मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः ०८
अध्वरादीनां त्रयाणां विधिः (आसुराः)
3.8.1 अनुवाकः1
असुराणां वा एषु लोकेषु पुर आसन् , अयस्मय्यस्मिंल्लोके, रजतान्तरिक्षे, हिरिणी दिवि, ते देवाः संस्तंभं संस्तंभं पराजयन्त , अनायतना ह्यासन् , त एताः प्रतिपुरोऽमिन्वत, हविर्धानं दिवि , आग्नीध्रं अन्तरिक्षे, सदः पृथिव्याम् , तेऽब्रुवन् , उपसीदामो , पसदा वै महापुरं जयन्तीति, त उपासीदन् , तदुपसदाम् उपसत्त्वम् , तान् एभ्यो लोकेभ्यः प्राणुदन्त, त एभ्यो लोकेभ्यः प्रणुत्ता अहरश्रयन्त, यत् प्रातरुपसदं उपायन्नह्न एनांस्तेन प्राणुदन्त, तेऽह्नः प्रणुत्ता रात्रीमश्रयन्त, यत् सायम् उपसदं उपायन् रात्र्या एनांस्तेन प्राणुदन्त, ततो देवा अभवन् परासुरा, स्तद्य एवं विद्वान् उपसदं उपैत्यहोरात्राभ्यां एव भ्रातृव्यं एभ्यो लोकेभ्यः प्रणुदते, भवत्यात्मना, परास्य भ्रातृव्यो भवति , अथ वै तर्हि नेषुरासीत्, ते देवा एतामिषुँ समsकुर्वन् , अग्निं शृङ्गम् , सोमं शल्यम् , विष्णुं कुल्मलं , तेऽब्रुवन्, क इमां इषुमवस्रक्ष्यतीति, ते देवा अब्रुवन् , अयमेव रुद्र इति, सोऽब्रवीत् , भागो मेऽस्त्विति, वृणीष्वेत्यवदन् , सोऽब्रवीत् , नैवं एकश्चनेषुमस्ताम् मीमांसाता इति, तस्मादेतस्येषुरस्ता न मीमांसितव्या ॥ सत्यंहम् ॥ इत्येव ब्रूयात् , तां वै रुद्रो व्यसृजत् , एष हि देवानां क्रूरतम, स्तयेमाः पुरोऽभिनत् , अग्निना वै स तास्तेजसाभिनत् , तस्मादग्निः प्रथम इज्यते, यदन्यां देवतां पूर्वां यजेदवीर्यवतीः स्यु , रष्टौ कृत्वो जुह्वां गृह्णाति, चतुरुपभृति, पूर्वार्धो हीषोः समाहिततमः, सकृत् पराङ् अतिक्रामति, सकृद् ध्येवेषुः पराच्यपतत् , अतिक्रम्याश्रावयति, यज्ञस्याभिजित्यै, यदनतिक्रम्याश्रावयेदनभिजितोऽस्य यज्ञः स्यात्, स्रुवेणोपसदो जुहोति, पुरां वा एष जितानामन्वारोह , एकामेकाहं जुहोत्ये, कामेकाह, मेकां हि त एकाहमजयन्न् एकामेकाहं , तिस्र उपसदो जुहोति, त्रयो वा इमे लोका , एषां लोकानामभिजित्यै , अग्निना वै मुखेन देवा इमांल्लोकानन्ववायन्नुपसद्भिरसुरान् पराणुद्य , अग्निना वा एतन् मुखेन यजमान इमांल्लोकानन्ववैत्य् उपसद्भिर् भ्रातृव्यं पराणुद्य, याः सायमनुवाक्यास्ताः प्रातर् याज्याः स्यु , र्याः प्रातरनुवाक्यास्ताः सायं याज्याः स्यु, स्तथोभयीर् वीर्यवतीर्भवन्ति ॥
3.8.2 अनुवाकः2
अयः प्रथमायामवधाय जुहोति, रजतं मध्यमायां , हरितं उत्तमायां, एतद्वै बृहस्पतिर् देवेभ्यः पूर्जयनमकरोत् , यत्र पुरं युध्येयुस्तदेताभिर्जुहुयात्, सरा वा एषा यज्ञस्य, तस्माद्यत् किंच प्राचीनं अग्नीषोमीयात्तदुपांशु चरन्ति , अथ वा एतदग्नीषोमीयं प्रति वाचं विसृजन्ते, यज्ञमेवाप्त्वा वाचं विसृजन्ते, घृतं वै देवा वज्रं कृत्वा सोमं अघ्नन् , स्रुचौ बाहू, तस्मात् स्रुचौ सौमीमाहुतिं नाशाते, अवधिषुर्वा एतत् सोमं यदस्य स्रुचौ चाज्यं चान्तिकमभार्षु , र्यदाह , अंशुरंशुस्ते देव सोमाप्यायतामिति, यदेवास्य घ्नन्तः क्रूरम् अक्रंस्तदक्रूरं अक, स्तदाप्याययति, सर्व ऋत्विजा आप्याययन्ति, सर्वे हि तान्तं भिषज्यन्ति, यन्ति वा एतेऽस्माल्लोकाद् ये सोमं आप्याययितुमुदस्थुः, पराञ्चो हि यन्ति , ईश्वराः प्रमेतो , र्यदाह , एष्टा राया एष्टा वामानि प्रेषे भगायेति, तेनास्माल्लोकान् नैति, तेनास्मिंल्लोके धृता , अनयोर्वा एष गर्भ , आभ्यामेष आवृश्चते यः सोमं हन्ति, यदाह, नमो दिवे नमः पृथिव्या इति , आभ्यामेव नमोऽकर्, आतिथ्यं वा उपसदां प्रयाजा, स्तानूनप्त्रमाशी, स्तस्मान् न होतारं वृणीते नार्षेयम् ॥ सीद होतः ॥ इत्येवाह चतुर्व्रतस्तिस्र, श्चत्वारि हीषोः पर्णानि, त्रिव्रतस्तिस्र, स्त्रिषन्धिर् हीषुः, शृङ्गं शल्यः कुल्मलं , द्विव्रतस्तिस्रो , द्विषन्धिर् हीषुः, शल्यश्च कुल्मलं च , एकव्रतस्तिस्र , एका ह्येवेषु , एषा वै परोवरीयसी दीक्षा कनीयो व्रतं उपैति, ज्यायांसं लोकमभिजयति , एकव्रतस्तिस्रो , द्विव्रतस्तिस्र, स्त्रिव्रतस्तिस्र , श्चतुर्व्रतस्तिस्र , एषा वा उत्क्रामन्ती स्वर्गकामस्य , उत्तरमुत्तरं श्वः श्वः श्रेयान् भवति य एवं वेद, यद् द्वादशाग्निष्टोमस्योपसदः स्युरशान्ता निदहेयु , र्यत् तिस्रोऽहिनस्य यथा गरीयान् भार उष्णिहां निशृणात्य् एवं तत्, तत् तिस्र एवाग्निष्टोमस्योपसदः कार्या द्वादशाहिनस्य सवीर्यत्वाय ॥
3.8.3 अनुवाकः3
अभ्यर्धो वै देवेभ्यो यज्ञ आसीत्, ते नाविदु , रिह वा स इह वेति , अस्ति यज्ञ , इति त्वविदुस्तेन वै संसृष्टिमैच्छन् , तं प्रैषमैच्छन्, तन्नाविन्दन् , तं वयांस्य् उपर्युपरि नात्ययतन् , तं इन्द्र उपर्युपर्यत्यक्रामत्, तमचायत्, सोऽवेत् , अचिकेद्वै मेति, सोऽब्रवीत्, कोऽसा इति , अहं दुर्गे हन्तेति , अथ कस्त्वमसीति , अहं दुर्गादाहर्तेति, सोऽब्रवीत् , दुर्गे वै हन्तावोचथा , अयं वराह आमुख एकविंशत्याः पुरां पारेऽश्ममयीनां , तस्मिन्नसुराणां वसु वाममन्त, स्तं जहीति, तोयेन्द्रो द्रुंभूल्याभ्यायत्य पुरस्ताद् भित्त्वा हृदयं प्रावृश्चत् , एतद्वा एषाभ्यनूक्ता ॥
अतिविद्धा विथुरेणा चिदस्तास्त्रिःसप्त सानु संहिता गिरीणां ।
न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥
इति सोऽब्रवीत् , दुर्गाद्वा आहर्तावोचथा , एतमाहरेति, तं वै विष्णुराहरत् , यज्ञो वै विष्णु , र्यज्ञो वै तद्यज्ञमसुरेभ्योऽध्याहरत् , यज्ञेन वै तद्यज्ञं देवा असुराणामविन्दन्त , एतद्वा एषाभ्यनूक्ता ॥
विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः ।
शतं महिषान् क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ॥
इति तद्वै देवा यज्ञमविन्दन्, यद्वै तद्यज्ञमविन्दँस्तद्देवयजनस्य देवयजनत्वं , यद्देवयजनमिछन्ति यज्ञं इच्छन्ति, यद्विन्दन्ति यज्ञं विन्दन्ति, यद्वाव यजमानो जोषयते तद्देवयजनं , यज्ञं वावैतद्यजमानो जोषयते असुराणां वा इयमग्र आसीत् , यावन् निषद्य परापश्यंस्तद्देवानां , ते देवाः सलावृकीमब्रुवन्, यावदियं त्रिः समन्तं पर्येति तदस्माकं इति, सा वा इमां त्रिः समन्तं पर्यैत्तद्वै देवा इमामविन्दन्त, तद् वेद्या वेदित्वं , विष्णुं वै देवा आनयन् वामनं कृत्वा, यावदयं त्रिर्विक्रमते तदस्माकं इति, स वा इदं एवाग्रे व्यक्रमत , अथेदमथाद, स्तद्वै देवा इह मामविन्दन्त, तद् वेद्या वेदित्वं , सर्वा वा इयं पृथिवी वेदि , रियं मेखलं, इति त्वेवास्या यजमानः परिगृह्णीते, यावद्यावद्वै यजमानो वेद्याः कुरुते तावत्तात्तावत्तात्पृथिव्या जयति, तस्मान्महती कार्या ज्यायसी ज्यायसी, देवाश्च वा असुराश्चास्पर्धन्त, तद्यत् किंचासुराणां स्वमासीत्तद्देवा वेद्याविन्दन्त, तद् वेद्या वेदित्वं , तेषां यत् प्रियं वस्व् आसीत्तेनापाधावन्ननेन चिन्मुच्यामहा इति, तद्देवा उत्तरवेद्याविन्दन्त, तदुत्तरं वै श्रेयोऽविदामहीति, तदुत्तरवेद्या उत्तरवेदित्वं , तद्य एवं विद्वान् वेदिं चोत्तरवेदिं च कुरुतेऽभिपूर्वमेव सपत्नस्य भ्रातृव्यस्य वसु वेदो वृञ्जान एति ॥
3.8.4 अनुवाकः4
षट्त्रिंशत् प्रक्रमाः प्राची, चतुर्विंशतिरग्रेण, त्रिंशज्जघनेन, तथा विराजा संमिता , अथो छन्दांसि वै विराट्, छन्दांसि वावास्यैतद्यज्ञमुखे युनक्ति , एतद्वा एषाभ्यनूक्ता ॥
इन्द्राणी पत्या सुजितं जिगायोदंशेन पतिविद्ये बिभेद ।
त्रिंशद्यस्या जघनं योजनानि उपस्था इन्द्रं स्थविरं बिभर्ति ॥
इति, यद्वाव प्राचीनप्रवणं तद्देवयजनं , प्राञ्चं हि तं शयानं अविदन् , अथ यत् प्राचीनप्रवणं उदीचीनापनतं तद्यजेत, यः कामयेतोभयोर् लोकयोर् ऋध्नुयां इति , उभयोर्वा एतल्लोकयो, रुभयोरेव लोकयोर् ऋध्नोति , अथ यस्य देवयजनस्योत्तरादन्यद्देवयजनं तद्यजेत, यः कामयेता, ऽभि मोत्तरो यज्ञो नमेदिति , एतद्वा उत्तरावन्नाम देवयजनं, अभ्येनं उत्तरो यज्ञो नमति , अथ यस्य देवयजनस्य मध्यतो बहुला ओषधयस्तत् पशुकामो यजेत, पशवो वा ओषधयः, पशुमान् भवति, यत्समं प्रतिष्ठितं तद् गतश्रीर्यजेत, प्रतिष्ठितं वा एतत्, प्रतिष्ठित एष यो गतश्री, स्तदेवैनं प्रतिष्ठापयति, पापो हि स, ततः प्रच्यवमानो , अथ यस्य देवयजनस्यापः पुरस्तात् तद्यजेत, यः कामयेता, ऽभि मोत्तरो यज्ञो नमेदिति , एतद्वै पुरोहविर्नाम देवयजनं, अभ्येनं उत्तरो यज्ञो नमति , अथ यस्य देवयजनस्य पन्थाः पुरस्तादिरिणं वा कर्तो वा भ्रातृव्यवान् यजेत , एतद्वा आप्तं देवयजनं सदेवं , यद्धि देवयजनाद्देवयजनं उच्शिंषेद् भ्रातृव्याय लोकं उच्शिंषेत् , अथ यस्य देवयजनस्याहवनीयादन्याः प्राचीरापो धावन्ति गार्हपत्यादन्याः प्रतीचीस्तद्यजेत यं तल्पे वा पात्रे वा मीमांसेरन् , अनुषक्तो हि वा एष पाप्मना , अथैतन् मीमांसन्ते , एतद्वै व्यावृत्तं पाप्मना, पाप्मनैवैनं व्यावर्तयन्ति, यद्वै यज्ञः संतिष्ठते प्राचीनं अस्य समृद्धं एति प्रतीचीनं व्यृद्धं , पशवो वै यज्ञस्य समृद्धं, आपः खलु वै पशवो , यत् प्रत्यङ्ङ् अवभृथमभ्यवेयाद्यज्ञस्य व्यृध्येन व्यृध्येत , अथ यत् प्राङ् अवभृथमभ्यवैति यज्ञस्य वा एतत् समृध्येन समृध्यते, यत् त्र्युन्नतं तद् भ्रातृव्यवान् यजेत, यस्याहवनीयं च हविर्धानं चान्तरोन्नतं , यस्य हविर्धानं च सदश्चान्तरोन्नतं , यस्य सदश्च गार्हपत्यं चान्तरोन्नतं, अतो वै विष्णुरिमांल्लोकान् उदजयत् , विष्णोरेवोज्जितमन्व् इमांल्लोकान् उज्जयति, प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते , अथ यस्य देवयजनस्य दक्षिणत उन्नतं तद् भ्रातृव्यवान् यजेत , एतां वै दिशं देवा असुरान् प्रणुद्य स्वर्गं लोकमायन् , अथैभ्योऽमुमादित्यं परिधिं पर्यदधुरपुनराभावाय , एतां वा एतद्दिशँ यजमानो भ्रातृव्यं प्रणुद्य स्वर्गं लोकं एति , अथास्मा अमुमादित्यं परिधिं परिदधात्यपुनराभावाय, स्थले यजेत यः कामयेतो, भयेषां देवमनुष्याणां प्रकाशं गछेयमिति, प्रकाशो वै नामैतद्देवयजनं, उभयेषां देवमनुष्याणां प्रकाशं गच्छति , अभिशस्यमानं याजयेत्, परोक्षं गुहा वने परोक्षं पृष्ठानि अपेयुः, परोक्षं वा एष यमभिशंसन्ति, परोक्षमेवास्माद् गुहा पापीयां वाचं करोति , अथ यस्य होता प्रातरनुवाकमनुब्रुवन्नग्निमपः सूर्यं तानि पश्येत्तद् ब्रह्मवर्चसकामो यजेत, ब्रह्मवर्चसं वा अग्नि , र्ब्रह्मवर्चसं आपो , ब्रह्मवर्चसं अस्मा आदित्यो ब्रह्मवर्चसमेव संदधाति, ब्रह्मवर्चसी भवति , अथ यस्य देवयजनस्यान्या अन्या मध्यतो बहुला ओषधयो , अतो वा अङ्गिरसः पशूनसृजन्त, तत् पशुकामो यजेत , अथ यस्य देवयजनस्य मध्यत उन्नतं, अतो वा अङ्गिरसः स्वर्गं लोकमायन् , तत् स्वर्गकामो यजेत, निर्वस्केऽभिचरन् यजेत, यथैवैतं निर्णयत्येवं तं निर्णयति यमभिचरति, यत् कार्यमिव स्यात्तद्यजेत, यः कार्य इव स्यात् , आत्मा वै देवयजनं , करोत्य् एवैनं , ये युवान आर्षेया ऋत्विजो वह्नयस्तद्देवयजनं , तस्मादाहु , र्युवैवार्त्विजीना इति , अग्निर्वाव देवयजनं , तद्य एवं विद्वान् यत्रैव क्वचाग्निमाधाय यजते देवयजन एव यजते ॥
3.8.5 अनुवाकः5
यद्वा अस्या यज्ञियं मेध्यँ यत्सदेवं तदुत्क्रम्यातिष्ठदन्तरा देवासुरान्त्संयतान्सिंहीरूपमिव भूत्वा, तेऽविदु , र्यतरान् वा इयम् उपावर्त्स्यति त इदं भविष्यन्तीति, तस्यां वा उभय ऐच्छन्त, सा नान्यतरांश्चनोपावर्तत, तां देवा अपाशासु , रुप ना आवर्तस्वे, ति साब्रवीत् , भागो मेऽस्त्विति, वृणीष्वेत्यब्रुवन् , साब्रवीत् , मां एव पूर्वां अग्नेर् व्याघारयात्, स यत्कामो मां व्याघारयात् तं एव स कामं अश्नुवदिति, तां देवाः पूर्वां अग्नेर् व्याघारयन् , ततो देवा अभवन्, परासुरा, स्तद्य एवं विद्वान् एतां पूर्वां अग्नेर् व्याघारयति भवत्यात्मना परास्य भ्रातृव्यो भवति, यद्वै तदुत्क्रम्यातिष्ठदन्तरा देवासुरान्त्संयत्तान्सिंत्हीरुपमिव भूत्वा, सा वा उत्तरवेदि, स्तप्तायनी मेऽसीति, तप्ता हि ते ताम् अविन्दन्त, वित्तायनी मेऽसीति, वित्ता हि ते ताम् अविन्दन्त , अवतान्मा नाथितं इति, नाथितां हि सा तानावद, वताद्व्यथितं इति, व्यथितां हि सा तानावत् , एतदेतद्वा एतया देवा असुराणामविन्दन्त , एतदेतदेवैतया यजमानो भ्रातृव्यस्य वृङ्क्ते , अग्ने अङ्गिरो योऽस्यां पृथिव्यामध्यसीति, य एवैषु त्रिषु लोकेष्वग्नयस्तान् एवावरुन्धे, विदेरग्ने नभो नाम यत्ता इति, नभो हि नाम सोऽग्निरासीत् , जानुदघ्नं खेय, मेतावती वा अस्याः पृथिव्या जीवं यज्ञियम् , तदेवावरुन्धे े, सिंहीरसि, महिषीरसीति, सिंहीरूपमिव हि तन्महिषीरूपमिव भूत्वातिष्ठत् , देवेभ्यः शुन्धस्व, देवेभ्यः शुम्भस्वेति, देवेभ्य एवैनां शुन्धन्ति, देवेभ्यः शुम्भन्ति, निःसारयति, यदेवास्या उद्घ्नन्तः क्रूरम् अक्रंस्तदक्रूरं अक, स्तन् निःसारयति , इन्द्रघोषास्त्वा पुरस्ताद्वसुभिः पान्त्विति , एतद्देवत्या वा इमा दिशो , यथादेवतं एवैनां प्रौक्षीत् , अतो वै देवा असुरान्मनसा विनुद्य स्वर्गं लोकमायन् , त एता देवता अन्ततोऽदधतासुराणामनन्वग्भावाय , अतो वा एतद्यजमानो भ्रातृव्यं मनसा विनुद्य स्वर्गं लोकं एति, स एता देवता अन्ततो धत्ते भ्रातृव्यस्यानन्वग्भावाय, तेऽकामयन्त, सपत्नं भ्रातृव्यं सहेमहीति, सिंहीरसि सपत्नसाही स्वाहेति, तं एव तेन कामं आश्नुवत, सपत्नं भ्रातृव्यं साढ्वा तेऽकामयन्त, पशवो नः स्युरिति, सिंहीरसि रायस्पोषवनिः स्वाहेति, तं एव तेन कामं आश्नुवत, सपत्नं भ्रातृव्यं साढ्वा पशून् भित्त्वा तेऽकामयन्त, प्रजा नः स्यादिति, सिंहीरसि सुप्रजावनिः स्वाहेति, तं एव तेन कामं आश्नुवत, सिंहीरस्यादित्यवनिः सजातवनिः स्वाहेति , आदित्याभिर् हि सा प्रजाभिः सह, तेऽकामयन्त, देवा नो यज्ञं विद्युरिति, सिंहीरसि , आवह देवान् देवायते यजमानाय स्वाहेति, तं एव तेन कामं आश्नुवत, भूतेभ्यस्त्वे, त्युद्दिशति, देवा ह्येव भूता , यत्र वा अदोऽग्निर् होत्राद् भीषापाक्रामत् स सर्वेषु भूतेष्ववसत् , यां पशुष्ववसत्ताम् अनाछिन्नस्तुकस्यान्तराशृङ्गं अवसत् , यां वनस्पतिषु पूतुद्रौ, यामोषधीषु तां सुगन्धितेजने, यत् संभारान्त्संभरति यदेवात्राग्नेर् न्यक्तं तत् संभरति, यानि वा अदोऽग्निरस्थानि अधूनुत स पूतुद्रुरभवत् , यन् मांसं तद् गुग्गुलु, यत् पूयितं उपश्लिष्टँ स सुगन्धितेजनो , यदेते संभारा भवन्ति यदेवात्राग्नेर् न्यक्तं तस्यावरुद्यैनि, विश्वायुरसि, पृथिवीं दृंहेति , एषां ह्येते लोकानां विधृत्यै परिधीयन्ते, ध्रुवक्षितिरसि , अन्तरिक्षं दृंहेति , अन्तरिक्षं हि यज्ञो , अच्युतक्षिदसि, दिवं दृंहेति, दिवं एवैनं अजीगमत् , अग्नेर्भस्मासि , अग्नेः पुरीषमसीति , अग्नेर् ह्येतद् भस्माग्नेः पुरीषं , देवपात्रं वा उत्तरवेदि, देवेभ्यो देवपात्रं प्रोच्यं , वैभ्राजा देवा , यदाह, विभ्राड् बृहत् पिबतु सोम्यं मध्व् इति, देवेभ्यो वा एतद्देवपात्रं प्राह, प्र वसीयसः पात्रं आप्नोति, ब्राह्मणं तु पात्रे न मीमांसेत यः पात्रिय इव स्यात् ॥
3.8.6 अनुवाकः6
एतावती वा इयं पृथिवी यावती वेदि , रपरिमिताद्वा एतद् भ्रातृव्यं निर्भज्य यजमानाय परिगृह्णाति , ऋक्षं वा अमेध्यम्, आपो हवि , र्यत् प्रोक्षति मेध्यमेवैनत् करोति , ऋक्षं वा अमेध्यम् , यद् बर्हिः स्तृणाति मेध्यामेवैनां करोति , एतावती वा इयं पृथिवी यावती वेदिः, प्रजा बर्हि , र्यद् बर्हिः स्तृणाति , अस्यां वा एतत् प्रजाः प्रतिष्ठापयति, यजमानो वै प्रस्तरः, प्रजा बर्हि , र्यत् प्रस्तरम् उत्तरं बर्हिषः सादयति यजमानं वा एतदुपरिष्टादासां प्रजानां दधाति , अथ यत् तृणे अन्तर्दधाति तेन यजमानो यजमानेन व्यावर्तते, बहुलं बर्हिः स्तृणाति , अक्षोधुका अस्य पशवो भवन्ति, प्राचीनं बर्हिः स्तृणाति, प्राङ् हि यज्ञो , यत् प्रतीचीनं स्तृणीयात् प्रत्यादाज्यास्य राष्ट्रं घातुकं स्यात् , देवेषुर्वै वेदि , र्यत्र वै देवेष्वा संनतया कामयते तद्धन्ति, यद् वेदिं कल्पयति देवेषुं वा एतत् संनमति, तया संनतया यत्र यजमानः कामयते तद्धन्ति, त्रयो वै पूर्वेऽग्नयः प्राधन्वन् हव्यं देवेभ्यो वहन्तो , वषट्कारः प्रावृश्चत् , अथ योऽयमिदानीं स भीषापाद्रवद् ईदृग् उ स आरिष्यतीति, तं देवा अपाशासु , रुप ना आवर्तस्वेति, सोऽब्रवीत् , भागो मेऽस्त्विति, वृणीष्वेत्यब्रुवन्, सोऽब्रवीत्, त्रयो वै मे पूर्वे भ्रातरः प्राधन्वन् हव्यं देवेभ्यो वहन्तो , वषट्कारः प्रावृश्चत्तेषां भागोऽस्त्विति, वृणीष्वे, त्यब्रुवन् , सोऽब्रवीत् , यदेव किंचाहुतं बहिष्परिधि स्कन्देत्तदेव तेषां भागधेयमसदिति, तेषां वा एतद् भागधेयम्, अस्थन्वन्तो हि वै त आसन् , अथ ते प्राधन्वन् , सोऽब्रवीत् , अस्थानि नु धविष्ये , अथोपावर्त्स्यामीति, ते वा अन्वायन् , ते समन्तं पर्यविशन् यज्ञस्य गोपीथाय , अयं वाव यज्ञायोपधीयतेऽयं यजमानाया,ऽयं भ्रातृव्याय , इमौ प्रतरं करोतीममपतरम् , यज्ञेन वा एतद्यजमानं प्रतरं करोति , यज्ञेनास्य भ्रातृव्यमपतरं करोति, संधिं प्रतिजुहोति, न ह्यग्निमाहुतिस्तरति, मुखत एवैनान् प्रीणाति , अथो सुतीर्थेन वा एतदाहुतीस्तारयति , अयं वाव भूपति , रयं भुवनपति , रयं भूतानां पति , रथ योऽयमिदानीं स भूति , र्यदाहुतं बहिष्परिधि स्कन्देत्तदभिमन्त्रयेत ॥भूपतये स्वाहा, भुवनपतये स्वाहा, भूतानां पतये स्वाहा ॥ इति भागधेयं वावैषामेतत्, प्रीणात्य् एवैनान्, अथो हविषा वा एतत् स्कन्नेन द्वितीयामाशिषं अवरुन्धे , एतद्ध स्म वा आहारुण औपवेशिः, किमु स यज्ञेन यजेत यो हविषा स्कन्नेन द्वितीयामाशिषमवरुन्धं न विद्यादिति, तद् द्वितीयां एवैतेनाशिषं अवरुन्धे ॥
3.8.7 अनुवाकः7
ये पुरा ग्रन्थयो भवन्ति तान् विस्रंसयन्ति मानुषस्य व्यावृत्त्यै, प्रणेनिजति, यदेवैनयोरभिनिषण्णं शमलं अमेध्यं तं शुन्धन्ति, युञ्जते मन उत युञ्जते धिया इति जुहोति, युक्त्या एव, सावित्र्या जुहोति, सवितॄप्रसूते एव प्रवर्तेते, हविर्वै हविर्धाने, यदुपानक्ति हविर्भूत एव प्रवर्तेते, अथो अभिवृत्ते एव पत्नि उपानक्ति, यद्वै पत्नी यज्ञे करोति तन् मिथुनं , मिथुनत्वाय वै पत्नि उपानक्ति , एष वै पत्न्या यज्ञस्यान्वारंभो यद्यज्ञे करोति , अन्वारंभाय वै पत्नि उपानक्ति, प्राचीनं उपानक्ति, प्राङ् हि यज्ञ, स्त्रिरन्यत् त्रिरन्यदुपानक्ति , अपरिमितं हि मनुष्या उपाञ्जन्ति, दक्षिणत उपानक्ति , उदीची ह्येते मनुष्यलोकमुपावर्तेते, निर्ऋतिगृहीतो वा एष उभयतः संदष्टः शुष्को , यदुपानक्ति शमयत्येव, शुष्को वा एष दुर्वाग् यजमानस्य गृहमावदति, स ईश्वरोऽशान्तो यजमानं हिंसितो, स्तदनुगृह्णन्तो यन्ति, यद्युत्वे ोंुदेत् सुवागावद देव दुर्यान् इति वदेत् , शमयत्येव , अथो ऽशमयित्वैवाशिषं आशास्ते, हविर्वै हविर्धाने स्तीर्त्वा वै बर्हिर् हविरासादयन्ति, तस्मात् प्रस्तरं स्तीर्त्वा प्रवर्तयन्ति, हविर्वै हविर्धाने, अनूच्यमानासु वै सामिधेनीषु हविरासादयन्ति, तस्मात् प्रवर्त्यमानयोर् होतान्वाह , इमे वा एते, इमे वा एतत् प्रवर्तयन्ति यद्धविर्धाने, तस्मात् पूर्वस्या जनताता अपरा जनता क्षेत्रं अभ्यारोहुका, ते यर्हि प्रवर्तयेयुस्तर्हि होतानुब्रुवन्मनसा पदा तां जनतां प्रतिनुदे , दपर्जन्यं भयं नुदेति, विड् वा एषा, विशँ वा एतत् प्रतिनुदते , अनभ्यवचारुकास्य विट् क्षेत्रं भवति, नीयानं वै रक्षांसि यज्ञं अवयन्ति, यद्वर्त्मनि जुहोति रक्षसामपहत्यै, वैष्णव्या जुहोति, विष्णुर्वै यज्ञो, विष्णुनैव यज्ञेन यज्ञाद्रक्षांस्यपहन्ति, यद् गायत्र्या जुहोतीमां तेनाक्रमते, यत् त्रिष्टुभान्तरिक्षं तेन , अथ यदाहवनीयं गच्छतः स्वर्गं तेन लोकं , त्रीन् प्रक्रमान् प्रतिविक्रमते, त्रयो वा इमे लोका, इमान् एव लोकान् यजमानायोच्शिंषति, वैष्णवमसि, विष्णुस्त्वोत्तभ्नात्व् इति, वैष्णवं हि हविर्धानं , दिवो विष्ण उत वा पृथिव्या, इति दक्षिणस्य हविर्धानस्य मेथीन् निहन्ति, मुखत एव यज्ञस्याशिषं अवरुन्धे ्, यमध्वर्युः प्रथमं ग्रन्थिं ग्रथ्नाति तं प्रथमं विस्रंसयति, यदन्यं पूर्वं विस्रंसयेदमेहेन प्रमीयेत, विष्णोर्नु कं वीर्याणि प्रवोचं इत्युत्तरस्य हविर्धानस्य मेथीन् निहन्ति वैष्णव्या, वैष्णवं हि हविर्धानं , स्वयैव देवतया, यो अस्कभायदुत्तरं सधस्थम् इति , अदो वा उत्तरं सधस्थम्, अमुष्मिन्न् एव हविर्धानं संमिनोति ॥
आ वां उपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः ।
इहाद्य सोमपीतये ॥
इति य एव देवा यज्ञियास्तान् हविर्धाना आसादयति, तां श्वो भूतेऽभियजते, दण्डो वा एतदौपरो वषट्कारेण निरहन्, यच् छदिरभिनिदधाति , अपिहित्या अछिद्रत्वाय, विष्णोः पृष्ठमसीत्य, द एव, विष्णो रराटमसीत्य, द एव, विष्णोः शिप्रे स्था, इतीमे एव, मुखतो वा एतत्, स्वया देवतया शिरो यज्ञस्य संभरति, विष्णोः स्यूरसीति, तस्मादिदं शिरः षोढाविष्कृतं , प्र तद्विष्णुः स्तवते वीर्येणेति प्राङ् उत्क्रम्य वदति, , अतो वै विष्णुरिमांल्लोकान् उदजयत् , विष्णोरेवोज्जितिम् अन्व् इमांल्लोकान् उज्जयति, प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते ॥
3.8.8 अनुवाकः8
देवस्य त्वा सवितुः प्रसव इति, सवितृप्रसूत एवैनां आदत्ते , अश्विनोर्बाहुभ्यां इति , अश्विनौ वै देवानामध्वर्युः, पूष्णो हस्ताभ्यां इति, देवताभिरेव , अभ्रिरसि नारिरसीति, क्रूरमिव वा एतद्यदभ्रिः, शमयत्येव , इदमहं रक्षसो ग्रीवा अपिकृन्तामी, त्याह रक्षसां ध्वरायै रक्षसामन्तरित्यै , इदमहं सोमे समानो योऽसमानोऽरातीयति तस्य ग्रीवा अपिकृन्तामीति, समानो वा ह्यसमानो वारातीयति सर्वमेवैतया पर्यापत्, प्राणा वा उपरवाः, शिरो हविर्धानं , शीर्षन् वा इमे प्राणा, स्तस्माद्धविर्धाने , अन्तर्वा इमे शीर्षन् प्राणा, स्तस्मादन्त, श्चत्वारो वा इमे शीर्षन् प्राणा, स्तस्माच्चत्वारः संतृण्णाः परः, संतृण्णा हि परः प्राणा , विधृता उपरिष्टात् , विधृता हीम उपरिष्टात् प्राणाः, पूर्वार्धे वा इमे मुखस्य प्राणा , एतत् खलु वै हविर्धानस्य पूर्वार्धं यद् दक्षिणं हविर्धानं , तस्माद् दक्षिणे हविर्धाने, बृहन्नसि बृहद्राया इति, देवा ह्येव बृहत् , बृहतीमिन्द्राय वाचं वदेति , ऐन्द्रो हि यज्ञो , रक्षोहणं वलगहनमित्या, ह रक्षसां ध्वरायै रक्षसामन्तरित्यै, वैष्णवीं इति, विष्णुर् हि यज्ञो , असुरा वा एतान्वलगान् देवेभ्यः प्राणेषु न्यखनन् , तान् बाहुमात्रेऽन्वविन्दन् , तस्माद् बाहुमात्रं खेयम् , यद्वाव कृत्या यच् शफं यदभिचरितं तदेतदुद्वपति, प्राणा वा उपरवा, यदवसिञ्चति तस्मादिम उदन्वन्तः प्राणाः, प्राणा वा उपरवा , यदवस्तृणाति तस्मादिमे लोमशाः प्राणा, अथ यदवसिञ्चत्यव च स्तृणाति मस्तिष्को वा एष क्रियते, हनू अधिषवणे, शिरो हविर्धानं , शीर्षन् वा इमे हनू, तस्माद्धविर्धाने , अन्तर्वा इमे शीर्षन् हनू, तस्मादन्तरिमे वा एते यत् संतृन्द्या, दिमे एव संतृन्द्यात्, तत् संपाद्ये एव, द्व्यङ्गुलमन्तरा कार्यम् , द्व्यङ्गुलं हीदं, अन्तरा वै नाकेव, शिरो हविर्धानं , पृष्ठमाग्नीध्रं, उदरं सदः, प्राङ् हि यज्ञः संहितो , हनू अधिषवणे, जिह्वाधिषवणं , ग्रावाणो दन्ता , मुखतो वा एतत् प्रजापतेः सोमं पिबन्ति , इन्द्रो वै वृत्रमहन् , स इमां प्राविशत्, तं देवताः प्रैषमैच्छन् , तन्नाविदन् , तं भूतानि उपारवन्त, यो नोऽधिपतिरभूत्तन् न विन्दामा इति, तदुपरवाणां उपरवत्वं , यत्तदुपारवन्त तच्चतुर्धावस्तादेवैच्छन् , एकधा परोऽन्वविन्दन् , तस्माच्चतुर्धावस्तात् , एकधा परो , यदुपरवाननुमृशति , इन्द्रियस्यावरुद्ध्यै ॥
3.8.9 अनुवाकः9
पृथिव्यै त्वा , अन्तरिक्षाय त्वा, दिवे त्वेति प्रोक्षति , एषा ह्येषां लोकानां विधृत्यै मीयते, त्रिः प्रोक्षति, त्रिषत्या हि देवा, अथो त्रयो वा इमे लोका , एभ्य एवैनां लोकेभ्यः प्रौक्षीत् , अन्नं वै यवा , ऊर्ग् उदुम्बरो , यद्यवमतीभिः प्रोक्षति , ऊर्जा वा एतदन्नं समर्धयति , ऋक्षं वा अमेध्यम्, आपो हवि , र्यदवसिञ्चति मेध्यमेवैनत् करोति , ऋक्षं वा अमेध्यम् , यदवस्तृणाति मेध्यमेवैनत् करोति, पितृदेवत्यं वै निखातममेध्यमन्यदेवत्यम्, अस्याः खलु वा इमा उत्तमार्ध ओषधयो , यदवस्तृणाति , अस्या एवैनां उत्तमार्धे मिनोति , अनिखातैवाभूत् , अन्नं वै यवा , ऊर्ग् उदुम्बरो , यद्यवमवास्यति , अन्ने वा एतद् ऊर्जं दधाति, न ह्यन्नं ऋत ऊर्जो धिनोति, नो ह्य् ऊर्ग् ऋतेऽन्नाद्धिनोति, नितानस्त्वा मारुतो निहन्त्विति इति, मनो वै नितानः, प्राणा मारुता , मित्रावरुणौ ध्रुवेण धर्मणेति, मित्रमेवैनां दाधार, वरुणः कल्पयति, विधृत्यै च खलु वा एषां प्रजानां क्लृप्त्यै च मीयते, मित्रावरुणौ वै देवानां धर्मधारयौ, दैवं वा एतद्धर्मम् अदीधरताम् , यदौदुम्बरी, ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामीति , आशीरेवैषा, ब्रह्म दृंह क्षत्रं दृंहेति , आशिष एवैष परिग्रहो , घृतेन द्यावापृथिवी आपृणेति, घृतेनैव द्यावापृथिवी व्युनत्ति , उदरं वै सदा , ऊर्ग् उदुम्बरो , यदौदुम्बरी , ऊर्जं वा एतन्मध्यत आत्मनो धत्ते प्रजानां च, प्रजापतेर्वा एतदुदरं यत्सदः, प्राजापत्य उद्गाता, तस्मादुद्गातान्वारभते, यजमानो वा, औदुम्बरी वर्षिष्ठा कार्या, वर्ष्मैनं समानानां गमयति, विश्वजनस्य छायासी, ति छदिरभिनिदधाति , गोत्राद्गोत्राद्धि प्रसर्पन्ति , उदरं वै सदो , यदन्येनान्येन संमिनोति तस्मादुदरं अन्येनान् येनामेन संतत , उदरं वै सदो , यदनूचीनं मिनुयात् पराचीनं जग्धमतीयात् , अथ यत् तिरश्चीनं मिनोति तस्माज्जग्धं सर्वाण्यङ्गानि अनुवेति, प्रजा वा एतत् समीचीनं मिनोति, समीचीर् एनं प्रजा अभिसमावर्तते, संयात इव स भवति, समानं सांकाशिनं कार्यम् , समाना हीमे प्राणा , यं द्विष्यात्तस्याक्ष्णया मिनुयात्, प्राणानस्य मोहयति, प्रमायुको भवति, यदि कामयेत वर्षेत् पर्जन्या इति नीचैः सदो मिनुयात् , वृष्टिमेव नियच्छति, यदि कामयेत न वर्षेत् पर्जन्या इत्य् , उच्चैः सदो मिनुयात् , वृष्टिमेवापाग्रहीत् , नवछदिरग्निष्टोमे स्यात् , तेजसा त्रिवृता संमितं , पञ्चदशछदिरुक्थ्ये, पञ्चदशेन वज्रेण संमितं , सप्तदशछदिरतिरात्रे, सप्तदशो वै प्रजापतिः, प्राजापत्या रात्रिरानुष्टुभी, यज्ञक्रतूनां एवैषा व्यावृत्तिः, प्राचीनवंशँ हविर्धानं मिनोति , ऊर्ध्वा हि द्यौः, प्राचीनवंशमाग्नीध्रं, ऊर्ध्वं ह्यन्तरिक्षम् , तिरश्चीनवंशँ सद, स्तिरश्ची हीयम् , यजुषा हविर्धानं मिनोति, निरुक्ता हि द्यौ , र्यजुषा सदो, निरुक्ता हीयम्, अयजुषाग्नीध्रं, अनिरुक्तं इव ह्यन्तरिक्षम्, अर्धमाग्नीध्रस्यान्तर्वेदि मिनोत्य, र्धं बहिर्वेदि , अर्धं ह्यन्तरिक्षस्यास्मिंल्लोके , अर्धममुष्मिन् ॥
3.8.10 अनुवाकः10
सुवाङ् नभ्राड् अङ्घारे बम्भारा इति , एते वै देवानां सोमरक्षय , एतेभ्यो वा अधि छन्दांसि सोमं आहरन् , ते सोमपीथेन व्यार्ध्यत, त एतानि द्वितीयानि नामानि अधत्तमङ्गलेछायै, सोमपीथो ना उपनमादिति, तस्मादेते द्विनामान, स्ते वा अन्वायन् , ते न प्राप्नुवन् , तस्मादेतेऽतिहाय वषट् क्रियन्ते, न हि प्राप्नुवन् , तेषां वा एष लोको यावदभि न्युप्यते, तद् योऽविद्वानाक्रामत्यार्तिस्म् आर्च्छति , अथ य एवं विद्वानाक्रामति न सदस्यामार्तिन्म् आर्च्छति, तेषां वा एष भागो यद् व्याघार्यन्ते, त एवास्मै तेनाभीष्टाः प्रीता भवन्ति, यज्ञमुखं वै पवमानो , यत् पवमाने स्तुतेऽग्नयो विह्रियन्ते यज्ञमुखादेवाधिविह्रियन्ते, जंभो वै नामासुर आसीत्, स यज्ञमगिरत्, स आग्नीध्रं न प्राप्नोत् , तमाग्नीध्रात् पुनर् व्यरुजत् , एतद्वै जीवं , तस्मादाग्नीध्राद्विह्रियन्ते, दक्षिणतो वै देवानसुरा यज्ञमजयन् , त उदञ्चा आग्नीध्रं समातिष्ठन् , तमाग्नीध्रात् पुनरभ्यजयन् , एतद्वा अनभिजितं , तस्मादाग्नीध्राद्विह्रियन्ते , एतत् प्रति वै देवानसुरा यज्ञमजयन् , त आग्नीध्रादधि बहिष्पवमानेन यज्ञमभिजित्याग्नीनाधाय बर्हिर् अस्तृणत, पराजिज्ञाना वा एतत्सर्पन्ति यद् बहिष्पवमानं स्तोष्यन्तः सर्पन्ति, यद् बहिष्पवमाने स्तुत आह ॥ अग्नीदग्नीन् विहर, बर्हिः स्तृणाहि ॥ इति , आग्नीध्राद्वा एतदधि बहिष्पवमानेन यज्ञमभिजित्याग्नीनाधाय बर्हिः स्तृणते , अत्र वा एतर्हि यज्ञो यत्रास्तुतं स्तोत्रम् , यत्रैव यज्ञस्तदभिपर्यावृत्य जुहोति, शुक्रवती वै पूर्वे सवने, अशुक्रं तृतीयं सवनं , यज्ज्योतिष्मतीस्तृतीयसवने व्याघारयन्ति तेन तृतीयसवनं शुक्रवत्, संवत्सरो वा अग्निष्टोम, स्तस्य वा एतास्तन्वो यद्धिष्ण्या, स्ता वा अस्यैतत्समुद्धर्षयित्वा ज्योतिष्मतीः कृत्वाथाग्निष्टोमेन स्तुवते, संवत्सरो वा अग्निष्टोमो, द्वादश मासाः संवत्सरो , यत् प्राचीराहुतयो हूयन्ते, प्रत्यञ्चो धिष्ण्या व्याघार्यन्ते संवत्सरस्य विधृत्यै , उभयतो वै देवानसुराः परीयत्ता आसन् पुरस्तादन्ये, पश्चादन्ये, यत् प्राचीराहुतयो हूयन्ते, ये पुरस्तादासंस्तांस्तेनापानुदन्त, यत् प्रत्यञ्चो धिष्यासं व्याघार्यन्ते, ये पश्चादासंस्तांस्तेनापानुदन्त, तद् भ्रातृव्यस्य वा एष विनोदो , अध्वर्युणा वै यज्ञो विधृत , इदमिव वा एतद्यज्ञस्य यद्धिष्ण्या , यदध्वर्युः प्रत्यङ् धिष्ण्यानतीयात् प्राणात् संकर्षेत, प्रमायुकः स्यात् , यद्यतीयाद्यज्ञपरुष्यतीयात् , ऐन्द्रीमनुब्रूयात् , ऐन्द्रं हि सदः, स्वयैवैनद्देवतयोपचरति , आत्मनोऽहिंसायै, प्राचीनं वै धिष्येयाभ्योऽध्वर्योर् लोको , यदध्वर्युः प्रत्यङ् धिष्याप्नतीयादन्यजनतास्य क्षेत्रं अभ्यारोहुका स्यात् , नि अन्य उप्यन्ते, नान्ये, तदेषां मिथुनं प्रजायति, निरुक्ता अन्ये,ऽनिरुक्ता अन्ये, ये निरुक्ता३स्तेऽस्मै लोकाय, येऽनिरुक्ता३स्तेऽमुष्मै क्षयाय, यथा वा इदं मेखलां पर्यस्यते मेध्यस्य चामेध्यस्य च विधृत्या, एवं वा एते न्युप्यन्ते यज्ञस्य विधृत्यै, यत् प्राचीनं धिष्ण्येभ्यस्तद्देवानां , यत् प्रतीचीनं तन्मनुष्याणां , तस्मात् सोमं पिबते प्राञ्चो धिष्याण् नातिसृपे, जनं ह्येति, देवलोकमभ्यारोहति, चात्वालाद्विह्रियन्ते , एष वा अग्नीनां योनिः, स्वादेव योनेर्विह्रियन्ते , अस्कन्नत्वाय, तेषां वा एतदभ्यवायनं चोदयनं च , यदन्तरा चात्वालं चाग्नीध्रं च एतद्वै यज्ञस्य तीर्थम् , तस्मादेतेन संचरति, तेन योऽविद्वान्त्संचरत्यार्तिम् आर्च्छति , अथ य एवं विद्वान्त्संचरति न सदस्यामार्तिम् आर्च्छति ॥
इत्य् उपरिकाण्डे असुराणां नाम अष्टमः प्रपाठकः समाप्तः ॥