मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः ०४

विकिस्रोतः तः

अग्निचिति-ब्राह्मणम् (वसोर्धारीयः)

3.4.1 अनुवाकः1
वसोर् धारां जुहोति अक्लृप्तस्य क्लृप्त्या अशान्तस्य शान्त्या अनभिजितस्याभिजित्या अनवरुद्धस्यावरुद्ध्यै, संततं जुहोति प्राणानां संतत्या एषां लोकानां संतत्या अन्नाद्यस्य संतत्यै , अविछिन्नं जुहोति अन्नाद्यस्याविछेदाय, यद्विछिन्द्यात् प्राणान् विछिन्द्यात् , यं द्विष्यात्तस्य विछिन्द्यात् , अन्नाद्यमस्य विछिनत्ति , अक्षुच् चान्नं चेति , एतानि वा अन्नस्य रूपाणि, रूपैरेवान्नमवरुन्द्धे , अग्निश्चापश्चेति , एषा वा अन्नस्य योनिः, सयोनि एवान्नमवरुन्द्धे, वसोर्मे धारास, दिति वसोर्धारां जुहोति, घृतस्य वा एषा धारा यजमानं अमुष्मिंल्लोक उपतिष्ठन्ते, द्वादश द्वादशाति जुहोति, द्वादश मासाः संवत्सरः, संवत्सरमेवावरुन्द्धे , अर्धेन्द्राणि जुहोति , अर्धेन्द्रैर्वै देवा इन्द्रियं वीर्यमसुराणामवृञ्जत , इन्द्रियमेवैतैर् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते, देवाश्च वा असुराश्चास्पर्धन्त, ते देवा इन्द्रमब्रुवन् , त्वया मुखेनेमान् जयामेति, सोऽब्रवीत् , भागो मेऽस्त्विति, वृणीष्वे, ति अब्रुवन् , सोऽब्रवीत् , अर्ध्यो वा अहं देवतानामसानीति, ततो वा अजयन् , तस्मादेषोऽर्धभाग् देवतानां , यदर्धेन्द्राणि हूयन्ते विजित्यै , इन्द्रोत्तमानि भवन्ति , इन्द्रियं वै वीर्यमिन्द्र , इन्द्रिये वा एतद्वीर्ये ततो यज्ञस्य यजमानः प्रतितिष्ठति , अंशुश्च रश्मिश्चेति, यज्ञमुखं वा अंशुश्च रश्मिश्च, यज्ञमुखमेवावरुन्द्धे , अधिपतिश्चादाभ्यश्चेति, नैनं भ्रातृव्यो दभ्नोत्यग्निं चिक्यानं , प्र समानानां ज्यैष्ठ्यमाप्नोति य एवं वेद , एते ग्रहा भवन्ति , एतानि वै यज्ञस्य रूपाणि, रूपैरेव यज्ञं अवरुन्द्धे, स्रुचश्च चमसाश्चे, ति यज्ञायुधानि संभरति, यज्ञायुधानि एव संभृत्य यज्ञं प्रयुङ्क्ते, पात्राणि जुहोति, पात्रैर्वा अन्नमद्यते , अनुरूपेणैवान्नाद्यमवरुन्द्धे, बर्हिश्च वेदिश्चेति , आशीरेवैषा , अवभृथश्च स्वगाकारश्चे, ति प्रतिष्ठित्यै ॥


3.4.2 अनुवाकः2
अग्निश्च घर्मश्चेति , एतद्वा अग्नेर् ब्रह्मवर्चस्यम् , रुचं चैवैतेन ब्रह्मवर्चसं चावरुन्द्धे, तेजस्वी ब्रह्मवर्चसी भवति , ऋतुश्च व्रतं चेति , अहोरात्रे वा ऋतुश्च व्रतं च , अहोरात्रे एवास्यैतेनाभीष्टे प्रीते भवता , एका च तिस्रश्चेति, देवछन्दसं वा एका च तिस्रश्च, देवछन्दसं एवावरुन्द्धे, चतस्रश्चाष्टौ चेति, मनुष्यछन्दसं वै चतस्रश्चाष्टौ च, मनुष्यछन्दसं एवावरुन्द्धे, देवलोक एव देवछन्दसेन ऋध्नोति, मनुष्यलोके मनुष्यछन्दसेन , एका च तिस्रश्च चतस्रश्चाष्टौ चेति, रोहो वा एष एषां लोकानां , संक्रान्तिः स्वर्गस्य लोकस्य, द्व्युत्तरेण वै स्तोमेनादित्याः स्वर्गं लोकमायन् , चतुरुत्तरेणाङ्गिरसौ, यदेतौ स्तोमौ जुहोति स्वर्गस्य लोकस्य समष्ट्यै, युग्मदयुजौ वा एतौ स्तोमौ मिथुनौ प्रजननाय, रेत एव द्व्युत्तरेण दधाति, रेतो हितं चतुरुत्तरेण प्रजनयति , एका च तिस्र, श्चेति आ त्रयस्त्रिंशतस्त्रयस्त्रिंशद्देवता, स्ता एवास्यैतेनाभीष्टाः पीता भवन्ति, चतस्रश्चाष्टौ चेति , अष्टाचत्वारिंशतो , अष्टाचत्वारिंशदक्षरा जगती, जागताः पशवः, पशून् एवावरुन्द्धे, त्र्यविश्च त्र्यवी चेति , एतानि वै वयांसि पशूनां , पशव एव पशूनवरुन्द्धे , आयुर्यज्ञेन कल्पते, प्राणो यज्ञेन कल्पता इति, यज्ञस्य वा एषा क्लृप्ति , र्यज्ञमेवैतदचीक्लृपत् , वाजाय स्वाहा, प्रसवाय स्वाहेति त्रयोदश वा एता आहुतय, स्त्रयोदश मासाः संवत्सरः, संवत्सरं वावास्मा एतदुपदधाति स्वर्गे लोके, तस्मिन्न् एव प्रतितिष्ठति, स्तोमश्च यजुश्चेति , अन्नं वै स्तोमश्च यजुश्च , अन्नं वा एतदात्मन् धित्वान्नादो भूत्वा देवक्षेत्रमन्ततः प्रावसति , अग्निर्वै वसु, स्तस्य वा एषा धारा, सर्वान् ह वा अस्मा अग्निर् दोहान्त्सर्वान् कामान् दुहे य एवं वेद, सं वा एतदग्निरन्नाद्यमिन्द्धे यच् चिनोति, तं दीपयत्येव वसोर्धारया ॥

3.4.3 अनुवाकः3
वाजप्रसव्यं जुहोति, वाजं वा एतेनाग्निरन्नाद्यं उदजयत् , वाजं एवैतेनान्नाद्यं यजमाना उज्जयति , अन्नस्यान्नस्य जुहोति वाजप्रसव्याभि , रन्नं वै वाजो अन्नाद्यस्यावरुद्ध्यै , उभयं ग्राम्यं चारण्यं च जुहोति उभयस्यान्नाद्यस्यावरुद्धयै , औदुम्बरेण स्रुवेण जुहोति , ऊर्ग् वा उदुम्बर , ऊर्जोऽवरुद्ध्यै , देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्या वाचा यन्तुर् यन्त्रेण बृहस्पतिं साम्राज्यायाभिषिञ्चामीत्य, भिषिञ्चेद्, यदि ब्राह्मणो यजेत, बृहस्पतिसवो ह्येष, इन्द्रं साम्राज्यायाभिषिञ्चामीत्य, भिषिञ्चेद् , यदि राजन्यो यजेत , इन्द्रसवो ह्येष, कृष्णाजिने ब्रह्मवर्चसकाममभिषिञ्चेत् , ब्रह्मणो वा एतद् ऋक्सामयो रूपं, ऋक्सामे ब्रह्मवर्चसं , ब्रह्मवर्चसं एवावरुन्द्धे, बस्ताजिने पशुकामं , पशवो वै बस्ताजिनं , पशून् एवावरुन्द्धे, सूयते वा एषोऽग्नीनां यश्चीयते, स्वेनैवैनं सवेन समर्धयति, देवा ओषधीषु पक्वास्व् आजीमयु, स्ता अग्निरुदजयत् , अग्नेर्वा एषोऽभिषेको , अन्नस्य वा एतत् सूयते, सवानां वा एष एको , बृहस्पतिसवो वा एष बार्हस्पत्यो ब्राह्मणो देवतया, स्वेनैव सवेन सूयते, तदाहु , र्होतव्यं एव न हि सुषुवाणः कं चन प्रत्यवरोहतीति, सुषुवाणो वा एष देवतया योऽग्निचित् , ऋतवो वै सुषुवाणस्य राष्ट्रम् अनुबिभ्रति, षड् वा ऋतवो , ऋतवो राष्ट्रभृतो , यत् षड्भिर्जुहोति , ऋतुष्वेवास्य राष्ट्रं प्रतिष्ठापयति, तेऽस्मै राष्ट्रम् अनुबिभ्रति, द्वादशगृहीतेन जुहोति, द्वादश मासाः संवत्सरः, संवत्सरमेवाप्त्वावरुन्द्धे, मिथुना वा एता आहुतय, स्तस्मै स्वाहा वट्, ताभ्यः स्वाहा वड् इति, तस्मिन्न् एव मिथुने रेतो दधाति, रथशीर्षे सप्तमं जुहोति दिशामभिजित्यै, दिश एवाभिजिता रथेन जीयन्ते , अथैते वातहोमा , अग्निचितो वा अमुत्राहोरात्रे, अग्निचितेऽयं वायुः पवते, प्राणो वै वायुः, प्राणमेवावरुन्द्धे , अञ्जलिना जुहोति, न ह्येतस्यावदानं अस्ति , अथो परिगृहीत्या एव, प्राणो वै वायु , र्हस्तः प्राणायोपक्लृप्ततम, स्तस्मादञ्जलिना जुहोति, त्रिर्जुहोति, त्रयो वा इमे लोका , इम एवास्मै लोका वातं धुन्वन्ति, समुद्रोऽसि नभस्वानार्द्रदानुरिति , एतानि वै वायो रूपाणि, रूपैरेव वायुमवरुन्द्धे, मारुतोऽसि, मरुतां गण इति, मारुतो हि वायुः, सं वा एतदग्निमिन्द्धे यच् चिनोति, तं दीपयत्येव वातहोमैः ।।

3.4.4 अनुवाकः4
प्राणो वै गायत्री, गायत्रं हविर्धानं, अपानो जगती, जागतं सदो , व्यानस्त्रिष्टुप्, त्रैष्टुभमाग्नीध्रं, असुः पृश्नि , र्मध्ये दिव्यो निहितः पृश्निरश्मे, त्यमुं वावास्यैतन्मध्यतः प्राणापानानां व्यवदधाति प्राणानां धृत्यै , अश्मनवमा आग्नीध्रे सादयति, नव वै प्राणाः, प्राणान् वावास्यैतद्यजमानलोके दधाति , एकविंशतिं होत्रिये प्रतिष्ठित्यै, प्रतिष्ठा ह्येकविंश , एकादश ब्राह्मणाञ्शंस्या , एकादशाक्षरा त्रिष्टुप् , वीर्यं त्रिष्टुप् , वीर्य एव प्रतितिष्ठति , अष्टाष्टा इतरेषु , अष्टाक्षरा गायत्री, ब्रह्म गायत्री, ब्रह्मण्येव प्रतितिष्ठति, षण् मार्जालीये, षड् वा ऋतव , ऋतवो वा एतं दक्षिणतः पर्यहरन्त, पितरो वा ऋतवो , अथो षड्वै छन्दांसि, छन्दांसि वावास्यैतद्यज्ञमुखे युनक्ति, सजूरब्दो आयवोभिरिति , एता वा अग्नेर्देवताः पुरस्ताद्भागा, स्ता एव प्रीणाति , अथो अत्र वै देवानां प्रियास्तन्व, स्ता एवावरुन्द्धे, सजूरब्दो आयवोभिरिति, संवत्सरो वा अब्द , ऋतवा आयवानः, संवत्सर एवास्यैतेना ऋतवोऽभीष्टाः प्रीता भवन्ति, सजूरुषा आरुणीभिरिति , उषसं एव प्रीणाति, सजोषा अश्विना दंसोभिरिति , अहोरात्रे वा अश्विना , अहोरात्रे एवास्यैतेनाभीष्टे प्रीते भवतः, सजूः सूरा एतशेनेति, सूर्यमेव प्रीणाति, सजूर्वैश्वानर इडया घृतेन स्वाहेति, संवत्सरो वै वैश्वानरः, पशवा इडा, पशवो घृतं , संवत्सरा एवास्यैतेन पशवोऽभीष्टाः प्रीता भवन्ति, दर्भस्तंबे जुहोति , एषा वा अस्यामृतचित्तनू , रमृते वा एतदग्निश्चीयते, हिरण्यं निधाय जुहोति , अग्निमत्येव जुहोत्यायतनवति , अन्धोऽध्वर्युः स्याद्यदनायतने जुहुयात्, स्वर्गाय वै लोकाय देवरथो युज्यते, कामाय मनुष्यरथो , अग्निं युनज्मि शवसा घृतेनेति , अग्निं वा एतद् युनक्ति, तेन युक्तेन स्वर्गं लोकं गच्छति, यत्सर्वाभिर् युञ्ज्याद् युक्तोऽस्य यज्ञः स्यादप्रतिष्ठिता आहुतयो , द्वाभ्यां नापियुनक्ति आहुतीनां प्रतिष्ठित्यै, ताः प्रतितिष्ठन्तीर्यज्ञोऽनुप्रतितिष्ठति, यज्ञं यजमानस्तिसृभिर् युनक्ति, त्रिवृद्ध्यग्नि , र्यावान् एवाग्निस्तं युनक्ति, तस्मिन् युङ्तेयु सर्वं हव्यं समाधीयते, पञ्चभिर् युनक्ति, पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्ध, सं वा एतं एतौ तपतो यश्चीयते यश्च वैश्वानरो , यदप्सुमतीभ्यां पुरस्ताद्यज्ञायज्ञियस्य संमृशति शान्त्यै , एषा वै यज्ञस्य मात्रा यदग्निष्टोमो , भूम त्व् एवास्यात ऊर्ध्वं क्रियते ॥

3.4.5 अनुवाकः5
यो वा अग्निं योगा आगते न युङ्क्ते न युञ्जानेषु युङ्क्ते , अग्ने युक्वा हि ये तवेति , अग्निं वा एतद् योगा आगते युङ्क्ते, युङ्क्ते युञ्जानेषु, यो वा अग्निं विमोक आगते न विमुञ्चते न विमुञ्चमानेषु विमुञ्चते, वि ते मुञ्चामि रशनां वि रश्मीन् इति , अग्निं वा एतद्विमोक आगते विमुञ्चते, वि मुञ्चमानेषु मुञ्चते, यथा वै पुनराधेयमेवं पुनश्चिति, र्यो वा आधेयेन ऋध्नोति पुनः स आधत्ते, योऽग्निं चिक्यानो मन्येत, वि स्या ऋध्यता इति, स एतां पुनश्चितिम् उपदधीता , अपि प्रथमं चिन्वानश्चिन्वीता ऋद्ध्यै , ऋध्नोत्येव , अथो मिथुनत्वाय, यां वा अग्निचिदनिष्टका आहुतिं जुहोति स्रवति सा, तां स्रवन्तीं यज्ञोऽनुस्रवति, यज्ञं यजमानो , यदेतां पुनश्चितिम् उपदधाति , आहुतीनां प्रतिष्ठित्यै, ताः प्रतितिष्ठन्तीर्यज्ञोऽनु प्रतितिष्ठति, यज्ञं यजमानो , अष्टोपदधाति , अष्टाक्षरा गायत्री, गायत्रोऽग्नि , र्यावान् एवाग्निस्तं चिनुते , अष्टौ लोकंपृणा उपधाय पुरीषेणाभ्यूहति , अष्टाक्षरा गायत्री, ब्रह्म गायत्री, गायत्र्यैवैनं छन्दसा ब्रह्मणा चिनुते , एकादश लोकंपृणा उपधाय पुरीषेणाभ्यूहति , एकादशाक्षरा त्रिष्टुब्वीर्यम् , त्रिष्टुभैवैनं छन्दसा वीर्येण चिनुते, द्वादश लोकंपृणा उपधाय पुरीषेणाभ्यूहति, द्वादशाक्षरा जगती, जागताः पशवो , जगत्यैवैनं छन्दसा पशुभिश्चिनुते , एषा वा अग्नेरुत्तरवेदि , रेतदग्निरुत्तरवेदिमांश्चीयते, योऽस्याग्निः पुरा चितः स्यात्तमन्ववसाय यजेत, यथा वा इदं दीप्यमाने भूयोऽभ्यादधात्येवं वावास्मिन्न् एतदभिपूर्वं भूयस्तेजो दधाति, तदाहुः, कः श्रेयांसं विषुप्तं बोधयिष्यतीति, यद्यजता आहुत्यैवैनं व्यर्धयति, गृहान् वा एष कुरुते योऽग्निं चिनुते, यद्वा अन्यतो विन्दते गृहांस्तदाहरति, य इष्ट्या वा पशुना वा सोमेन वा यजेत योऽस्याग्निः पुरा चितः स्यात्तमन्ववसाय यजेत, यथा वा इदमन्यतो वित्त्वा गृहानाहरत्येवं तत् तदाहुः, पुनर्वा स्रुवा एतद्यज्ञे क्रियते, यत्रैव क्व च यजेत तदेता एकविंशतिम् उपधाय यजेत प्रतिष्ठित्यै, प्रतिष्ठा ह्येकविंश इति ॥

3.4.6 अनुवाकः6
समास्त्वाग्ना ऋतवो वर्धयन्त्व् इति, समाभिश्चैवैनं ऋतुभिश्च समिन्द्धे, सं दिव्येन दीदिहि रोचनेनेति, ज्योतिष्मन्तमेवैनं चिनुते, विश्वा आभाहि प्रदिशश्चतस्रा इति, तस्मादग्निः सर्वा दिशा आभाति , अमुत्रभूयादध यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चा इत्यामयाविनः कुर्यात् , मृत्युर्वै यमो , ब्रह्म बृहस्पति , र्यावदेव ब्रह्म तेनैनं भिषज्यति, प्रत्यूहतामश्विना मृत्युमस्मादिति , अश्विनौ वै देवानां भिषजौ, ता अस्मान् मृत्युं प्रत्यूहता , उद्वयं तमसस्परीति, पाप्मानं एव तमोऽपहत्य स्वर्गं लोकमभ्यारोहति , आहृतो वै हैतनामनः सर्वतेरापाष्ठेरग्नेश्चित्यस्य होतासीत्, तमब्रुवन्, या अप्सुमतीस्ता इच्छेति, तस्मै वा एता गन्धर्वाप्सरसः प्राब्रुवन्, यदप्सुमतीः सामिधेनीर्भवन्ति शान्त्यै, चतुर्विंशतिम् अन्वाह, चतुर्विंशत्यक्षरा वै गायत्री, गायत्री यज्ञमुखम् , यज्ञमुखमेवालब्धा , अथो चतुर्विंशतिर्वा अर्धमासाः संवत्सर , एषा वा अस्थिता श्रीर्यत् संवत्सरो , न वा एष श्रियेलयति, न हास्य श्रीरिलयति, गायत्रीरन्वाह, तेजो वै गायत्री ब्रह्मवर्चसं , तेज एव ब्रह्मवर्चसं अवरुन्द्धे, त्रिष्टुभोऽन्वाह , ओजो वै वीर्यं त्रिष्टुब् , ओज एव वीर्यमवरुन्द्धे, यद् गायत्र्यश्च त्रिष्टुभश्च भवन्ति तेनैव तदुभयम् अवरुन्द्धे, या आग्नेयीरनिरुक्तास्ताः कार्या , अनिरुक्तं इव ह्येतदव्यावृत्तं , व्यावृतं पाप्मना भ्रातृव्येण गच्छति, ता अग्नीषोमीयस्य पशोः कुर्यात्, को हि देवक्षेत्रं द्विरभ्यारोक्ष्यतीति, तिस्रो रात्रीर् भृत्वाग्निश्चेतव्या इत्याहु, स्त्रिपदा विराट् , विराजं एवाप्नोति षड् रात्रीर्भृत्वाग्निश्चेतव्या इत्याहुः, षड् वा ऋतवः संवत्सरः, संवत्सरम् अनु विराडायत्ता, विराजं एवाप्नोति, दश रात्रीर् भृत्वाग्निश्चेतव्या, इत्याहु , र्दशाक्षरा विराट् , विराजं एवाप्नोति, द्वादश रात्रीर् भृत्वाग्निश्चेतव्या, इत्याहु , र्द्वादश मासाः संवत्सरः, संवत्सरम् अनु विराडायत्ता, विराजं एवाप्नोति, चतुर्विंशति रात्रीर् भृत्वाग्निश्चेतव्या, इत्याहु , श्चतुर्विंशतिर्वा अर्धमासाः संवत्सरः, संवत्सरम् अनु विराडायत्ता, विराजं एवाप्नोति, मासं भृत्वाग्निश्चेतव्या इत्याहु , र्मासश एव संवत्सरम् आप्नोति , अष्टौ वा एतन्मासो वसवोऽबिभ्रु, स्त इमं लोकमाजयन् गायत्रीं छन्दा , एकादश रुद्रा , स्तेऽन्तरिक्षं लोकमाजयंस्त्रिष्टुभं छन्दो , द्वादशादित्या, स्तेऽमुं लोकमाजयन् जगतीं छन्द, स्त आर्ध्नुवन् , ऋध्नोति य एवं विद्वान्त्संवत्सरम् अग्निं बिभर्ति, तस्मादाहुः, संवत्सरभृत एवाग्निरिति , अथैता आप्रियः प्रजापतिः प्रजाः सृष्ट्वा रिरिचानोऽमन्यत, स एता आप्रीरपश्यत्, ताभिरात्मानं आप्रीणीता , अग्निर्वै प्रजापति , र्यदेता आप्रियो भवन्ति , अग्निमेवैताभिर्यजमाना आप्रीणीते, लोमशं वा एतच् छन्दः पशव्यं ऊनातिरिक्तं प्रजननाय, विराजो भवन्ति, विराड्वै सर्वाणि छन्दांसि, सर्वाण्येवास्य छन्दांस्य् उपहितानि भवन्ति, ता विश्वचितः कुर्यात्, प्राणा वा एता ज्यायसीरिव च कनीयसीरिव च भवन्ति, ज्यायांस इव च हीमे कनीयांस इव च प्राणाः, प्राणान् एवात्मन् धत्ते ॥

3.4.7 अनुवाकः7
यस्याग्निरुख्योऽनुगच्छति यथा पुत्रो जातः प्रमीयत एवं तत् , यद्यनुगछेत् तामेवोखां पुनः परीन्धीत , एषा वा अग्नेर् योनिः, स्वादेवैनां योनेः प्रजनयति , ईश्वरो वा एषो प्रजनितोर् योऽग्निं चिनुते ॥
यास्ते अग्न आर्द्रा योनयो याः कुलायिनीर् ये ते अग्ना इन्दवो या उ नाभयः ।
ताभिष्ट्वं उभयीभिः संविदानः प्रजानंस्तन्वेह निषीद ॥
इति यदेषार्द्रा योनिमति शान्त्यै, प्रजा वै कुलायम् , पशवः कुलायम् , यत् कुलायिनीः प्रजात्यै, हविर्भूतो वा एष योऽग्निं चिनुते, योऽग्निं चित्वान्यस्य स्त्रियम् उपैति यथा हविः स्कन्नं एवं स्यात् , यथा हविषे स्कन्नाय प्रायश्चित्तिमिछन्त्येवमस्मै प्रायश्चित्तिमिछेयु , र्यद्युपेयान् मैत्रावरुण्यामिक्षया यजेत, मैत्रावरुणतामेवोपैति , आत्मनोऽस्कन्नत्वाय , पशुर्वा अग्नि , र्यो वै पशुं पुरस्तादुपचरति हिनस्ति वा एनं स, तस्मात् पुरस्तात् प्रत्यञ्चं नाक्रामति, तस्मादु पश्चात् प्राञ्चमुपचरति , आत्मनोऽहिंसायै, यो वै यथावृत्तमग्निं चिनुते यथारूपं प्रजाश्च ऋतवश्च कल्पन्ते, या दक्षिणावृतस्ता दक्षिणत उपदधाति, याः सव्यावृतस्ता उत्तरत, स्र्याचःलिखिताः पश्चात् प्राचीरुपदधाति, यथावृत्तं वा एतदग्निं चिनुते यथारूपं प्रजाश्च ऋतवश्च कल्पन्ते, ससत्योऽग्निश्चेतव्या, इत्याहुः ॥ भूर् भुवः स्वः ॥ इति पुरस्तात् स्वयमातृण्णा, यावदेतद्वै वाचः सत्यं ससत्यं एवाग्निं चिनुते, प्राणो वै स्वयमातृण्णा , अमृतं हिरण्यम् , यद्धिरण्येष्टकाम् उपधाय स्वयमातृण्णां उपदधाति , अमृत एवास्य प्राणान् दधाति, तेजोऽसि तेजो मे यच्छे, ति हिरण्येष्टका उपदधाति , एताभिर्वा इमे लोका विधृता , अथो एताभिरेवाग्निं चिनुते , इमे लोकाः प्रभान्ति, देवा असुरान् हत्वा मृत्योरबिभयु, स्ते छन्दांस्यपश्यन् , तानि प्राविशन् , तेभ्यो यद्यदच्छदयत्तेनात्मानं अछादयन्त, तच् छन्दसां छन्दस्त्वं , चितिं चितिम् उपधायाग्नेय्या धाम छन्दोऽभिमृशति, स्वामेव देवताम् उपप्रविशति , आत्मनोऽहिंसायै ॥ श्येनचितिं चिन्वीत स्वर्गकामः, श्येनो वै भूत्वा गायत्र्यमुं लोकमपतत् स्वर्गस्य लोकस्य समष्ट्यै, रथचक्रचितिं चिन्वीत भ्रातृव्यवान् , रथचक्रं वै वज्रं कृत्वा देवा असुरेभ्य उपप्रावर्तयन् , तेषां शततर्हमदृंहन् , तदेतामेव वज्रं कृत्वा यजमानो भ्रातृव्यायोपप्रवर्तयति, शततर्हं ह दृंहति, प्रउगचितिं चिन्वीत भ्रातृव्यवान्, उभयतो वै देवानसुराः परीयत्ता आसन् , पुरस्तादन्ये पश्चादन्ये, तान् वा एतेन व्यनुदन्त, तद् भ्रातृव्यस्य वा एष विनोदो , द्रोणचितिं चिन्वीतान्नकामो , द्रोणेन वा अन्नमद्यते , अनुरूपेणैवान्नाद्यमवरुन्द्धे, पश्चाच्चरुर्भवति अनुरूपत्वाय, श्मशानचितिं चिन्वीत यः कामयेता, ञ्जसा पितृलोकं उपेयां इति , अञ्जसा पितृलोकमुपैति , उप चान्यं चिन्वीत ग्रामकामो , यथैवैतं उपचिनोत्येवमस्मै ग्रामं उपचिनोति, समूह्यं चिन्वीत पशुकामो , यथैवैतं समूहत्येवमस्मै दिग्यःमस पशून्त्समूहति ॥

3.4.8 अनुवाकः8
प्रजापतिर्वा एतमग्रेऽग्निमचिनुत ऋतुभिः संवत्सरम् , वसन्तेन पुरस्तादचिनुत, ग्रीष्मेण दक्षिणं पक्षं, वर्षाभिरुत्तरं, शरदा पुच्छं, हेमन्तेन मध्यम् , ब्रह्मणैव पुरस्तादचिनुत, क्षत्रेण दक्षिणं पक्षं, विशोत्तरं, पशुभिः पुच्छमाशया मध्यम् , एतावद्वा अस्ति, यावदेवास्ति तत् स्पृणोति, तदवरुन्द्धे, स्वर्गाय वै लोकायाग्निश्चीयते, वज्र एकादशिनी, यदेकादशिनीं मिनुयाद्वज्रः पुरस्तादवगृह्णीयात् , अस्वर्ग्यः स्यात् , यन् न मिनुयादपशुः स्यात् , एकयूप, एकादश पशवो नियुज्या, स्तेन पशव्या, स्तेन स्वर्गो , यत् पक्षसंमितां मिनुयात् कनीयांसं यज्ञक्रतुमुपेयात् कनीयसीं प्रजां कनीयसः पशून् कनीयोऽन्नाद्यं पापीयान्त् स्यात् , अथ यद् वेदिसंमितां मिनोति ज्यायांसं चिनुते ज्यायांसं एव यज्ञक्रतुमुपैति भूयसीं प्रजां भूयसः पशून् भूयोऽन्नाद्यं वसीयान् भवति , एषा वा अग्नेरुत्तरवती नाम चिति, रुत्तरमुत्तरं श्वः श्वः श्रेयान् भवति य एवं वेद, द्वेधा वा अग्निं चिक्यानस्य यश इन्द्रियं गच्छत्य, ग्निं वा गच्छत्यात्मानं वा ॥
रुचं नो धेहि ब्राह्मणेषु रुचं राजसु धारय ।
रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचं ॥
इति यज्जुहोति , आत्मानं वा एतदग्नेर्यशसार्पयति , ईश्वरो वा एष दुश्चर्मा भवितोर्योऽग्निमध्येति ॥
तत् त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्य् उरुशँसं आ ना आयुः प्र मोषीः ॥
इति यज्जुहोति शान्तिर्वा एषाग्नेर् गुप्तिरात्मनो , वयो वा अग्नि, स्तस्मादग्निचिता पक्षिणो नाशितव्यं नो अग्निविदा, यदश्नीयात् तं एवाश्नीयात् , स एनं आर्तिं निनयेत्, प्रजापतिर्वा एतमग्रेऽग्निमचिनुत ज्यैष्ठ्यकामः, स ज्यैष्ठ्यं महिमानं अगच्छत् , ज्यैष्ठ्यं महिमानं गच्छति य एवं विद्वानग्निं चिनुते, प्रजापतिः प्रजाः सृष्ट्वा ता अनुप्राविशत्, सोऽब्रवीत् , यो मेतः संचिनवदर्ध्नुवत्स इति, तं देवाः समचिन्वन् , त आर्ध्नुवन् , तच् चित्यस्य चित्यत्वं , तद्य एवं विद्वानग्निं चिनोति प्रजापतिमेव संचिनोति , ऋध्नोति, तस्मादाहुः, प्रजापतिचित एवाग्निरिति ॥

3.4.9 अनुवाकः9
देवेभ्यो वा अग्निं चिक्यानेभ्यो न व्यौच्छत्, तेऽग्ना आहुतिम् अजुहवु, स्तुभ्यमग्रे व्युच्छ, तथास्मभ्यं विवत्स्यतीति, तयाग्नये व्यौच्छत् , व्यग्नया औच्छत् , नाहुत्यै व्यौच्छत्, तस्या आहुत्यै यज्ञेन व्यौच्छत् , व्याहुत्या औच्छत् , न यज्ञाय व्यौच्छत्, तस्मै यज्ञाय दक्षिणया व्यौच्छत् , वि यज्ञायौच्छत् , न दक्षिणायै व्यौच्छत्, तस्यै दक्षिणायै ब्राह्मणेन व्यौच्छत् , वि दक्षिणाया औच्छन् न ब्राह्मणाय व्यौच्छत्, तस्मै ब्राह्मणाय ब्रह्मणा व्यौच्छत् , वि ब्राह्मणायौच्छत् , न ब्रह्मणे व्यौच्छत्, तस्मै ब्रह्मणे तपसा व्यौच्छत् , एता वै तपःपरार्धा व्युष्टयः, श्वोवसीयस्यस्मै व्युच्छति य एवं विद्वान् व्युष्टीरुपधत्ते, यो वै यथापूर्वं व्युष्टीर् वेद यथापूर्वमस्मै व्युच्छति , औषसी वाव प्रथमा व्युष्टिर्व्यवा, डिति वा आहु , र्यदौषस्युदेति, यद् व्युछति, यदग्निराधीयते, यत् सूर्य उदेति, यद्धस्ता अवनेनिक्ते, यदश्नाति, यत् पिबति , एता वै यथापूर्वं व्युष्टयो , यथापूर्वमस्मै व्युच्छति य एवं विद्वान् व्युष्टीरुपधत्ते ॥

3.4.10 अनुवाकः10
यो वा अग्निमयोनिमनायतनं चिनुतेऽयोनिरनायतनो भवति , आपो वा अग्नेर् योनिः , यत् कुम्भेष्टका उपदधाति योनिमन्तमेवायतनवन्तमग्निं चिनुते योनिमानायतनवान् भवति , अधरसपत्नोऽग्निश्चेतव्या, इत्याहु, रापो वा अग्नेः सपत्नो , यत् कुम्भेष्टका उपदधाति , अधरसपत्नं एवाग्निं चिनुतेऽधरोऽस्मात्पाप्मा भवत्यधरः सपत्नः, शुग् वा अग्नि, रापः शान्ति , र्यत् कुम्भेष्टका उपदधाति शान्त्यै, यत् कुम्भाश्च कुम्भ्यश्च तन् मिथुनं , यद् द्वन्द्वं , प्रजात्यै, द्वादशोपदधाति, द्वादश मासाः संवत्सरः, संवत्सरमेवाप्त्वावरुन्द्धे, नैवारश्चरुस्त्रयोदशो भवति , अस्ति मासस्त्रयोदश, स्तं एवैतेनाप्त्वावरुन्द्धे, पयसि भवति, यत् पयो , ग्राम्यं तेनान्नाद्यमवरुन्द्धे, यन् नीवारा , आरण्यं तेन, तेनैव तदुभयम् अवरुन्द्धे ॥
इत्य् उपरिकाण्डे वसोर्धारीयः चतुर्थः प्रपाठकः ॥