मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः १५

विकिस्रोतः तः

अश्वमेधः

3.15.1 अनुवाकः1
शादं दद्भि , रवकान् दन्तमूलै , र्मृदं बर्स्वै, स्तेगान् दंष्ट्राभ्यां, अवक्रन्देन तालु, वाजं हनुभ्यां , सरस्वत्या अग्रजिह्वम् , जिह्वाया उत्सादं, अप आस्येन, वृषणा आण्डाभ्यां, आदित्याञ् श्मश्रुभिः, पन्थां भ्रूभ्याम् , द्यावापृथिवी वर्तोभ्यां , विद्युतं कनीनिकाभ्याम् , कर्णाभ्यां श्रोत्रे, श्रोत्राभ्यां कर्णा , अवार्याणि पक्ष्माणि पार्या इक्षवः, पार्याणि पक्ष्माण्यवार्या इक्षवः ॥

3.15.2 अनुवाकः2
वातं प्राणेन , अपानेन नासिकाम् , उपयाममधरेणौष्ठेन, सदुत्तरेण, शुक्लाय स्वाहा, कृष्णाय स्वाहा, स्तनयित्नुं निर्बाधेन, मूर्धानं निवेष्येण , अशनिं मस्तिष्केण, विद्युतं कनीनिकाभ्यां , प्रकाशेनान्तरं, अनुकाशेन बाह्यम् , तेदनीमधरकण्ठेन , आपः शुष्ककण्ठेन, चित्तं मन्याभि , रदितिं शीर्ष्णा, निर्ऋतिं निर्जल्येन(निर्जल्पेन) शीर्ष्णा, प्राणान्त्संक्रोशै , रेष्माणं स्तूपेन ॥

3.15.3 अनुवाकः3
मशकान् केशै , रिन्द्रं स्वपसा, वहेन बृहस्पतिं, शकुनिसादेन कूर्माञ् , शफैराक्रमणं, स्थूराभ्यां बलं, कुष्टाभ्यां जवं, जङ्घाभिरध्वानं, बाहुभ्यां जाम्बिलेनारण्यम् अग्निमतीरुग्भ्यां , रुद्रं रोराभ्यां , पूषणं दोर्भ्याम्, अश्विना अंसाभ्यां ॥

3.15.4 अनुवाकः4
अग्नेः पक्षति , र्वायोर् निपक्षतिः, सोमस्य तृतीया , अपां चतुर्थी , अदित्याः पञ्चमी , अग्नीषोमयोः षष्ठी, मरुतां सप्तमी, बृहस्पतेरष्टमी, पूष्णो नवमी, त्वष्टुर्दशमी , इन्द्रस्यैकादशी, वरुणस्य द्वादशी, यमस्य त्रयोदशी ॥

3.15.5 अनुवाकः5
इन्द्राग्न्योः पक्षतिः, सरस्वत्या निपक्षति , रिन्द्रस्य तृतीया, बृहस्पतेश्चतुर्थी, निर्ऋत्याः पञ्चमी , इन्द्राण्याः षष्ठी, सर्पाणां सप्तमी, विष्णोरष्टमी , अर्यम्णो नवमी, धातुर्दशमी , इन्द्रस्यैकादशी, वरुणस्य द्वादशी, यम्यास्त्रयोदशी, द्यावापृथिव्योर्दक्षिणं पार्श्वम् , विश्वेषां देवानां उत्तरं ॥

3.15.6 अनुवाकः6
मरुतां स्कन्धा , विश्वेषां देवानां प्रथमा कीकसा, रुद्राणां द्वितीया , आदित्यानां तृतीया, वायोः पुच्छम् , अग्नीषोमयोर् भासदौ, क्रुञ्चौ श्रोणिभ्यां , मित्रावरुणा ऊरुभ्यां , इन्द्रावरुणा अल्गाभ्यां, आक्रमणं कुष्ठाभ्या, मत्सराभिः कपिञ्जलान् ॥

3.15.7 अनुवाकः7
इन्द्रस्य क्रोडो , अदित्याः पाजस्यम् , दिशां जत्रवो , अदित्या भसत् , जीमूतान् हृदयौपशाभ्यां, अन्तरिक्षं पुलीतता, नभ उदर्येण, वल्मीकान् क्लोम्ना, ग्लौभिर् गुल्मान् , चक्रवाकौ मतस्नाभ्यां , दिवं वृक्काभ्यां , हिराभिः स्रवन्ती , र्गिरीन् प्लाशिभ्यां, उपलान् प्लीह्ना, ह्रदान् कुक्षिभ्यां , समुद्रमुदरेण, वैश्वानरं भस्मना ॥

3.15.8 अनुवाकः8
विधृतिं नाभ्या, घृतं रसेन , अपो यूष्णा, मरीचीर्विप्रुषा, नीहारम् ऊष्मणा, शीनं वसया, ह्रादुनीर् दूषीकाभिः, प्रुष्वा अश्रुभि , रस्ना रक्षांसि, चित्राण्यङ्गै , र्नक्षत्राणि रूपैः, पृथिवीं त्वचा, जुम्बकाय स्वाहा ॥

3.15.9 अनुवाकः9
पूषणं वनिष्ठुनान्धाहीन्स्थूलीरगुदया, सर्पान् गुदाभि , र्विह्रुत आन्त्रै , रप आस्येन, वृषणा आण्डाभ्यां , शेषो वाजिनेन, प्रजां रेतसा, चाषान् पित्तेन, प्रदरान्पायुना, कूष्माञ् शकपिण्डैः ॥

3.15.10 अनुवाकः10
अग्नये गायत्राय त्रिवृते राथन्तराय वासन्तिकाय पुरोडाशमष्टाकपालं निर्वपति , इन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हताय ग्रैष्माय पुरोडाशमेकादशकपालं , विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यः पुरोडाशं द्वादशकपालं , मित्रावरुणाभ्यां आनुष्टुभाभ्यां एकविंशाभ्यां वैराजाभ्यां शारदाभ्यां पयस्यां , बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय हैमन्तिकाय चरुम् , सवित्र आतिछन्दसाय त्रयस्त्रिंशाय रैवताय शैशिराय पुरोडाशं द्वादशकपालं, अनुमत्यै चरुम् , वैश्वानरं द्वादशकपालं, अदित्यै विष्णुपत्यैंु चरुम् , कायमेककपालं ॥

3.15.11 अनुवाकः11
अग्नयेंऽहोमुचे पुरोडाशमष्टाकपालं निर्वपति , इन्द्रायांहोमुचे पुरोडाशमेकादशकपालं , मित्रावरुणाभ्यां आगोमुग्भ्यां पयस्यां , वायुसवितृभ्यां आगोमुग्भ्यां पयो , अश्विभ्यां आगोमुग्भ्यां धाना , मरुद्भ्य एनोमुग्भ्यः पुरोडाशँ सप्तकपालं , विश्वेभ्यो देवेभ्य एनोमुग्भ्यः पुरोडाशं द्वादशकपालं, अनुमत्यै चरुं वैश्वानरं द्वादशकपालं , द्यावापृथिवीभ्यां अंहोमुग्भ्यां पुरोडाशं द्विकपालं ॥

इति तृतीयकाण्डे पञ्चदशः प्रपाठकः ॥