मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०१

विकिस्रोतः तः
Jump to navigation Jump to search

पुरोडाशब्राह्मणम्

4.1.1 अनुवाकः1
वनस्पतीन् वा उग्रो देव उदौषत् , तं शम्या अध्यशमयन् , तच् शम्याः शमीत्वं , यच् शमीशाखया वत्सानपाकरोति शान्त्यै, पर्णवती कार्या, पशूनां वा एतद् रूपं , पशुमान् भवति, यदपर्णा स्याद् दण्डस्य तद् रूपं, वज्रो दण्डो, वज्रेण पशूनभिप्रवर्तयेत् , तृतीयस्यां वै दिवि सोम आसीत् , तं गायत्री श्येनो भूत्वाहरत् , तस्य पर्णमछिद्यत, ततः पर्णोऽजायत, तत् पर्णस्य पर्णत्वं , तस्मात्सर्वेऽन्ये वनस्पतयः पर्णिनो , अथैष पर्ण उच्यते , यत् पर्णशाखया वत्सानपाकरोति तं एव सोममवरुन्धेपछ, देवा वै ब्रह्म समवदन्त , तत् पर्ण उपाशृणोत् , सुश्रवा वै नामैष, न बधिरो भवति य एवं वेद, ब्रह्म वै पर्णो , यत् पर्णशाखया प्रार्पयति ब्रह्मणैवैनाः प्रार्पयति , इषे त्वेति , इषं ऊर्जं यज्ञे च यज्ञपतौ चाधात् , वायवः स्थेति , वायुर्वा अन्तरिक्षस्याध्यक्षो , अन्तरिक्षदेवत्याः पशवो , वायुरेवैनानन्तरिक्षाय परिददाति , प्र वा एनान् एतदाकरोति यद्वायवः स्थेत्याह , आरण्यस्येव हि वायु , र्देवो वः सविता प्रार्पयत्व् इति, सवितॄप्रसूत एवैनाः प्रार्पयति, श्रेष्ठतमाय कर्मणा इति, यज्ञो वै श्रेष्ठतमो , यज्ञायैवैनाः प्रार्पयति , आप्यायध्वं अघ्न्या देवेभ्या इति, वत्सेभ्यश्च वा एता मनुष्येभ्यश्च पुराप्यायन्ते , अथैतर्हि देवेभ्य एवैना आप्याययति , मा वः स्तेन ईशत माघशँसा इति , आशिषं एवाशास्ते, ध्रुवा अस्मिन् गोपतौ स्यात बह्वीरिति, प्रैव जनयति ॥
शुद्धा अपः सुप्रपाणे पिबन्तीः ॥
इति पुनात्य् एवैनाः ॥
रुद्रस्य हेतिः परि वो वृणक्तु ॥
इति रुद्रादेवैनास्त्रायन्ते ॥ पूषा वः परस्पा अदितिः प्रेत्वरीया इन्द्रो वोऽध्यक्षोऽनष्टाः पुनरेत ॥ इति त्रयो वा इमे लोका , एभ्य एवैना लोकेभ्यः पुनरावर्तयति, यजमानस्य पशून् पाही, ति यजमानस्यैव पशूनां गोपीथायाहिंसायै ॥ प्रतीचीं शाखामुपगूहति तस्माद् ग्राम्याः पशवः सायमरण्याद् ग्रामं आयन्ति, प्रत्यञ्च एनं पशवो भवन्ति य एवं वेद ॥

4.1.2 अनुवाकः2
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददा इति, सवितॄप्रसूत एवैनां देवताभिरादत्ते, प्रजापतिर्वा ओषधीः परुश्शो वेद, प्राजापत्योऽश्वो , यदश्वपरश्वा बर्हिर् दाति , ओषधीनामहिंसायै , गोषदसी, ति रयिं यजमाने दधाति, प्रत्युष्टँ रक्षा, इति रक्षसामपहत्यै, प्रेयमगाद्धिषणा बर्हिर् अच्छेति, विद्या वै धिषणा विद्ययैवैनदच्छैति, मनुना कृता स्वधया वितष्टेति, मनुना ह्येषा कृता स्वधया वितष्टा तयावहन्ते कवयः पुरस्तादिति, ब्राह्मणाः कवया , ऋषयः कवयः ॥
देवेभ्यो जुष्टं इह बर्हिरासदे ॥
इति देवेभ्य एवैनं जुष्टं करोति, देवानां परिषूतमसीति, यद्वा इदं किंच तद्देवानां परिषूतं , यथा श्रेयसे प्रोच्य कर्म करोत्येवं वा एतद्देवेभ्यः प्रोच्य बर्हिर् दाति, यावत् परिदिशति तत्सर्वं दाति, यत्तत्सर्वं न दाति यज्ञस्य तदतिरेचयति, यद्वै यज्ञस्यातिरिच्यते भ्रातृव्यं तेन वर्धयति , एकं स्तंबं परिदिशति, तं सर्वं दाति
यज्ञस्यानतिरेचाय, विष्णोः स्तुप इति, विष्णोर्वै स्तुपोऽछिद्यत, स पृथिवीं प्राविशत् , यत् प्रथमं नोत्सृजेदार्तिम् आर्छेत् , देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर् देवसदनं दामीति , सवितॄप्रसूत एवैनद्देवताभिर् दाति ॥ माधो मोपरि परुस्त ऋध्यासं ॥ इति ओषधीनामहिंसायै ॥
आछेत्ता ते मार्षम् ॥ इति यावद्यावदेवमविद्वानध्वर्युर् बर्हिर् दाति तावदस्यात्मनो मीयते, नास्यात्मनो मीयते य एवं वेद , अतस्त्वं बर्हिः शतवल्शँ विरोहेति , ओषधीष्वेव भूमानं दधाति, सहस्रवलिशा वि वयं रुहेमेति , आशिषं एवाशास्ते , अदित्या रास्नासीति , इयं वा अदिति , रस्या एवैनद् रास्नां करोति , इन्द्राण्याः संनहनमिति , इन्द्राणी वा अग्रे देवतानां समनह्यता ऋद्धिकामा, सार्नो्रत् , ऋद्यैन् , ऋध्नोति य एवं वेद, बर्हिः संनह्यति, प्रजा वै बर्हिः , प्रजानां संतत्यै प्रजानामपरावापाय , तस्मात् स्नाव्ना प्रजाः संतताः, पूषा ते ग्रन्थिं ग्रथ्नात्व् इति, पुष्टिर्वै पूषा, पुष्टिं यजमाने दधाति, स ते मा स्था, दिति यजमानस्याहिंसायै ॥
आपस्त्वामश्विनौ त्वाम् ऋषयः सप्त मामृजुः ।
बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभे ॥
इति अश्विनौ वै देवानां भिषजौ, ता एनद् भिषज्यते , इन्द्रस्य त्वा बाहुभ्यां उद्यछा इति , इन्द्रस्यैवैनद् बाहुभ्यां उद्यच्छते बृहस्पतेर्मूर्ध्नाहरामीति, ब्रह्म वै बृहस्पति , र्ब्रह्मणैवैनद्धरति , उर्वन्तरिक्ष, मिति समिष्ट्या एव , अदित्यास्त्वा पृष्ठे सादयामीति , इयं वा अदितिरस्यां एवैनदसीषदत् ॥ बर्हिरसि देवंगमम् ॥ इत्यासन्नमभिमन्त्रयते, बहु वा एतस्य पूर्वेद्युराह्रियमाणस्येह चेह च स्कन्दति , अस्कन्नं एनद्देवताभ्यः संप्रादात् , यजमानस्याहिंसायै ॥

4.1.3 अनुवाकः3
पूर्वेद्युरिध्मा बर्हिः कुर्वन्ति, यज्ञमेवारभ्योपवसति, प्रजापतिः प्रजा असृजत, तस्योखे अस्रंसेताम् , स एताभ्यां उखाभ्यां प्रत्यधत्त, यदेते उखे भवतः, प्रजापतेरेवोखे प्रतिदधाति, शुन्धध्वं दैव्याय कर्मणा, इति देवेभ्य एवैनानि शुन्धति, वसूनां पवित्रं असीति, वसूनां वा एतद् भागधेयम् , तेभ्य एवैनत् करोति, पवित्रं अपिदधाति , ओषधीनां च पशूनां च पयः संसृजति, वाचं यच्छति यज्ञस्य धृत्यै, धारयन्न् आस्ते , धारयन्त इव हि दुहन्ति, द्यौरसि पृथिव्यसीति , आभ्यामेवैनां प्रवृणक्ति, मातरिश्वनो घर्म इति , अन्तरिक्षं वै मातरिश्वनो घर्मो , अन्तरिक्षस्य धृत्यै, कामधुक्षः, सा विश्वायुः, सा विश्वभूः, सा विश्वकर्मेति , असौ वाव विश्वायु, रन्तरिक्षं विश्वभू, रियं विश्वकर्मा , इमान् वा एतल्लोकान् यथापूर्वं प्रदापयते , इमांल्लोकान् यथापूर्वं प्रत्तान् दुहे य एवं वेद, तिस्रो यजुषाभिमन्त्रयते, त्रयो वा इमे लोका, एषु वा एतल् लोकेषु रसं दधाति, तस्मादिमांल्लोकान् प्रजा उपजीवन्ति, हुतः स्तोको हुतो द्रप्स, इत्यभिमन्त्रयते अस्कन्दाय ॥ इन्द्राय देवेभ्यो हविर् बहु दुग्धि ॥ इति त्रिरुद्वदति, त्रिषत्या हि देवा, न दारुपात्रेण दुह्यात् , अग्निमद्वै दारुपात्रम् , यातयामेन हविषा यजेत, तद्ध स्माहुर् दात्रेयाः पुरोडाशमुखं हवि , र्न वा इत इतः पुरोडाशँ हविषो यामोऽस्ति, दोग्धव्यं एवेति, न शूद्रो दुह्यात् , असतो वा एष संभूतो , असन्स्याेतत् , यद्वै पवित्रं अत्येति तद्धवि , रग्निहोत्रमेव शूद्रो न दुह्यात् , तद्धि नोत्पुनन्ति ॥
संपृच्यध्वं ऋतावरीर् ऊर्मिणा मधुमत्तमाः ।
पृञ्चतीः पयसा पयो मन्द्रा धनस्य सातये ॥
इति प्रतिनयति शृतत्वाय, शृतकामा हि देवा , इन्द्राय त्वा भागं सोमेनातनच्मीति, सोमं एवैनत् करोति, तस्य ह त्वै सोमपीथः संततो य एवं विद्वान्त् सान्नाय्यं पिबति ॥ अदस्तमसि विष्णवे त्वा ॥ इति, यज्ञो वै विष्णु , र्यज्ञायैवैनददस्तं करोति, विष्णो हव्यं रक्षस्वेति, यथाहैष ते भागस्तं रक्षस्वेत्ये, वं वा एतद्विष्णुमाहैतत्ते हव्यं, तद्रक्षस्वेति, न मृत्पात्रेणापिदध्यात् , पितृदेवत्यं हविः स्यात् , दारुपात्रेणापिदध्यात् , अग्निमद्वै दारुपात्रं, अग्निरेव हव्यं रक्षति , उदन्वत् कार्यम्, आपो वै रक्षोघ्नी , अपो रक्षांसि न तरन्ति, रक्षसामपहत्यै ॥

4.1.4 अनुवाकः4
यो वै श्रद्धामनालभ्य यजते नास्य देवमनुष्या इष्टाय श्रद्दधति , अपः प्रणयति , आपो वै श्रद्धा, श्रद्धामेवालभ्य यजते , आपो यज्ञो , यज्ञं तत्वा प्रचरति , आपो देवानां प्रियं धाम, देवानां प्रियं धाम प्रणीय प्रचरति , आपः सत्यं , सत्यं एवालभ्य यजते , आपो रक्षोघ्नी , रक्षसामपहत्यै , आपो वज्रीं , वज्रं भ्रातृव्याय प्रहरति स्तॄत्यै , आपः श्रद्धा, श्रद्धास्य देवाः श्रन्मनुष्या इष्टाय दधते यस्यैवं विदुष एवं विद्वानपः प्राणयति, देवीरापो ऽग्रेगुवा इति, यज्ञमेव प्रणयति, देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददा, इति सवितृप्रसूत एवैनद्देवताभिरादत्ते , उर्वन्तरिक्ष, मिति समिष्ट्या एव, प्रत्युष्टँ रक्षा इति रक्षसामपहत्यै, धूरसि ध्वर ध्वरन्तमिति , धुर्यो वै नामैषोऽग्नि , र्यदनालभ्यातीयाद्, यजमानं शुचार्पयेत् , द्वौ वाव पुरुषस्य भ्रातृव्यौ, यं द्वेष्टि यश्चैनं द्वेष्टि, ता एव शुचार्पयति ॥
4.1.5 अनुवाकः5
देवानामसि वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमं इति देवेभ्य एवैनद्वह्नितमं सस्नितमं पिप्रितमं जुष्टतमं देवहूतमं करोति , अह्रुतमसि हविर्धानं , दृंहस्व, मा ह्वा, रिति दृंहत्य् एवैनत् , विष्णोः क्रमोऽसि , उरु वातायेति, यद्वै किंच वातो नाभिवाति तद्वरुणस्य , अवरुण्यमेवैनत् करोति, मित्रस्य वश्चक्षुषा प्रेक्षा, इति मित्रमेवैनान् कुरुते ॥ ऊर्जं गृह्णीत ॥ इति ऊर्जं यजमाने दधाति ॥ प्रभूत्यै वः ॥ इति प्रैवैनान् भावयति, देवस्य वः सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां , यच्छन्तु पञ्च, गोपीथाय वो नारातये , अग्नये वो जुष्टान् निर्वपामी, ति सवितॄप्रसूत एवैनान् देवताभिर् निर्वपति, यच्छन्तु पञ्चेति, पञ्च वा ऋतवो , ऋतून् वा एतत् प्रीणाति, तेऽस्मै प्रीताः कल्पन्ते, गोपीथाय वो नारातया , इति रक्षसामपहत्यै , अग्नये वो जुष्टान् इति , अग्नय एवैनान् जुष्टान् करोति , अथो यस्यै देवतायै निर्वपति तस्या एनान् जुष्टान् करोति , इदं देवानां इदं उ नः सहे, ति व्यावृत्त्यै, दृंहन्तां दुर्या, इति हविषो गृहीतादिमे लोका उदवेपन्त, तान् देवा एतेन यजुषादृंहन् , यदेतद्यजुर्वदत्य् एषां लोकानां धृत्यै, निर्वरुणस्य पाशादमुक्षी, ति वरुणपाशादेव निर्मुच्यते , आत्मनोऽहिंसायै, स्वरभिर्व्यक्श, मिति तम इव वा एष प्रपद्यते परीणहं , स्वरेवाभिविपश्यति, ज्योतिर्वैश्वानरमिति , असौ वा आदित्यो ज्योतिर्वैश्वानरम् ॥ उर्वन्तरिक्षमन्वेमि ॥ इति यद्वीहीति ब्रूयाद् व्यायुकोऽध्वर्युः स्यात् ॥ उर्वन्तरिक्षमन्वेमि ॥ इति अव्यायुकोऽध्वर्युर्भवति , अदित्या व उपस्थे सादयामीति , इयं वा अदिति , रस्यां एवैनानसीषदत् ॥ अग्ने हव्यं रक्षस्व ॥ इति पुर उपसादयति , अग्निरेव हव्यं रक्षते ॥

4.1.6 अनुवाकः6
विष्णोर्मनसा पूते स्थः ॥ इति, यज्ञो वै विष्णु , र्यज्ञायैवैने पुनाति, देवो वः सवितोत्पुनात्व् इति सवितॄप्रसूत एवैना उत्पुनाति , अग्नये वो जुष्टान् , इति अग्नय एवैनान् जुष्टान् करोति , अथो यस्यै देवतायै प्रोक्षति तस्या एनान् जुष्टान् करोति, यद्वोऽशुद्ध आलेभे तच् शुन्धध्वं, इति शुन्धत्य् एवैनानि , अदित्यास्त्वग्असीति , इयं वा अदिति , रस्या एवैनत् त्वचं करोति , अवधूतं रक्षा, इति रक्षसामपहत्यै, प्रतीचीनग्रीवं कृष्णाजिनं उपस्तृणाति, तस्मात् प्रत्यञ्चः पशवो मेधमुपतिष्ठन्ते, पृथुग्रावासि वानस्पत्य, इति ग्रावाणमेवैनत् करोति , अग्नेर् जिह्वासि वाचो विसर्जनमिति , अग्नेर् ह्येषा जिह्वा वाचो विसर्जनं , यदा हि पशवा ओषधीनामश्नन्त्यथ वाचं विसृजन्ते , आयुषे वा , इति आयुर्यजमाने दधाति , बृहद्ग्रावासि वानस्पत्य , इति ग्रावाणमेवैनत् करोति, देवेभ्यो हव्यं शमीष्वे, ति देवेभ्य एवैनत् करोति ॥ अपहतं रक्षः ॥ इति रक्षसामपहत्यै ॥ हविष्कृदेहि ॥ इति यो देवानां हविष्कृत् तं ह्वयति, त्रिर् ह्वयति, त्रिषत्या हि देवा , मनोर्वै श्रद्धादेवस्य यजमानस्यासुरघ्नी वाग् यज्ञायुधानि प्रविष्टासीत् , तस्या वदन्त्या यावन्तोऽसुरा उपाशृण्वंस्तावन्तस्तदहर्नाभवन् , एवं विद्वान् ब्राह्मणो भ्रातृव्याणां मध्येऽवसाय यजेत, यावन्त एवास्य भ्रातृव्या यज्ञायुधानां उपशृण्वन्ति तेषां तेज इन्द्रियं वीर्यं वृङ्क्ते, कुटरुरसि मधुजिह्वस्त्वया वयं संघातं संघातं जेष्मेति, संघातंसंघातं वावैतेन यजमानो भ्रातृव्यं जयति , इषं आवदो, र्जमावद, रायस्पोषं आवदेति , आशिषं एवाशास्ते ॥

4.1.7 अनुवाकः7
वर्षवृद्धमसि , प्रति त्वा वर्षवृद्धं वेत्व् , इति प्रतिष्ठित्यै , अस्ना वै देवाः पशुभ्यो रक्षांसि निरवादयन्त तुषैर् ओषधीभ्यो , यदाह परापूतं रक्षः , परापूताराति, रिति एतावतैव यज्ञस्य रक्षांसि निरवदयते ॥ देवो वः सविता विविनक्तु ॥ इति सवितॄप्रसूत एवैनान् विविनक्ति ॥ सुविचा विविच्यध्वं ॥ इति आशिषं एवाशास्ते, सुफलीकृतान् कुर्यात् , मेध्यान् एनान् यज्ञियान् करोति, त्रिः फलीकरोति, त्रिषत्या हि देवा , अदित्यास्त्वगसीति , इयं वा अदिति , रस्या एवैनत् त्वचं करोति , अवधूतं रक्षा, इति रक्षसामपहत्यै, प्रतीचीनग्रीवं कृष्णाजिनं उपस्तृणाति, तस्मात् प्रत्यञ्चः पशवो मेधमुपतिष्ठन्ते , अदित्याः स्कम्भोऽसीति शम्यामुपदधाति , इमे वै सहास्ताम् , ते शम्यामात्रं शम्यामात्रं व्यैताम् , यच् शम्यामुपदधाति अनयोरेव विधृत्यै, धान्यमसि, धिनुहि देवान् इति , एतस्य वै यजुषो वीर्येण यावदेका देवता कामयते, यावदेका तावदस्या आहुतिः प्रथते, प्रथते प्रजया पशुभिर्य एवं वेद,
प्राणाय त्वापानाय त्वा व्यानाय त्वे, ति प्राणं अपानं व्यानं तान् यजमाने दधाति, दीर्घामनु प्रसृतिं संस्पृशेथां, आयुषे वा, इति आयुरस्मिन् दधाति, मित्रस्य वश्चक्षुषावेक्षा, इति मित्रमेवैनान् कुरुते, देवो वः सविता हिरण्यपाणिरुपगृह्णात्व् , इति सवितॄप्रसूत एवैनान् उपगृह्णाति ॥

4.1.8 अनुवाकः8
निर्दग्धं रक्षा, इति रक्षसामपहत्यै, यदधस्तादङ्गारं उपवर्तयति , अस्मिंस्तेन लोके ज्योतिर् धत्ते, यदुपरिष्टादन्तरिक्षे तेन , असा अस्मा आदित्योऽमुष्मिंल्लोके ज्योतिर् भवति , अथो दिवैवास्मा अमुष्मिंल्लोके भवति सर्वेऽस्मा इमे लोका ज्योतिष्मन्तो भवन्ति य एवं वेद, त्रीणि समीचीनानि उपदधाति, त्रयो वा इमे लोका , एषां लोकानां धृत्यै , अपाग्नेऽग्निमामादं जही, ति य आमात् क्रव्यात् तमपहत्य देवयजने यज्ञिया उपदधाति, ध्रुवमसि, पृथिवीं दृंहे, ति पृथिवीं एव दृंहति, धरुणमस्यन्तरिक्षं दृंहे, ति अन्तरिक्षमेव दृंहति, धर्त्रमसि, दिवं दृंहे, ति दिवं एव दृंहति, धर्मासि, विश्वा विश्वानि दृंहे, ति दिश एव दृंहति, प्रजापतिर्वै यत्समभवत्स एतावच् श एव समभवत् , एकं वा अग्रे शीर्णःति कपालं संभवति , अथ द्वितीयमथ तृतीयमथ चतुर्थमथ पञ्चमं अथ षष्ठमथ सप्तममथाष्टमं , यदष्टा उपदधाति आत्मानं वा एतद्यजमानः संस्कुरुते, तं संस्कृतं अमुष्मिंल्लोकेऽनुपरैति
यदष्टा उपदधाति गायत्रीं तेन छन्द आप्नोति, यदेकादश त्रैष्टुभं तेन, यद् द्वादश जगतीं तेन , अथो सर्वाण्येव छन्दःसंमितानि उपदधाति ॥
चितः स्थ, परिचितः स्थ ॥ इति यजुष्मन्ति करोति, वसूनां रुद्राणामादित्यानां भृगूणामङ्गिरसां घर्मस्य तपसा तप्यध्वं, इति एतासां एनानि देवतानां तपसा तपति ॥
यानि घर्मे कपालानि उपचिन्वन्ति वेधसः ।
पूष्णस्तानि अपि व्रत इन्द्रवायू विमुञ्चताम् ॥
इति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते ॥

4.1.9 अनुवाकः9
देवस्य वः सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां संवपामी, ति सवितॄप्रसूत एवैनां देवताभिः संवपति, पवित्रवत् संवपति, हविः करोति, देवो वः सवितोत्पुनात्व्, इति सवितॄप्रसूत एवैना उत्पुनाति , अप उपसृजति , अमृतं वा आपो, अमृतं एव हविः करोति, सं आपा ओषधीभिर्गच्छन्ताम् , सं ओषधयो रसेन, सं रेवतीर्जगतीरिति , अन्या वा एतासामन्या जिन्वन्ति , आपा ओषधीर् जिन्वन्ति , ओषधीरपः, शिवाः शिवाभिः समसृक्षतापा इति , आपो वै रेवती , रोषधयो मधुमतीः, पशवो जगती , रप ओषधीः पशूंस्तानस्मै संसृज्यैकधा मधुमतः करोति ॥ मखस्य शिरोऽसि ॥ इत्याह यज्ञो वै मख, स्तस्य वा एतच् शिरः क्रीयते, सीदन्तु विशो , जनयत्यै त्वे, ति मिथुनं एव करोति, घर्मोऽसि विश्वायु , र्घर्म घर्मे श्रयस्व , उरु प्रथस्व , उरु ते यज्ञपतिः प्रथतामिति, प्रथयत्य् एवैनं ॥ प्रति प्रथस्व पृथिवीं उत द्यां ॥ इतीमे एव प्रथयति, घर्मो वा एषोऽर्धमासे'र्धमासे प्रवृज्यते, स ईश्वरोऽशान्तस्तेजसा यजमानस्य पशून् निर्दहो , यत् पर्यग्निं करोति पशुमेव करोति शान्त्या अनिर्दाहाय, त्रिः पर्यग्निं करोति, त्रयो वा इमे लोका , एभ्य एवैनं लोकेभ्यः शमयति, पुरोडाशँ वा अधिश्रितं रक्षांस्यजिघांसन् , स नाको नाम दिवि रक्षोहाग्निः, सोऽस्माद्रक्षांस्यपाहरन्, यदाह, देवस्त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके पृथिव्या, इति रक्षसामपहत्यै, शिरो वा एतद्यज्ञस्य यत् पुरोडाशः, केशा वेदो , यथा शीर्णःर् कपालानि एवं कपालानि, यथा मस्तिष्क एवं पुरोडाशः, सुशृतः कार्यो मेध्यत्वाय, यत् पुरोडाशं नाभिवासयेदाविर्मस्तिष्कः स्यात् , यदभिवासयति तस्माद् गुहा मस्तिष्कस्त्वचं ग्राहयति, तस्मान्मस्तिष्कः परिततो भस्मनाभ्यूहति, तस्मान् मांसेनास्थि छिन्नं ज्वालैरभिवासयति, तस्मात् केशैः शिरश्छिन्नं , यत् त्वचं अग्राहयित्वा भस्मनाभिवासयेत् पलितंभावुकोऽध्वर्युः स्यात् , ज्वालैरभिवासयति , अपलितंभावुकोऽध्वर्युर्भवति, ते वै देवास्तं नाविन्दन् यस्मिन् यज्ञस्य क्रूरम् आर्क्ष्यामहा इति, सोऽग्निरब्रवीत् , अहं वस्तं जनयिष्यामि यस्मिन् यज्ञस्य क्रूरम् आर्क्षध्वा इति, सोऽपोऽङ्गारेणाभ्यपातयत् , तत एकतोऽजायत, द्वितीयम् , ततो द्वित, स्तृतीयम् , ततो त्रितो , यदद्भ्योऽधिनिरमिमीत तदापेयानामापेयत्वं , यदात्मनोऽधिनिरमिमीत तदात्मेयानामात्मेयत्वं, अन्तर्वेदि जुहोति, तदेवावरुन्धे, उपरिष्टादभिघारयति शृतत्वाय, शृतकामा हि देवा, स्ते देवा अतिमृजाना आयन् , सूर्याभ्युदिते तेऽमृजत, यं सुप्तं सूर्योऽभ्युदेति सूर्याभ्युदितः, सूर्याभिनिम्रुक्ते सूर्याभिनिम्रुक्तः , श्यावदति श्यावदन् , कुनखिनि कुनखी , अग्रेदधुष्यग्रेदधुः , परिवित्ते परिवित्तः , परिविविदाने परिविविदानो , वीरहणि वीरहा , भ्रूणहनं एनो नात्येति ॥


4.1.10 अनुवाकः10
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददा इति, सवितॄप्रसूत एवैनं देवताभिरादत्ते, सहस्रभृष्टिः शततेजा इति, वज्रं वा एतत् संश्यति भ्रातृव्याय प्रहरिष्यन्, पृथिवि देवयजनि मा हिंसिषं ता ओषधीनां मूलं, इति ओषधीनामहिंसायै, व्रजं गच्छ गोस्थानमिति, छन्दांसि वै व्रजो गोस्थान , श्छन्दांस्येवास्मै व्रजं गोस्थानं करोति, वर्षतु ते पर्जन्या इति, पर्जन्यादेव वृष्टिं वनुते, बधान देव सवितः शतेन पाशैः परमस्यां परावतीति, द्वौ वाव पुरुषस्य भ्रातृव्यौ यं द्वेष्टि यश्चैनं द्वेष्टि, ता एव बध्नाति परमस्यां परावति, यो अस्मान् द्वेष्टि यं च वयं द्विष्मस्तमत्र बधान, सोऽतो मा मोची, ति आशिषं एवाशास्ते, द्रप्सस्ते दिवं मा स्कान् इति, यो वा अस्या रसः स द्रप्स, स्तं इमं प्रजा उपजीवन्ति, तमस्यां यच्छति , अस्कन्दाय ॥ अररुस्ते द्यां मा पप्तत् ॥ इति अररुर्वै नामासुर आसीत्, स पृथिवीं उपस्रुच्याशयत् , तं इन्द्रोऽचायत् , तं अपाररुं पृथिव्या अदेवयजनमि, त्यपाहन् , स दिवमपिपतिषत् , तं ॥ अररुस्ते द्यां मा पप्तत् ॥ इति दिवः प्रत्यनुदत, य एवं विद्वांस्तंबयजुर्हरत्य् एभ्यो वा एतल्लोकेभ्यो यजमानो भ्रातृव्यं निर्भजति, त्रिः कृत्वो हरति, त्रयो वा इमे लोका, एभ्य एव लोकेभ्यो भ्रातृव्यं निर्भजति, तूष्णीं चतुर्थं हरति, यो लोको निरुक्तोऽपरिमितस्तस्माद् भ्रातृव्यं निर्भजति , असुराणां वा इयं पृथिव्यासीत् , ते देवा अब्रुवन् , दत्त नोऽस्याः पृथिव्या इति, ते वै स्वयमेव ब्रूध्वं इति, ततो वै वसवः प्राचीं दिशम् उदजयन् , रुद्रा दक्षिणां, आदित्याः प्रतीचीम् , मरुता उदीचीम् , ततो वै देवा इमामसुराणामविन्दन्त, ततो देवा असुरान् एभ्यो लोकेभ्यो निरभजन् , ततो देवा अभवन् परासुरा , यदेवं एताभिर्देवताभिर् वेदिं परिगृह्णाति , इमां वा एतद्यजमानो भ्रातृव्यस्य वृङ्क्ते , अस्या भ्रातृव्यं निर्भजति, भवत्यात्मना परास्य भ्रातृव्यो भवति, पृथिव्या वै मेध्यं चामेध्यं च व्युदक्रामत् , प्राचीनं उदीचीनं मेध्यम् उदक्रामत् , दक्षिणा प्रतीचीनं अमेध्यम् , प्राचीम् उदीचीं वेदिं प्रवणां कुर्यात् , मेध्यान् एनान् यज्ञियान् करोति , अथो यदेवास्या उद्घ्नन्तः क्रूरम् अक्रंस्तदक्रूरं अक, स्तच् शमयति , अथो मेध्यस्य चैवामेध्यस्य च व्यावृत्त्यै, प्राञ्चौ बाहू नयति , आहवनीयं तेन परिगृह्णाति, प्रतीची श्रोणी, गार्हपत्यं परिगृह्णाति, मूलं वै रक्षांस्यनूत्पिबन्ति, यन् नखेन छिन्द्यात् कुनखी स्यात्, स्फ्येन छिनत्ति, वज्रो वै स्फ्यो, वज्रेणैव रक्षांसि हन्ति ॥

4.1.11 अनुवाकः11
यो वै स्रुचां योगमविद्वानध्वर्या इति हूतः प्रतिशृणोत्या देवताभ्यो वृश्चतेऽपशुर्भवति , अथ यः स्रुचां योगं विद्वानध्वर्या इति हूतः प्रतिशृणोति न देवताभ्या आवृश्चते, पशुमान् भवति, द्यौर्जुहू , अन्तरिक्षम् उपभृत् , पृथिवी ध्रुवा, दिश आज्यधानी , असा आदित्यः स्रुवः, स यत् ॥ ओं श्रावय ॥ इत्याह जुह्वं तेन युनक्ति ॥ अस्तु श्रौषट् ॥ इत्य् उपभृतं ॥ यज ॥ इति ध्रुवां ॥ ये यजामहे ॥ इत्याज्यधानीम् , वषट्कारेण स्रुवं , जुह्वा अधि ध्रुवां अभिघारयति ध्रुवाया अधि जुह्वम्, असौ ह्यस्यै प्रयच्छतीयम् अमुष्यै, संततं अस्मा अन्नाद्यमव्यवछिन्नं प्रदीयतेऽस्मिंश्च च लोकेऽमुष्मिंश्च, पूर्वास्य जनतामायतः कीर्तिर् आगच्छति य एवं वेद ॥

4.1.12 अनुवाकः12
घृतं च वै मधु च प्रजापतिरासीत् , यतो मध्वासीत्ततः प्रजा असृजत, तस्मान्मधोः प्रजाननं अस्ति, तस्मान्मधुना न प्रचरन्ति, यातयामं हि तत् आज्येन प्रचरन्ति , अयातयामं वा एतत् प्राजापत्यं घृतं, अयातयामा देवानां प्रजापतिर् गार्हपत्येऽधिश्रयति, पत्न्यवेक्षते , अन्वारंभो वा एष यज्ञस्य पत्न्या , यज्ञमेनामन्वारंभयति , अथो यत् पत्नी यज्ञे करोति मिथुनं वा एतत् क्रियते प्रजात्यै , अमेध्यं वा एतदयज्ञियं यत् पत्य्तवेक्षते , आहवनीयेऽधिश्रयति, पुनात्य् एवैनान् , मेध्यमेनद्यज्ञियं करोति , स्फ्यस्य वर्त्म सादयति रक्षसामपहत्यै, देवस्त्वा सवितोत्पुनात्व् इति सवितॄप्रसूत एवैनदुत्पुनाति, हविरसि वैश्वानरमिति, द्वादशैता व्याहृतयो , द्वादश मासाः संवत्सरः, संवत्सरेण वा एतत्तेज इन्द्रियं वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते , उभयतो वैश्वानरं भवति , उभयतो वैश्वानरं ह्येतत् , निष्टेजा अस्य निर्वीर्यो भ्रातृव्यो जायते , अथो मृध्रतर एव भवति, देवाश्च वा असुराश्च संयत्ता आसन् , स इन्द्र एतमवकाशमपश्यत् , तेनासुरानभ्यभवत् , अभि भ्रातृव्यं यज्ञेन भवति य एवं विद्वान् यजते , आज्येनान्यानि हवींष्यभिघारयन्ति केनाज्यं, इति ब्रह्मवादिनो वदन्ति सत्येन वा आज्यमभिघृतं , यदाह, सत्येन त्वाभिघारयामीति, चक्षुर्वै सत्यं , चक्षुर्यजमानः प्रदधाति, संमील्यैतद्यजुर्वदति, न चक्षुः प्रदधाति , आज्यं वै यज्ञो , यज्ञो विष्णुः ॥
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदा ।
समूढमस्य पांसुरे ॥
इति यद् ओदनपचनेऽधिश्रित्याथ गार्हपत्येऽथाहवनीयेऽधिश्रयति , एतद्वाव तत् त्रिर्विष्णुर्विक्रमते, प्रत्युष्टँ रक्षा, इति रक्षसामपहत्यै, स्रुचः संमार्ष्टि, पुनात्य् एवैना , मेध्या एना यज्ञियाः करोति ॥ अनिशिताः सपत्नक्षयणीः । इति अनिशिता ह्येताः सपत्नक्षयणीः, स्रुवं संमार्ष्टि, पुमांसं वा आसां तदग्रे संश्यति , अथ जुह्वम् , अथोपभृतं, अथ ध्रुवां, असा आदित्यः स्रुवो , द्यौर्जुहू , रन्तरिक्षम् उपभृत् , पृथिवी ध्रुवा , इमान् वा एतल्लोकान् यथापूर्वं संमार्ष्टि , एभ्यो लोकेभ्य आत्मानं परिदत्ते अहिंसायै, जुह्वमग्रे संमार्ष्टि , आत्मा वै जुहू , आत्मानं एवोपैति , अथोपभृतं , प्रजा वा उपभृत् , प्रजां एवोपैति, परेव ह्यात्मनः प्रजा , अथ ध्रुवां , पशवो वै ध्रुवा, पशून् एवोपैति, पर इव हि प्रजायाः पशवो , यदुत्तानाः संमृज्यादप्रतिष्ठायुकं रेतः स्यात् , यन् नीचीरप्रतिष्ठायुकं रेतः स्यात् , तिरश्चीः संमार्ष्टि, तिर्यग् वै रेतः सिच्यते, प्रतिष्ठायुकं रेतो भवति, यदग्रेण मुखं दण्डं च संमृज्याद्रक्षोभ्यश्चाभुवेभ्यश्च समदं दध्यात् , अग्रेण मुखं संमार्ष्टि , जघनेन दण्डम् , न रक्षोभ्यश्चाभुवेभ्यश्च समदं दधाति , अन्तरतो जुह्वं प्राचीं संमार्ष्टि बहिष्टात् प्रतीचीम् , बहिष्टादुपभृतं प्राचीमन्तरतः प्रतीचीम् , सर्वतः समाहार्य ध्रुवां प्राणान् एवास्य यथापूर्वं कल्पयति , यजमानदेवत्या वै जुहूर् भ्रातृव्यदेवत्योपभृत् , चतुर्गृह्णञ् जुह्वां भूया आज्यं गृह्णाति , अष्टौ गृह्णन्नुपभृति कनीय , उपस्तिं भ्रातृव्यमकृत ॥

4.1.13 अनुवाकः13
बह्वीरासादयेत् , यावतीर्वै प्रोक्षणीरासादयति तावतीरस्यामुष्मिंल्लोक आप, स्तस्माद् बह्वीरासाद्या , अग्नेर्मेध्योऽपाक्रामत् , स कृष्णो भूत्वा वनस्पतीन् प्राविशत् , यदाह, कृष्णोऽस्याखरेष्ठा, अग्नये घृतं भवेति , तं एव मेधमवरुन्धे, वेदिरसि बर्हिषे त्वा जुष्टं प्रोक्षामीति, प्रजा वै बर्हिः, पृथिवी वेदि , रस्यां वा एतत् प्रजा स्वगाकरोति, यदुपरिष्टात् प्रोक्ष्याधस्तात् प्रोक्षति तस्मादुपरिष्टाद् वृष्टादधस्तादोषधयो जायन्ते । ऊर्जा पृथिवीं यच्छत । इति अस्यां ऊर्जमधात् , तस्मादिमां प्रजा उपजीवन्ति, विष्णोः स्तुपोऽसीति मुखतः प्रस्तरं गृह्णाति मुख्यमेनं तेन शीर्षण्यं करोति, यावद्धस्तेन पर्याप्नुयात्तावन्तं गृह्णीयात् , अक्षोधुको यजमानो भवति, नोर्ध्वं उन्मृज्यात् , यदस्य वित्तं वेद्यं तत् प्रमृज्यान्नावाचीनं अवमृज्यात् , यदेनं आगमिष्यत्तत् प्रतिनुदेत, न विधूनुयात् , प्रजां पशून् विधूनुयात् , यदुपतिष्ठेत्तदुपसंगृह्णीयात् , यथाशितायोपचिनोत्येवं एव तद् दक्षिणतः शुल्बं स्तृणाति, तस्माद् दक्षिणतो नीवी , रुरु प्रथस्वोर्णम्रदमिति, प्रथयत्य् एवैनत् , स्वासस्थं देवेभ्या इति, देवेभ्य एवैनत् करोति, प्रस्तरं धारयन् परिधीन् परिदधाति, स्वयं वा एतद्यजमान आत्मानं परिधत्ते अहिंसायै, न पुरस्तात् परिदधाति , उद्यन् वा असा आदित्यो रक्षांस्यपाहत , उद्यन्न् एवास्मा असा आदित्यो रक्षांस्यपहन्ति , ऊर्वंसा समिधा आदधाति , उपरिष्टादस्मात्तेन रक्षांस्यपहन्ति, द्वे आदधाति मिथुनत्वाय, विधृती स्था इति, विधृती एवैने करोति ॥ अदित्यास्त्वोपस्थे सादयामि ॥ इति , इयं वा अदिति , रस्यां एवैनं असीषदत् , वसूनां रुद्राणामादित्यानां सदोऽसीति , एता वा एताम् अग्रे देवतामभ्यजयन् , ताभ्य एवैनत्सदः करोति, द्यौरसि जन्मना जुहूर्नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीदेति , एतद्वा आसां प्रियं नाम यद् घृतवत् , तदेवावरुन्धे य, ता विष्णो पाहि, पाहि यज्ञं , पाहि यज्ञपतिम् , पाहि मां यज्ञन्यमिति, यथाहैष ते भागस्तं रक्षस्वेत्ये, वं वा एतद्विष्णुमाहै, तत्ता आज्यं तद्रक्षस्वेति, वेदिर्देवेभ्योऽपाक्रामत् , तां देवा वेदेनाविन्दन् , तद् वेदस्य वेदत्वं , स्त्री वेदिः, पुमान् वेदो , यद् वेदेन वेदिं संमार्ष्टि मिथुनत्वाय, संततमाहवनीयात् स्तृणन्न् एति यज्ञस्य संतत्यै, तं संततं उत्तरेऽर्धमासेऽभियजते, वनस्पतीनां वा एष परिवेष्टा यदुपवेष , ऋद्धा अस्य वेशा भवन्ति य एवं वेद, पुरस्तात् प्रत्यञ्चमुपहन्ति, तस्मात् प्रतीचीनावसिता वेशाः, स्थविमत उपहन्ति , अनतिवादिन एनं वेशा भवन्ति, सर्वस्मै वै यज्ञे क्रीयते, सर्पो वा उपवेषो , वल्मीक उत्करो , यदुपवेषं उत्कर उपहन्ति तस्मात्सर्पाणां वल्मीको गृहाः ॥

4.1.14 अनुवाकः14
भुवनं असि ॥ इति भूतिम् आशास्ते ॥ विप्रथस्व ॥ इति प्रथयत्य् एवैनत् , इत इन्द्रस्तिष्ठन् वीर्यमकृणोद्देवताभिः समारभ्येति , अतो हीन्द्रस्तिष्ठन् वीर्यमकृणोद्देवताभिः समारभ्य ॥ जुह्वेहि , अग्निष्ट्वा ह्वयति, देवान् यक्ष्यावो देवयज्यायै , उपभृदेहि, देवस्त्वा सविता ह्वयति, देवान् यक्ष्यावो देवयज्यायै ॥ इति, न वा एते अविदुषा स्वादाने इव वरुणपाशान् ह्याक्रामति , एताभिरेने देवताभिरादत्ते वरुणपाशानामनाक्रमाय, विष्णोः क्रमोऽसीत्यतिक्रामति, यज्ञस्यानवक्रामाय , ऊर्ध्वो अध्वरो दिविस्पृग् अह्रुतो यज्ञो यज्ञपतेरित्यृजुम् ऊर्ध्वमाघारम् आघारयति यज्ञस्याहूर्छाय , इन्द्रवान्त् स्ववान् , इति सेन्द्रं यज्ञमकृत , अथो इन्द्रियं तेनावरुन्धेय् ॥ वसुमतस्ते छायामुपस्थेषं ॥ इति अग्निर्वै वसुमान् , अग्नेरेव छायामुपतिष्ठते , ऋजुम् ऊर्ध्वमाघारम् आघारयेत् , प्राणो वा आघारः, सर्वमायुर्यजमान एति, यं द्विष्यात्तस्याघार्य कृधु छिन्द्यात् , प्राणमस्य छिनत्ति, ताजक् प्रमीयते, शिरो वा एतद्यज्ञस्य यदाघार, आत्माज्यं , यदाघारम् आघार्योपभृता समञ्ज्याञ् शिरो यज्ञस्य प्रछिन्द्यात् , आज्यधान्या समनक्ति ॥
समक्तमग्निना हविः समक्तं हविषा घृतं ॥ इति आत्मन् यज्ञस्य शिरः प्रत्यधात् , अथो मन एव यज्ञे प्रतिदधाति, स्तनं स्तनिनीः प्रजा उपजीवन्ति, किमस्तना, इति ब्रह्मवादिनो वदन्ति , अप्तुभी रिहाणा व्यन्तु वया इति , एतद्वाव ता उपजीवन्ति, वशा पृश्निर्भूत्वा मरुतो गच्छेति, मरुतो वै वृष्ट्या ईशते, तेऽस्मै वृष्टिं निनयन्ति, ततो नो वृष्ट्यावतेति, मरुद्भ्य एव वृष्टिं वनुते, चक्षुष्पा अग्नेऽसि, चक्षुर्मे पाहीति, चक्षुरेवास्य पाति, श्रोत्रपा अग्नेऽसि श्रोत्रं मे पाहीति, श्रोत्रं एवास्य पाति, तनूपा अग्नेऽसि, तन्वं मे पाहीति, तन्वं एवास्य पाति, यन्मे अग्न ऊनं तन्वस्तन्मा आपृणेति , आशिषं एवाशास्ते ॥
यं परिधिं पर्यधत्था अग्ने देव पणिभिर् वीयमानः ।
तं त एतमनु जोषं भरामि नेदेष युष्मदपचेतयातै ॥
इति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते, संस्रावभागाः स्थेषा बृहन्ता, इति परिधीन् प्रहृत्याभिजुहोति , अग्नयो वा एते तान् प्रीणाति,ताञ् शमयति भागधेयेन, ब्रह्मवादिनो वदन्ति, स त्वा अध्वर्युः स्यात् , यो यतो यज्ञं प्रयुङ्क्ते तत् प्रतिष्ठापयतीति, देवा गातुविदो गातुं वित्त्वा गातुमित, मनसस्पते सुधात्विमं यज्ञं दिवि देवेषु वाते धाः स्वाहेति , अतो वा अध्वर्युर्यज्ञं प्रयुङ्क्ते, तदेवैनं प्रतिष्ठापयति ॥