मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः १०

विकिस्रोतः तः
Jump to navigation Jump to search

अध्वरादीनां त्रयाणां विधिः (पात्नीवन्ताः)

3.10.1 अनुवाकः1

पत्नी वै प्रच्यवमानामुष्यादित्यस्य लोकमभिप्रच्यवेत, हिनस्ति खलु वा एष तं योऽस्य लोकमभिप्रच्यवते, यदाह, नमस्त आतानेति , अमुष्मा एव नमोऽकर् , अनर्वाक् प्रेहीति अनेनाः प्रेहीति वा एतदाह यजमानाय, घृतस्य कुल्यामनु सह रायस्पोषेणेति , आशिषं एवाशास्ते, देवीरापः शुद्धा यूयं देवान् युयुध्वं इति , अपो वा एतद् भूषन्ति, पूताभिराभिः पूताश्चरन्ति, तस्माद्वा एतां बहु रिप्रममेध्यं चरन्तीमापो न हिंसन्ति, हतो वा एष मृतोऽमुत्र भूतो , अद्भ्यो वै प्रजाः प्रजायन्ते, पत्नी प्रजनयति, यदद्भिरभिषिञ्चति पुनरेवैनं प्रजनयति, सर्वान् प्राणान्त्संमृशति सर्वाण्यङ्गानि , एतावान् हि पशुः, पशोर्वै मार्यमाणस्य प्राणाञ् शुग् ऋच्छति, यदाह, वाचमस्य मा हिंसीः, प्राणमस्य मा हिंसीरिति , अद्भिर्वावास्यैतत् प्राणाञ् शुचो मुञ्चति, यत्ते क्रूरं यदास्थितं तदेतेन शुन्धस्व, देवेभ्यः शुम्भस्वेति, यदेवास्य गमयन्तः क्रूरम् अक्रंस्तदक्रूरं अक, स्तच् शमयति, ये वा एते स्तोका अवपद्यन्ते त इमामशान्ता ऋच्छन्ति, तत इमाञ् शुग् ऋच्छति, यदाह, शमद्भ्य इति, शमयत्येव, शान्ता एवेमां ऋच्छन्ति अहिंसायै , ओषधे त्रायस्वैनमित्याह, त्रात्या एव, स्वधिते मैनं हिंसीरिति, वज्रो वै स्वधिति , र्वज्राद्वावास्मा एतदन्तर्दधाति अहिंसायै, सर्वाभ्यो वै देवताभ्यः पशुरालभ्यते, यदाह, रक्षसां भागोऽसीति , एतेन वा एतद् भागधेयेन रक्षांसि पशोर् निर्भजति , इदमहं रक्षोऽवबाधे , इदमहं रक्षोऽधमं तमो नयामीत्याह, रक्षसां ध्वरायै रक्षसामन्तरित्यै, पशवो वै वपा, यदुपतृन्द्यात् पशून् हिंस्यात् , यन् नोपतृन्द्यादयताः स्यु , र्यत्र तन्निष्ठं तदुपतृन्द्यात् पशूनां यत्यै , इषे त्वोर्जे त्वेति , इषे ह्येषा ऊर्जे ह्येषा, देवेभ्यः शुन्धस्व, देवेभ्यः शुम्भस्वेति, देवेभ्य एवैनां शुन्धति, देवेभ्यः शुम्भति, घृतेन द्यावापृथिवी प्रोर्णुवातामिति, घृतेनैव द्यावापृथिवी प्रोर्णौति , अमुष्मै त्वा जुष्टं इति, यस्या एव देवतायै पशुरालभ्यते तस्या एनं जुष्टमकर् , नमः सूर्यस्य संदृशा इति , अमुष्मा एव नमोऽकर्, इत्थं पर्यावर्तते , एवं हि यज्ञः पर्यावर्तते , अथो अमुष्य वा एतदादित्यस्यावृतमनु पर्यावर्तते , उर्वन्तरिक्षं वीहीति , अन्तरिक्षदेवत्यो वा एष एतर्हि, रक्षांसि वा एतं जिघांसन्ति, प्रच्युतं इतोऽप्राप्तं अमुत्र, कार्ष्मर्यमयी वपाश्रपणी भवतो रक्षसामपहत्यै, यस्मा एवामुतोऽग्निं पुरस्ताद्धरन्ति तस्मा इतो देवता वा एतद्धव्यमनुपर्यावर्तमानं एति, चरमत उपप्रतिगृह्णाति अच्छम्बट्काराय, यदतिहरेदेतं एवातिहरेत् , विश्वतोमुखो ह्यग्निः, प्रत्युष्टँ रक्षः, प्रत्युष्टाराति, रित्याह, रक्षसां ध्वरायै रक्षामन्तरित्यै, वायोः स्तोकानां, इति तृणं उपास्यति स्तोकानां विधृत्यै, वायुर् ह्येतानमुतो विसृजति प्रजानां क्लृप्त्यै , अग्रं वा एतद्धव्यस्या, ऽग्रमोषधीनां, अग्रेणैवाग्रं समर्धयति , अथो अग्राय वा एतद्धव्यस्याग्रमोषधीनां इध्मं चिनोति, हविषो वा एते स्तोकाः, स्कन्दति वा एतद्धविर्यद्विश्चोतति यद्विलिप्यते, यदाह॥

जुषस्व सप्रथस्तमं वचो देवप्सरस्तमं ।

हव्या जुह्वान आसनि ॥

इति तेनैवास्य ते हुता अस्कन्ना वषट्कृता भवन्ति, नानादेवत्या वा एकादशिन्यां पशवा आलभ्यन्ते , अथात्राग्नेयी प्रथमानूच्यते , अग्निर्वै सर्वा देवता , अत्र वै सापि देवता यस्या आलभ्यते तामेवैनद् गमयति, यर्हि लोहिनीव शृता तर्हि रौद्री, यत्तर्हि जुहुयाद् रुद्रायास्य पशूनपिदध्यात् , यर्हि श्येनीव शृता तर्ह्याग्नेयी, तर्हि होतव्या, तथास्य रुद्रः पशूननभिमानुको भवति, क्रव्यं वा एतर्हि पशुर्यर्ह्याशृतो , यद्वपामभिघार्य पृषडाज्यमभिघारयेद् रुद्रायास्य पशूनपिदध्यात् , अथ यत्पृषदाज्यमभिघार्य वपामभिघारयति यथापूर्वं वा एतत् पशुमुपैति , अथो एवमस्य रुद्रः पशूननभिमानुको भवति, पुरस्तात्स्वाहाकारा वा अन्ये देवा , उपरिष्टात्स्वाहाकारा अन्ये, त उभयेऽश्ये मेध्येऽवरुध्यन्ते ॥ स्वाहा देवेभ्यः ॥ इति पुरस्ताद्वपाया जुहुयात् ॥ विश्वेभ्यो देवेभ्यः स्वाहा ॥ इत्य् उपरिष्टात् , तथास्य त उभयेऽवरुद्धा भवन्ति, पशोर्वै मार्यमाणस्य प्राणाञ् शुग् ऋच्छति, प्राणान्त्संगृह्य वपाम् उपविसृजेत् , आत्मा वपा पशो , रात्मन्न् एवास्य प्राणान् दधाति, दक्षिणस्य पूर्वपदस्यावदेयमिति ह स्माहुर् दाक्षायणा, स्तथास्य सर्वस्य पशोरवत्तं भवतीति, स्वाहोर्ध्वनभसं मारुतं देवं गच्छ, तं इति वपाश्रपणी अनुप्रास्यति , ऊर्ध्वनभसो वा एते मारुतस्य भागधेयम् , तं एवैनेन गमयति , इमे वा एते विषूची अनुप्रास्यति , अनयोर्विधृत्यै ॥

3.10.2 अनुवाकः2

पुरुषं वै देवा मेधायालभन्त, तस्य मेधोऽपाक्रामत् , सोऽश्वं प्राविशत् तेऽश्वमालभन्त, तस्य मेधोऽपाक्रामत् , स गां प्राविशत् , ते गामालभन्त, तस्य मेधोऽपाक्रामत् , सोऽविं प्राविशत् , तेऽविमालभन्त, तस्य मेधोऽपाक्रामत् , सोऽजं प्राविशत् , तेऽजमालभन्त, तस्य मेधोऽपाक्रामत् , स यवं प्राविशत् , ते यवमालभन्त, तस्य मेधोऽपाक्रामत् , स व्रीहिं प्राविशत् , ते व्रीहिमालभन्त , तं व्रीहा आप्नुवन् , यद् व्रीहिमयः पुरोडाशो भवति मध्यतो वा एतत् पशोर्मेधो धीयते, सुषिरो वै तर्हि पशुर्यर्हि वपाम् उत्खिदन्ति, यद् व्रीहिमयः पुरोडाशो भवति अपिहित्या असुषिरत्वाय, द्वादशकपालो भवति, द्वादश मासाः संवत्सरः, संवत्सरम् अनु पशवः प्रजायन्ते, प्रजननाय , एकादशकपालः कार्या , एकादशाक्षरा त्रिष्टुब् ऐन्द्रमेतच् छन्दो यत् त्रिष्टुब् , ऐन्द्राः पशवः, पशुष्वेवास्य पशून् दधाति, देवा अन्योन्यस्मै पशुमालभं स्वर्गं लोकमायन् , तेऽमन्यन्तानेन वै नोऽन्ये लोकमन्वारोक्ष्यन्तीति, तस्य मेधं प्लाक्षारयन् , स प्लक्षोऽभवत् , तत् प्लक्षस्य प्लक्षत्वं , क्लोम्नो वै तं हृदयात् प्लाक्षारयन् , तस्मादेतत् सुषिरम् , यत् प्लक्षशाखाया अवद्यति, मेधादेवाध्यवद्यति, पृषदाज्यस्योपहत्य परैति ॥ शृतं हविः शमिता ॥ इति शृतत्वाय, त्रिराह त्रिषत्या हि देवा , अथो यथेदं ब्राह्मणेभ्य ओदनं पक्वं प्राहैवं वा एतद्देवेभ्यो हविः शृतं प्राह , उत्तरतः परीत्याभिघारयति पशूनामवरुद्ध्यै, प्राणापानौ वै पृषदाज्यं, आत्मा हृदयम् , यत्पृषदाज्येन हृदयमनक्ति मध्यतो वा एतत् पशोः प्राणापानौ दधाति, सोमस्य वा एतद् बर्हिर् यद् बर्हिर् अथ वा एतत् पशोर्यदुत्तरबर्हिर्बर्हिः, श्रद्धा (श्रद्वा) एतद्धव्यमकर् , अस्कन्नमविक्षुब्धं मे हव्यं देवता गच्छदिति, देवानां वै सर्वेषां मनांसि गच्छति पशा आलभ्यमाने, मनो वै मनोता, यन्मनोताया अन्वाह मनांस्येवैषां संभावयति, हतो वा एष मृतोऽमुत्र भूतो , मनो वै मनोता, यन्मनोताया अन्वाह पुनरेवैनं संभावयति ॥

3.10.3 अनुवाकः3

हृदयस्यावद्यति, मनस एव तेनावद्यति , अथो यावान् एव पशुस्तस्यावत्तं भवति, जिह्वाया अवद्यति, वाच एव तेनावद्यति , अथो एतया ह्यग्रा ओषधीनां रसं प्राश्नाति, श्येनस्यावद्यति, वक्षस एव तेनावद्यति , अथो अत्र हि स रसः प्रतितिष्ठति दोष्णोऽवदाय पार्श्वयोरवद्यति यज्ञस्य परिगृहीत्यै, यक्नोऽवद्यति, मध्यस्यैव तेनावद्यति, मतस्नयोरवद्यति, रूपस्यैव तेनावद्यति, श्रोण्या अवदाय गुदस्यावद्यति, तदुत्तमस्यावद्यति , उत्तमं ह्यायु , र्यदन्यस्योत्तरस्यावद्येत् प्राणमस्यापिदध्यात् , प्रमायुकः स्यात् , तस्मात्तस्योत्तमस्यावद्यति , उत्तमं ह्यायु , र्हृदयस्यावदाय जिह्वाया अवद्यति, यथापूर्वं वा एतत् पशुमुपैति , अथो एवमस्य सर्वस्य पशोरवत्तं भवति , एकादश कृत्वोऽवद्यति, दश वै पशोः प्राणा , आत्मैकादश, स्तथास्य सर्वस्य पशोरवत्तं भवति , एकादश वा एतानि अवदानानि, तानि द्विर्द्विरवद्यति, तद् द्वाविंशति, स्त्रीणि त्र्यङ्गाणि, तत् पञ्चविंशतिः, पञ्चविंशेन वै स्तोमेन मनुः प्रजा असृजत, तन्मनुस्तोमो वा एष प्रजननाय , एतद्वै सर्वस्य पशोरवत्तं, अथ वै प्राणस्यापानस्य व्यानस्य तेषामनवत्तं , यत् त्र्यङ्गाणामवद्यति तेनैव प्राणस्यापानस्य व्यानस्य तेषामवत्तं भवति, विश्वरूपो वै त्वाष्ट्रः पशूनभ्यवमत् , तस्मात् पशवो विश्वरूपा , अभिवान्तो वै पशुः पूयित, स्तस्मात्पृष्टीनां मज्जा नाद्यः, स वा अधस्तान् न प्राप्नोत् , एतद्वै जीवं , तस्मादतोऽवद्यति , अक्ष्णयाङ्गानामवद्यति, पशुं वा एतदाश्रुमयति , तस्मात् पशवोऽक्ष्णयाङ्गानि प्रहरन्तो यन्ति , आग्नेयो वै सर्वः पशु , रथ वा उतान्यस्यै देवताया आलभ्यते, यद् दोष्णः पूर्वार्धादग्नयेऽवद्यति गुदस्य मध्यतः श्रोण्या जघानतस्तथास्य सर्वस्य पशोरग्नयेऽवत्तं भवति, त्रेधा गुदं करोति, त्रेधा ह्येतर्हि पशु, स्र्य्तङ्गाणि समवत्तमवदानानि, यावान् एव पशुस्तस्मिन्नायुर्दधाति, त्रेधा मेदः करोति, मेदोरूपा हि पशवः, सर्वाणि वै पशोर्मेद्यतोऽङ्गानि मेद्यन्ति, यावान् एव पशुस्तस्मिन्मेदो रूपं दधाति, बहुर्मर्या यज्ञकुणपी, ति ह स्माह यज्ञवचा राजस्तंबायनः प्र वा इतो मनुष्याः पशुं च्यावयन्ति, नामुत्र गच्छन्तीति, यद्धिरण्यमवधाय जुहोति हिरण्यज्योतिषं एवैनं स्वर्गं लोकं गमयति ॥

3.10.4 अनुवाकः4

वसाहोमं प्रयौति, रसं वा एतत् प्रयौति, स्वधितिना प्रयौति , एतेन हीतरेषामङ्गानामवद्यति, तत् स्विदवदानं अकर् , अथो वज्रेणैवाहुतिम् अवरुन्धेङ्, यूष एतयान्वितं शमयति , ऊर्ग् वै रसो यूरू , र्जा वा एतद्रसेन पशुं समर्धयति , अथो यावान् एव पशुस्तस्मिन्त्संदधाति, पार्श्वेनापिदधाति ऊर्जः परिगृहीत्यै, हतो वा एष मृतोऽमुत्र भूतो , यत् पशुं संमृशति पुनरेवैनं संभावयति, हव्यं पूर्वं देवता गमयित्वाथ शरीरं अन्वारोहयितव्यं, इत्याहुर्यदाहुतीर् हुत्वा पशुं संमृशति हव्यं वा एतत् पूर्वं देवता गमयित्वाथ शरीरं अन्वारोहयति , अर्धऋचे जुहोति , इयं वा अर्धऋचो , असा अर्धऋचो , अन्तरेमे अन्तरिक्षम् , अन्तरिक्षम् इमाः प्रजाः, प्रजास्व् एव रसं दधाति, वनस्पतिं यजति, सोमो वै वनस्पतिः, सौमीरिमाः प्रजाः, प्रजास्व् एव रसं दधाति, प्राणापानौ वै पृषदाज्यं, आत्मा हवि , र्यत्पृषदाज्यं जुहोति , आत्मन् वा एतत् पशोः प्राणापानौ दधाति, दिग्योवि जुहोति , इमा एव दिशो रसेन व्युनक्ति, प्राचीमुत्तमां जुहोति, प्राचीमेव दिशं पुनरुपावर्तन्ते , अध्यूध्नीं होत्रे हरन्ति, वैश्वदेवो वै होता, वैश्वदेवीरिमाः प्रजा , ऊधः खलु वै प्रजा अनूपजीवन्ति, सर्वा एवैनाः पयस्विनीः करोति, गुदेनोपयजति, प्राणा वै गुदः, प्राणादधि प्रजाः प्रजायन्ते प्रजननाय, स्थविमत उपयजति, स्थविमतो हि प्रजाः प्रजायन्ते, यदणिमत उपयजेत् प्रजननं अपिहन्यात् , तस्मात् स्थविमत उपयजति , असंभिन्दन्नुपयजति प्राणानामसंभेदाय, यत् संभिन्द्यात् प्राणान्त्संभिन्द्यात् , यं द्विष्यात्तस्य संभिन्यायनत् , प्राणानस्य संभिनत्ति, नोपयज्यं , यदुपयजेत् प्राणानुपयजेत् , प्रमायुकः स्यात् , तदाहु , रुपयज्यं एव, प्रजननं वा उपयजो , अपि ह स प्रजायते य उपयजतीति आभारद्वाजे, ति ह स्माह शुचिवृक्षो गौपालायनः, किं तर्हि प्रजा आसन् यर्हि यज्ञो नानोपयड्भिरासीत् , न प्रजाः प्राजायन्त, नौषधयः फलं अगृह्णन् , यदा वाव यज्ञ उपयड्भिः समभवदथ प्रजाः प्राजायन्त , अथौषधयः फलं अगृह्णन् , एकादश प्रयाजा , एकादशानुयाजा, एकादशोपयज, स्तत् त्रयस्त्रिंशत् , त्रयस्त्रिंशद्देवता, स्ता एवास्यैताभिरभीष्टाः प्रीता भवन्ति , एतद्वा अस्य पशोरनर्वाग् इष्टोऽनभीष्टोऽभूत् , यास्य मात्रा तामेनं गमयति, स्वर्ग्यो वै सर्वः पशु , र्यदन्यत्राहवनीयाज्जुहुयादस्वर्ग्यः स्यात् , पशुश्रपणादग्निमाहरन्ति तेन स्वर्ग्यः सर्वः पशु , र्यत एव पूर्वमवादात्ततोऽपरं अवद्यति, तस्मात्समानाद् योनेर्नानारूपाः पशवः प्रजायन्ते, यज्ञो वै देवानामत्यने, दत्तं देवा उपयड्भिरप्यवपन्ननतिनेदाय, यदेता उपयजो भवन्ति यज्ञमेवैताभिरपिवपन्ति अनतिनेदाय, यदाथा वै पुरुषः प्रत्यङ् छिद्र एवं यज्ञः प्रत्यङ् छिद्र, स्तं देवा उपयड्भिरप्यदधुरछिद्रत्वाय, यदेता उपयजो भवन्ति यज्ञमेवैताभिरपिदधाति अछिद्रत्वाय ॥

3.10.5 अनुवाकः5

ये केचार्वाचीनं एकादशिन्याः पशवस्तान् उत्तरं अर्धं यूपस्य नियुञ्ज्यात् , रौद्रा वै पशवो , अग्निर्विधृति , र्दक्षिणे हविर्धाने सोमं आसादयन्ति, तथास्य रुद्रः पशूननभिमानुको भवति, पात्रेषु वा अहमध्वर्युं चानध्वर्युं च विजानामी, ति ह स्माहारुण औपवेशिः, कति पात्राणी, ति पृछेत् , द्वादश पात्राणि , उपांशुसवनस्त्रयोदशम् , यत्तन् मीमांसन्ते, पात्रा३न्न पात्रा३म् इति, मीमांसन्ते हि त्रयोदशं मासं , मासा३न्न मासा इति, पञ्च प्रातःसवने पुरोडाशा , श्चत्वारो माध्यंदिने सवने, चत्वारस्तृतीयसवने, इतो वा एतां निरमिमीत प्रजापति, रात्मन एव, यत एवैतां निरमिमीत तदेतैरपिधीयते, देवाश्च वा असुराश्चास्पर्धन्त , आयतनवन्तोऽसुरा आसन्ननायतना देवा , इमे लोका असुराणामायतनं आसन् , ते देवाः संस्तंभं संस्तंभं पराजयन्त , अनायतना ह्यासन् , ते वै सवनानि एवायतनं अचायन् , तानि प्राविशन् , तानि नाध्रियन्त, ते वै पुरोडाशान् एव सवनानामायतनं अचायन् , तान् निरवपन् , तानि अध्रियन्त, ततो देवा अभवन् , परासुरास्, तद्य एवं वेदायतनवान् भवति, भवत्यात्मना, परास्य भ्रातृव्यो भवति, तस्मादनुसवनं पुरोडाशा निरुप्याः सवनानां धृत्यै, तस्मादनुसवनं पुरोडाशः प्राश्यः सोमपीथस्य धृत्यै, घृतं वै देवा वज्रं कृत्वा सोमं अघ्नन् , अभि खलु वा एतं घारयन्ति, यत् प्राश्नीयात् सोमपीथं हन्यात् , यन् न प्राश्नीयात् सोमपीथेन व्यृध्येत, यत्रानभिघृतं तत् प्राश्यः सोमपीथस्य धृत्यै, तन् न सूर्क्ष्यं , प्राश्य एव , इन्द्रो वै वृत्रमहन् , तन् न किं चनाधिनोत् , तं पुरोडाश एवाधिनोत् , तस्मात् पुरोडाशः प्राश्यः सोमपीथस्य धृत्यै, पञ्च प्रातःसवने पुरोडाशाः, पुरोडाशः परिवापो धानाः करंभः पयस्या, सा पुरोडाशपङ्क्ति , र्द्विनाराशँसाः प्रातःसवने, द्विनाराशँसा माध्यंदिने सवने , एकनाराशँसास्तृतीयसवने, सा नराशंसपङ्क्ति, स्त्रीणि सवनानि अवभृथो, अनुबन्ध्या सवनानां पञ्चमी, सा सवनपङ्क्ति , रेषा वै सा पङ्क्तिर् यामाहुर् ब्रह्मवादिनो ,
वेत्थ तां पङ्क्तिं यया न स्तुवते न शँसन्ति , अथ यज्ञं वहन्ति , अथ यज्ञं संस्थापयन्ता इति ॥

3.10.6 अनुवाकः6

देवाश्च वा असुराश्चास्पर्धन्त, तेषां वा इन्द्रियाणि वीर्याण्यपाक्रामन् , ऋक्सामे वा एभ्यस्तदपाक्रामताम् , पशवो वाग् इन्द्रियं प्राणापानौ, तैर्वा इन्द्रोऽकामयत, सायुज्यं गछेयमिति ॥ हरिवं इन्द्रो धाना अत्तु ॥ इति ऋक्सामे वा इन्द्रस्य हरी, ऋक्सामाभ्यां एव सायुज्यमगच्छत् ॥ पूषण्वान् करंभः ॥ इति, पशवो वै पूषा, पशुभिरेव सायुज्यमगच्छत् ।। सरस्वतीवान् भारतीवान् परिवापः ॥ इति, वाग् वै सरस्वती, वाचैव सायुज्यमगच्छत् ॥ इन्द्रस्यापूपः ॥ इति इन्द्रियं वा इन्द्र , इन्द्रियेणैव सायुज्यमगच्छत् ॥ मित्रावरुणयोः पयस्या ॥ इति प्राणापानौ वै मित्रावरुणौ, प्राणापानाभ्यां एव सायुज्यमगच्छत् , ततो देवा अभवन् , परासुरा, स्तद्य एवं वेदैतैरेवेन्द्रियैर् वीर्यैरेतैर्महिमभिः सायुज्यं गच्छति, भवत्यात्मना, परास्य भ्रातृव्यो भवति, दीर्घजिह्वी वै देवानां प्रातःसवनं अवालेट् , तद्व्यमाद्यत् , सा पयस्याभवत् , तस्मात् पयस्या विमदितरूपेव मैत्रावरुणी प्रातःसवने स्यात् , प्राणापानौ वै मित्रावरुणौ, प्राणापानौ वा एतन् मुखतो यज्ञस्य धीयेते, न गुदः पर्याकर्तवै, यद् गुदं पर्याकुर्यादुदावर्तः प्रजा हन्यात् , रक्षसामनन्ववजयाय, यूपः पुरस्तान् मीयते, यदग्रेण यूपं पशुं हरेयुस्तदनु रक्षांसि यज्ञं अवजयेयु , रन्तराग्निं च यूपं च हृत्यो रक्षसामनन्ववजयाय ॥

3.10.7 अनुवाकः7

समुद्रं गच्छ स्वाहेति , उपस्थं वा एतद्यजति , अन्तरिक्षं गच्छ स्वाहेति, रेत एवैतद् दधाति, देवं सवितारं गच्छ स्वाहेत्या, ह प्रसूत्या एव, अहोरात्रे गच्छ स्वाहेति , अहोरात्रे ह्यनु प्रजाः प्रजायन्ते, मित्रावरुणौ गच्छ स्वाहेति, प्राणापानौ वै मित्रावरुणौ, प्राणापाना एवासु दधाति, द्यावापृथिवी गच्छ स्वाहेति , आभ्यामेवैनाः सृष्टाः परिगृह्णाति, छन्दांसि गच्छ स्वाहेति , वाग् वै छन्दांसि, वाचं एवासु दधाति, सोमं गच्छ स्वाहेति , अन्नं वै सोमो, अन्नं एवासु दधाति, यज्ञं गच्छ स्वाहेति, यज्ञिया एवैना अकर् , दिव्यं नभो गच्छ स्वाहेति, वृष्टिमेवाभ्यो निनयन्ति , अग्निं वैश्वानरं गच्छ स्वाहेति, संवत्सरो वा अग्निर्वैश्वानरः, संवत्सर एवैनाः प्रतिष्ठापयति, संवत्सरायुषं एनाः करोति, मनो हार्दिं यच्छे, त्याह प्राणानां गोपीथाय , ओषधीभ्यस्त्वेति , ओषधीष्वेव रसं दधाति, यो वै विद्वान् वाविद्वान् वोपयजो मिथुनयोप यजति प्राणान् वा एतन् मिथुनयाकुरुते, यदाह, मनो हार्दिं यच्छेति, प्राणान् वा एतद् ऋतुशः कल्पयते, पशुर्वा आलब्धः शोचति, तस्य मध्यं शुगभिसमेति, सा हृदयेष्वागच्छति, यत् पुरुषमुपस्पृशेन्मनुष्याञ् शुग् ऋछेत् , यद् गां उपस्पृशेत् पशूञ् शुग् ऋछेत् , यद् दारूपस्पृशेद्वनस्पतीं शुग् ऋछेत् , यत् तृणं उपस्पृशेदोषधीः शुग् ऋछेत् , यदुदकमुपस्पृशेदपः शुग् ऋछेत् , यदार्द्रमनूदकं तच् शान्तम् , तत्रोपोप्यम् , तद्देवतां शुचं अवयजति ॥
इति तृतीयकाण्डे पात्नीवन्ता नाम दशमः प्रपाठकः ॥