मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः ०७

विकिस्रोतः तः
Jump to navigation Jump to search

अध्वरादीनां त्रयाणां विधिः (आग्नावैष्णवम्)

3.7.1 अनुवाकः1
 
अक्लृप्तं वा इदमासीत् , दिशो वा इमा न प्राजानन् , तद्देवा अन्योऽन्यस्मिन्नैच्छन् , तन्नाविन्दन् , ते देवा अदितिम् अब्रुवन् , त्वया मुखेनेमा दिशः प्रजानामेति, साब्रवीत् , भागो मेऽस्त्विति, वृणीष्वेत्यब्रुवन् , साब्रवीत् , मद्देवत्यमेव प्रायणीयमसत् , मद्देवत्यम् उदयनीयम् , मां एवानुप्रायाथ, मामनूदयाथेति, स एष आदित्यश्चरु , रदितिं वा एतदनुप्रयन्त्यदितिम् अनूद्यन्ति, ततो वा इमा दिशः प्राजानन् पथ्यां यजती, मामेव तेन दिशः प्राजानन्, यदग्निम् इमां तेन, यत् सोमं इमां तेन, यत्सवितारं इमां तेन, यददितिम्, इयं वा अदिति , रूर्ध्वा वा अस्या दिक् , ऊर्ध्वामेव तेन दिशं प्राजानन् , ततो वा अकल्पत , अक्लृप्तस्य वै क्लृप्त्यै प्रायणीय, स्तद्य एवं विद्वान् प्रायणीयेन चरति कल्पते, कल्पन्ते हास्मा ऋतव, स्ततो वा इमा दिशोऽन्वपश्यन्, यत् पथ्यां यजति , इमां एव तेन दिशमन्वपश्यन्, यदग्नीषोमौ, चक्षुषी वा अग्नीषोमौ , अनु ताभ्यां समपश्यन्, यत्सवितारं , सवितॄप्रसूता एवेमा दिशोऽन्वपश्यन्, यददितिम्, इयं वा अदिति , रस्यां वै प्रतिष्ठाय देवा यज्ञमतन्वत, यत् पथ्यां यजति, वाग् वै पथ्या, वाचं एवावरुन्धेदे, यदग्निम् , देवतास्तेन, यत् सोमं , यज्ञं तेन, यत्सवितारं प्रसूत्यै, यददितिम्, आदित्या वा इमाः प्रजा, स्ता एवावारुद्ध, ता आद्या अकृत, यद्वै यज्ञस्यान्तर्यन्ति तच् छिद्रम् , तेन यज्ञः स्रवति, तेन यजमानोऽग्नये समवद्यति , अग्निर्वै समिष्टि , रग्निः प्रतिष्ठितिः, समिष्ट्या एव प्रतिष्ठित्या अग्निं प्रथमं यजत्यग्निम् उत्तमं , समानी वा एषा देवता पाङ्क्तत्वाय, पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्ध, स्वस्तिं यजति यज्ञस्य स्वस्त्यै, पथ्यां यजति, वाग् वै पथ्या, वाचं एवानुप्रयन्ति, ताम् उत्तमामुदयनीये यजति, वाग् वै पथ्या, वाचं एवानूद्यन्ति, मरुत्वतीः पथ्याया ऋचो भवन्ति, देवविशा वै मरुतो , देवविशामेवाचीक्लृपत्, तां शान्तां क्लृप्तां मनुष्यविशा अनुकल्पन्ते, स्तेनभविष्णुर्हविर्भवति ॥

3.7.2 अनुवाकः2

जुषाणेनान्य आज्यभागा इज्यन्ते,ऽथात्र ऋचोभयतो यजति द्रढिम्नेऽशिथिरत्वाय, सप्तदश सामिधेनीः कार्याः, पञ्च ऋतवो द्वादश मासा, एष वत्सरः, संवत्सरादेवाधि यज्ञमुखं प्रतनुते, तदाहुः, पञ्चदश सामिधेनीः कार्या , न सप्तदश, संवत्सरीयस्यैवायनस्य, सप्तदश कार्याः संवत्सरस्या ऋद्यासा इति, तन् न सूर्क्ष्यं , सप्तदशैव कार्याः, प्रयाजवत् स्यात् प्रायणीयमननुयाजं, अनुयाजवत् स्यादुदयनीयमप्रयाजं, उभयतो वा एतत् प्रयाजानुयाजा यज्ञमभिसंधीयते, समानो ह्येष यज्ञो , निष्काषं च मेक्षणं च निदधाति, तेन यज्ञः संतत , आत्मा वै प्रयाजाः, प्रयाजानुयाजा देवक्षेत्रम् , यज्ञो देवक्षेत्रमाक्रममाणः प्रजामन्तरियाद्, यदनुयाजानन्तरियात् प्रयाजवत् स्यात् प्रायणीयमनुयाजवत् , अनुयाजवत् स्यादुदयनीयं प्रयाजवत्, पयसि प्रायणीयः स्यात् पयस्युदयनीयो , अपां वा एतं शुक्रियम्, अपामेव शुक्रियम् अवरुन्धे ्, पशवो वै शुक्रियम् , पशून् एवावरुन्धेद् , अथो प्रायणे च वावास्मा एतदुदयने च पशून् दधाति , आदित्यः प्रायणीयः स्या, दादित्य उदयनीय , इयं वा अदिति , रस्यां वा एतद्यज्ञमुखेन प्रतितिष्ठति , अस्यामुपरिष्टात् , यत्र वै यज्ञस्यार्धे ऽग्रे समृद्धं क्रियते क्रियमाणं क्रियमाणं ह वा अस्य समृध्यते, संस्थाप्यं प्रायणीयम् यज्ञस्य समृद्यै , याः प्रायणीयेऽनुवाक्यास्ता उदयनीये याज्याः स्यु , र्या उदयनीयेऽनुवाक्यास्ताः प्रायणीये याज्याः स्युः, पथः प्रतिप्रज्ञात्यै , अथो अनुसंतत्यै, यदतोऽन्यथा कुर्युश्छम्बट्कुर्युः ॥

3.7.3 अनुवाकः3

इयं वै कद्रू , र्वाक् सुपर्णी, छन्दांसि सौपर्णानि गायत्री त्रिष्टुब् जगती, सा वै कद्रूः सुपर्णीमात्मानं अजयत् , साब्रवीत्, सोमं आहर, तेनात्मानं निष्क्रीणीस्वेति, सा छन्दांसि प्रैष्यत् , अमुतः सोमं आहरत, तेन मा निष्क्रीणीतेति, ततो जगत्युदपतत्, सा पशुभिश्चागच्छद् दीक्षया च, तस्मात् पशवा इति जगतीमाहु, स्तस्माद्यदा पशून् विन्दतेऽथ दीक्षते, ततस्त्रिष्टुब् उदपतत्, सा दक्षिणया चागच्छत्तपसा च, तस्मात् त्रिष्टुभो लोके दक्षिणा दीयन्ते, तस्मादु मध्यंदिने तपस्तपनीयमिति, ततो गायत्य््ट उदपतत्, सा सोमं आहरत्, तमाह्रियमाणं सामिगन्धर्वो विश्वावसुरामुष्णात्, स तिस्रो रात्रीरुपहृतोऽवसत्, तस्मात् तिस्रो रात्रीः क्रीतो वसति, तेऽब्रुवन्, पुनर् याचामहा इति, ते देवा अब्रुवन् , स्त्रीकामा वै गन्धर्वा , वाचं एव संभृत्य यथा योषिदनपक्षेयतमेव तया निष्क्रीणामेति, तं वै निरक्रीणन् , तस्मादाहु , र्वाग् वै सोमक्रयणी, वाचं वा एतद् गवा निष्क्रीणातीति, तेऽब्रुवन् , अन्व् ऋतीयामहा इति, ताम् अन्व् आर्तीयन्त, तदनृतस्य जन्म, तद्य एवं विद्वान्त्सत्यानृतां वाचं वदति न हैनं द्रुणाति, तेऽब्रुवन्, विह्वयामहा इति, तां व्यह्वयन्त, गाथां देवा अगायन्, ब्रह्म गन्धर्वा अवदन् , सा देवान् उपावर्तत, तस्माद्विवाहे गाथा गीयते, तस्माद् गायन्त् स्त्रियाः प्रिय, स्तद्य एवं विद्वान् गाथां गायन् हस्तं गृह्णाति, सं हि जीर्यतः, सर्वमायुरितो , नार्तिं नीत, स्तदाहु , रा वै सा पुनरगच्छत् , नैव किं चन सोमक्रयणीति ॥

3.7.4 अनुवाकः4

या द्विरूपा सा वार्त्रघ्नी, यत्तया क्रीणीयाज्जायुकमस्य राष्ट्रं स्यात् , अथ यस्य तादृश्यनुस्तरणी भवति ताजग् एषामपरः प्रमीयते, या रोहिणी कृष्णाक्षी कृष्णवाला कृष्णशफा सा पितृदेवत्या, यत्तया क्रीणीयात् प्रमायुको यजमानः स्यात् , अथ यस्य तादृश्यनुस्तरणी भवत्य् ऋतुमदेषामपरः प्रमीयते, यारुणा बभ्रुलोम्नी श्वेतोपकाशा शुच्यदक्षी तत् सोमक्रयण्या रूपं , स्वेनैव रूपेण क्रीयते, काणा स्यादखर्वा श्रोणा सप्तशफा, तथा सर्वया क्रीयते, एकहायन्याक्रय्या, वाग् वै सोमक्रयणी, तस्मात् प्रजाः संवत्सरे वाचं वदन्ति , अप्सु क्रय्या , ओषधयो वै सोमा , आपा ओषधीनां रस, स्तथा स रसः क्रियते, क्रये वा अहं सोमस्य तृतीयं सवनं अवरुन्धे, वेदे , ति ह स्माहारुण औपवेशिः, पशवो वै तृतीयं सवनं , पशूनां चर्म, यच्चर्मणि निवपति तेनैव तृतीयं सवनं अवरुन्धेत्, रोहिते निवपति, तस्मात् पशूनां रोहितरूपं, आनडुहे निवपति , अनड्वान् वै सर्वाणि वयांसि पशूनां , सर्वान्येव वयांसि पशूनामाप्त्वावरुन्धे , अथो बह्वेव यज्ञस्यावरुन्धेवप, सोमं विचिन्वन्ति पापवसीयस्य व्यावृत्त्यै , अथो देवेभ्य एवैनं शुन्धन्ति, नाध्वर्युः सोमं विचिनुयात् , न यजमानो , न यजमानस्य पुरुषा नोपद्रष्टारो विचीयमानस्य स्यु , र्यदुपद्रष्टारो विचीयमानस्य स्युः क्षुधं प्रजा नीयु , रवर्तिर् यजमानं गृह्णीयात्, क्षोधुकोऽध्वर्युः स्यात् ॥ शुन्ध सोमं आपन्न निरस्य ॥ इति ब्रूयात् , ग्रसितं वा एतत् सोमस्य यदापन्नं , ग्रसितं एते सोमस्य निष्खिदन्ति ये सोमं विचिन्वन्ति, तस्मात् सोमविक्रयिणो बहु क्रीणन्तो बहु विन्दमानाः क्षोधुका , ग्रसितं ह्येते सोमस्य निष्खिदन्ति , अस्माकोऽसीति , अभित्सार एवास्यैष शुक्रस्ते ग्रहा, इति शुक्रमेवास्य गृह्णाति , अभि त्यं देवं सवितारं, इति सवितॄप्रसूत एव गृह्णाति , अतिछन्दसा गृह्णाति, सर्वाणि वै छन्दांस्यतिच्छन्दाः, सर्वैरेवैनं छन्दोभिर्गृह्णाति, वर्ष्म वा एषा छन्दसां , वर्ष्मैनं समानानां गमयति, पञ्चभिर्गृह्णाति, पाङ्क्तो यज्ञो , यावानेव यज्ञस्तमालब्धै , कैकाम् उत्सर्जं मिमीते , अयातयाम्न्यायातयाम्यैस्व मिमीते , एतावती वा आसामेकैकस्या वीर्यमाप्यते, तस्मादिमाः कामं प्रसारयति,
कामं प्रत्यञ्चति, दश कृत्वो मिमीते, दशाक्षरा विराट् , विराजं एवाप्नोति , अथो वैराजाः पशवः, पशून् एवावरुन्धेमि, द्विर्गृह्णाति, द्वे हि सवने, यावान् वै सोमो गृहीतः स यजमानस्य, यमभ्यूहति स सदस्यानां , प्रजाभ्यस्त्वेत्यभ्यूहति, गोत्राद्गोत्राद्धि प्रसर्पन्ति , ओषधयो वै सोमो , अपरिमितं जीवनं , यत् परिमितं गृह्णीयात् परिमितं जीवनं स्यात् , अथ यदभ्यूहत्य् अपरिमितस्यावरुद्ध्यै, यजमानो वै प्रजापतिः, प्रजा अंशवो , यत् सोमं उपनह्यति प्रजानां वा एतत् प्राणं उपनह्यति, यदाह, प्रजास्त्वानुप्राणन्व्ोम इति, प्राणमासु दाधार, क्षौमं उपनह्यति , औषधं वै क्षौमं, ओषधयः सोमस्य योनिः, स्व एवैनं योनौ दधाति, यज्ञो यदग्रे देवानामगच्छत् तं रक्षांस्यजिघांसन् , स देवता व्यवासर्पत्, सर्वदेवत्यं वै वासो , यत् क्षौमं उपनह्यति सर्वाभिर्वा एतद्देवताभिर्यज्ञाद्रक्षांस्यपहन्ति , अथो सर्वाभिरेव देवताभिर्यज्ञं समर्धयति ॥

3.7.5 अनुवाकः5

चतुर्गृहीतमाज्यं भवति, चतुष्पादो वै पशवः, पशून् एवावरुन्धेन्, हिरण्यमवधाय जुहोति , आग्नेयं घृतं, अग्निजं हिरण्यम् , सतनूरेव सतेजा हूयते , एषा वा अग्नेः प्रिया तनूर्यद् घृतं , तेजो हिरण्यम् , यद्धिरण्यमवधाय जुहोति , अग्नेर्वा एतत् प्रियां तन्वं तेजसा समर्धयति , अथो रूपाण्येव ग्राहयति, पशवो वै घृतं , रेतो हिरण्यम् , यद्धिरण्यमवधाय जुहोति पशुषु वा एतद् रेतो दधाति, तस्मादनस्थकाद् रेतसोऽस्थन्वन्तः पशवः प्रजायन्ते, बद्धेन जुहोति, तस्मात् पशूनां गर्भा अप्रपादुकाः, प्रपादुकाः पशूनां गर्भाः स्युर्यदबद्धेन जुहुयात् , जूरसीति, यद्वाव जवत, इत्थमसा३दित्थमसा३दिति, तदस्या जूत्वं , धृता मनसेति, मनसा हि वाचं दाधार, जुष्टा विष्णवा इति, यज्ञायैवैनां जुष्टाँ विष्णवेऽकस्तस्यास्ते सत्यसवसः प्रसव इति, वाचा हि प्रसूतं क्रियते, तन्वो यन्त्रमशीय स्वाहेति , आशिषं एवाशास्ते, शुक्रमसि चन्द्रमसीत्यु, द्धरति स्वर्गस्य लोकस्य समष्ट्यै, वाग् वै सोमक्रयणी, शास्ति वावैनां एतत्, तस्मात् प्रजाः सृष्ट्वा प्रजायन्ते, वत्सो जातः स्तनमिच्छति, स्तनं कुमार इच्छति, चिदसीति, यद्वाव चिकित्सत, इत्थमसा३दित्थमसा३द् इति तदस्याश्चित्त्वम् , मनासीति, यद्धि मनसा मन्यते यन्मनसाभिगच्छति तद्वाचा वदति, धीरसीति, यद्वाव ध्यायती, त्थमसा३दित्थमसा३दिति , तदस्या धीत्वं , दक्षिणासीति, यत् स्विद्वाचा दीयते तदस्या दक्षिणात्वँ , यज्ञियासीति, वाग्घि यज्ञिया, क्षत्रियासीति, यं हि वाग् जुषते स क्षत्रियो , अदितिरस्युभयतःशीर्ष्णीति, यत् स्विदादित्यः प्रायणीय आदित्य उदयनीयस्तदस्या उभयतःशीर्षत्वं , सा नः सुप्राची सुप्रतीची भवेति, सुप्राची ह्येषा प्रायणीये सुप्रतीच्युदयनीये ॥

3.7.6 अनुवाकः6

यत् कर्णगृहीतया क्रीणीयाद्वार्त्रघ्नी स्यात् , यच् शृङ्गाभिहितया मनुष्यदेवत्या, यत् पदि बद्धया पितृदेवत्या, यदबद्धयायता स्यात् , यदाह मित्रस्त्वा पदि बध्नात्व् इति, मित्रस्यैवैनां पाशेन यच्छति, पूषाध्वनः पात्व् इति , इयं वै पूषा , इयमेवास्या अध्वानं संभरति , इन्द्रायाध्यक्षायेति , इन्द्रो वै देवानां ओजिष्ठ, स्तं एवास्या अध्यक्षमकर्, अनु त्वा माता मन्यताम् अनु पितेति , अनुमत एवैनं मात्रा पित्रा भ्रात्रा सख्या क्रीणाति, सा देवि देवमछेहीति, देवी ह्येषा देवः सोमा, इन्द्राय सोमं इति , इन्द्राय ह्येषा सोमं अच्छैति, रुद्रस्त्वावर्तयत्व् इति, रुद्रमेवास्याः पुरस्ताद् दधाति, स्वस्ति सोमसखा पुनरेहीति, प्रत्यक्षमेवालब्ध, रुद्राय वा एतत् पशूनपिदधाति, यदाह, रुद्रस्त्वावर्तयतु, यदाह, स्वस्ति सोमसखा पुनरेहीति, स्वस्तिमेवास्यै पुनरावृत्तायै दधाति, वाग् वै सोमक्रयणी, सा देवरूपाणि प्रविशति, यदाह, वस्व्यसि रुद्रासीति , इदमसीदमसीति, वाग्वैनां एतदाह यद्यद् भवति, यद्वा एतत् किंच वदत्य् एतां वा एतदाप्त्वावरुन्धेिु, षट् पदानि अनु निष्क्रामति, षड् वा अहानि वाग् विभज्यते, न वै षष्ठमहर्वागतिवदति, सर्वा वै षष्ठेऽहन् वाग् आप्यते, यावत्येव वाक् तामाप्नोति, दक्षिणेनार्धेन दक्षिणमर्धमनु निष्क्रामति, तस्माद् दक्षिणेन हस्तेनान्नमद्यते, तस्माद् दक्षिणोऽर्ध आत्मनो वीर्यवत्तर, स्तस्माद् दक्षिणमर्धं वयांस्यनु पर्यावर्तन्ते, सप्तमे पदे जुहोति, सप्त छन्दांसि, छन्दांसि वाक् , यावत्येव वाक् ताम् आहुत्याप्त्वावरुन्धेस्, सप्त छन्दांसि, सप्त होत्राः, सप्त ग्राम्याः पशवः, पशूंस्तान् एवावरुन्धेद्, बृहस्पतिष्ट्वा सुम्ने रम्णात्व् इति, ब्रह्म वै बृहस्पति , र्ब्रह्मणैवैनां यच्छति, रुद्रो वसुभिराचक इति, रुद्रमेवास्या वसुभिराकर्तारं अकः, पृथिव्यास्त्वा मूर्धन्नाजिघर्मीति , एष वै पृथिव्या मूर्धा यद्देवयजनं, इडायास्पद इति, गौर्वा इडा, तस्या वा एतत् पदं , घृतवति स्वाहेति, स्वाहाकारेणैवैनां यच्छति ॥

3.7.7 अनुवाकः7

हिरण्यं निधाय जुहोति , अग्निमत्येव जुहोत्यायतनवति , अन्धोऽध्वर्युः स्याद्यदनायतने जुहुयात्, पशवो वै घृतं , पशवः पदं , वज्रं स्फ्यो, यत् स्फ्येन पदं परिलिखति वज्रेण वा एतद्यजमानाय पशून् परिगृह्णाति, विषाणयानुपरिलिखति, सयोनीनेवास्मै पशून् परिगृह्णाति, स्थाल्यां पदं संवपति , अस्या वा एषाधिक्रियते , इयं हि पशूनां योनिः, स्व एवैनान्योनौ दधाति, शोचन्ति वा एतत् पशवो योनेश्छिन्ना, यदप उपसृजति शमयत्येव, यजमानाय पदं प्रयच्छति, तदध्वर्युरपशुर्भवति, यजमानाय हि पशून्त्संप्रादात् , यदाह, तव राया इति, तदध्वर्युं पशुष्वाभजति, तेनाध्वर्युः पशुमान् गृहेषु पदं निदधाति, गृहेष्वेवास्य पशून् दधाति, स्वर्गो वै लोक आहवनीयो , यदाहवनीय उपवपेदन्यलोकेऽस्य पशून् दध्यात् , गार्हपत्या उपवपति, गार्हपत्यं हि पशवोऽनूप तिष्ठन्ते, पशुभिरेवैनं सम्यञ्चं दधाति, पशवो वै पदं, अग्नी रुद्रो , यदग्निमत्य् उपवपेद् रुद्रायास्य पशून् दध्यात् , यत्र शान्तं तदुपोप्यम् , पशूनामप्रदाहाय, यत् सोमक्रयण्या पत्नीं संक्शापयन्ति मिथुनत्वाय, त्वष्ट्रिमन्तस्त्वेति, त्वष्टा हि रूपाणि विकरोति, सपेमेति, सपाद्धि प्रजाः प्रजायन्ते, सूर्यस्य चक्षुरारुहं इति , एष वा अपरिपरः पन्था अरक्षस्यो येनासा आदित्य एति , अमुष्य वा एतदादित्यस्य पथ इति, वृणक्ति विन्दते वस्व् इति, वसो ह्येष विन्दते यः सोमं क्रीणाति ॥ सोमविक्रयिन्सोतिमं ते क्रीणानि महान्तं बह्वर्हं बहु शोभमानं , कलया ते क्रीणानि, कुष्टया ते क्रीणानि, शफेन ते क्रीणानि, पदा ते क्रीणानि ॥ इति, गोर्वा एतन्महिमानं उदाचष्टे , अथो महयत्य् एवैनां, अथो अक्षरशो वा एतद्यज्ञं मिमीते, सुवाङ् नभ्राड् अङ्गारे बम्भारा इति , एते वै देवानां सोमरक्षय , एतेभ्यो वा अधि छन्दांसि सोममाहरन् , तेभ्य एवैनामनुदिशति , अथो यदेवात्र यज्ञस्योपश्लिष्टं तत् परिक्रीणीते, दशभिः क्रीणाति, दशाक्षरा विराट्, तथा वैराजः क्रियते , एकादशभिः क्रीणाति, दश वै पशोः प्राणा , आत्मैकादश, स्तथा सर्वः क्रियते, धेन्वा क्रीणाति , आशिरं एवास्य क्रीणाति , अथो वाचं एव गृह्णाति, हिरण्येन क्रीणाति, शुक्रमेवास्य क्रीणाति , अथो तेज एव गृह्णाति, वाससा क्रीणाति, सर्वदेवत्यमेवास्य क्रीणाति , अजया क्रीणाति, तप एवास्य क्रीणाति, यत्र वा अदश्छन्दांसि सोमं आहरंस्तानि तमसा न प्राजानन् , ततो गायत्य्ेजामादायोदपतत्, सा वा एभ्यः प्रारोचयत्, ततो वै छन्दांसि सोमं आहरन् , तत् सोमं ना आजा, मिति वावाजानडुहा क्रीणाति, वह्नि एवास्य क्रीणाति , ऋषभेण क्रीणाति, सेन्द्रमेव क्रीणाति, यद् ऋषभेण क्रीणीयात् प्रजापतिना विक्रीणीते, वत्सतरेण साण्डेन क्रय्यस्येन्द्रमहः क्रीणाति, न प्रजापतिना विक्रीणीते, मिथुनाभ्यां गोभ्यां क्रीणाति, मिथुनं एवास्य क्रीणाति ॥

3.7.8 अनुवाकः8

सोमो वा अमुत्रासीत्, ते देवा गायत्रीं प्राहिण्वन् , अमुं सोमं आहरेति, सा विततं यज्ञमवापश्यत्, सैक्षत, यद्यज्ञस्यान्तरेष्याम्यात्मानं अन्तरेष्यामीति, तस्यै वा एतं सोमो जीवग्रहं प्राब्रवीत्, स्वजा असि, स्वभूरसीति, सोमस्य वा एष जीवग्रहः, सोमस्य वा एतज् जीवग्रहं गृह्णीते, नाध्वर्युः सन्नार्तिम् आर्च्छति य एवं वेद, वरुणो वा एष एतर्हि वरुणदेवत्यो यर्ह्युपनद्धो वरुण एनं भूत्वा प्रविशेत् , यदाह, मित्रो ना एहि सुमित्रधा इति, मित्रमेवैनं अकः, शमयत्येव , इन्द्रस्योरुमाविश दक्षिणं इति , ऐन्द्रो वै यज्ञ , इन्द्रः सोमस्य योनिः, स्व एवैनं योनौ दधाति , इन्द्रो वा एतमग्रा आगतं ऊरू न्यगृह्णीत, तां वा एतदनुकृतिम् ऊरा आसादयतेऽपोर्णुते, यथा श्रेयस्ययत्यपोर्णुत एवं तत् , उर्वन्तरिक्षं वीहीति , अन्तरिक्षदेवत्यो वा एष एतर्हि, प्रच्युत इतोऽप्राप्तोऽमुत्र अदित्याः सदा आसीदेति , आदित्यो वै यज्ञो , अदितिः सोमस्य योनिः, स्व एवैनं योनौ दधाति, वरुणं वा एनं एतत्सन्तं मित्रमकस्तदेनं स्वया देवतया व्यर्धयति यदाह ॥
अस्तभ्नाद् द्यां ऋषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्याः ।
आसीदद्विश्वा भुवनानि सम्राड् विश्वेत्तानि वरुणस्य व्रतानि ॥
इति वरुणमेवैनं अकः, स्वयैवैनं देवतया समर्धयति, वनेषु व्यन्तरिक्षं तताने, ति वाससा पर्याणह्यति, सर्वदेवत्यं वै वासः, सर्वाभिर्वा एतद्देवताभिर्यज्ञं क्रीतं परिश्रयति, धूरसि ध्वर ध्वरन्त, मित्याह रक्षसां ध्वरायै रक्षसामन्तरित्यै, वारुणमसि, वरुणः त्वोत्तभ्नात्व् इति, वारुणं ह्येष एतर्हि वरुणदेवत्यम् , मनसाच्छ यन्ति, महिमानं एवास्याच्छ यन्ति , अनसा वहन्ति, तस्मादनोवाह्यमोषधयः फलं पच्यन्ते, शीर्षाहार्यमोषधयः फलं पच्येरन् यत् सोमं क्रीतं शीर्णाह् हरेयु, स्तस्माद् गिरा ओषधयः शीर्षाहार्यं फलं पच्यन्ते, शीर्णासा हि सोमं क्रीतं हरन्ति, प्रच्यवस्व भुवनस्पता इति, भूतानां ह्येष पति , र्विश्वानि अभि धामानीति, विश्वानि ह्येष धामानि अभि प्रच्यवते, मा त्वा परिपरिणो मा परिपन्थिनो मा त्वा वृका अघायवो विदन्न् इति, यत्र वा एनमद आह्रियमाणं सामिगन्धर्वो विश्वावसुरमुष्णात्तादृशेभ्यो वावास्मा एतद्रक्षोभ्यो भीषा स्वस्तिमकर्, वरुणो वा एष क्रीतो यजमानस्य गृहं ओह्यते, स ईश्वरोऽशान्तो यजमानं हिंसितो , र्यदाह, नमो मित्रस्य वरुणस्य चक्षसा इति, शमयत्येव, शान्त एवोह्यते यजमानस्याहिंसायै, सर्वाभ्यो वा एष देवताभ्या उह्यते, यदेकोल्मुकेन प्रतितिष्ठेत् पितृदेवत्योऽस्य यज्ञः स्यात् , अग्निर्महत्समाधेयो , अग्निर्वै सर्वा देवताः, सर्वाभिर्वा एतद्देवताभिर्यज्ञमायन्तं प्रतितिष्ठति , अग्नीषोमौ वा एतौ संभवतो , यजमानं वा एता अभिसंभवेतां यजमानस्य वा पशून् , तद्य एष पशुर् धार्यते तं एव भागधेयमभिसंभवतो, देवता वा एतं पशुं धार्यमाणं नाभिप्राच्यवन्त , अस्मिन् यज्ञ आशंसमानाद् योऽयमितरस्तमग्नीषोमा उपप्राच्यवेताम् , तस्मादेषोऽग्नीषोमीयो , अग्नीषोमाभ्यां वा एष मेधायात्मानं आलभते, यो दीक्षते स वा एतेनैव पशूनात्मानं निष्क्रीणीते, स्थूलः पीवा स्यात् , आत्मनो निष्क्रीत्यै, तस्मादग्नीषोमीयस्य पशोर्नाशितव्यं , पुरुषो ह्येतेनात्मानं निष्क्रीणीते, तस्मादग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यं , तर्हि निष्क्रीतोऽनृणो , वार्त्रघ्नं वा एतत्, सोमो वै वृत्रः, पूर्वेद्युर्वा इन्द्रो वृत्रमहन्, पूर्वेद्युर्वावैनं एतत् सृत्वाथापरेद्युरभिषुणोति, वरुणपाशाभ्यां वा एषोऽभिधीयते यो दीक्षते , अहोरात्रे वरुणपाशौ, यद्दिवा संस्थापयेदनुन्मुक्तो वरुणपाशाभ्यां स्यात् , नक्तं संस्थाप्यो, वरुणपाशाभ्यां एवोन्मुच्यते आत्मनोऽहिंसायै ॥

3.7.9 अनुवाकः9

युक्तोऽन्योऽनड्वान् भवति, विमुक्तोऽन्यो , अथातिथ्यं निर्वपति यज्ञस्य संतत्यै, पत्न्या हस्तान् निर्वपति, पत्नी वै पारेणह्यस्येशे , पत्यैविव रातमनुमतं क्रियते, यद्वै पत्नी यज्ञे करोति तन् मिथुनं , मिथुनत्वाय वै पत्न्या हस्तान् निर्वपति , एष वै पत्न्या यज्ञस्यान्वारंभो यद्यज्ञे करोति , अन्वारंभाय वै पत्न्या हस्तान् निर्वपति , अग्नेस्तनूरसि, विष्णवे त्वेति, गायत्रीं तेन छन्दसा गृह्णाति, सोमस्य तनूरसि, विष्णवे त्वेति, त्रैष्टुभं तेन , अतिथेरातिथ्यमसि, विष्णवे त्वेति, जगतीं तेन , अग्नये त्वा रायस्पोषदे विष्णवे त्वेति , अनुष्टुभं तेन, श्येनाय त्वा सोमभृते, विष्णवे त्वेति, गायत्री वै श्येनः सोमभृत्, तां वा एतत् पुनरालभते , अयातयाम्नीं पाङ्क्तत्वाय, पाङ्क्तो यज्ञो , यावानेव यज्ञस्तमालब्धै , तद्वै छन्दांस्यग्रहीत्, तैश्छन्दोभिर्गृहीतैर्यज्ञं गृह्णाति, यावन्तो वा अतिथिमन्वायन्त्यपि तेषां भाग , श्छन्दांसि वा एतं अमुतोऽन्वायन्ति, तेभ्य एष भागः क्रीयते, वरुणो वै यज्ञः क्रीतो , विष्णुः प्रततः, प्रततो वा एतर्हि यज्ञ, स्तस्माद् वैष्णवो नवकपालो भवति, त्रिवृतं वा एतद्यज्ञमुखे व्यायातयन्ति त्रिवृता प्रयन्ति, ते वै त्रयस्त्रिकपाला, स्त्रिकपालो वैष्णवो देवतया, विष्णुं वै देवा आनयन् वामनं कृत्वा, यावदयं त्रिर्विक्रमते तदस्माकं इति, स वा इदं एवाग्रे व्यक्रमत , अथेदमथाद, स्तस्मात् त्रिकपालो वैष्णवः, सोमस्य वा एतदातिथ्यं यदातिथ्यम्, अथवा एतदग्नेरातिथ्यं यदग्ना अग्निं मन्थन्ति , अथो यज्ञाय वा एतत् क्रीताय देवतां जनयन्ति , अथो तेज एवास्मै जनयन्ति , अथो उपसत्सु वावास्मा एतद्वीरं जनयन्ति , आ हास्य वीरो जायते, ये वै देवाः साध्या यज्ञमत्यमन्यन्त तेषां वा एतद्यदतिरिक्तं यज्ञे क्रियते , अतिरिक्तं वा एतद्यज्ञे क्रियते यदग्ना अग्निं जुह्वति, यच्चषालादुपर्यूपस्य तदेवैनां स्पृशति, संस्थाप्या३न् न संस्थाप्या३, मिति मीमांसन्ते, यत् संस्थापयेद्यज्ञमुखे यज्ञं संस्थापयेत् , आतिथ्यं वा उपसदां प्रयाजास्तानूनप्त्रमाशी, स्तस्मादिडान्तमेव कार्यम्, आतिथ्यं वा उपसदां प्रयाजा, स्तस्मात्ता अप्रयाजा , उपसदो वा आतिथ्यस्यानुयाजा, स्तस्मात्तास्तिस्र, स्त्रयो ह्यनुयाजाः, शिरो वा आतिथ्यम् , ग्रीवा उपसदो, अथैष इतरो यज्ञः संहितः, प्रजापतेर्वा एतानि पक्ष्माणि यदश्ववारा, अस्य भ्रुवा इक्षुकाण्डे, यज्ञमुखं प्रजापति , र्यज्ञमुखादेवाधि यज्ञमुखं प्रतनुते , अश्वो वै मेध्यो , यज्ञो प्रजापतिः, प्राजापत्योऽश्व, स्तस्मादाश्ववारः प्रस्तरः, कार्ष्मर्यमयाः परिधयो भवन्ति
रक्षसामपहत्यै ॥

3.7.10 अनुवाकः10

देवा अन्योन्यस्य श्रैष्ठ्ये तिष्ठमानाश्चतुर्धा व्युदक्रामन् , अग्निर्वसुभिः, सोमो रुद्रै , रिन्द्रो मरुद्भि , र्वरुण आदित्यै, स्तान् वा एतेन बृहस्पतिरयाजयत्, तेषामिन्द्रोऽभवत्, तद्य एतेन यजते भवति, ते वा अन्योन्यस्याभिद्रोहादबिभयु, स्तेषां याः प्रियास्तन्वा आसंस्ताः समवाद्यन् , ताः समवामृशन् ॥ यो नस्तन् नपाद् यो नोऽन्योन्यस्मै द्रुह्यादित एव सं निर्ऋछात् ॥ इति, ते यदा समवामृशँस्ततो देवा अभवन् परासुरा, स्तद्य एवं विद्वांसः समवमृशन्ति भवन्याद्त्मना, परैषां भ्रातृव्या भवन्ति, यं कामयेत, ऋध्नुयादिति, तं प्रथममवमर्शयेत् , ऋध्नोति, यदि कामयेत, सर्वे सदृशाः स्युरिति, सर्वान्त्सहावमर्शयेत्, सर्वे ह सदृशा भवन्ति, ये वै ते समवामृशन्नपि वा इदानीं ३तेऽन्योन्यस्मै न द्रुह्यन्ति, तस्मात्सतानूनप्त्रिणे न द्रोग्धवै, यद् द्रुह्येत् प्रियायै तन्वै द्रुह्येत्, ते वा अमुष्मिन्नादित्ये प्रियास्तन्वः संन्यदधत, तस्मादेष तेजिष्ठं तपति, तस्मात् सूर्यदेवत्या हि सर्वे सोमा गृह्यन्ते , अथो अत्र वै देवानां प्रियास्तन्व, स्ता एवावरुन्धे , आपतये त्वा गृह्णामीति , अग्नये तेन वसुभ्यो गृह्णाति, परिपतये त्वेति, सोमायते न रुद्रेभ्य, स्तनूनप्त्रा इति , इन्द्राय तेन मरुद्भ्यः, शक्मने शाक्वरायेति, वरुणाय तेनादित्येभ्यो , एतेभ्यो वै तद्देवेभ्यो ऽग्रे गृह्यते, तेभ्य एवैनद् गृह्णाति, चतुर्गृह्णाति, चतुर्धा हि ते व्युदक्रामन् , आपतये त्वा गृह्णामीति , आत्मानं एव तेन गृह्णाति, परिपतये त्वेति, प्रजां तेन, तनूनप्त्रा इति, यज्ञं तेन, शक्मने शाक्वरायेति, पशूंस्तेन, यो वै देवान्साध्यान् वेद सिध्यति ह वा अस्मै, यत्र कामयेत, इह मे सिध्येदिति , इमे वै लोका देवाः साध्या , आत्मानं एव दीक्षया स्पृणोति, प्रजामवान्तरदीक्षया संतरां मेखलामायच्छते, कनीयो व्रतं उपैति , अन्तरा ह्यात्मानं प्रजा, द्विव्रतेन भवितव्यं , द्वौ वा ऋतू अहश्च रात्रिश्च, यदेकव्रतः स्यात् पत्नीमन्तरियात् , या ते अग्ने रुद्रिया तनूरिति व्रतं व्रतयति , एषा वा अस्मिन्न् एतर्हि देवता, तां प्रीणाति, तस्यां हुतं व्रतयति, यदेतोऽन्यथा व्रतयेद् रुद्र एनं अभिमानुकः स्यात् , देवताभिर्वा एष सायुज्यं गच्छति, यो दीक्षते यच् शीताभिर्मार्जयेत शमयेयु, रथो यथेदमद्भिरग्निरुपसृष्ट एवं स्यात् , अथ यत्तप्ताभिर्मार्जयते शान्त्यै , अथो तेजो वै मदन्ती, स्तेज एवावरुन्धे ् ॥
इत्य् उपरिकाण्डे सप्तमः प्रपाठकः ॥