मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः ०३

विकिस्रोतः तः
Jump to navigation Jump to search

अग्निचिति-ब्राह्मणम् (स्तोमभागः)

स्तोमभागाः
3.3.1 अनुवाकः1
अथैताः स्तोमभागा , एतां वै बृहस्पतिर् असुरेभ्योऽधि यज्ञस्य प्रतिष्ठां आहरत् , यदेता उपधीयन्ते यज्ञस्य प्रतिष्ठित्यै, यज्ञो वै देवानामपद्यत, तं देवाः स्तोमभागाभिः प्रत्युदस्तभ्नुवन् , यदेता उपधीयन्ते यज्ञस्योत्तब्यैष्, प्रजापतिर्वा एतत् पृथिव्या अग्नेस्तेजः समभरत् , तदग्नेरेवैतत्तेजः संभ्रियते , अथैता नाकसदो , नाकं ह वा अस्मा अग्निं चिक्यानाय भवति, न वै तत्र किं चन जग्मुषे कं , तस्मान् नाकसदो , नाकसत्सु पञ्चचूडा अध्युपदधाति स्वर्गस्य लोकस्य समष्ट्यै , एष ह त्वेव यजमानः पत्नीभिरग्निनामुष्मिंल्लोके सम्यङ् यस्यैता उपधीयन्ते , अथो मध्ये ज्योतिरेव चीयते , एता वा अमुष्मिंल्लोके यजमानस्य पत्नी, स्तस्मादग्निचिता स्त्री नोपेत्या , ईर्ष्या हि सा, पश्चात् प्राचीमुत्तमामुपदधाति, पश्चाद् ध्येतं प्राची पत्नि अन्वास्ते , अथैताः क्लृप्तयः , प्रजापतिः प्रजा असृजत, ता एनं सृष्टा अत्यमन्यन्त, स प्रजापतिरेता इष्टका अपश्यत्, ता उपाधत्त, ततो वा अकल्पत, यदेता उपधीयन्ते प्रजानां क्लृप्त्यै , अथैता वृष्टिसनयो , वृष्टिर्वै देवेभ्योऽन्नाद्यमपाक्रामत् , तत इदं सर्वमशुष्यत् , ते देवाः प्रजापतिमेवोपाधावन् , स प्रजापतिरेता इष्टका अपश्यत्, ता उपाधत्त, तेभ्यो वृष्टिमन्नाद्यमवारुन्द्ध, यदेता उपधीयन्ते वृष्ट्या अन्नाद्यस्यावरुद्यै, , आवपनं वा उत्तमा चिति , रन्याअन्या इष्टका उपदधाति , अन्यानन्यान् एवास्मै पशून् प्रजनयति, प्राणो वै स्वयमातृण्णायु, र्वायव्या, समीची उपदधाति , आयुश्चैव प्राणं च सयुजा अकर्, अथो समीचीनाभ्यां ह्यायुषा च प्राणेन च भुञ्जते, प्राणो वै स्वयमातृण्णा, ताम् उत्तमामुपदधाति , उत्तमं ह्यायु , र्यदन्याम् उत्तरामुपदध्यात् प्राणमस्यापिदध्यात् , प्रमायुकः स्यात् , तस्मात्ताम् उत्तमामुपदधाति , उत्तमं ह्यायुः ॥

3.3.2 अनुवाकः2
अथैषा छन्दश्चिति , श्छन्दांसि वै देवानां वामं पशवो , छन्दांस्येवैतया वामं पशून् यजमानोऽवरुन्धे,ा , एतां वै यज्ञसेनश्चैत्र उपदधे, स आनर्घ, गायत्रीभिः पुरस्तात् सादयति, तेजो वै गायत्री ब्रह्मवर्चसं , तेज एव ब्रह्मवर्चसं अवरुन्धेगा, तिस्र उपदधाति, त्रिवृद्ध्यग्नि , र्मूर्धन्वतीभिः सादयति, मूर्धन्योऽसानीति, त्रिष्टुब्भिर्दक्षिणतो , ओजो वै वीर्यं त्रिष्टुप् , ओज एव वीर्यमवरुन्धेभि, जगतीभिः पश्चात् , जागताः पशवः, पशून् एवावरुन्धेसा , अनुष्टुब्भिरुत्तरतो , अनुष्टुब् वै सर्वाणि छन्दांसि, सर्वाण्येवास्य छन्दांस्य् उपहितानि भवन्ति , अथ पङ्क्ती , रथ बृहती , रथोष्णिहो , अथ ककुभो , अथ विराज , एवमस्य यथापूर्वं छन्दांस्य् उपहितानि भवन्ति, द्विपदा उत्तमाः सादयति, द्विपाद्यजमानः प्रतिष्ठित्यै, छन्दांसि वै देवानां वामं पशवो , यजमानायतनं वा आहवनीयो , भ्रातृव्यायतनं धिष्यासि , यत् पश्चोपदध्याद् भ्रातृव्यायतने वामं पशून् दध्यात् , अथ यत् पुर उपदधाति यजमानायतने वा एतद्वामं पशून् दधाति , अष्टोपदधाति , अष्टाक्षरा गायत्री, गायत्रोऽग्नि , र्यावान् एवाग्निस्तं चिनुते , अष्टौ गायत्रीभिः पुरस्ताद् बहिःपवमानस्योपदध्याद्यद्येनं भ्रातृव्योऽतीव स्यात् , एकादश त्रिष्टुब्भिः पुरस्तान्माध्यंदिनस्य पवमानस्य, द्वादश जगतीभिः पुरस्तादार्भवस्य पवमानस्य ,एता एव पश्चात् पवामनानां उपदध्याद्यद्येनं भ्रातृव्योऽतीव स्यात्, प्राणो वै पवामानो , अग्नेस्तेजः पवमान, स्तेजसा वा एतद्यजमानो भ्रातृव्यं प्रभूतं प्रणुदते , तेजसा प्रतिनुदते, तेजसा विनुदते, तद् भ्रातृव्यस्य वा एष विनोदो , जानुदघ्नं प्रथमं चिन्वानश्चिन्वीत गायत्रीचितं , नाभिदघ्नं द्वितीयं चिन्वानश्चिन्वीत त्रिष्टुप्चितं , चुबुकदघ्नं तृतीयं चिन्वानश्चिन्वीत जगच्चितं ,यज् ज्यायांसं चित्वा कनीयांसं चिन्वीत कनीयांसं यज्ञक्रतुमुपेयात्, कनीयसीं प्रजां , कनीयसः पशून्, कनीयोऽन्नाद्यं , पापीयान्त् स्यात् , अथ यत् कनीयांसं चित्वा ज्यायांसं चिनुते ज्यायांसं एव यज्ञक्रतुमुपैति, भूयसीं प्रजां , भूयसः पशून् भूयोऽन्नाद्यं , वसीयान् भवति , एषा वा अग्नेरुत्तरवती नाम चिति, रुत्तरंउत्तरं श्वःश्वः श्रेयान् भवति य एवं वेद ॥

3.3.3 अनुवाकः3
पञ्चचितिकः कार्यः, पाङ्क्तो यज्ञः, पाङ्क्ताः पशव, स्तस्मात् पञ्चचितिकः, पञ्च चितयः, पञ्च पुरीषाणि, तद्विराजं संपद्यते, तद्यद्विराजं संपद्यते तदग्नेः स्तोत्रं कार्यम् , यत् पञ्चचितिकः स्यादियाद्विराजो, यद् दशचितिक इयाद्यज्ञाच्च पशुभ्यश्च, यत् पञ्चचितिकस्तेन यज्ञाच्च पशुभ्यश्च नैति , अथ यत् पञ्च चितयः पञ्च पुरीषाणि तेन विराजो नैति, तदुभाभ्यां वावास्मा एतद्वर्णाभ्यां पशूनवरुन्धे््, यदेषां पाङ्क्तं यच्च वैराजं , द्व्यक्षरं लोम, द्व्यक्षरा त्वक् , द्व्यक्षरं मांसं , द्व्यक्षरं अस्थि, द्व्यक्षरो मज्जा, तद् दश, दशाक्षरा विराट् , वैराजाः पशवः, पशून् एवावरुन्धेरं, पञ्चचितिकः कार्यो , इमे वै लोकास्तिस्रश्चितयो , यजमानो द्वे, यजमानं वा एतदेषु लोकेषु प्रतिष्ठापयामकः, का प्रथमा चितिः, किं पुरीषं इत्याहु , रियं वाव प्रथमा चितिर् , ओषधयः पुरीषं , का द्वितीया चितिः, किं पुरीषं इत्याहु , रन्तरिक्षं वाव द्वितीया चितिर्वयांसि पुरीषं , का तृतीया चितिः किं पुरीषं इत्याहु , रसौ वाव तृतीया चितिर्नक्षत्राणि पुरीषं , का चतुर्थी चितिः, किं पुरीषं इत्याहु , र्यज्ञो वाव चतुर्थी चितिर् दक्षिणा पुरीषं , का पञ्चमी चितिः, किं पुरीषं इत्याहु , र्यजमानो वाव पञ्चमी चितिः, प्रजा पुरीषं, एतावद्वा अस्ति, यावदेवास्ति तत् स्पृणोति, तदवरुन्धे ि , अथैता ऋतव्याः, संवत्सरो वा अग्निर्वैश्वानर , एषा वा अग्नेः प्रिया तनूर्यद् वैश्वानर, स्तस्य वा अहोरात्राण्य् एवेष्टका उपधीयन्ते, द्वेद्वे उपदधाति प्रतिष्ठित्यै , अवकाम् उपास्य सादयति शान्त्या अनिर्दाहाय, चतस्रो मध्यमायां चित्यामुपदधाति , अप्रतिष्ठितं इव ह्यन्तरिक्षम् , प्रतिष्ठित्यै, द्वादशोपदधाति, द्वादश मासाः संवत्सरः, संवत्सरो वा अग्निर्वैश्वानर , एषा वा अग्नेः प्रिया तनूर्यद् वैश्वानरः, प्रियायां वा एतत् तन्वामग्निश्चीयते, सतनूरर्को निधीयते , अग्नेरन्तःश्लेषोऽसीति , एतस्य ह त्वेवाग्निः संश्लिष्टो यस्यैता उपधीयन्ते, संश्लिष्टो वा एतस्याग्निर्यस्यैता उपधीयन्ते, कल्पेतां द्यावापृथिवी इति, कल्पते ह वा अस्मा अग्निं चिक्यानाय, प्र समानानां ज्यैष्ठ्यमाप्नोति य एवं वेद, सं वा एतदग्निमिन्धे ः यच् चिनोति, तं दीपयत्येव ऋतव्याभिः ॥

3.3.4 अनुवाकः4
तमो वै स्वर्गं लोकमन्तरा तिष्ठति , एता वै ज्योतिष्मतीरिष्टका यद्धिरण्यशकलैः प्रोक्षति, विवासयति वा एतद्यजमानाय, ज्योतिर् अस्मिन् दधाति, सहस्रं भवन्ति, साहस्रो वै प्रजापतिः, प्रजापतिमेवाप्नोति, यावद्वै सहस्रं तावदितोऽसौ लोकः, स्वर्गस्य लोकस्य समष्ट्यै , इमा मे अग्ना इष्टका धेनवः सन्व्ता इति, धेनवो वै नामैता इष्टका , एताभिर्वै प्रजापतिर् यद्यदकामयत ततददुह, यद्यदेवैताभिर्यजमानः कामयते तत्तद् दुहे , ऋतुष्ठाः स्थ ऋतावृधा इति , ऋतुष्ठा एवैना अकृत ऋतावृधो , घृतश्च्युतो मधुश्च्युता इति, घृतश्च्युत एवैना अकृत मधुश्च्युता , ऊर्जस्वतीः पयस्वतीरिति , ऊर्जस्वतीरेवैना अकृत पयस्वतीः, स्वधायिनीः कुलायिनीरिति, कुलायिनीर् ह्येता विराजो नाम , कामदुघा इति, यत्र वा अदो देवेभ्यः कामदुघाः कामं अदुह्र तदेता अपि दुदुह्रे, तत् पुष्टिमेवैताभिरवरुन्धेदु , अमुत्रामुष्मिंल्लोक इति , अमुष्मै हि लोकायाग्निश्चीयते, रुद्रं वै देवा यज्ञादन्तरायन् , तानायतयाभिपर्यावर्तत, तस्माद्वा अबिभयु, स्ते देवाः प्रजापतिमेवोपाधावन् , स प्रजापतिरेतं शतरुद्रियमपश्यत्, तेनैनं अशमयत्, तद्य एवं वेद वेदाह वा एनं प्रजापति , र्नैनं एष देवो हिनस्ति, यत्र रुद्रः प्रजाः शमायेत तदुदङ् परेत्ये, तदेव वदंश्चक्रम्येत, स्वायां वा एतद्दिशि स्वेन भागधेयेन रुद्रं शमयति, जानुदघ्ने प्रथमं जुहोति , अस्या एवैनं तेन शमयति, नाभिदघ्ने द्वितीयम्, अन्तरिक्षात् तेन, छुबुकदघ्ने तृतीयम् , दिवस्तेन, त्रिर्जुहोति, त्रयो वा इमे लोका , एभ्यो वा एतल् लोकेभ्यो रुद्रं शमयति, त्रिरमुतः पुनः प्रत्यवहारं जुहोति, यान् एवेतो रुद्रान् यजति तानमुतोऽवयजति, त्रिरितो जुहोति, त्रिरमुत, स्तत् षट्, षड् वा ऋतव, ऋतुभ्यो वा एतद् रुद्रमवयजति, समावच् शो विभाजं जुहोति , समावद्भाजो हि रुद्राणां भागा , द्वासाहानि जुहोति, द्वासाहैर्वै स तमशमयत् , द्वासाहैरेवैनं शमयति , अर्कपर्णेन जुहोति , अर्केण वा एतदर्कमवयजति, यत्पात्रेण जुहुयाद् रुद्रं प्रजास्व् अन्ववनयेत्, तस्मादारण्येन जुहोति, पशुर्वा अग्निः, स वै तर्येद्व जायते यर्हि चीयते, स भागधेयमिच्छति, यथा वत्सो जातः स्तनमिछति सोऽध्वर्युं च यजमानं च प्रेक्षते, यच् शतरुद्रियं जुहोति स्वेनैवैनं भागधेयेन शमयति, यासा उत्तरार्धे जघनार्धे श्रोणिस्तस्यां होतव्यं , स्वायां वा एतद्दिशि स्वेन भागधेयेन प्रतिहृत्य रुद्रं शमयति , अङ्गिरसो वै स्वर्यन्तोऽजायां घर्मं प्रासिञ्चन् , सा शोचन्ती पर्णं परामृशत् , सोऽर्कोऽभवत् , यदर्कपर्णेन जुहोति , अर्केण वा एतदर्कमवयजति, यं द्विष्यात्तस्य पशूनां संचरे न्यस्येत् , यः प्रथम आक्रमति स आर्तिम् आर्छति ॥

3.3.5 अनुवाकः5
अश्मन्न् ऊर्जं पर्वते शिश्रियाणां इत्यपः परिषिञ्चन् पर्येति, प्रजापतेर्वा एष रसः, प्रजापतेरेव रसेन परिषिञ्चति , अश्मंस्ते क्षुदिति , अश्मानं एव क्षुधार्पयति, मयि ता ऊर्ग् इति , आत्मन्न् एवोर्जं धत्ते, यं द्विष्मस्तं ते शुग् ऋच्छत्व् इति, यमेव द्वेष्टि तं अग्नेः शुचार्पयति, त्रिः परिषिञ्चन् पर्येति, त्रयो वा इमे लोका , एभ्यो वा एतल् लोकेभ्योऽग्नेः शुचं शमयति, त्रिः परिषिञ्चन् पर्येति, त्रिरपरिषिञ्चन् , तत् षट्, षड् वा ऋतव , ऋतुभ्यो वा एतदग्नेः शुचं शमयति, यद्यभिचरेदेतदेव यजुर्वदन्न् अपरिषिञ्चन् पुनः परीयात् , यैवाग्नेः शुक् तयैनं अर्पयति यद्यभिचरेत् ॥ इदमहममुष्यामुष्यायणं अमुष्मात् पुत्रममुष्यां दिशि प्रक्षिणामि ॥ इति कुम्भं जघन्यायां श्रोण्यां प्रक्षिणीयात् , यत् प्रक्षिणाति तस्यैवार्तिम् अन्व् आर्तिम् आर्च्छति , अथ यन्नाम गृह्णाति , आयतनं एवास्य छिनत्ति , आग्नेयपावमान्यां गायत्रं गायते, प्राणो वै पवमानः, शिरो गायत्री, यदाग्नेयपावमान्यां गायत्रं गायते शीर्षन् वा एतत् प्राणान् दधाति , इयं वै रथन्तरम्, अन्तरिक्षं वामदेव्यं, असौ बृहत्, त्रिधातुर्वा एतदर्को निधीयते , आत्मा वै वामदेव्यं , प्रतिष्ठा यज्ञायज्ञियम् , बृहद्रथन्तरे पक्षौ, यद् बृहद्रथन्तरे अभितो गायते , आत्मन्न् एव पक्षौ धत्ते, यज्ञं वै देवानां रक्षांस्यजिघांसन् , तानि बृहद्रथन्तराभ्यां एवापाघ्नत, यद् बृहद्रथन्तरे अभितो गायते रक्षसामपहत्यै, प्रजापतेर् हृदयमपिपक्षे गायते, तस्मादिदमपिपक्ष आत्मनो हृदयमनृचं गायते, तस्मादनस्थकं हृदयम्, अर्यैः्र सामभिरर्कं परिष्टुवन्ति, सतनूरर्को निधीयते ॥

3.3.6 अनुवाकः6
वरुणमेनिर्वा एष एतर्ह्याभीद्धस्तिष्ठति, स एनं तर्ह्यधीयात्, तस्य प्राणेन वीयात् , मण्डूकेनाध्येति, तस्यैव प्राणेन व्येति, न ग्राम्यान् पशून् हिनस्ति नारण्यान् , अवकया विकर्षति , अपां वा एषा योनिर्यदवका , अपां वा एतद् योनिनाग्नेः शुचं शमयति , अपां वा एतद् रूपं यदवका , अपां वा एतद् रूपेणाग्नेः शुचं शमयति, वेतसेनाध्येति , अपां वा एतत् पुष्पं यद् वेतसो , अपां वा एतत् पुष्पेणाग्नेः शुचं शमयति, सप्तभिर्विकर्षति, सप्त वै छन्दांसि, छन्दोभिर्वा एतदग्नेः शुचं शमयति , अथो ब्रह्म वै छन्दांसि, ब्रह्मणा वा एतदग्नेः शुचं शमयति , अग्निर्वै सृष्टो भागधेयमैच्छत्, स प्रजापतिमेवोपाधावत्, तस्मा अन्नं प्रायच्छत् कंत्वाय, तदस्मै कमभवत् , अन्नं वै कं, अन्नेन वा एतदग्निम् उपचरति कंत्वाय, कं हास्मा अग्निं चिक्यानाय भवति, पराञ्चमध्येति, पराङ् हि पशुः शान्तरथो, पराङ् हि पशुः पशौ रेतो दधाति , अन्यांस्ते अस्मत्तपन्तु हेतयः, पावको अस्मभ्यं शिवो भवेति , अन्नं वै पावकं, अन्नेन वा एतदग्नेः शुचं अन्तर्धत्ते, हिरण्यशकलैर् व्याघारयति, अमृतं वै हिरण्यम् , तेजोऽग्नि , रमृतेन वा एतत्तेजो व्याघारयति, पञ्चभिर् व्याघारयति, पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्ध, द्वया वै देवा यजमानस्य गृहमागच्छन्ति, यद् दध्ना मधुसंश्लिष्टेन व्यवोक्षति तान् एव प्रीणाति, सर्वमनु व्यवोक्षति, सर्वान् एवैनान् प्रीणाति, तिसृभिर् व्यवोक्षति, त्रिवृद्ध्यग्नि, स्त्रिष्टुब्भिर् व्यवोक्षति , इन्द्रियस्यावरुद्यैणा , अन्नवतीभिर् व्यवोक्षति , अन्नाद्यस्यावरुद्यैर्, दर्भगुरुमुष्टिना व्यवोक्षति, सं हि प्राजापत्यः, प्राणैर्वा एष व्यृध्यते योऽग्निमध्येति, यदाह, प्राणदा अपानदा इति, प्राणान् एवात्मन् धत्ते, प्रजया च वा एष पशुभिश्च व्यृध्यते योऽग्निमध्येति, प्रजा वै वर्चः, पशवो वरिवो , यदाह, वर्चोधा वरिवोधा इति, प्रजां चैव पशूंश्चात्मन् धित्वावरोहति ॥

3.3.7 अनुवाकः7
इन्द्रो वै वृत्रमहन् , स प्राङ् अपद्यत, स पद्यमाना इन्द्रं षोडशभिर् भोगैः पर्यगृह्णात्, स वा अग्निनैव वृत्रस्य भोगानपिदह्य वैश्वकर्मणाभ्यां पाप्मनस्तमसो निरमुच्यत , अग्निस्तिग्मेन शोचिषेति यज्जुहोति , अग्निना वा एतत्पाप्मनो भोगानपिदह्य वैश्वकर्मणाभ्यां पाप्मनस्तमसो निर्मुच्यते, नाना जुहोति सूक्तयोर्नानावीर्यत्वाय, षोडशगृहीतेन जुहोति, षोडशभिर् हि स तं भोगैः पर्यगृह्णात् , एतेन वै स वृत्रस्य भोगेभ्यो निरमुच्यत, तत्पाप्मन एवैतेन भोगेभ्यो निर्मुच्यते , अथैतदप्रतिरथं, एतेन वै देवा असुरान् प्रत्यजयन् , तदप्रतिरथस्याप्रतिरथत्वं , तदप्रत्येवैतेन यजमानो भ्रातृव्यं जयति , एतेनैव याजयेत् , संग्रामे जयति संग्रामं, एतेनैव याजयेद् भ्रातृव्यवन्तं यो वास्य प्रियः स्यात् तं , भवत्यात्मना, परास्य भ्रातृव्यो भवति , एतेन वै भरद्वाजः प्रतर्दनं दैवोदासिं समनह्यत्, स राष्ट्रम् अभवत् , यं कामयेत राष्ट्रियमयं राष्ट्रं स्यादिति, तं एतेन संनह्येत् , राष्ट्रं ह भवति , एतेन वै देवा विराजमभ्यजयन्, दशान्वाह, दशाक्षरा विराट् , विराजं एवैतेनाभिजयति, दक्षिणतो वै देवानां यज्ञं रक्षांस्यजिघांसन् , तानि वा अप्रतिरथेनैवापाघ्नत, यद् ब्रह्माप्रतिरथं दक्षिणतो वदन्न् एति रक्षसामपहत्यै ॥

3.3.8 अनुवाकः8
उदेनं उत्तरं नये, ति समिधा आदधाति, प्रह्रियमाणायैवास्मै भागं अक, स्तिस्र आदधाति, त्रिवृद्ध्यग्नि , रुदु त्वा विश्वे देवा इति, विश्वे हीदं देवाः स्मो यन्मनुष्या , अग्ने भरन्तु चित्तिभिरिति, यस्मा एव चित्तायाग्निराधीयते तेनैनं चित्तेन समर्धयति, पञ्च दिशो दैवीर्यज्ञमवन्तु देवीरिति , इमा एवैनं पञ्च दिशोऽनु तेजस्विनं करोति , उक्थपत्रा ईड्यो गृभीत इति , उत्थपत्रो ह्येष परिगृह्य यज्ञमायन्न् इति, परिगृह्य ह्येतं यन्ति, हरिकेशः सूर्यरश्मिः पुरस्तादिति , असौ वा आदित्यो हरिकेशः सूर्यरश्मिः पुरस्तात्, सविता ज्योतिरुदयं अजस्र, मित्याह प्रसूत्या एव, तस्य पूषा प्रसवे याति विद्वान् इति, पशवो वै पूषा, पशून् एवावरुन्धेप्, ततो वाका आशिषो नो जुषन्तामिति , आशिषां वा एष दोह , आशिष एव दुहे , इन्द्रं विश्वा अवीवृधन्न् इति वृधद्वत्या यन्ति, वृद्धिं एवोपयन्ति , अनुष्टुभा यन्ति, वाग् वा अनुष्टुप् , वैश्वदेवी वाक् , वैश्वदेवोऽग्नि, स्तस्मादनुष्टुभा यन्ति, षड्भिराग्नीध्राद्यन्ति, षड् वा ऋतव , ऋतुभिरेव यन्ति, विमान एष दिवो मध्य आस्ता, इत्यश्मानं सादयति, विमानो ह्यसा आदित्यः स्वर्गस्य लोकस्य, सुम्नहूर्यज्ञ आ च वक्षद्, यक्षदग्निर्देवो देवं आ च वक्षदिति , आशीरेवैषा देवहूर्यज्ञ आ च वक्षद्, यक्षदग्निर्देवो देवं आ च वक्षदिति , आशिष एवैष परिग्रहो , वाजस्य मा प्रसवेनोद्ग्राभेणोदजिग्रभदिति , असौ वा आदित्य उद्ग्राभ , एष निग्राभ, उद्यन् वा एतद्यजमानं उद्गृह्णाति, निम्रोचन्नस्य भ्रातृव्यं निगृह्णाति , उद्ग्राभश्च निग्राभश्चेति, ब्रह्म वा उद्ग्राभो , ब्रह्म निग्राभो , ब्रह्मणा वा एतद्यजमानं उद्गृह्णाति, ब्रह्मणास्य भ्रातृव्यं निगृह्णाति , अथा सपत्नानिन्द्राग्नी मे विषूचीनान् व्यस्यतामिति , ओजो वै वीर्यमिन्द्राग्नी, ओजसा वा एतद्वीर्येण यजमानो भ्रातृव्यं विष्वञ्चं विनुदते, चतुर्भिराहवनीयाद्यन्ति, चत्वारि वै छन्दांसि, छन्दोभिरेव यन्ति , अथो ब्रह्म वै छन्दांसि, ब्रह्मणैव यन्ति ॥

3.3.9 अनुवाकः9
क्रमध्वं अग्निना नाकं इत्या, ह स्वर्गस्य लोकस्य समष्ट्यै, दिवः पृष्ठं स्वर्गत्वेति, पृष्ठेन हि यन्ति , ऊर्जं नो धेहि द्विपदे चतुष्पदा इति, द्विपात्सु चैव चतुष्पात्सु च पशुषूर्जं दधाति , इयक्षमाणा भृगुभिः सहेति, भृगवो ह्यग्रे यज्ञेनार्नु ्वन्न् ऋद्यैपश, पृथिव्या अहं उदन्तरिक्षमारुहं, अन्तरिक्षाद्दिवमारुहं इति , एषां वा एष लोकानां समारोहः, पञ्चभिराक्रमते, पाङ्क्तो यज्ञो , यज्ञेन वा एतद्यज्ञमभ्यारोहति अप्रतिनोदाय, कृष्णायाः श्वेतवत्सायाः पयसा जुहोति , अहर्वै वत्सो , रात्रिर्माता , अह्ने वा एतद् रात्रीं प्रदापयति, प्रत्ते ह वा अहोरात्रे दुहे य एवं वेद, सर्वे वै पशवो नानारूपाः सन्तः पय एव प्रत्येकरूपा , यदेव प्रत्येकरूपास्तदेनान् प्रत्यवरुन्धेर्, नक्तोषासा , अग्ने सहस्राक्ष, सुपर्णोऽसि गरुत्मान्, पृष्ठे पृथिव्याः सीदेति , एषु वा एतं लोकेषु ज्योतिष्मन्तमग्निं निधत्ते , अथो प्राणानां विधृत्यै, द्वाभ्यां सादयति, द्विपाद्यजमानः प्रतिष्ठित्यै , आजुह्वानः सुप्रतीकः पुरस्तादित्याह, स्वर्गस्य लोकस्य समष्ट्यै, तां सवितुर्वरेण्यस्य चित्राम् इति , एतं वै कण्वः श्रावयसोऽग्नेर् दोहं विदांचकार , अग्नेर्वा एष दोहो , अग्निं वा एतेनाग्निचिद् दुहे, सर्वान् ह वा अस्मा अग्निर् दोहान्त्सर्वान् कामान् दुहे य एवं वेद, विधेम ते परमे जन्मन्नग्ना, इत्याह, ऋद्यादो एव, प्रेद्धो अग्ने दीदिहि पुरो ना इति , एषा वै कर्णकवती सूर्म्यजस्रं ज्योति , रजस्रं वावास्मा एतज्ज्योतिर् अप्यधात् , एतां वै वासिष्ठः सात्यहव्यः सत्त्रिणा आसीनान् पप्रच्छ, विद कर्णकवतीं सूर्मीम् इति, विद्मेति होचुर् या वनेषु तां विद्मेति, पशवो वा एतस्याः कर्णाः, पशुमान् भवति , एतां वै वज्रं शतघ्नीं विघ्नीं देवा असुरेभ्य उपप्रावर्तय, स्तेषां शततर्हमदृंहं , स्तदेतामेव वज्रं शतघ्नीं विघ्नीं यजमानो भ्रातृव्यायोपप्रावर्तयति, शततर्हं ह दृंहति , अग्ने तमद्येति पङ्क्त्या जुहोति, यजमानो वै पङ्क्ति , र्यजमानं वा एतद्विराजि प्रतिष्ठापयामक, रथो पङ्क्त्यै वाहुत्या यज्ञं आलभते, सप्त ते अग्ने समिधः सप्त जिह्वा इति , एतावतीर्वा अग्नेस्तन्वः षोढा सप्त सप्त, यो वा अस्यैता अग्निं चिक्यानो वितर्षयति वि ह तृष्यति, ता एवास्य तर्पयति, चितिं जुहोमि मनसेति , एषा वा अग्नेरदाभ्याहुतिर्वैश्वकर्मणी, नैनं भ्रातृव्यो दभ्नोति , अग्निं चिक्यानं प्र समानाना ज्यैष्ठ्यमाप्नोति य एवं वेद , अग्निर्वा अमन्यत, न वा अहं इदमभागधेय, स्तेजो यंस्यामीति, तदेतेन भागधेयेनायच्छत् , एतद्वा अग्निरग्निहोत्रम्, अग्निं वा एतेनाग्निचिद्यच्छति, सर्वान् ह वा अस्मा अग्निर् दोहान्त्सर्वान् कामान् दुहे य एवं वेद, सं वा एतदग्निमिन्धेिे यच् चिनोति, तं दीपयत्येवाग्निरग्निहोत्रेण ॥

3.3.10 अनुवाकः10
अथैषोऽग्नये वैश्वानराय द्वादशकपालः, संवत्सरो वा अग्निर्वैश्वानरः, संवत्सरमेव प्रीणाति , अथो प्राहृतायैवास्मै भागं अकर्, आहुतीनां वै प्रतिष्ठित्या यजमानः प्रतितिष्ठति , आहुतीनामप्रतिष्ठित्या न प्रतितिष्ठति, यदेतं जुहोति , आहुतीनां प्रतिष्ठित्यै, ताः प्रतितिष्ठन्तीर्यज्ञोऽनुप्रतितिष्ठति, यज्ञं यजमानो , अथो कामो वै वैश्वानरो , यत्कामो भवति सं हास्मै स कामो नमति, यत् प्राङ् पर्यावर्तेत दैवीर्विशो मुह्येयु , र्यद् दक्षिणा यमदेवत्या स्यात् , यत् प्रत्यङ् सौर्यो , यदुदङ् रौद्र , ऋजु होतव्यः प्रतिष्ठित्यै, सर्वहुतं करोति प्रतिष्ठित्यै, क्षत्रं वै वैश्वानरो , विण् मारुता , यदेतं हुत्वा मारुतान् जुहोति विशँ वा एतत् क्षत्राय नियुनक्ति , अथो विशमेव क्षत्रायानुकां करोति , अग्निमुखान्वै प्रजापतिः पशूनसृजत, पशवो मारुता , यदेतं हुत्वा मारुतान् जुहोति , अग्निमुखान् एवास्मै प्रजापतिः पशून् प्रजनयति, सप्तकपाला भवन्ति, सप्त सप्त मारुता गणा, स्तस्मात्सप्तकपाला , गणेन गणेन जुहोति, गणश एव मरुतः प्रीणाति, योऽरण्येऽनुवाक्यो गणस्तन्मध्यतो जुहुयात्, क्षत्रं वा एष, मरुतां विड् इतरे, विशो वा एतत् क्षत्रं मध्यमेष्ठं करोति, यदि कामयेत, विशा क्षत्रं हन्याम् इति, योऽरण्येऽनुवाक्यो गणस्तम् इतरैर्गणैर् मोहयेत् , विशा वा एतत् क्षत्रं हन्ति, यदि कामयेत, क्षत्रेण विशँ हन्याम् इति, योऽरण्येऽनुवाक्यो गणस्तेनेतरान् गणान् मोहयेत् , क्षत्रेण वा एतद्विशँ हन्ति, तस्य त्रिष्टुभौ याज्यानुवाक्ये स्याताम्, ओजो वै वीर्यं त्रिष्टुप् , ओजो वा एतद्वीर्यं विश आदाय क्षत्रायापिदधाति, यदि कामयेत, क्षत्रेणास्य क्षत्रं हन्यां, प्र स्वादायतनाच् च्यवेतेति, योऽरण्येऽनुवाक्यो गणस्तेनाग्निष्ठं रथवाहनं व्यङ्गयेत्, क्षत्रं वा एष मरुतामग्निष्ठं रथवाहनं , क्षत्रियस्य क्षत्रं बिभर्ति, क्षत्रेणैवास्य क्षत्रं हन्ति, प्र स्वादायतनाच् च्यवते , इन्द्रं दैवीर्विशो मरुतोऽनुवर्त्माना इति , एतद्वै देवानामनुवर्त्म, दैवीं च वावास्मा एतद्विशं मानुषीं चानुवर्त्मानौ करोति, सं वा एतदग्निमिन्धेर् यच् चिनोति, तं दीपयत्येव मारुतैः ॥
इत्य् उपरिकाण्डे स्तोमभागो नाम तृतीयः प्रपाठकः ॥