मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः ०९

विकिस्रोतः तः

अध्वरादीनां त्रयाणां विधिः (संक्रान्ताः)

3.9.1 अनुवाकः1
यज्ञो वा एष संक्रामन्न् एति प्रायणीयादध्यातिथ्यम्, आतिथ्यादध्य् उपसदः, स उपसद्भ्योऽधि प्राङ् प्रणीयते, यदगृहीत्वाज्यानि प्रणयेयुरपघ्नीत यजमानं, अथ यद् गृहीत्वाज्यानि प्रणयन्ति यज्ञं वा एतद्यजमानोऽन्वारभते, प्राञ्चः सोमेन प्रयन्ति, प्राची पत्नी पूर्वमग्निमभ्युदैति, सोमेन वा एतद् राज्ञाभिजयन्तो यन्ति, यस्य वै मनुष्यराजो गृहमागच्छति तस्य वै तर्हि तदैश्वर्ये, यदा वै स ततः प्लायतेऽथ तेषां तत् पुनर्भवति, तस्मादाहुरपिव्रता इति , अपि ह्येषां तस्मिन् व्रतं , सोमो वा एतद् राजा गृहं प्राप, तस्य वै तर्हि तदैश्वर्ये, यदा वै स ततः प्रच्यवतेऽथ स तत्तेभ्यो विसृजते, तद् वैसर्जनानां वैसर्जनत्वं , त्वं सोम तनुकृद्भ्या इति, यदेव तनुकृतं चान्यकृतं चैनस्तदेतेनावयजति, द्वाभ्यां गार्हपत्ये जुहोति, द्विपाद्यजमानः प्रतिष्ठित्यै , आग्नेय्याग्नीध्रे , अन्तरिक्षमेव प्राप्यान्यदेव रूपमकर्, वैष्णव्या हविर्धाने , अद एव प्राप्य, विष्णुर्वै यज्ञो , विष्णुमेव यज्ञमकर्, असुरा वा एतं देवानामादित्सन्त, तं देवा अप्तुं कृत्वामुं लोकमहरन् , यदप्तुमत्या जुहोति , अप्तुमेवैनं कृत्वामुं लोकं हरन्ति, सर्वेभ्यो वा एष भूतेभ्या आह्रियते, यत्सौम्या जुहोति मनुष्येभ्यस्तेनाह्रियते, यदप्तुमत्या पितॄभ्यस्तेन, यदाग्नेय्या देवेभ्यस्तेन, यद् वैष्णव्या यज्ञाय तेन, सर्वा वा एतत् प्रजा वरुणो गृह्णाति, यत्सौम्या जुहोति मनुष्यांस्तेन वरुणान् मुञ्चति , यदप्तुमत्या पितॄंस्तेन, यदाग्नेय्या देवांस्तेन, यद् वैष्णव्या यज्ञं तेन, सर्वा वा एतत् प्रजा वरुणान् मुञ्चति अग्निना वै मुखेन देवा इमांल्लोकानभ्यजनयन् , गार्हपत्येनामुं लोकं आग्नीध्रेणान्तरिक्षम् , आहवनीयेनामुं लोकं , तस्मात् त्रेधा अग्नया आधीयन्ते , एषां लोकानामभिजित्यै , इन्द्राग्नी वा अपरा अग्नी, अग्निरपरा , इन्द्रः पूर्वः, प्रजापतिराहवनीय, स्तस्मादेष उपोप्ते साद्यता , उत्तरो हि पिता पुत्रात् , उत्तरो भ्रातृव्याद् भवति य एवं वेद , अग्रेण प्रणयेद् गतश्रीः श्रिय एव परिगृहीत्यै, सौम्यो वै ब्राह्मणो देवतया, स्वयैव देवतया, प्रजा वै पशवोँशवो , रुद्र आहवनीयो , यदग्रेण प्रणयेद् रुद्रायास्य पशूनपिदध्यात् , पश्चादेव प्राङ् प्रणीयः पशूनां गोपीथाय , उर्वन्तरिक्षं वीहीति , अन्तरिक्षदेवत्यो वा एष एतर्हि, प्रच्युत इतोऽप्राप्तोऽमुत्र , आदित्याः सदा आसीदेति , आदित्यो वै यज्ञो , अदितिः सोमस्य योनिः, स्व एवैनं योनौ दधाति, देव सवितरेष ते सोमा इति, मनुष्येषु वा एष पुराभूत् , देवेभ्य एवैनं संप्रादात् , एतत् त्वं देव सोम देवान् उपावृता इति, देवो ह्येष देवान् उपावर्तते , इदमहं मनुष्यान्त्सह रायस्पोषेण प्रजया चोपावर्तता इति , आशिषं एवाशास्ते, नमो देवेभ्यः, स्वधा पितॄभ्या इति, नमस्कारो देवानां , स्वधाकारः पितृणां , निर्वरुणस्य पाशादमुक्षीति, वरुणपाशादेव निर्मुच्यते आत्मनोऽहिंसायै स्वरभिर्व्यक्शमिति, यज्ञो वै स्वर् , यज्ञमेवाभिविपश्यति, ज्योतिर्वैश्वानरमिति , असौ वा आदित्यो ज्योतिर्वैश्वानरम्, अग्निना वा एष तन्वं विपरिधत्ते यो दीक्षते , अग्नी रुद्रो , यदग्निना पुनर्यथायथं तन्वं न विपरिदधीत रुद्र एनं अभिमानुकः स्यात् , यदाह , अग्ने व्रतपते या तव तनूर्मय्यभूदेषा सा त्वयि , अग्ने व्रतपते या मम तनूस्त्वय्यभूदियं सा मयीति , अग्निना वा एतत् पुनर्यथायथं तन्वं विपरिधत्ते आत्मनोऽहिंसायै ॥

3.9.2 अनुवाकः2

न यूपमच्छैष्यता होतव्यं , न हि दीक्षितस्याग्नौ जुह्वति, वैष्णवीमनूच्याच्छेत्यो, वैष्णवो हि यूप, स्तदाहु , र्होतव्यं एव, परुष्येव जुहोत्यायतना इति, तन् न सूर्क्ष्यं , यूपस्यैवान्तेऽग्निं मथित्वाथ होतव्यं , तत् स्विदुभयमकर् , जुहोत्याह, न दीक्षितस्याग्नौ जुहोति , अत्यन्यानगां , नान्यानुपागां इति , अती ह्यन्यान् एति नान्यानुपैति , अर्वाक् त्वा परेभ्यः परोऽवरेभ्योऽविदमिति , अर्वाग्घ्येनं परेभ्यः परोऽवरेभ्यो विन्दति, तं त्वा जुषामहे देवयज्याया इति , एतं ह्येष जुषते, जुष्टँ विष्णवा इति, यज्ञायैवैनं जुष्टँ विष्णवेऽकर् , विष्णवे त्वे, ति पर्यनक्ति, हविर्भूतं एवैनं वृश्चति , अथो अभिघृतं एव, य इत्थं वेत्थंवाहु, र्णो मेधात् सोऽपावृत्तो, य ऋजुरूर्ध्वशल्कः स वाव मेधमुपस्थितो , य ऋजुरुपरिष्टादुपावनतो , योऽधिशाख्यो योनिः स, यो वा अस्या अधिजायते स योनि, मान् इयं हि वनस्पतीनां योनिः, परुषि व्रश्यो ् , यदपरुषि वृश्चेद्यथा परुष्यवकृत्तं एवं स्यात् , अनक्षसङ्गं स्थाणुरुच्शिष्यो , यदक्षसङ्गं स्थाणुमुच्शिंषेद्वज्रो भूत्वा यजमानस्य पशून् प्रतिहन्यात्, पञ्चारत्निः कार्यः, पङ्क्त्या संमितः, षडरत्निः कार्या, ऋतुभिः संमितः, सप्तारत्निः कार्यः, सप्तपदया शक्वर्या संमितो , अष्टारत्निः कार्यो , गायत्र्या संमितो , नवारत्निः कार्य, स्तेजसा त्रिवृता संमितो , दशारत्निः कार्यो , विराजा संमितो , एकादशारत्निः कार्यः, त्रिष्टुभा संमितो , द्वादशारत्निः कार्यो , जगत्या संमित, स्त्रयोदशारत्निः कार्य, स्त्रयोदशेन प्रजापतिना संमितः, पञ्चदशारत्निः कार्यः, पञ्चदशेन वज्रेण संमितः, सप्तदशारत्निः कार्यः, सप्तदशेन प्रजापतिना संमिता , एकविंशत्यरत्निः कार्य , एकविंशेन संमित, स्त्रयोविंशत्यरत्निः कार्य, स्त्रयोविंशेन संमितः, पञ्चविंशत्यरत्निः कार्यः, पञ्चविंशेन संमितः, सप्तविंशत्यरत्निः कार्य, स्त्रिणवेन संमिता , एकत्रिंशदरत्निः कार्य , एकत्रिंशेन संमित, स्त्रयस्त्रिंशदरत्निः कार्य, स्त्रयस्त्रिंशेन संमितो , यावान् पुरुष ऊर्ध्वबाहुस्तावान् कार्यो यदि वा यावान् रथे तिष्ठन् , यावान् वै पुरुष ऊर्ध्वबाहुः सैतस्यावमा मात्रा , अथ ततो वर्षीयान्वर्षीयान् एव कार्यो , यो बहुशाखो बहुपर्णः सु कार्यो , भूम्न एव, भूमानं ह्येष एतस्य जग्राह, भूमानं अस्य गृह्णाति, भूमानं अस्य पशवोऽनूपतिष्ठन्ते ॥

3.9.3 अनुवाकः3

ओषधे त्रायस्वैनमित्या, ह त्रात्या एव, स्वधिते मैनं हिंसीरिति, वज्रो वै स्वधिति , र्वज्राद्वावास्मा एतदन्तर्दधाति अहिंसायै, यो वा एतस्याभिहतस्याग्रे शकलः परापतति तमस्य तेजोऽन्वपक्रामति, यत् तं पुनराहरति सतेजस्त्वाय, प्राञ्चं प्रहापयति, मेधमेवैनं अनुपर्यावर्तयति, वज्रो वै यूप, स्तस्माद्वा इमे लोका नीर्यमाणाद् बिभ्यति , ईश्वरो ह्येषोऽशान्तो नीर्यमाण इमांल्लोकान् हिंसितो , र्यदाह, दिवमग्रेण मा हिंसीरन्तरिक्षं मध्येन पृथिव्याः संभव भ्राजं गच्छेति, शमयत्येव, शान्त एव नीर्यते , एषां लोकानामहिंसायै, सर्वस्य वा एष मित्रं यो दीक्षितः, स एतमहिंसीत् , ईश्वरा वनस्पतयोऽपिधिष्ण्यं भविता, यदाव्रश्चने जुहोति पुनरेवैनं प्रजनयति, तस्मादाव्रश्चनाद् भूयांसः प्रजायन्ते, पशुना संमितः कार्यो , दश वै पशोः प्राणा , आत्मैकादशो , अष्टाश्रयो ब्रह्मणी दशमे, आत्मैकादश, स्तथा पशुना संमितो , अष्टाश्रिः कार्यो , गायत्र्या रूपं , गायत्रो हि यूपो, गायत्र्या वै पतन्त्या यत्र पर्णं परापतत्ततः पर्णोऽजायत, तस्मात् पर्णमय , एतत् खलु वै पर्णस्य सारं यत् खदिर, स्तस्माद् खादिर , इह वा असा आदित्य आसीत् , तं इतोऽध्यमुं लोकमहरन् , तद्यतोऽध्यमुं लोकमहरंस्तस्माज्ज्योतिषो बिल्वोऽजायत, तस्माद् बैल्वो , ब्रह्मवर्चसकामेन कार्यो ब्रह्मवर्चसस्य समष्ट्या , अथो ज्योतिषैव तमस्तरति , इन्द्रो वै यतीन्त् सालावृकेयेभ्यः प्रायच्छत् , तेषां वा एष ब्रह्मचारी चमसाध्वर्युरासीत् , योऽयं हरिणस्तस्य यः सोमपीथ आसीत्स स्वजोऽभवत् , तस्माद्धरिणः स्वजं खादति, सोमपीथो ह्यस्यैष स, यत्र चमसं न्यौब्जत्ततो रोहितकोऽजायत, तस्माद्रौहीतक, स्तस्माद् रोहीतके रोहितके स्वजः, पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वे, ति प्रोक्षति , एषां ह्येष लोकानां विधृत्यै मीयते, त्रिः प्रोक्षति, त्रिषत्या हि देवा , अथो त्रिपदयैवैनं गायत्र्या प्रौक्षीत् , वज्रो वै यूपो , अन्नं यवो , यद्यवमतीभिः प्रोक्षति वज्रेण वा एतदन्नं जयति, तेजो वै यूप , एष खलु वा ओषधीनां तेजो यद्यव, स्तस्मादेतं शिशिरा ओषधयोऽनुप्राणन्ति, यद्यवमवास्यति तेजसि वा एतत्तेजो दधातृ , क्षं वा अमेध्यम् , आपो हवि , र्यदवसिञ्चति मेध्यमेवैनत् करोति , ऋक्षं वा अमेध्यम् , यदवस्तृणाति मेध्यमेवैनत् करोति, तक्षितो वा एष नग्नो यच्शकमवास्यति , अनग्नमेवैनं अकः, स्व एवैनं स्थाने दधाति , अवृक्ण एवाभूत् , घृतेन द्यावापृथिवी आपृणेति, तेनैव द्यावापृथिवी आपूरयति, यजमानो वा अग्निष्ठास्तेजो घृतं, आन्तमविछिन्नमनक्ति, यजमानं एव तेजसानक्ति, देवस्त्वा सविता मध्वानक्त्व् इति , एतद्वै देवानां मधु यद् घृतं , सवितॄप्रसूत एवैनं मध्वानक्ति , इन्द्रस्य चषालं असीति , ऐन्द्रं हि चषालं सुपिप्पला ओषधीस्कृधीति , ओषधीरेव फलं ग्राहयति, तस्मादोषधयः शीर्षन् फलं गृह्णन्ति, दिवमग्रेणोत्तभाना , अन्तरिक्षं मध्येनापृण, पृथिवीं उपरेण दृंहेति , एषां ह्येष लोकानां विधृत्यै मीयते, ता ते धामानि उष्मसि गमध्या, इत्यवदधाति वैष्णव्या, वैष्णवो हि यूपः, स्वयैव देवतया, विष्णोः कर्माणि पश्यते, ति संकल्पयति संमितत्वाय, ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामी, त्याशीरेवैषा, ब्रह्म दृंह क्षत्रं दृंहेति , आशिष एवैष परिग्रहो , अपोऽनुपरिषिञ्चति धृत्यै ॥

3.9.4 अनुवाकः4

वज्रो वै यूपो , यदन्तर्वेदि मिनुयान् निर्दहेत् , यद् बहिर्वेद्यनवरुद्धः स्यात् , अर्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेदि , अवरुद्धो ह भवति, न निर्दहति, नोपरस्याविः कर्तवै, यदुपरस्याविः कुर्याद् रथेष्ठाः स्यात्, प्रमायुको यजमानो , नातिस्थूलः कार्यः, क्षुधं प्रजा नीयुर्, नो अत्यणुर् , उभयमेवान्तरा, यज्ञेन वै देवाः स्वर्गं लोकमायन् , तेऽमन्यन्तानेन वै नोऽन्ये लोकमन्वारोक्ष्यन्तीति, तं यूपेनायोपयन् , तद् यूपस्य यूपत्वं , यद् यूपः पुरस्तान् मीयेत स्वर्गस्य लोकस्यानुक्षात्यै, तद्विष्णोः परमं पद, मिति समुन्मार्ष्टि स्वर्गस्य लोकस्य समष्ट्यै, नाभिदघ्ने परिव्ययति , ऊर्ग् वा ओषधया , ऊर्जं वा एतन्मध्यत आत्मनो धत्ते प्रजानां च, यदि कामयेत, क्षुधं प्रजा नीयुरिति , अरशनान् यूपान् मिनुयात् , क्षुधं प्रजा नियन्ति, यदि कामयेत वर्षेत् पर्जन्य, ऊर्जा यजमानं समर्धयेयमिति परिवीयोर्ध्वां उदूहेत् , वृष्ट्या एवेमां न्यूहत्यू , र्जा यजमानं समर्धयति, यदि कामयेत, न वर्षेत् पर्जन्य, ऊर्जा यजमानं व्यर्धयेयमिति, परिवीयावाचीमवोहेत् , वृष्ट्यैवेमां न्यूहत्यू, र्जा यजमानं व्यर्धयति, सर्वदेवत्यो वै यूपो, यन् निखातं तत् पितृणां , यद् ऊर्ध्वं तन्मनुष्याणां , यत्र रशना तदोषधीनां , यद् ऊर्ध्वं रशनायास्तद्विश्वेषां देवानां, इन्द्रस्य चषालं , ये वै देवाः साध्या यज्ञमत्यमन्यन्त तेषां वा एतद्यदुपरिष्टाच्चषालस्य अङ्गुलिमात्रं कार्यम् , अङ्गुलिमात्रं हि तदग्रा आसीत् , यत्ततो वर्षीयः कुर्याद्वज्रो भूत्वा यजमानस्य पशूनवतिष्ठेत् , इन्द्रो वै वृत्राय वज्रं उदयच्छत् , सोऽव्लीयत, तस्य वा एतदनुनद्ध्यै यच्चषालं पृथुमात्रं कार्यम् , पृथुमात्रं हि तदग्रा आसीत् , यदणिमतोऽगृह्णात्तस्मादणिमतो , यदिन्द्र उदयच्छत्तस्मादैन्द्रम् , यदि कामयेत , अन्येऽस्य लोकमन्वारोहयेयुरित्य, न्यस्य वृक्षस्य स्वरुं कुर्यात् , अन्येऽस्य लोकमन्वारोहन्ति, यदि कामयेत, प्रजामनुसंतनुया, दिति यूपस्य स्वरुं कुर्यात् , प्रजां एवानुसंतनोति, यजमानो वा अग्निष्ठा, स्तेजोऽग्नि , र्यदित्थं वेत्थं वा मिनुयाद्यजमानं तेजसा व्यर्धयेत् , अग्निना सदृशं मेतव्या यजमानस्य सतेजस्त्वाय , आवृह्य ह स्म वै पुरा संस्थिते यज्ञेऽग्नौ यूपं प्रास्यति, संभज्य स्रुचस्ते देवा अमन्यन्त, यज्ञवेशसमिदं कुर्या इति, तेऽब्रुवन् , परिधिभिरेव नः स्रुचः स्वगाकृताः सन्तु, स्वरुणा यूपः, प्रस्तरेण सदा इति, तेषां वा एष स्वगाकारो , न ह स्म वै पुरा पुरुषं महादेवो हन्ति, तत इदं रुद्रोऽन्ववातिष्ठत् , ते देवा एतां रुद्रस्यावेष्टिमपश्यन् , त्रिः परस्तादनक्ति त्रिरवस्तात् , तत् षट्, षड् वा ऋतव , ऋतुभ्यो वा एतद् रुद्रमवयजति , आहुतिभाजो वा ऋतवोऽस्तोमभाज, स्त एवास्यैतेनाभीष्टाः प्रीता भवन्ति, यद् यूपाज्जुहोति वनस्पतिभ्यस्तेनावयजति, यद्रशनाया ओषधीभ्यस्तेन, यदात्मनो मनुष्येभ्यस्तेन, यदाह, दिवं ते धूमो गच्छत्व् इति, हविर्धानात्तेन , अन्तरिक्षं ज्योतिरिति , आग्नीध्रात् तेन, पृथिवीं भस्म स्वाहेति, सदसस्तेन, सर्वतो वा एतद् रुद्रमवयजति , आहुत्या वा एतं वनस्पतिभ्यः प्रच्यावयन्त्य् उपयज्य मनुष्याः प्रयन्ति, तत् स्वाया देवताया अन्तर्धीयते, यूपो वै यज्ञस्य दुरिष्टं आमुञ्चते, यद् यूपमुपस्पृशेद्यज्ञस्य दुरिष्टं आमुञ्चेत, तस्माद् यूपो नोपस्पृश्यः, शुग् वा एष मीयते, स ईश्वरोऽशान्त इमांल्लोकाञ् शुचार्पयितो, र्यद्येकः स्यात् ॥ एष ते वायो ॥ इति ब्रूयात् , यदि बहवः ॥ एते ते वायो ॥ इति ब्रूयात् , वायूगोपा वै वनस्पतयः, स्वामेवैभ्यो देवताम् अपिसृजति , एषां लोकानामहिंसायै, यथा वै प्रउगं रज्जुभिर् व्युतं एवं इमे लोका यूपैर् व्युत्ता, स्त एनं आर्तिं निनयन्ति, यदाह ॥ नमः स्वरुभ्यः ॥ इति, तेभ्य एव नमोऽक, स्तेऽस्मै विजिहते, तेऽस्मै लोकं विन्दन्ति , एते वै देवानामृडयाता अस्मिंल्लोके सन्नाः स्वरवोऽभिरोद्धारो, यान् न पश्यति ते सन्ना , अथ यान् पश्यति ते बृहन्त ऊर्जा, यदाह ॥ नमः स्वरुभ्यो बृहद्भ्यो मारुतेभ्यः, सन्नान् मावगां ॥ इति तान् एव परिवृणक्ति , एते वा अमुष्मिंल्लोकेऽन्नस्य प्रदातार, स्तेऽस्मा अन्नं प्रयच्छन्ति ॥ अपश्चाद्दघ्वान्नं भूयासं ॥ इति अपश्चाद्दघ्वान्नं भवति ॥

3.9.5 अनुवाकः5

साध्या वै देवा आसन् , अथ वै तर्हि नान्याहुतिरासीत् , ते देवा अग्निं मथित्वाग्ना अजुहवु, स्ते वै तयैवाहुत्या पशून्त्सृष्ट्वाथ पशुमालभन्त, यदग्निं मथित्वाग्नौ जुहोति तया वा एतदाहुत्या पशून्त्सृष्ट्वाथ पशुमालभन्ते , अथो पशवो वा एतदालब्धा यद्देवतां जनयन्ति , अथो तेज एवास्मै जनयन्ति , अग्नेर्जनित्रं असीति , आयतनमिव वा एतत् क्रियते, वृषणौ स्था इति, रेत एवैतद् दधाति, न हि तस्य रेतो धीयते यस्यैतौ न भवत, उर्वश्यसीति, वाग् वा उर्वशी, पुरूरवा असीति, प्राण एव तन् मिथुनं, आयुरसीति समनक्ति, तस्मिन्न् एव मिथुने रेतो दधाति, गायत्रमसि, त्रिष्टुबसि, जगदसीति, छन्दोभिरेवैनं प्रजनयति, सावित्रीं प्रथमामन्वाह प्रसूत्यै, सवितृप्रसूता हि प्रजाः प्रजायन्ते , अथ द्यावापृथिवीयां, अपि हि द्यावापृथिव्योः पशुषु, द्यावापृथिवी हि पशवोऽनुप्रजायन्ते, गायत्रीरन्वाह, गायत्रो ह्यग्निर् , गायत्रं छन्दा , अपरिमिता अन्वाह , अपरिमिता ह्यग्नेस्तन्वो , अग्निना वा अनीकेनेन्द्रो वृत्रमहन् , तस्य समासृप्तस्य भीतस्य यत्र व्यार्ध्यत ततो भूम्नो(धूम्नो) ऽसृज्यत, तस्माद् धर्मवती (धूमवती) नानूच्या, व्यृद्धा हि सा, रक्षसामनन्ववजयाय, परिधयः परिधीयन्ते, यत्समर्या परिधीन् प्रहरेत्तदनु रक्षांसि यज्ञं अवजयेयु , रग्रेण परिधयः प्रहृत्या रक्षसामनन्ववजयाय, क्रूरमिव वा एतद्यज्ञे क्रियते यदग्ना अग्निं जुह्वति, यदाह, भवतं नः समनसौ समोकसौ सचेतसा अरेपसा इति, शमयत्येव, शान्त एव प्रह्रियते यजमानस्याहिंसायै, स्रुवेणाभिजुहोति , संजग्मानाभ्यामेवाभ्यां भागधेयमपिदधाति, यः कूटो वाकर्णो वा काणो वा शुष्को वावर्तत तस्य यातयामा, स योऽपन्नदन्मलं तत् पशूनां, आग्नेयः पशु, रग्निष्टोम आलभ्य , आग्नेयो ह्यग्निष्टोम , ऐन्द्राग्नः पशुरुक्थ्य आलभ्य , ऐन्द्राग्नानि ह्युक्थ्यानि , ऐन्द्रो वृष्णिः षोडशिनि आलभ्य ऐन्द्रो वै वृष्णि , रैन्द्रः षोडशी, सारस्वती मेष्य, तिरात्र आलभ्या, वाग् वै सरस्वती, वाग् अनुष्टुब्, आनुष्टुभी रात्रि , र्यज्ञक्रतूनां एवैषा व्यावृत्ति , र्यथा वै मत्स्योऽविचितो जनं अवधूनुत एवं वा एते प्रजायमाना जनं अवधून्वते, यस्त्वा एतान् एवं वेद तं एतेनावधून्वते, कथं सवनानि पशुमन्ति वेच्छे, ति पृछेत् , यद्वपया प्रातःसवने चरन्ति तेन प्रातःसवनं पशुमत् , यत् पुरोडाशैर्माध्यंदिने सवने तेन माध्यंदिनं सवनं पशुमत् , यदङ्गैस्तृतीयसवने तेन तृतीयसवनं पशुमत् , कियता तत् पशोश्चरन्ति यद्वपया चरन्ति, कियता तद्यत् पुरोडाशैः, कियता तद्यदवदानै , रूपेण तत् पशोश्चरन्ति यद्वपया चरन्ति , आत्मना तद्यत् पुरोडाशैः, शरीरेण तद्यदवदानैः, कस्मै पशुः प्रत्यङ् नियुज्यते , उदङ् प्रणीयते, दक्षिणत उपसाद्यते, प्राङ् हूयते , इति पृछेत् , यत् प्रत्यङ् नियुज्यते , इमां तेन दिशमभिजयति, यद् दक्षिणत उपसाद्यत इमां तेन, यत् प्राङ् हूयते , इमां तेन, यदुदङ् प्रणीयते, मनुष्यलोकं तेनाभिजयति, यद् दक्षिणत उपसाद्यते पितृलोकं तेन, यत् प्राङ् हूयते देवलोकं तेन, यदाहुत्या ऊर्ध्वो धूम उदयते स्वर्गं तेन लोकं , यदिडोपहूतं प्रत्यङ् हरन्ति , इमं तेन लोकं , सर्वा वा इमा दिशः पशुयाज्यभिजयति सर्वांल्लोकान् , सर्वा एवास्येमा दिशोऽभिजिता भवन्ति सर्वे लोकाः ॥

3.9.6 अनुवाकः6

अथैता आप्रियः, प्रजापतिः प्रजाः सृष्ट्वा रिरिचानोऽमन्यत, स एता आप्रीरपश्यत् , ताभिरात्मानं आप्रीणीत, यज्ञो वै प्रजापति , र्यदेता आप्रियो भवन्ति यज्ञमेवैताभिर्यजमाना आप्रीणीते, वपया वै पशोर्देवाः प्रातःसवने स्वर्गं लोकमायन् , यद्वपया प्रातःसवने चरन्ति वपया वा एतत् पशोर्यजमानः प्रातःसवने स्वर्गं लोकं एति, ते वै स्वर्यन्तोऽस्थानि शरीराण्यधून्वत, यदङ्गैस्तृतीयसवने चरन्ति , अस्नां शीरीणां निष्क्रीत्यै, पशुं स्नपयन्ति, यदेवास्याभिन्निषण्णं शमलं अमेध्यं तच् शुन्धन्ति, पशुमपाकृत्याग्निं मन्थन्ति पशूनामवरुद्ध्यै, द्वौ वै वज्रो, घोरोऽन्यः, शिवोऽन्यो , यः शुष्कः स घोरो , य आर्रःयद स शिवो , वज्रेण खलु वै वीर्यं क्रियते, वज्रं वा एतदादत्ते वीर्याय , इषे त्वेति , इष एवैनं उपाविरसीति , उप ह्येषोऽवति , उपो देवान् दैवीर्विशः प्रागुरिति , एता वै दैवीर्विशो यत् पशवो , वह्नय उशिजा इति , एते वै वह्नय उशिजो यद् ऋत्विजश्च धिष्ण्याश्च, बृहस्पते धारया वसूनीति, ब्रह्म वै बृहस्पति , र्ब्रह्मणैवैनां यच्छति, हव्या ते स्वदन्न् इति, स्वदितं एवैनं आलभते, देव त्वष्टर्वसु रणा इति, त्वष्टा हि रूपाणि विकरोति, रेवतीरमेध्यमिति, पशवो वै रेवती , र्यच्छत्य् एवैनां , देवस्य त्वा सवितुः प्रसव इति, सवितृप्रसूत एवैनां आदत्ते , अश्विनोर्बाहुभ्यां इति , अश्विनौ वै देवानामध्वर्युः, पूष्णो हस्ताभ्यां, इति देवताभिरेव, द्वौ वै पाशौ, घोरोऽन्यः, शिवोऽन्यो , यो यज्ञियः स घोरो , योऽयज्ञियः स शिव , ऋतस्य त्वा देवहविः पाशेनेति, य एव यज्ञियः पाशस्तेनैनं आलभते, प्रतिमुञ्चामीति , अभि हि मनुष्या दधति , अमुष्मै त्वा जुष्टं इति, यस्या एव देवतायै पशुरालभ्यते तस्या एनं जुष्टमकर् , धर्षा मानुषा इति, मनुष्या हि धारयन्ति, शुष्को वा एषोऽमेध्यो , यत् पशुं नियुनक्ति उभा एवैनौ मेध्यौ करोति, प्रत्यञ्चं नियुनक्ति, प्रत्यञ्चो हि पशवो मेधमुपतिष्ठन्ते, प्राणेषु वा एतस्य देवता उपस्थिता यत् पशुं नियुनक्ति, प्रतीचीरेवास्मै देवता नियुनक्ति , अद्भ्यस्त्वौषधीभ्या इति , अद्भ्यो ह्येष ओषधीभ्यो जुष्टं प्रोक्षामीति यस्या एव देवतायै पशुरालभ्यते तस्या एनं जुष्टमकर् , अनु त्वा माता मन्यताम् अनु पितेति , अनुमत एवैनं मात्रा पित्रा भ्रात्रा सख्यालभते , अनुमानावह देवान् देवायते यजमानायेति, देवताभ्य एवैनं निर्दिशति , अपां पेरुरसीति , अपां ह्येष पेरुः, स्वात्तं सद्धविरापो देवीः स्वदन्त्व् इति, स्वदितं एवैनं आलभते , अथ यदुप गृह्णात्य् उप च सिञ्चति सर्वत एवैनं मेधेन समर्धयति, सं ते वायुर्वातेन गच्छतामिति, वातं एवास्य प्राणमन्ववार्च्छति, सं यजत्रैरङ्गानीति, यज्ञियमेवैनं अकः, सं यज्ञपतिराशिषेति, यजमानं एव यज्ञस्याशिषा समर्धयति, शिरो वा आघार , आत्मा हवि , र्यदाघारम् आघार्यं पशुना समनक्ति आत्मन् वा एतच् शिरो यज्ञस्य प्रतिदधाति, वज्रो वै स्वरु , र्वज्रः स्वधिति , र्यत् स्वधितिनानक्ति वज्रेणैवैनं स्तृणुते, याक्ता तया शृतस्यावद्यति, हविर्भूता वा एषा, हविषैव हविषोऽवद्यति ॥

3.9.7 अनुवाकः7

अग्निना वै मुखेन देवा इमांल्लोकानभ्यजयन् , यत् पर्यग्निं करोति अग्निना वा एतन् मुखेन यजमान इमांल्लोकानभिजयति, रक्षांसि वा एतं जिघांसन्ति, यत् पर्यग्निं करोति रक्षसामपहत्यै, त्रिः पर्यग्निं करोति, त्रयो वा इमे लोका , एभ्यो वा एतल्लोकेभ्यो यज्ञाद्रक्षांस्यपहन्ति, चात्वालं अपि पर्येति , एषा वा अग्नीनां योनिः, स्कन्दति वा एतद्धविर्यद्विश्चोतति यद्विलिप्यते , अग्निर्वै सर्वा देवता , अत्र वै सापि देवता यस्या आलभ्यते, यत् पर्यग्निं करोति तामेवैनद् गमयति, कियद्वाहैतत् पशोः, कियद्वा यत् प्रयाजा , एतर्हि खलु वै सर्वो यर्ह्याप्रीत, स्तस्मादाश्राव्योपप्रेष्यति, देवताभ्यो वै पूर्वमाशुश्रवत् , अथ वा अत्र पशोराश्रावयति, तस्मादाश्राव्योपप्रेष्यति , उभये वा एतं बध्यमानं अनुबध्यन्ते ये ग्राम्याः पशवो ये चारण्या , ये बध्यमानं अनु बध्यमाना अन्वैक्षन्त मनसे, ति यज्जुहोति तेषां वा एषोन्मोक्षा, यन् न जुहुयादनुन्मुक्ताः स्युरुर्वन्तरिक्षं वीहीति , अन्तरिक्षदेवत्यो वा एष एतर्हि, रक्षांसि वा एतं जिघांसन्ति, प्रच्युतं इतोऽप्राप्तं अमुत्राऽग्निं पुरस्ताद्धरन्ति रक्षसां पराणुत्त्यै रक्षसामपहत्यै , अथो हव्याय वा एतत् प्रणीयमानाय देवताः पुरस्ताद्धरन्ति , अग्निं पुरस्तान् निदधाति अस्कन्नत्वाय, पशोर्वै मारणायानीयमानस्याहवनीयं मेध्योऽभ्युपक्रामति, यो वै तर्हि पशुमन्वारभते तं यज्ञस्याशीर्गच्छति, यदाह रेवति प्रेधा यज्ञपतिमाविशेति, यत्र वा एतत् क्वच यजमानं सन्तं यज्ञस्याशीर्गच्छति, वपाश्रपणीभ्यां अन्वारभते, तत् स्विदुभयमकर् ,
उरो अन्तरिक्ष सजूर्देवेन वातेनेति , अन्तरिक्षं वै पशवो , वातः प्राणः, प्राणानस्मिन् दधाति, त्मनास्य हविषो यजेति, देवता एव प्रीणाति, समस्य तन्वा भवेति, पुनरेवैनं संभावयति, वर्षीयो वर्षीयसा इति, तेन यजमानो वसीयान् भवति, यद्यज्ञं पशुमाहुर्यत्तमभिमन्यन्ते क्व तर्हि यज्ञो भवतीति, यदाह, यज्ञं यज्ञपतौ धा इति, यज्ञपतौ वा एतद्यज्ञं प्रतिष्ठाप्याथ पशुमालभन्ते, स्कन्दति वा एतद्धविर्यद्विश्चोतति यद्विलिप्यते यत् तृणं उपास्यति , अस्कन्नत्वाय, प्रत्यञ्चं संज्ञपयन्ति, प्रत्यञ्चो हि पशवो मेधमुपतिष्ठन्ते उदीचीनपादं व्यावृत्त्यै ॥

3.9.8 अनुवाकः8

ऋत्विजो वृणीते, छन्दांसि वा ऋत्विज , श्छन्दांसि वा एतद् वृणीते, यद्धोतारं वृणीते जगतीं तद् वृणीते, यदध्वर्युं पङ्क्तिं तत् , यदग्नीधमतिछन्दसं तत् , यन् मैत्रावरुणं गायत्रीं तत् , यद् ब्राह्मणाञ्शँसिनं त्रिष्टुभं तत् , यत् पोतारं उष्णिहं तत् , यन् नेष्टारं ककुभं तत् , यदाह ॥ अग्निर्दैवीनां विशां पुरएता ॥ इति, यजमानं वा एतद् वृणीते, स वृतो वषट्करोति, नाछावाकं वृणीते, पश्चाजेव वा एषा, होत्राः स्वर्ग्या , यदछावाक्या द्विदेवत्याः शँसति, द्विपाद्यजमानः प्रतिष्ठित्यै , अथ यदग्नीधं मध्यतो वृणीते तस्मादयमग्निर्मध्यत ओषधीनां , यदुत्तमः संयजतां संयजति तस्मादुपरिष्टान्मथ्यमानः प्रजायते , एतद्वा अस्य छन्दांसि वृतानि युक्तानि अभूवन् , यदवृता वषट्कुर्युर् भ्रातृव्यं यज्ञस्याशीर्गछेत् , अथ यद् वृता वषट्कुर्वन्ति , एकधा वा एतद्यजमाने यज्ञस्याशीः प्रतितिष्ठति, तस्मादेकः पशोर्वषट्करोति , एकं हि वृणुते, दश वै पशोर्देवता , दशास्मिन् प्राणा , यद् दश प्रयाजा , या एवास्मिन् देवतास्ता एतद्यजति , अथ य एष एकादशो, यस्या एव देवतायै पशुरालभ्यते तामेवैतद्यजति , अथ यदेकादशानुयाजा , या एवैतद्देवता अयाक्षीत्ता एतैरनुप्रीणाति, हतो वा एष मृतोऽमुत्र भूतो , दश वै पशोर्देवता , दशास्मिन् प्राणाः, प्राणाः खलु वै पशोर्देवता , यद् दश प्रयाजाः प्राणान् एवास्य प्रयजति , आत्मा वै प्राणानां एकादश , आत्मा वपा पशो , र्यदेष एकादशः परिशय , आत्मा वा एतदात्मानं परिशये , अथ यदेकादशानुयाजाः प्राणानस्मिन् दधाति ॥
इति तृतीयकाण्डे संक्रान्ता नाम नवमः प्रपाठकः ॥