कुमारवत्याश्वदक्षिणा अविन्दन् ,
सोऽब्रवीत् , मा सूर्ष्योतत , एताभिर्वा अहं एता अत्याह्वयिष्यामीतराभिरितरा ,
यानि खलु वा एतासां प्रियाणि धामानि तानि क्रीतो न वेदेति, स संयत्ते संग्रामे छदिर्दर्श , एताभिरेवैता अत्याह्वयिष्यामीतराभिरितरा , यतरत्र खलु वा एता अत्याहूयन्ते तत् पशवोऽभिसंक्रामन्ति यत्र पशवस्तद्देवा , यत्र देवास्तदिन्द्रस् , यतरान् वा एतेऽभिसंक्रामन्ति ते जयन्ति जयति संग्रामं ॥

4.2.7 अनुवाकः7

सा वै सृष्टोभयान् देवमनुष्यानत्यमन्यत , तां देवा दर्शपूर्णमासाभ्यां उपप्रास्तृणत , तां वा एतदाप्नुवन् यदिडां , तां वा एतदाप्त्वा हरन्तो मन्यन्ते यदिडामुपह्वयन्ते , यर्हि तूष्णीमुपह्वयेत तर्ह्य् एताः सप्त वदेत् , यर्ह्युच्चैस्तर्ह्युत्तराः सप्त, धाम धामासां वर्णं वर्णमुपगच्छति , आ ह वा एनं अप्रतिक्शातं गच्छति य एवं वेद यत्र समूला ओषधीरुपगच्छेत् पशून् वा तदेता एव सप्त वदेत् , धामधामासां वर्णं वर्णमुपगच्छति , आ ह वा एनं अप्रतिक्शातं गच्छति य एवं वेद , सप्त स्थवीर्येण याजयेद्यस्य सप्त स्थविराश्चरमामन्तमा स्युर्वसीयस्येहि , श्रेयस्येहीति , एतदेतदेवास्मा अत्याह्वयति , यो वैश्यः शूद्रो वा बहुपुष्टः स्यात्तस्य गवां साण्डं वत्सतरम् अपगमयेत ॥ इलान्दाः स्थ ॥ इति इलान्दा हि पशवः पूष्णो नक्षत्रं पोषयिष्णु ॥ इति विश्येषु वा एतच्चरति पूष्णो नक्षत्रं पोषयिष्णु , तदेवापधापयते , तं अपाकुर्वीत ॥ आयुर्मे दाs , वर्चो मे दाs , रयिं मे दाः, पुष्टिं मे दाः ॥ इतिरयिमेवास्य पुष्टिं हरति , तं इतोऽभिसृज्याथेतोऽत्याह्वयेत् , वसीयस्येहि , श्रेयस्येहीति , एतदेतदेवास्या अत्याह्वयति , नास्य किंचनोदशिषत् , ग्रामकामं याजयेत् सारस्वत ऋग्भ्यां , संवत्सरो वै सरस्वान् , संवत्सरेणैवास्मै ग्रामं च्यावयति , वसीयस्येहि , श्रेयस्येहीति , एतदेतदेवास्या अत्याह्वयति , पशुकामं याजयेत् सारस्वत ऋग्भ्यां , संवत्सरो वै सरस्वान् , संवत्सरेणैवास्मै पशूंश्च्यावयति , वसीयस्येहि , श्रेयस्येहीति , एतदेतदेवास्मा अत्याह्वयति , सर्वासां दुग्धे चतुःशरावं ओदनं पचेद् ब्राह्मणेभ्यः पशुकामो , यच्चतुःशरावो , दिग्भ्य एवास्मै तेन पशूनवरुन्धे ् , यद् ब्राह्मणेभ्यो , ब्रह्मणस्तेन , न छिन्नं देयम् , पशुकाम इव ह्येष , वासो हिरण्यं वा देयम् , ईजानस्यास्य पशवो भूयांसो भवन्ति ॥

4.2.8 अनुवाकः8

प्रजापतिर्वै न व्याहरत् , स आत्मनि एव पुण्यमायच्छत् , आत्मनः पुण्यं न निरवदत् , एतद्वै तद्यजुर्वदन्नान्यथा ब्रूयात् ॥ पुण्यं प्रशस्तं ॥ इति ब्रूयात् , आत्मनि एव पुण्यं यच्छति , आत्मनः पुण्यं न निर्वदति , यामदानीयाय ददाति तामस्य पशवोऽन्वपक्रामन्ति , यदि मन्येत , अदानीयायादामित्येतदेव यजुर्वदेत् , नमे तदुपदंभिषर्धृषिर् ब्रह्मा यद् ददा इति , तदेवैतेनापूरयति , तदाप्याययति , समुद्र इव ह वा अस्य व्यच्यमानो न क्षीयते य एवं वेद ॥ वीरवतीर्भूयास्त या नो वीरवतोऽकर्त ॥ इति पुमांसं जातमभिमन्त्रयेत ॥ भूयसीर्भूयास्त या नो भूयसोऽकर्त ॥ इति स्त्रियं जाताम् ॥ अन्नादा भूयास्त ये नोऽन्नादानकर्त ॥ इति बलिहृतोऽभिमन्त्रयेत ॥ भूयांसो भूयास्त ये नो भूयसोऽकर्त ॥ इति सभासदः , पादौ प्रत्यवहरेत् , एते वै पशवा , उपोप ह वा एनं पशवो यन्ति नापयन्ति य एवं वेद ॥ पुण्या पुण्यमसूत् , चित्रा चित्रमसूत् , ऐडो मे भगवोऽजनिष्ठा मैत्रावरुणः , ऊर्जा मे भगवः सह जनिष्ठाः , संविदं मे विन्द ॥ इति पुमांसं जातमभिमन्त्रयेत , ऊर्जैवास्मै सह जायते , गच्छति पशूनां संविदं ॥ पुण्या पुण्यामसूत् , चित्रा चित्रामसूत् , ऐडी मे भगवत्यजनिष्ठा मैत्रावरुणी , रायस्पोषेण मे भगवती सह जनिष्ठा , ज्ञात्रं मे विन्द ॥ इति स्त्रियं जाताम् , रायस्पोषेणैवास्मै सह जायते गच्छति पशूनां ज्ञात्रं , ये प्राचीनं एकाष्टकाया जायन्ते पूर्वस्य ते सस्यस्योत्तमा , ये प्रतीचीनं अपरस्य ते सस्यस्य प्रथमा,स्तान् उभयान्त्सहाभिमन्त्रयेत , उभयान् एनान्त्सहावरुन्धे ा ॥

4.2.9 अनुवाकः9

यो वै शक्तिं वेद स तच् शक्नोति यच् शिक्षति , इयं वै शक्ति , र्यो वा अस्या भूयिष्ठभाग् भवति स तच् शक्नोति यच् शिक्षति , भूयिष्ठभाग्घ वा अस्या भवति य एवं वेद , पशवो वै शक्ति , र्यो वै पशूनां भूयिष्ठभाग् भवति स तं शक्नोति यच् शिक्षति , भूयिष्ठभाग्घ वै पशुमान् भवति य एवं वेद , तस्या व्रतं न हतेति ब्रूयात् ॥ कुरुत इति ब्रूयात् , नान्तर्वत्नीति ब्रूयात् , विजन्या इति ब्रूयात् , भुवनं असि सहस्रमिन्द्राय त्वा सृमोऽददात् ॥ इति सृमो वै नामासुर आसीत् , तस्येयं पृथिवी पशुभिः पूर्णासीत् , तानिन्द्रोऽवृङ्क्त , तस्मादाहुः, ऐन्द्राः पशवा इति , यावतीनामिदं करोमि भूयसीनां उत्तरां समां क्रियासम् ॥ इति गवां लक्ष्म कुर्यात्, भूयसीनां एवोत्तरां समां करोति , पशवो वै सृष्टा एकैकं नक्षत्रं उपातिष्ठन्त , तेन प्राजायन्त , न भूमानं अगच्छन् , ते रेवतीमुपातिष्ठन्त, रेवत्यां प्राजायन्त , रेवत्यां भूमानमगच्छं , स्तस्माद्यत् किंच पशूनां कुर्वीत तद् रेवत्यां कुर्वीत , उप ह्येनं पशवस्तिष्ठन्ति , प्रास्य पशवो भवन्ति य एवं वेद , यस्य दक्षिणतः प्रतिभिन्नं दक्षिणत उपाश्चरत् तत्त्वष्टुर्लक्ष्म देवलक्ष्मं यज्ञियं यज्ञकामः कुर्वीत , उप ह्येनं यज्ञो नमति , यस्योभयतः प्रतिभिन्नमुभयत उपाश्चरत्तद् गायत्रं लक्ष्म पशव्यं पशुकामः कुर्वीत , पशुमान् भवति , यस्योभयतः प्रतिभिन्नमुभभयत उपाश्चरत्तत् त्रैष्टुभं लक्ष्म पूतस्य रूपं प्रतिष्ठाकामः कुर्वीत , गच्छति प्रतिष्ठां , वसिष्ठस्य स्थूणाक३र्ण्यो, वसिष्ठो वै रयिमपश्यत् , तामात्मन्नधत्त , यत् स्थूणाकर्णीः कुरुते पशुष्वेव रयिं धत्ते , जमदग्नेः कर्करिकर्ण्यो, जमदग्निर्वै पुष्टिमपश्यत् , तामात्मन्नधत्त , यत् कर्करिकर्णीः कुरुते पशुष्वेव पुष्टिं धत्ते , असुराणां सास्नाकृत्यः , क्षिप्रं बह्वीर्भवन्ति क्षिप्रं पराभवन्ति , अमेध्याः कर्णाः , क्षिप्रं बह्वीर्भवन्ति , यज्ञस्त्वेनाननूपनमतीव , निर्ऋत्याः छिद्रक३र्ण्यो, यच् छिद्रकर्णीः कुर्वीत निर्ऋतिरस्य पशोर् निगृह्णीयात् , न प्रछिन्द्या कर्ण्यः कार्या न दात्राकर्ण्यः , पराचीनं इव हि तन् निवृत्तं अगस्त्यस्य विष्ट्यकर्ण्यः, कश्यपस्य कम्बुन्युद्धस्ता , , इन्द्रस्याक्लस्ताs , अथो आहुः , प्रजापतेरिति , उभयं ज्येष्ठलक्ष्मं ज्यैष्ठ्यकामः कुर्वीत, प्र समानानां ज्यैष्ठ्यमाप्नोति , प्रजापतिः पशूनसृजत , स वा असृग् एव नासृजत , असृष्टँ वा एतत् , तदस्नोऽसृक्त्वं , क्रूरं पशूनां कर्ष्या इति वै सोऽसृग् नासृजत , क्रूरं वा एष पशूनां कुरुते योऽक्ष्णुते , यदनक्षितास्तेनाक्षिताः , अथ यदनक्षिता इति श्रूयन्ते तेनाक्षिताः, तदाहुः , न वा एतं एता अमुत्रागच्छन्ति या अनक्षिता इति , तस्मादक्षितव्याः , न तेजनेनाक्ष्णुयात् , वज्रो वै तेजनं , यत्तेजनेनाक्ष्णुयाद्वज्रेण पशूनर्पयेत् , न श्यामेनायसा क्रूरं , तदशान्तम् इक्षुकाण्डमप्सु वासयित्वा तेनाक्षितव्या, स्तद्धि शिवं , तच् शान्तम् , अथो आहु , र्लोहितेनायसेति , तद्धि शिवं तच् शान्तम् ॥

4.2.10 अनुवाकः10

इह प्रजा विश्वरूपा रमन्ताम् अस्मिन् गोष्ठे विश्वभृतो जनित्रीः ।
अग्निं कुलायमभि संविशन्तीः समासृजन्तु पयसा घृतेन ॥
इति गाः सायमायतीरभिमन्त्रयेत , अग्निर्वा एतासां योनिः , अग्निः कुलायम् ,
स्व एवैना योनौ स्वे कुलाये संवेशयति , नास्य पशवो नक्तमार्तिम् आर्छ् न्ति य एवं वेद ॥
सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः । समिन्द्रो यो धनंजयः ।
संजग्माना अविह्रुता अस्मिन् गोष्ठे पुरीषिणीः । स्वावेशा ना आगत ॥
इति गाः संसृजेद्या अस्य पुरा स्युर् याश्चान्यतो विन्देत , पशवो वै घृतं ,
अग्नी रुद्रो , यज्जुहुयाद् रुद्रायास्य पशूनपिदध्यात् , तत् संसृज्या एव ,
उभयीर्ह भूयसीर्भवन्ति , सं वः सृजत्वर्यमेति , यज्ञो वा अर्यमा , यज्ञेनैवैनाः संसृजति , सं पूषेति , पुष्टिर्वै पूषा , पुष्ट्यैवैनाः संसृजति , सं बृहस्पतिरिति ,
ब्रह्म वै बृहस्पति , र्ब्रह्मणैवैनाः संसृजति , समिन्द्रो यो धनंजय इति , इन्द्रियं वा इन्द्रस् , इन्द्रियेणैवैनाः संसृजति , रेवती तन्तिः पृथिवी माता रेवतीरापा ओषधयः ॥
ता नो हिन्वन्तु सातये धिये जुषे ॥ इति तन्तिं वितनुयात् , ताम् अनुमृज्यात् ॥ रय्या त्वा पुष्ट्यानुमार्मिधि ॥ इति रय्यैवैनां पुष्ट्यानुमार्ष्टि , तस्या व्रतं न रिक्ता स्यात् , नोपर्युपरि संचरेयु , र्नाभिवर्षेन्नाभितपेत् , एतद्वै बस्तो रामकायनो विदांचकार तन्त्या वितननं , स सहस्रं पशून् प्राप , प्र सहस्रं पशूनाप्नोति य एवं वेद ॥
पिता वत्सानां पतिरघ्न्यानां उतायं पिता महतां गर्गराणां ।
रेतोधां त्वा यशोधां रायस्पोषायोत्सृजेत् ॥
इत्य् ऋषभस्य कर्ण उत्सृजमानो वदेत् , रेतोधां एवैनं यशोधां रायस्पोषायोत्सृजते ,
यो वैश्यः शूद्रो वा बहुपुष्टः स्यात्तस्य गवां गोष्ठादेकविंशतिं शकानि आहृत्यैकविंशतिम् आहुतीर् जुहुयात् , एकविंशतिर्वै मनुष्यलोकाः , मनुष्यलोकेभ्य एवास्मै पशूनवरुन्धेहु , एतैरेव जुहुयात् गोनामैरग्रेत्वर्या गोर्भसदि पशुकामो ,
मुखं वा एष पशूनां , मुखत एवास्मै पशून् निनयति ॥

4.2.11 अनुवाकः11

यासामिन्द्र उदाजत वसु नाम रूपं पशूनां उषसं धाम पश्यमानः ॥ तासामयं योनिरयं गोष्ठ इह रयिः पुष्टिः ॥ स्वाहा ॥ इति जुहुयात् ॥ यासां बृहस्पतिरुदाजतेडा नाम रूपं पशूनां संगवं धाम पश्यमानः ॥ तासामयं योनिरयं गोष्ठ इह रयिः पुष्टिः ॥ स्वाहा ॥ इति जुहुयात् ॥ यासां मरुत उदाजन्त ज्योतिर्नाम रूपं पशूनां मध्यन्दिनं धाम पश्यमानाः ॥ तासामयं योनिरयं गोष्ठ इह रयिः पुष्टिः ॥ स्वाहा ॥ इति जुहुयात् ॥ यासां प्रजापतिरुदाजतायुर्नाम रूपं पशूनामपराह्णं धाम पश्यमानः ॥ तासामयं योनिरयं गोष्ठ इह रयिः पुष्टिः ॥ स्वाहा ॥ इति जुहुयात् , एतानि वा अह्नो रूपाणि , एतेषु वा अह्नो रूपेषु देवाः पशूनां रूपाण्यवृञ्जत , तदेतेष्वेवाह्नो रूपेषु यजमानो भ्रातृव्यस्य पशून् वृङ्क्ते , घृतेन जुहोति , पशवो वै घृतं ,
पशुभिरेव पशून् वृङ्क्ते , तन् न सूर्ष्यंनो , प्रातरेवान्तर्गोष्ठासु गोषु होतव्यं , सर्वा एनाः सहावरुन्धेति , एतैरेव जुहुयाद्गोष्वाकृतासु , योनितो वा एतत् पशूनग्रहीत् , अपिहीनाः परिपरिणः कृण्वन्ति , एतैरेव जुहुयात् संग्रामे , अथाश्वानभिमन्त्रयेत ॥ मित्रभृतः क्षत्रभृता ओजोभृतो बलभृतो , वयं जयेम वयं सहेम , वयं भवेम , वयं पुषेम ॥ इति
जयति संग्रामं ॥ रोहिणीर्वो वृञ्जे गायत्रेण छन्दसा , अरुणा वो वृञ्जे त्रैष्टुभेन छन्दसा , गौरीर्वो वृञ्जे जागतेन छन्दसा, बभ्रुवो वो वृञ्जा आनुष्टुभेन छन्दसा
गर्भान् वो वृञ्जे पाङ्क्तेन छन्दसा , रूपाणि वो वृञ्जे शाक्वरेण छन्दसा , सर्वान् वो वृञ्जेऽनाप्तेन छन्दसा, तत्सप्त , सप्तपदा शक्वरी , शाक्वराः पशवः ,
पशून् एवावरुन्धेना , गायत्री प्रथमा , गायत्युु्त्तमा , तेजो वै गायत्री ब्रह्मवर्चसं , तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयतः पशून् परिगृह्णाति ॥

4.2.12 अनुवाकः12

प्रजापतिर्वै त्रीन्महिम्नोऽसृजताग्निं वायुं सूर्यम् , ते चत्वारः पितापुत्राः सत्त्रमासत , ते स्वेदं समवौक्षन् , तदभवत् , तद्वा अस्यैतन्नामाभूदिति , सर्वमभूदिति , तद्वा अस्यैते नामनी क्रूरे अशान्ते , तस्मादेते न ग्रहीतव्ये , क्रूरे ह्येते अशान्ते ,
प्रजापतिर्वै स्वां दुहितरं अभ्यकामयतोषसं , सा रोहिदभवत् , ताम् ऋश्यो भूत्वाध्यैत् , तस्मा अपव्रतमछदयत् , तमायतयाभिपर्यावर्तत , तस्माद्वा अबिभेत् , सोऽब्रवीत् , पशूनां त्वा पतिं करोमि , अथ मे मा स्था इति , तद्वा अस्यैतन्नाम पशुपतिरिति , तमभ्यायत्याविध्यत् , सोऽरोदीत् , तद्वा अस्यैतन्नाम रुद्र इति , ते वा अस्यैते नामनी शिवे शान्ते , तस्मादेते कामं ग्रहीतव्ये , शिवे ह्येते शान्ते , ततो यत् प्रथमं रेतः परापतत्तदग्निना पर्यैन्द्ध , तदासामघ्न्यात्वं , ततो यदत्यस्रवत् तद् बृहस्पतिरुपागृह्णात् , तदासां उस्रियात्वं , अशकामेति , तदासां शक्वरीत्वं , गातुमविदामेति , तदासां गोत्वं , एतानि वा आसां नामानि , सर्वैरेवासां नामभिः सर्वैः कामैर् भुङ्क्ते य एवं वेद , पशवो वै सृष्टा एतानि नक्षत्राण्यन्वपाक्रामन् पौर्णमासीमष्टकाममावास्यां चित्रामश्वत्थं , तस्मात्तेषु गौर्नापाकृत्या , यामपाकुर्यात्तामस्य पशवोऽन्वपक्रामेयुः ॥

4.2.13 अनुवाकः13

देवा वै सर्वे सहान्तर्वन्तोऽभवन् , ते सर्वे सह व्यजायन्त , तदेकवृदशयत् संवृत्तं ,
तद्देवा इत्थं चेत्थं च व्यत्यचरन् , तन् मित्रावरुणा अचायताम् , स्याद्वै य एनद्विकुर्यादिति , तद् गां द्विपदीमकुरुताम् , सा न प्रत्यतिष्ठत् , तस्या अन्यत आहृत्येर्मौ प्रत्यधत्तां , तस्मादेता अबद्धा अस्थन् , सा चतुष्पदी भूत्वा प्रत्यतिष्ठत् ,
प्रति प्रजया च पशुभिश्च तिष्ठति य एवं वेद , तस्यां वै पयः पर्यपश्यन् , तां देवा अदुह्र हरितेन पात्रेण यज्ञं चामृतं च , दुहे यज्ञं चामृतं च य एवं वेद , अथ पितरोऽदुह्र रजतेन पात्रेणोर्जं च स्वधां च , दुह ऊर्जं च स्वधां च य एवं वेद , अथ मनुष्या अदुह्र दारुपात्रेणान्नं च प्रजां च , दुहेऽन्नं च प्रजां च य एवं वेद , अथा ऋषयोऽदुह्र चमसेन छन्दांसि च पशूंश्च , दुहे छन्दांसि च पशूंश्च य एवं वेद , अथ गन्धर्वाप्सरसोऽदुह्र पुष्करपर्णेन पुण्यं गन्धं , दुहे पुण्यं गन्धं य एवं वेद , अथ सर्पा अदुह्रालापुना विषं , दुहे भ्रातृव्याय विषं य एवं वेद , अथासुरा अदुह्रायस्पात्रेण स्रवता भूतिं च पराभूतिं च , दुहे भ्रातृव्यायाभूतिं च पराभूतिं च य एवं वेद , तां वा इन्द्रोऽनयैवोपासीदत , इदं सर्वमदुहद्यदिदं किंच , तां दुग्ध्वा प्रत्यनुदत , सा प्रतिनुत्ता कुमना अतिष्ठद् ध्यायन्ती , तां प्रजापतिरचायत् , ध्यायति वा इति , सोऽब्रवीत् , किं ध्यायसीति , साब्रवीत् , ये माधुक्षत ते मा प्रत्यनुदन्तेति , सोऽब्रवीत् , मा सूर्क्षस्तथा वै त्वा कर्ष्यामि यथोभयेषां देवमनुष्याणां प्रिया भविष्यसीति , तस्या घृतं पद्भ्योऽक्षरत् , तस्य घृतस्यादाय मुखं व्यमार्ट् ॥ उभयेषां त्वा देवमनुष्याणां प्रियां करोमि ॥ इति
तस्मादेषोभयेषां देवमनुष्याणां प्रिया , एतेनैव श्रोत्रियस्य मुखं विमृज्यात् ,
उभये ह्येतं देवमनुष्या विदुः , एतेन कुमार्या , एतेन पतिकामाया , एतद्वै गोवर्चसं न सर्वस्मा इव कुर्यात् , यस्मै तु कुर्यात्तेजस्वी स्यात् ॥

4.2.14 अनुवाकः14

यो ललामः शितिपाञ् शितिककुञ् शितिभसञ् शितिवालः साशारिः सामक्ताष्टयूथा ,
प्राष्टौ यूथानि आप्नोति यस्य तादृङ्ङ् ऋषभो भवति , यस्य वालतुषः प्रतिष्ठितः सा प्रतिष्ठिता , प्रति प्रजया च पशुभिश्च तिष्ठति यस्य तादृङ्ङ् ऋषभो भवति , यः समन्तः शितिबाहुः सा समन्ता , समन्तः प्रजया च पशुभिश्च भवति यस्य तादृङ्ङ् ऋषभो भवति , यः शितिपृष्ठः सा तन्तिः , पशुमान् भवति यस्य तादृङ्ङ् ऋषभो भवति , अथ यस्यैकरूपस्य सतो लक्ष्म भवति सादारसृत् , नास्यामित्रो गा विधावति यस्य तादृङ्ङ् ऋषभो भवति , याजलोम्नी सा पोषयिष्णु ,
अजा इव प्रजायन्ते यस्य तादृङ्ङ् ऋषभो भवति , या श्यामा सा पोषयिष्णुः ,
क्षिप्रं बह्वीर्भवन्त्यपनिषादुकास्तु , यारुणा सा पोषयिष्णुः , क्षिप्रं बह्वीर्भवन्ति हिमेरवस्तु , या श्वेता सा पोषयिष्णुः , क्षिप्रं बह्वीर्भवन्ति दुश्चर्माणः तु , नाञ्जिः कार्यो न पृश्निः , अमिथुनं तत् , अथो व्याघ्ररूपं वै पृश्निः , बिभ्यत्यस्मात् पशवः , कनीयांसोऽस्य पशवो भवन्ति यस्य तादृङ्ङ् ऋषभो भवति , तदाहुः ,
बीजं एवोत्सृज्यं इति , एतद्वा आसां बीजं यद् रोहितं रूपं , पशुमान् भवति यस्य तादृङ्ङ् ऋषभो भवति , यो धूम्रस्ताम्रधूम्रः स प्रजापतिः , प्र प्रजया च पशुभिश्च जायते यस्य तादृङ्ङ् ऋषभो भवति , यस्य लोमशा ककुत्स स्तम्बी , स्तम्बीव प्रजया च पशुभिश्च भवति यस्य तादृङ्ङ् ऋषभो भवति , यस्योर्ध्वा ककुत्ता ऊर्ध्वा आप्यायन्ते , ऊर्ध्वा अस्य पशवा आप्यायन्ते यस्य तादृङ्ङ् ऋषभो भवति , यस्य दक्षिणतः पन्नं सा पापी सा स्रवन्ति , अथ यस्य सव्यत उन्नतं सा पुण्या सोपाहरन्ती , या उत्पृष्टिस्ता ऊर्ध्वा आप्यायन्ते , ऊर्ध्वा अस्य पशवा आप्यायन्ते यस्य तादृङ्ङ् ऋषभो भवति , यस्य सव्यतः पन्नं सा पापी सा स्रवन्ति , अथ यस्य दक्षिणत उन्नतं सा पुण्या सोपाहरन्ती , या सव्यसाचिनी सा पुण्या सोपाहरन्ती , या संशृङ्गी सा गोष्ठस्तां न प्रछिन्द्यात् , अनुसृष्टस्य गोषु स्याताम् , एतौ वै पशूनामस्कन्नं हविः , अस्कन्नमस्य हविर्भवति यस्यानुसृष्टिर्गोषु भवति ,
उक्षा चास्य वेहच्च गोषु स्याताम् , एतौ वै पशूनां ऊर्जं बिभृतो , अक्षोधुका अस्य पशवो भवन्ति यस्योक्षा च वेहच्च गोषु भवतः ॥
इति खिलकाण्डे गोनामिको द्वितीयः प्रपाठकः।।२।।