मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः ०६

विकिस्रोतः तः
Jump to navigation Jump to search

अध्वरादीनां त्रयाणां विधिः (आग्नावैष्णवम्)

3.6.1 अनुवाकः1
आग्नावैष्णवं एकादशकपालं निर्वपेत् , अग्निर्वै सर्वा देवता , विष्णुर्यज्ञो , देवताश्चैव यज्ञं चालब्धा , अग्निर्वै यज्ञस्यान्तोऽवस्तात् , विष्णुः पुरस्तात् , उभयत एव यज्ञस्यान्ता आलब्ध, तदाहु , र्न ऋत इन्द्राद्यज्ञोऽस्त्विति, यदष्टाकपालस्तेनाग्नेयो , यत् त्रिकपालस्तेन वैष्णवो , यदेकादशकपालः संपद्यते तेनैन्द्रो , अग्निर्वै यज्ञस्य पवित्रं , विष्णुर्यज्ञः, पवित्रपूतं एव यज्ञं आलब्ध, मेधस्य वा एतद्यज्ञस्य रूपं यत् पुरोडाश, स्तस्मात् पुरोडाश एव कार्य , श्चरू कुर्वन्ति, धेन्वा वै घृतं पयो , अनडुहस्तण्डुला, स्तन् मिथुनं , मिथुनं एवास्य यज्ञमुखे दधाति, तेजो वै घृतं , तेजस एव प्रजायते, पुरुषो वा एष मेधायालभ्यते, पुरुषस्येव ह्येषा प्रतिमा, यत इव हि रूपं तस्माच्चरुरेव कार्यो , वेदिमति दीक्षते, विन्दा, इति वै वेदिमति दीक्षते, विन्दते ह वै यो वेदिमति दीक्षते , अथो यज्ञपथ एवादीक्षिष्ट, वेद्या वै देवा इमं असुराणामविन्दते , इमां एव विन्दते यो वेदिमति दीक्षते , अथो यज्ञपथं एवालब्ध, प्राचीनवंशं कुर्वन्ति दिशो, यदिमां व्यकल्पयन्न् इमां एव देवेभ्योऽकल्पय, न्निमां पितॄभ्य इमामसुरेभ्य, इमां मनुष्येभ्यो , देवतामेष उपैति यो दीक्षते, देवानां एव दिशम् उपावर्तते, प्राचीनां एव दिशम् उपावर्तते , अथो देवक्षेत्रमेव प्रावस्यति परिश्रयन्ति , अन्तर्हितो वै दैवात् क्षयान्मानुषः क्षयो , मानुषादेवैनं क्षयादन्तर्दधति , अथो रक्षसामनन्ववायाय , एति वा एषोऽस्माल्लोकाद् यो दीक्षते, जनं ह्येति, देवलोकमभ्यारोहति, परिश्रयन्तोऽतिरोकान् कुर्वन्ति, तेनास्माल्लोकान् नैति, तेनास्मिंल्लोके धृतः पुरस्तात् प्रायणं कुर्यात् स्वर्गकामस्य , असौ वा आदित्यः स्वर्गो लोको , अमुष्यैनं आदित्यस्य सामक्षं गमयति, दक्षिणतः प्रायणं कुर्याद् यं कामयेत, पितृलोक ऋध्नुयादिति , एषा वै पितॄणां दिक्, पितृलोक एव ऋध्नोति, पश्चात् प्रायणं कुर्यात् प्रजाकामस्य, पश्चाद्वै रेतो धीयते, रेतो दीक्षितो , रेतोऽस्मिन् दधाति , उत्तरतः प्रायणं कुर्याद् यं कामयेत, मनुष्यलोक ऋध्नुयादिति , एषा वै मनुष्याणां दिक् , मनुष्यलोक एव ऋध्नोति , उत्तरतः पुरस्तात् प्रायणं कुर्याद् यं कामयेतोभयोर् लोकयोर् ऋध्नुयादिति , उभयोर्वा एतल्लोकयो , रुभयोरेव लोकयोर् ऋध्नोति सर्वतः प्रायणं कुर्याद् यं कामयेत , सर्वासु दिक्ष्वित्य् ऋध्नुयादिति, सर्वासु दिक्षु इत्य् ऋध्नोति ॥

3.6.2 अनुवाकः2

केशश्मश्रु वपते, दतो धावते, नखान् निकृन्तते, स्नाति, मृता वा एषा त्वग् अमेध्यं वा अस्यैतदात्मनि शमलं तदेवापहते, मेध्य एव मेधमुपैति , अप्सु दीक्षां प्रवेशयित्वा देवाः स्वर्गं लोकमायन्, यदप्सु स्नाति तामेव दीक्षामालभते , अथ यदपोऽवभृथमभ्यवैति तां वा एतद् दीक्षां पुनरप्सु प्रवेशयति , ओषधे त्रायस्वैनमित्याह त्रात्या एव, स्वधिते मैनं हिंसीरिति, वज्रो वै स्वधितिः, स ईश्वरोऽशान्तो यजमानं हिंसितो , र्यत् तॄणमन्तर्दधाति यजमानस्याहिंसायै, देवश्रुदिमान् प्रवपा इति, देवश्रुद् ह्येतान् प्रवपते, स्वस्त्युत्तरं अशीयेति, स्वस्त्यस्य यज्ञस्योदृचं अशीयेति वा एतदाह , आपो मा मातरः सूदयन्त्विति , आपो हि यज्ञो , घृतेन मा घृतप्वः पुनन्त्विति, देवताभिरेवात्मानं पावयते, विश्वं हि रिप्रं प्रवहन्तु देवीरिति, यदेवास्य रिप्रममेध्यमात्मनि शमलं तदस्मादधि प्रवहन्ति , उदिदाभ्यः शुचिरा पूत एमीति, शुचिरेवाभ्यो यज्ञियो मेध्यः पूत उदेति, हविर्वै दीक्षितो , यदा वै हविर्यजुषा प्रोक्षत्यथ हविर्भवति, यद्यजुषा स्नपयति हविरेवैनं अकर्, अश्नाति, प्राणा वा अशनं , प्राणान् एवात्मन् धित्वा दीक्षते, सुषिरो वै पुरुषः, स वै तर्ह्येव सर्वो यर्ह्याशितो , यदाशितो भवति मेध्य एव मेधमुपैति, यथा वा इह दीक्षित एवं वा एषोऽमुष्मिंल्लोक एव वा अत्याशितस्य तिष्ठति, तस्मान् नात्याशितेन भवितव्यं , तन् न सूर्क्ष्यं, आशितेनैव भवितव्यं , यथैव कनीयः कनीयोऽश्नीयादेवमश्नीयात् , यद्धि दीक्षितः सन् कनीयोऽश्नाति तेन दीक्षित आङ्क्ते , अभ्यङ्क्ते, वासः परिधत्ते , एता वै पुरुषस्य तन्वः, सतनूरेव मेध्यम् उपैति, नवनीतेनाभ्यङ्क्ते, घृतं देवानां, आयुतं मनुष्याणां , निष्पक्वं गन्धर्वाणां , स्वयंविलीनं पितॄणां , सर्वदेवत्यं वा एतत्, तस्मान् नवनीतेनाभ्यङ्क्ते, दर्भपिञ्जूलाभ्यां समायौति, तत् स्विद् अभ्यञ्जनं अकर् अथो अभ्येवैतद् घारयति मेधत्वाय, महीनां पयोऽसीत्या, ह, महीनां ह्येतत् पयो , अपामोषधीनां रसा इति , अपां ह्येष ओषधीनां रसो , वर्चोधा असि, वर्चो मे धेहीति आशिषं एवाशास्ते ॥

3.6.3 अनुवाकः3

प्रस्वाङ्क्ते प्रजात्यै , ईषीकयाङ्क्ते, शलस्या हि मनुष्या आञ्जते, सतूलयाङ्क्ते , अपतूलया हि मनुष्या आञ्जते, दक्षिणं पूर्वमाङ्क्ते, सव्यं हि पूर्वं मनुष्या आञ्जते, त्रिरन्यत् त्रिरन्यदाङ्क्ते , अपरिमितं हि मनुष्या आञ्जते, न पुनर् निषेवयति, पुनरावर्तं हि मनुष्या आञ्जते , इन्द्रो वै वृत्रमहन् , तस्य कनीनिका परापतत्, सा त्रिककुभमगच्छत्, तदाञ्जनं त्रैककुभमाङ्क्ते, सत्यं वै चक्षु , र्नेव वाचे श्रद् दधाति, सत्यं एवालभ्य दीक्षामुपैति , अन्तरहं त्वया द्वेषो अन्तरारातीर्दधे महता पर्वतेनेति, पर्वतेन वा एतद्द्वेषोऽरातीरन्तर् धत्ते, चक्षुःपा असि, चक्षुर्मे पाहीति , आशिषं एवाशास्ते , ऊर्ध्वं चावाञ्चं च पावयति , ऊर्ध्वश्च ह्ययमवाङ् च प्राणः , यं द्विष्यात्तमक्ष्णया पावयेत् , प्राणानस्य मोहयति, प्रमायुको भवति, चित्पतिस्त्वा पुनात्व् इति, यज्ञो वै चित्पति, र्वाचस्पतिस्त्वा पुनात्व् इति, वाचस्पतिरेवैनं यज्ञाय पावयति, देवस्त्वा सविता पुनात्व् इति, सवितृप्रसूत एवैताभिर्देवताभिर्मेधायात्मानं पावयते , अछिद्रेण पवित्रेणेति , एतद्वा अछिद्रं पवित्रं यत् सूर्यस्य रश्मयो , अछिद्रेणैवैनं पवित्रेण पुनाति, तस्य ते पवित्रपते पवित्रेणेति, यज्ञो वै पवित्रपति, र्यज्ञाय खलु वा एष कमात्मानं पावयते ॥ यज्ञं शकेयम् ॥ इति इन्द्रो वै वृत्रमप्स्व् अध्यहन् , तासां यद्यज्ञियं मेध्यमासीत्तदुदक्रामत्, ता इमा ओषधयोऽभवन् , तासां वा एतत्तेजो यद् दर्भा, एता वै शुष्का आपो , यदेवासांस्तेजस्तदवरुन्धे ु, त्रयीर्वा आपो, दिव्याः पार्थिवाः समुद्रिया, स्ताः सर्वा दर्भो विवस्थैत्, तस्माद् दर्भः पवित्रं , द्वाभ्यां पावयति, द्वे पवित्रे, द्विपाद्यजामानो, यावान् एवास्यात्मा तं पावयति, त्रिः पावयति, त्रिषत्या हि देवा , अथो त्रयो वा इमे प्राणाः, प्राणोऽपानो व्यानो , यावान् एवास्यात्मा तं पावयति, सप्तभिः पावयति, सप्त वै छन्दांसि, छन्दोभिरेवैनं पावयति , अथो ब्रह्म वै छन्दांसि, ब्रह्मणैवैनं पावयति , एकविंशत्या पावयति, दश हस्त्या अङ्गुलयो दश पाद्या, आत्मइकविंशो , यावान् एवास्यात्मा तं पावयति, त्रया वै नैर्ऋता, अक्षाः स्त्रियः स्वप्नो , यद् दीक्षते तेनाक्षैश्च स्त्रीभिश्च व्यावर्तते, यां प्रथमां दीक्षितो रात्रीं जागर्ति तया स्वप्नेन व्यावर्तते, यां प्रथमां दीक्षितो वसति यज्ञं तयावरुन्धेक्, यां सोमे क्रीते प्रजां तया, यां श्वःसुत्यया पशूंस्तया ॥

3.6.4 अनुवाकः4

आकूत्यै प्रयुजे अग्नये स्वाहेति , आकूत्या वा आकूतिर् यक्ष्यते स्य इति, प्रयुजः खलु वा एनं यज्ञाय प्रयुञ्जते, मेधायै मनसे अग्नये स्वाहेति, मेधया हि मनसा यज्ञमश्नुते, दीक्षायै तपसे अग्नये स्वाहेति, दीक्षया हि तपसा यज्ञमश्नुते, सरस्वत्यै पूष्णे अग्नये स्वाहेति, वाग् वै सरस्वती, वाचा व्याहरति यक्ष्यते स्य इति, पूषा खलु वा एनं यज्ञं प्रापिबद् य एनं अपूपुषत् , आपो देवीर्बृहतीर्विश्वशंभुवा इति , आपो हि यज्ञो , द्यावापृथिवी उरो अन्तरिक्षेति, द्यावापृथिवी वा अन्व् अन्तरिक्षं यज्ञ उपश्रित, स्तत एव यज्ञमालब्ध, बृहस्पतिर्नो हविषा वृधातु स्वाहेति, ब्रह्म वै बृहस्पति , र्ब्रह्मणा वा एतत् पुरस्तात् सर्वान् कामानाप्त्वा दीक्षामालभते, यत्र वा अस्य यज्ञः श्रितो यत्रयत्रोपश्रितस्ततस्ततो वा एतत्सर्वं ब्रह्मणा यज्ञं संभृत्यालब्ध, न वा एकाहुतिर् दीक्षितं करोति, यदेतानि जुहोति द्वितीयत्वाय, प्रजापतिर्वै यत् किंच मनसादीधेत्तदाधीतयजुर्भिरेवाप्नोत् , तदाधीतयजुषामाधीतयजुष्ट्वं , तद्य एवं विद्वानाधीतयजूंषि जुहोति यदेव किंच मनसा दीध्यज्जुहोति तदाप्नोति , एते वै यज्ञस्य संभारा , एष ह त्वेव संभृतसंभारेण यज्ञेन यजते यस्यैतानि हूयन्ते , एतद्ध स्म वा आहारुण औपवेशिः, किमु स यज्ञेन यजेत यो यज्ञस्य संभारान् न विद्यादिति, पञ्चभिर्जुहोति, पाङ्क्तो यज्ञो , यावानेव यज्ञस्तमालब्ध, षड्भिर्जुहोति, षड् वा ऋतव , ऋतुष्वेव प्रतितिष्ठति, यज्ञो वै सृष्टः, प्र सामाव्लिनात् , प्र यजु, स्तं वा ऋगेवायच्छत् , एका वा एनं ऋग् अयच्छत् , द्वादश यजूंषि, नव सामानि, तस्मान् नवभिर् बहिष्पवमाने स्तुवते, नव ह्येनं सामानि अयच्छन् , तस्माद्वात्संबन्धविदो द्वादशभिरौद्ग्रभणं जुह्वति, द्वादश ह्येनं यजूंष्यायच्छन् , एतर्हि खलु वा एष सृज्यते यर्हि दीक्षते, यद् ऋचौद्ग्रभणं जुहोति यज्ञं वा एतत् सृष्टमृचायच्छति, तस्मादारुणिविद ऋचौद्ग्रभणं जुह्वति , एका ह्येनं ऋग् अयच्छत् ॥

3.6.5 अनुवाकः5

यज्ञो वै प्रजापतिः, प्राजापत्यं एतच् छन्दो यदनुष्टुब् , यदनुष्टुभा जुहोति स्वेनैवैनं छन्दसावरुन्धेप् , एकया जुहोति , एको हि प्रजापति , रनिरुक्तया जुहोति , अनिरुक्तो हि प्रजापतिः, पूर्णया जुहोति, पूर्णो हि प्रजापति, र्यद् ऊनया जुहुयाद् भ्रातृव्याय लोकं उच् शिंषेत् , अथ यत् पूर्णया जुहोति न भ्रातृव्याय लोकं उच् शिंषति , ऊर्जो वा एतद् रूपं यत् पूर्णम् , यत् पूर्णया जुहोति यज्ञे वा एतद् ऊर्जं दधाति, विश्वो देवस्य नेतुरिति सावित्रम् , मर्तो वुरीत सख्य, मिति पितृदेवत्यम् , विश्वो राय इषुध्यती, ति वैश्वदेवं , द्युम्नं वृणीते, ति बार्हस्पत्यं , पुष्यसा, इति पौष्णं , सारस्वतः स्वाहाकारः, सर्वदेवत्या वा एषा ऋक्, तस्मादेषैका सत्यौद्ग्रभणं परिबभूव, सर्वाभ्यो देवताभ्यो यज्ञ आलभ्या, इत्याहुः, सर्वदेवत्या वा एषा ऋक् , यदेतया ऋचौद्ग्रभणं जुहोति सर्वाभ्यो वा एतद्देवताभ्यो यज्ञं आलभते , अनुष्टुभो वा एतस्याः सत्यास्त्रीण्यष्टाक्षराणि पदानि एकं सप्ताक्षरं , यत्सप्ताक्षरं तस्य चत्वार्यक्षराण्येकस्मिन् पद उपयन्ति, त्रीण्येकस्मिन् , यत्र चत्वार्य् उपयन्ति सा जगती, यत्र त्रीणि सा त्रिष्टुब्, यदष्टाक्षरं तेन गायत्री, यदनुष्टुप् तेनानुष्टुप्, सर्वैरेवास्य छन्दोभिर् हुतं भवति, छन्दःप्रतिष्ठानो वै यज्ञ , श्छन्दःसु वावास्यैतद्यज्ञं प्रतिष्ठापयामकः, स्वाहाकारेण खलु वा एषा पङ्क्तिः, पाङ्क्तो यज्ञः पङ्क्तिप्रायणः पङ्क्युवादयनः, पङ्क्तिप्रायणमेवास्य यज्ञं पङ्क्युुिदयनं अकर्, अथो वाग् वै छन्दांसि, वाचं वा एतन्मध्यत आप्त्वावरुन्धेवै, तस्मादियं वाङ् मध्यतो वदति, मध्यतो हीयं वाक्, प्रजापतिर्वै स्वां दुहितरं अध्यैदुषसं , तस्य रेतः परापतत्, ते देवा अभिसमगच्छन्त, तस्माद् दीक्षितो न ददाति न पचति , अथैनं अभिसंगच्छन्ते, तदुदगृभ्णन् , तदौद्ग्रभणस्यौद्ग्रभणत्वं , तेन यज्ञमतन्वन्त, यज्ञो यदग्रे व्यभवत्स त्रेधा व्यभवत्, स वा ऋक्वेुःव तॄतीयेनाश्रयत, सामसु तॄतीयेन, यजुःषु तॄतीयेन, या वा अस्य प्रिया तनूरासीत्तया यजुरश्रयत , उच्चैर् ऋचा क्रियत, उच्चैः साम्नोपांशु यजुषा, यज्ञस्य ह्यत्र प्रिया तनू , र्यद्यजुषोच्चैः कुर्याद्यज्ञस्य प्रियां तन्वमुद्धृतां कुर्यात् , अब्रह्मवर्चसी स्यान् नग्नंभावुकः ॥

3.6.6 अनुवाकः6

आहिताग्निर्वा एष सन्नाग्निहोत्रं जुहोति , न दर्शपूर्णमासौ यजते, तद्या आहुतिभाजो देवतास्ता अनुध्यायिनीः करोति, कर्शयत आत्मानं , तेनैवास्य तद् धुतं भवति, देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त, तेषामसवो मनुष्यान् प्राविशन् , तदिदं रिप्रं पुरुषेऽन्तर्, अथो कृष्णमिव चक्षुष्यन्तर् , तन्नाश्नीयात् , असुर्यमेवापहते, यदा वै पुरुषे न किंचनान्तर्भवति, यदास्य कृष्णँ चक्षुषोर्नश्यत्य, थ मेध्यो, यदि कुर्यान् नक्तं कुर्या, दसुर्यो वै रात्रि , रसूर्यमेवासूर्यं क्रियते, वाचं वा एतद् दीक्षयन्ती, ति ह स्माहारुण औपवेशि, र्य उताञ्जानोऽभ्यञ्जानोऽथ दीक्षितवादं वदति स वाव दीक्षित इति, सायं प्रातर् वै मनुष्याणां देवहितमशनं अतिनीय सायमशनं अतिनीय प्रातरशनं व्रतं व्रतयति, मानुषस्य व्यावृत्त्यै , अदन्ती, ति वै गा आहु , रश्नन्ती, ति मनुष्यान्, जुहुधीति देवेभ्यो , अथवा एतमाहुः ॥ व्रतं उपेहि व्रत्य ॥ इति, व्रतं ह्येतस्य, व्रतेन यज्ञः संततो , व्रतेनैव यज्ञं संतनोति , अभ्यर्धो वा ऋक्सामे यज्ञादास्तां, तयोर्यौ महिमाना आस्तां ता अपनिधाय यज्ञं उपावर्तेताम् , तौ महिमाना अहोरात्रे अभवताम् , तयोर्वा एतद् रूपं यत् कृष्णाजिनस्य, यच् शुक्लं तदह्नो रूपं , यत् कृष्णँ तद् रात्रे, स्तौ वा एतन्महिमाना अन्वारभते संपारणाय, सं मा पारयता इति , अहोरात्रे मिथुनं समभवताम् , तयोस्तेजोऽपाक्रामत्, तत् कृष्णं प्राविशत्, तद्वा एतदन्वारभते, द्यावापृथिवी मिथुनं समभवताम् , तयोर् वीर्यमपाक्रामत्, तत् कृष्णं प्राविशत्, तद्वा एतदन्वारभते, यथा वा इदं नावं पारं तरिष्यन्न् आरोहत्येवं वा एतद् ऋक्सामे आरुक्षत्, ते एनं आ यज्ञस्योदृचः संपारयतो , यतो वै लोमानि कृष्णाजिनस्य ततो यज्ञो , यतो यज्ञस्ततो देवता , यद् बहिर्लोमं पर्यूर्णुवीतान्तर्हितो दीक्षितो यज्ञात् स्यात् , यदन्तर्लोमं अन्तर्हितो यज्ञो देवताभ्यो , द्वे विषूची प्रतिमुच्ये, अनन्तर्हितो दीक्षितो यज्ञाद् भवति , अनन्तर्हितो यज्ञो देवताभ्यो , यद्येकं स्यादन्तं प्रतिभुजेत्, तेनैव तदुभयमाप्नोति, हविर्वै दीक्षितो , यदन्यत्र कृष्णाजिनादासीत यथा हविः स्कन्नं एवं स्याद्, यथा हविषे स्कन्नाय प्रायश्चित्तिमिछत्येवमस्मै प्रायश्चित्तिमिछेयु , श्छन्दांसि च वा एष देवताश्चाभ्यारोहति, तानि एनं ईश्वराणि प्रतिनुदो , यदाह, नमस्ते अस्तु, मा मा हिंसीरिति, नमस्कारो वा एषो अप्रतिनोदाय, देवता वै यज्ञस्य शर्म, यज्ञो यजमानस्य, यदाह, विष्णोः शर्मासि, शर्म मे यच्छेति, देवता वा एतद्यज्ञस्य शर्माक, र्यज्ञं यजमानस्य, प्रोर्णुते, प्रावृत इव हि दीक्षितो , अथो एतदिव हि दीक्षितस्य रूपं यत् प्रावृतं , तस्मात् प्रोर्णुते, वासः परिधत्ते, सर्वदेवत्यं वै वासः, सर्वाभिर्वा एतद्देवताभिरात्मानं परिश्रयन्ति ॥

3.6.7 अनुवाकः7

यज्ञस्य वै सृष्टस्योल्बमन्वलंबत तद्वासः क्षौमं अभवत्, तस्मात् क्षौमेण दीक्षयन्ति यज्ञस्य सयोनित्वाय, प्राचीनमात्रा पत्नी दीक्षयन्ति , इन्द्रस्य वै प्राचीनमात्रा , इन्द्रियं स्त्रियाः प्रजा, यत् प्राचीनमात्रा पत्नी दीक्षयन्ति , इन्द्रियमस्यां दधाति, योनिर्वै दीक्षितस्य दीक्षितविमितं , जरायु कृष्णाजिनं, उल्बं दीक्षितवासो, नाभिर्मेखला, गर्भो दीक्षितः, स्वं वा एतद् योनिं दीक्षित आशयेत्, तस्माद् दीक्षितेन दीक्षितविमितान्नानृतुभिः क्रम्यम्, एष ह्येतस्य योनिः , अतो ह्येषोऽधि प्रजायते गर्भो दीक्षितो , यद् ऋत आविःकुर्वीत दत्वन्तो गर्भा जायेरन्, यदनृतु स्मयेत तेजोऽस्य परापातुकं स्यात्, तस्मान् नानृतु स्मेतव्यं , तेजसोऽपरापाताय , अजातो वै पुरुषः, स वै यज्ञेनैव जायते, स वै तर्ये ्व जायते यर्य्जदः सोमे क्रीते प्रोर्णुता, इतो ऽग्रे प्रोर्णुते , अथो ह्यग्रे पुरुषो जायते, स वै तर्येजृव सर्वो जायते यर्य्रदोऽपोऽवभृथमभ्यवैति, तर्हि स तस्मात्सर्वो निर्मुच्यते, त्रिवृता वै स्तोमेन प्रजापतिः प्रजा असृजत, यत् त्रिवृन्मेखला भवति प्रजननाय, त्रिवृद्वै वज्र उदरं वृत्रः पाप्मा क्षुद् भ्रातृव्यः पुरुषस्य, यन्मेखलां पर्यस्यते, वज्रं एव सपत्नाय भ्रातृव्याय प्रहरति, यं द्विष्यात् तं तर्हि मनसा ध्यायेत् , वज्रं एवास्मै प्रहरति, स्तृणुत एव , अङ्गिरसो वै स्वर्यन्तो यत्र मेखलाः संन्यास्यंस्ततः शरोऽजायत, तस्माच् शरमयी , ऊर्ग् वा ओषधया , ऊर्जं वा एतन्मध्यत आत्मनो धत्ते प्रजानां च, योक्त्रेण पत्नी संनह्यते, मेखलया दीक्षितो , अथो मिथुनत्वाय , ऊर्ध्वं वै पुरुषस्य नाभेर्मेध्यम्, अवाचीनं अमेध्यम् , यन्मेखलां पर्यस्यते मेध्यस्य चामेध्यस्य च विधृत्यै, देवताभ्यो वा एष मेधायात्मानं आलभते यो दीक्षते, बध्नीत इव वा एतदात्मानं यन्मेखलां पर्यस्यते, तस्माद्वा एतस्यान्नमन्नाद्यं, आर्त इव ह्येष बद्ध, स्तस्मादु बद्धस्यान्नमन्नाद्यं , यथा वा इह गरगीर् एवं वा एषोऽमुष्मिंल्लोके यो दीक्षितस्यान्नमत्ति, यज्ञेन त्वेवास्य तता उन्मुक्ति , र्हविर्वै दीक्षितो , यदस्य जुहुयात् तं एव जुहुयात्, प्रमायुकः स्यात्, सर्वाभ्यो वा एष देवताभ्या आप्यायते यो दीक्षते, यदस्य जुहुयाद्यज्ञमस्य विदुह्यात् , उपधीतोऽस्य यज्ञः स्यात्, तं वा एतदागते काले सर्वं संस्फीतं यज्ञं देवताभ्यो दुहेत्, त्रेधा वा एतस्य पाप्मानं विभजन्ते यो दीक्षते, योऽस्यान्नमत्ति स तॄतीयम् , योऽस्याश्लीलं कीर्तयति स तृतीयम् , या एनं पिपीलिका दशन्ति तास्तृतीयम् , तस्माद्वा एतस्यान्नमन्नाद्यं , तस्मादस्याश्लीलं न कीर्तयितव्यं , तस्माद् दीक्षितवासोऽभर्तव्यं, अत्र हि ताः पिपीलिका या एनं दशन्ति ॥

3.6.8 अनुवाकः8

दक्षिणा वै देवेष्वासीत् , यज्ञोऽसुरेषु, तां दक्षिणां यज्ञोऽभ्यकामयत, तामभिपर्यावर्तत, तां समभवत्, स इन्द्रोऽवेत् , यो वा अस्माद् योनेः संभविष्यति स इदं भविष्यतीति ताम् इन्द्रः प्राविशत्, तता इन्द्रः समभवत्, तता इन्द्रोऽजायत, स जायमानोऽवेत् , यो वा अस्माद् योनेरन्यो मत् संभविष्यति मादृक् संभविष्यतीति, तया सहोपवेष्टयन्नजायत, यन् न्यवेष्टयत्तस्मान् निवेष्टिता, यन् निवेष्ट्यमाना श्यावाभवत् तस्मात् कृष्णा , इन्द्रं च वा एष प्रेप्सति दक्षिणां च इन्द्रस्य च खलु वा एतद् योनिमालब्ध दक्षिणायाश्चात्मानं, अथो सयोनिमेव यज्ञं आलभते, कृषिं सुसस्यामुत्कृषा इति, विषाणया भूम्यामुपहन्ति, कृषिमेवास्य सस्येन समर्धयति, यजुषा कण्डूयते, यजुषा हि मनुष्याः कण्डूयन्ते व्यावृत्त्यै, यजुषा कण्डूयते, तस्माद् प्रजा अपामंभविष्णवः, पामंभविष्णवः प्रजाः स्युर्यदयजुषा कण्डूयेत, सुपिप्पला ओषधीस्कृधी, ति शिरः कण्डूयते , ओषधीरेव फलं ग्राहयति, तस्मादोषधयः शीर्षन् फलं गृह्णन्ति, वाग् वै सृष्टा चतुर्धा व्यभवत्, ततो या अत्यरिच्यत सा वनस्पतीन् प्राविशत्, सैषा याक्षे या दुन्दुभौ या तूणवे या वीणायां दण्डं प्रयच्छति तामेवास्मै वाचं प्रयच्छति , अथो वज्रं एवास्मै प्रयच्छति गोपीथाय , आस्यदघ्नं प्रयच्छति , एतावती हीयं वाग् वदति , अथो एतावती हि वाचा वीर्यं क्रियते, यद्वर्षीयांसं प्रयछेत् स्वां वाचं मैत्रावरुणो विभजेत्, तं श्वःसुत्यायां मैत्रावरुणाय प्रयच्छति, तां श्वो भूते मैत्रावरुण ऋत्विग्भ्यो विभजति ॥ होतर्यज पोतर्यज नेष्टर्यज ॥ इति सा सह वषट्कारेणाहवनीयं गच्छति, तां पुरोऽध्वर्युर्विभजति ॥ होतर्यज पोतर्यज नेष्टर्यज ॥ इति अध्वर्युः पुरो वाचं विभजति, मैत्रावरुणः पश्चात् ॥ स्वाहा यज्ञं मनसा ॥ इति मनसा यज्ञमभिगच्छन्ति, तत एव यज्ञं आलब्ध, स्वाहा दिवः स्वाहा पृथिव्याः इति, द्यावापृथिवी वा अन्व् अन्तरिक्षं यज्ञ उपश्रित, स्तत एव यज्ञं आलब्ध, स्वाहोरोरन्तरिक्षादिति , अन्तरिक्षं वै यज्ञो , यदि वातो यदि वा पशवस्तत एव यज्ञं आलब्ध, स्वाहा वातात् परिगृह्णामि स्वाहेति , अयं वाव यः पवत एष यज्ञस्तमेवालब्ध, वाचं यच्छति, यज्ञं वा एतद्यच्छति, यद्वाचं विसृजेद्यज्ञं विसृजेत्, तदाहुः, पुनर् दीक्षयित्वा वाग् यन्तव्येति, यत् पुनर् दीक्षयेदाहुतीरतिरेचयेत् , वैष्णवीमनूच्य वाग् यन्तव्या, विष्णुर्वै यज्ञो , यज्ञमेवालब्धा , आग्नावैष्णवीमनूच्य वाग् यन्तव्या , अग्निर्वै सर्वा देवता , विष्णुर्यज्ञो , देवताश्चैव यज्ञं चालब्ध, सारस्वतीमनूच्य वाग् यन्तव्या, वाग् वै सरस्वती, वाचा यज्ञः संततो , वाचैव यज्ञं संतनोति, बार्हस्पत्यामनूच्य वाग् यन्तव्या, ब्रह्म वै बृहस्पति , र्ब्रह्मणा यज्ञः संहितो , ब्रह्मणैव यज्ञं संदधाति ॥

3.6.9 अनुवाकः9

दीक्षितोऽयमसा आमुष्यायणः ॥ इति उद्वदति वा आह, प्रियो वै देवानां दीक्षितो , देवेभ्य एवैनं प्राह, त्रिराह, त्रिषत्या हि देवा , अथो त्रयो वा इमे लोका , एभ्य एवैनं लोकेभ्या आवेदयति, तस्माद् दीक्षितं दूराच् शृण्वन्ति , एभ्यो ह्येनं लोकेभ्या आवेदयति, नक्षत्रं दृष्ट्वा वाचं विसृजते, द्वौ वा ऋतू, अहश्च रात्रिश्च , अन्यमेव ऋतुं संप्राप्य वाचं विसृजते, व्रतं चरतेति वाचं विसृजते, व्रतं ह्येतस्य, व्रतेन यज्ञः संततो , व्रतेनैव यज्ञं संतनोति, दैवीं धियं मनामहा, इति यजुषा हस्ता अवनेनिक्ते, यजुषा हि मनुष्या अवनेनिजते व्यावृत्त्यै ब्रह्मणः सदेवत्वाय , अथो आपो मे दीक्षां नेत् प्रमुष्णान् इति , अन्नं वै मनुष्येभ्या उदबीभत्सत, तद्देवा मनुष्येष्वदिधीर्षन् , तदापोऽब्रुवन्, वयं व एतां शुन्धाम , अथोपावर्तस्वेति, ततोऽन्नं मनुष्यानुपावर्तन्त, त इदमन्नं मनुष्येषु धृतं , तस्माद् ब्राह्मण आहार्या, आहृते हस्ता अवनेनिजीत , अन्नाद्यस्यावरुद्यै न , अथो अन्नाय वा एतदात्मानं पावयते, ये देवा मनुजाता मनोयुजा इति व्रतं व्रतयति , एते वै देवा मनुजाता मनोयुजो यदिमे प्राणा, एषा वा अस्मिन्न् एतर्हि देवता, तां प्रीणाति, तस्यां हुतं व्रतयति, यदेतोऽन्यथा व्रतयेत् प्राणैर् एनं व्यर्धयेत् , प्रमायुकः स्यात् , त्वमग्ने व्रतपा असी, ति वदेत् स्वप्स्यन्त् सुप्त्वा वा प्रबुध्य, यदि वा दीक्षितवादं वदेत् , अग्निर्वै देवानां व्रतपति, स्तस्मादेवाधि व्रतमालभते, नोत्तानः शयीत, यदुत्तानः शयीतेमे लोका ययेयु, र्नाग्नेरधि पराङ् पर्यावर्तेत, यत् पर्यावर्तेत यज्ञात् पर्यावर्तेत, नान्यत्रदीक्षितं दीक्षितविमितान्सूुोर्योऽभिनिम्रोचेन्नाभ्युदियात् , दीक्षितव्रतं एव तत् , यज्ञो वै देवानां न समभवत् , तं भृत्या समभावयन्, यद् भृतिं वनुते यज्ञस्य संभूत्यै, रास्वेयत् सोमे, ति यद् ब्रूयादेतावदस्य स्यान् न भूयो , यदाह , आ भूयो भरेति , अपरिमितस्यावरुद्यैम्, देवः सविता वसोर्वसुदावे, ति सवितॄप्रसूत एवै, ताभिर्देवताभिरुप प्रतिगृह्णाति आत्मनोऽहिंसायै, वायुर्गोपास्त्वष्टाधिपतिः, पूषा प्रतिग्रहीते, ति वायुमेवासां गोप्तारमक, स्त्वष्टारं अधिपतिं, पूषणं प्रतिग्रहीतारं, आपो वै यज्ञो , यदपो दीक्षितोऽवगाहेत यज्ञं अवकृश्नीयात् , यदाह, देवीरापो अपां नपा, दिति यदेवासां यज्ञियं मेध्यं तन्नाक्रामति, यदपो दीक्षितोऽवगाहेत विह्रदिनीः स्यु, स्तस्मान् नावगाहेत, यद्यवगाहेत लोष्टं विमृणंस्तरेत्, तं एव सेतुमनुसंतरति, न वै दीक्षितं तरन्तं देवता अनुतरन्ति , अरणिभ्यां सह तरति, सहैव देवताभिस्तरति, न वै दीक्षितं तरन्तं यज्ञोऽनुतरति, रथाङ्गेन सह तरति, सहैव यज्ञेन तरति ॥

3.6.10 अनुवाकः10

अमुं वा आदित्यं सर्वा वाचो गच्छन्ति, ता उद्यति सर्वाः सृज्यन्ते, यदाह, याः पशूनां ऋषभे वाचा इति, सृज्यमानां वा एतद्वाचं पुनरालभते, वायवे त्वे, ति नष्टामनुदिशति, वरुणाय त्वेत्यप्सु मग्नाम् , रुद्राय त्वेति महादेवाहताम् , निर्ऋत्यै त्वे, त्यवसन्नां, इन्द्राय त्वे, ति व्लेष्कहतां या वा संशीर्येत , मरुद्भ्यो त्वेति ह्रादुनिहता, मेते वै देवा भृत्या स्कन्नभागा, स्तान् एव प्रीणाति, देवेभ्यो वा अन्या दक्षिणा दीयन्ते, मनुष्येभ्योऽन्या , एता वै देवेभ्यः प्रत्यक्षं दक्षिणा दीयन्त, एताभिर्वै भूयोऽवरुन्धेज्, यदु चेतराभि, र्देवाश्च वा असुराश्चास्पर्धन्त , एतावान् वै तर्हि यज्ञ आसी, दग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि, ते देवा यज्ञमपश्यन् , तेनादीक्षन्त, तेषां यदग्निहोत्रमासीत्तद् व्रतं उपायन् , तस्माद्विव्रतेन भवितव्यं , द्विर् ह्यग्निहोत्रं हूयते, यदग्नीषोमीयं पूर्णमासे हविरासीत्तमग्नीषोमीयं पूर्वेद्युः पशुमालभन्त, यदैन्द्राग्नममावास्यायां तमाग्नेयं श्वो भूते पशुमालभन्त, वैश्वदेवं प्रातःसवनं अकुर्वत, वरुणप्रघासान्माध्यंदिनं सवनं , साकमेधान् पितृयज्ञं , त्र्यम्बकास्तत् तृतीयसवनं , तस्मात् तृतीयसवने विश्वं रूपं शस्यते, विश्वं ह्येतद् रूपं , तं एषां यज्ञमसुरा णान्ववायन् , तेन वा एनानपानुदन्त, ततो देवा अभवन्, परासुरा, स्तद्य एवं वेद भवत्यात्मना, परास्य भ्रातृव्यो भवति, तेऽध्वृतोऽयमभूदित्यपाक्रामन् , तदध्वरस्याध्वरत्वं , तस्मादेकव्रतेन भवितव्यं , सकृद्ध्यग्निहोत्रं हूयते ॥


इति उपरिकाण्डे आग्नावैष्णवं नाम षष्ठः प्रपाठकः ॥