मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः ०२

विकिस्रोतः तः

अग्निचिति-ब्राह्मणम् (दृशानः)

3.2.1 अनुवाकः1
दृशानो रुक्म उरुया विभातीति रुक्मं प्रतिमुञ्चते , अमृतं वै हिरण्यम् , मृत्योरेतद् रूपं यदग्नि, र्यत्पाशो अमृतेनैव मृत्युमन्तर्धत्ते , अथैते निर्बाधा, देवाश्च वा असुराश्चास्पर्धन्त, ते देवा एतान् निर्बाधानपश्यन् , तैरसुरान् एभ्यो लोकेभ्यो निरबाधन्त, तन् निर्बाधानां निर्बाधत्वं , तदेतैरेव निर्बाधैर्यजमानो भ्रातृव्यं एभ्यो लोकेभ्यो निर्बाधते , एकविंशतिनिर्बाधो भवति प्रतिष्ठित्यै , उपरिष्टान् निर्बाधं बिभर्ति , अधस्तान् निर्बाधं सादयति भ्रातृव्यस्य विनुत्त्यै, नक्तोषासा समनसा विरूपा इति , अहोरात्राभ्यां एवाग्निमाधत्ते, धापयेते शिशुमेकं समीची, इति एतं ह्येते धापयेते शिशुमेकं समीची, द्यावाक्षामा रुक्मो अन्तर्विभातीति , एष ह्येतयो रुक्मोऽन्तर्विभाति, देवा अग्निं धारयन् द्रविणोदा इति, प्राणा वै देवा द्रविणोदाः, प्राणैरेवाग्निम् उद्यच्छते, विश्वा रूपाणि प्रतिमुञ्चते कविरिति, विश्वा हि रूपाण्यग्निः, प्रासावीद् भद्रं द्विपदे चतुष्पदा, इत्याह प्रसूत्या एव, वि नाकमक्शत्सविता वरेण्या इति, सवितॄप्रसूत एवाग्निं बिभर्ति , अनु प्रयाणं उषसो विराजतीति, तस्मादुषसो व्युष्टिमन्व् अग्निराधीयते, सुपर्णोऽसि गरुत्मान् , त्रिवृत्ते शिरो, गायत्रं चक्षुरिति , अग्नेर्वा एषा संभृति , रग्निमेतत् संभरति, तस्मात् संभरति, तस्मात्सर्वैरङ्गैः पशुर्जायते, पशुर्ह्यग्नि, र्दिवं गच्छ स्वः पते, त्याह स्वर्गस्य लोकस्य समष्ट्यै , अथैते क्रमा , देवाश्च वा असुराश्चास्पर्धन्त, ते देवा एतान् क्रमानपश्यन् , तैरसुरान् एभ्यो लोकेभ्यः प्राणुदन्त, ताननपजय्यमजयन् , तदेतैरेव क्रमैर्यजमानो भ्रातृव्यं एभ्यो लोकेभ्यः प्रणुदते , अनपजय्यं ह जयति, षडुद्यावं शिक्यं भवति, षड् वा ऋतव , ऋतुभिरेवाग्निं परिगृह्णाति , उपरिनाभि बिभर्ति , उपरिनाभि ह्यात्मनः सदेवं , सदेव एव देवता आत्मन् बिभर्ति, यदधोनाभि बिभृयाद् योनिं निर्दहेत् , अथोऽवधैनं घातुकं स्यात्, प्रक्रामति, तस्माद् ग्राम्याः पशवः प्रेरते , अथ यत् पुनरभ्यावर्तते तस्मात् पुनः समावर्तन्ते , ऊर्जा वा एष पशुभिरुत्क्रामन्त् सहोत्क्रामति, पुनर् ऊर्जा निवर्तस्वेति, तद् ऊर्जं एव पशून् पुनरवरुन्धेत्, पुनर्वतीर्भवन्ति समृद्ध्यै, चतसृभिरभ्यावर्तते, चतुष्पादो वै पशवः, पशून् एवावरुन्धेधे , इत्थं पर्यावर्तते , एवं हि यज्ञः पर्यावर्तते , अथो अमुष्य वा एतदादित्यस्यावृतमनु पर्यावर्तते , आ त्वाहार्षमन्तरभूरिति अन्तर् ह्येष एतर्हि , उदुत्तमं वरुण पाशमस्मदिति, वरुणपाशमेवोन्मुञ्चते , आत्मनोऽहिंसायै , अग्ने बृहन्नुषसां ऊर्ध्वो अस्थादिति, ज्योतिषैवैनं समर्धयति, हंसः शुचिषद्वसुरन्तरिक्षसदिति सादयति, सप्त एवैनं होत्रासु प्रतिष्ठापयति , अथो सप्त वा एतेन साप्तानि अग्नेर् ऋध्नोति , आ सप्तमात् पुरुषादन्नादो भवति, रेतो वा अग्नि , अन्तरिक्षं वै रेतोऽनुषिच्यते, यदधो निदध्यादधृताः पशूनां गर्भाः प्रपादुकाः स्यु , रथ यदुपरि सादयति अन्तरिक्षसदं एवैनं अकर् गर्भाणां धृत्यै, सूयते वा एषोऽग्नीनां यश्चीयते, तस्मादेष आसन्दीसत् , सीद त्वं मातुरस्या उपस्था इति , इयं वा अग्नेर् योनिः, स्व एवैनं योनौ संवेशयति, तिसृभिरुपतिष्ठते, त्रिवृद्ध्यग्निः ॥

3.2.2 अनुवाकः2
अथैतद्वात्सप्रम् , एतेन वै वत्सप्रीर्भालन्दनोऽग्नेः प्रियं धामाराध्नोत् , तदग्नेरेवैतेन प्रियं धाम राध्नोति , आगामुकं एनं प्रियं भवति, वत्सप्रियं वै भालन्दनं ऋषयोऽध्यवदन् , स्तेना इति, स एतत् सूक्तमपश्यत् , तेनाधिवादमपाजयत् , तेनापचितिम् अगच्छत् , तदधिवादं एवैतेनापजयति , अपचितिमेव गच्छति, द्वादशभिरुपतिष्ठते, द्वादश मासाः संवत्सरः, संवत्सरमेवाप्त्वावरुन्धेअप, त्रिष्टुभो भवन्ति , इन्द्रियस्यावरुद्यै े , अन्येद्युः प्रक्रामयत्यन्येद्युरुपतिष्ठते, योगक्षेमं वा एतत् प्रजानां दाधार, तस्माद्यायावरा अन्याः प्रजाः, क्षेम्या अन्या , अथ यत् प्रक्रम्योपतिष्ठते तस्माद्यायावरः क्षेम्यमभिप्रयाति, तस्माद्यायावरस्य क्षेम्योऽन्नं बभूव, यदहश्चेष्यमाणः स्यात्तदहरुभयं समस्येत् , प्र च क्रामेदुप च तिष्ठेत, योगक्षेमं वा एतदन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्ते , उदु त्वा विश्वे देवा इति, विश्वे हीदं देवाः स्मो यन्मनुष्या , अग्ने भरन्त चित्तिभिरिति, यस्मा एव चित्तायाग्निराधीयते तेनैनं चित्तेन समर्धयति, प्रेदग्ने ज्योतिष्मान् याहीति, ज्योतिषैवैनं समर्धयित्वा प्रवापयति , अक्रन्ददग्निः स्तनयन्निव द्यौरित्यनुब्रूयाद्यद्ध्यक्ष उत्वे िछादेदीश्वरो वा एष उत्वेनुषेदन् यजमानस्य प्रजां पशून् निक्ष्वद, स्तत् क्रदितं एवास्याकरथो शमयित्वैवाशिषं आशास्ते, समिधाग्निं दुवस्यतेति गायत्र्या ब्राह्मणस्यादध्यात् , गायत्रो हि ब्राह्मणः त्रिष्टुभा राजन्यस्य, त्रैष्टुभो हि राजन्यो , द्वाभ्यां गायत्रीभ्यां वैश्यस्य, ये हि द्वे गायत्र्यौ सा जगती , अथो ब्रह्मणे वा एतद्विशमन्नं करोति, यदि भस्म प्रतिपूर्येताप्सु प्रवेशयेत् , आपो वा अग्नेर् योनिः, स्व एवैनद् योनौ दधाति, पुरीषं कुर्यात् पशुकामस्य, पशवो वै पुरीषं , पशुमान् भवति , इष्टका वा संयुयात्, तेनास्य सर्वा आग्नेयीरिष्टका भवन्ति , ऊर्जा वा एष पशुभिरुत्सीदन्त्सहोत्सीदति, पुनर् ऊर्जा निवर्तस्वेति, तद् ऊर्जं एव पशून् पुनरवरुन्धेका, बोधा मे अस्य वचसो यविष्ठे, ति बोधद्वतीभ्यां उपतिष्ठते, तस्मात् प्रजाः सुप्त्वा पुनः प्रबुध्यन्ते, द्वाभ्यां उपतिष्ठते, द्विपाद्यजमानः प्रतिष्ठित्यै ॥

3.2.3 अनुवाकः3
अपेत वीत वि च सर्पताता, इत्याह, यमदेवत्यो वा अयं लोको, यमोऽमुष्य लोकस्याधिपत्यमानश, यद्यमाद्देवयजनं अनिर्याच्याग्निं चिन्वीतायमदेवत्योऽस्याग्निः स्यादस्वर्ग्यो , यदाह , अदादिदं यमोऽवसानं पृथिव्या अक्रन्निमं पितरो लोकमस्मा इति, यमाद्वा एतेनास्या देवयजनं निरयाचिष्ट, स्मृते देवयजनेऽग्निं चिनुते, यमदेवत्योऽस्याग्निर्भवति स्वर्गे , उद्घ्नन्ति, यदेवास्या अयज्ञियममेध्यं तदुद्घ्नन्ति, व्याममात्रम् उद्घ्नन्ति , एतावद्वै पुरुषे वीर्यम् , वीर्यसम्मिते चीयते , अथो एतावान् वै पुरुषे महिमा महिम्नोऽवरुद्यैषे , अवोक्षति, यदेवास्या उद्घ्नन्तः क्रूरम् अक्रंस्तदक्रूरं अक, स्तच् शमयति , अथो आपो वा अग्नेर् योनिः, स्व एव योनौ चीयते , अग्नेर्भस्मास्यग्नेः पुरीषमसी, ति सिकता निवपति , अग्नेर्वा एतद् वैश्वानरस्य भस्म यत् सिकता, स्व एव भस्मंश्चीयते, योनिर्वै सिकता, रेता ऊषा , यत् सिकता न्युप्योषान् निवपति योनौ वा एतद् रेतो दधाति, तस्माद् योनौ रेतो हितं , तस्माद् योने रेतः प्रजायते, प्रजापतिः प्रजा असृजत, ता वा ऊषेभ्य एव योनेरसृजत, प्रजननं वा ऊषाः, प्रजनने वा एतदग्निश्चीयते , इमे वै सहास्ताम् , ते वियती अब्रूता, मस्तु नौ प्रियं धाम सहेति , आपो वा अस्या यज्ञिया मेध्या, स्ता अमू , रूषा अमुष्या यज्ञिया मेध्या, स्त इमे, यदापश्चोषाश्च भवन्ति यदेवैनयोर्यज्ञियं मेध्यं तदवरुन्धेचो , अथो अनयोरेवैनं प्रिये धामन् निधत्ते, संज्ञानं वा ऊषा , उभये वा एतान् पशवोऽभिसंजानते, ये ग्राम्याः पशवो ये चारण्या , उभये हैनं पशवोऽभिसंजानते, चतस्रः प्राचीः सादयति, चत्वारि वै छन्दांसि, छन्दोभिर्वै देवाः स्वर्गं लोकमायन् , ते दिशा आक्रमन्त, ता अव्लीयन्त, ता एताभिरदृंहन् , यदेता उपधीयन्ते दिशां धृत्यै , पशवो वा इष्टका , गार्हपत्यं वै पशवोऽनूपतिष्ठन्ते, द्वे समीची पुरस्तादुपदधाति , द्वे समीची पश्चात् , उभयत एवास्मै समीचः पशून् उपदधाति पशूनां परिगृहीत्यै , अष्टोपदधाति , अष्टाक्षरा गायत्री, गायत्रोऽग्नि, र्यावान् एवाग्निस्तं चिनुते , एकविंशतिः कार्या प्रतिष्ठित्यै, प्रतिष्ठा ह्येकविंशो , अथो एकविंशतिविधो हि गार्हपत्य, स्त्रिचितिकः कार्य, स्त्रयो वा इमे लोका, इमान् एव लोकानाप्नोति, पञ्चचितिकः कार्यः, पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्ध, चतुर्भिः संनिवपति, चत्वारि वै छन्दांसि, छन्दोभिरेव संनिवपति , अथो ब्रह्म वै छन्दांसि, ब्रह्मणैव संनिवपति, क्षत्रं वा एषोऽग्नीनां यश्चीयते, क्षत्रं य उख्यो , ब्रह्म यजु , र्यद्यजुषा संनिवपति ब्रह्मणा वा एतत् क्षत्रं संनयति, तस्माद् ब्रह्मणा क्षत्रं सं चैति वि च, द्वौ वा एतौ व्याघ्रौ सं पद्येते, ता ईश्वरा अशान्तौ यजमानं हिंसितो , र्यदाह, भवतं नः समनसौ समोकसौ सचेतसा अरेपसा इति, शमयत्येव, शान्त एव न्युप्यते यजमानस्याहिंसायै , ऋतुभिर्वै पृथिव्या वीर्यमुद्यतं , तद् ऋतुभिः पुनर्विमुच्यते, यदाह, प्रजापतिर् विश्वकर्मा विमुञ्चत्व् इति, प्रजापतिरेवैनां विश्वकर्मा विमुञ्चति ॥

3.2.4 अनुवाकः4
अथैता नैर्ऋती, स्तिस्रस्तुषपक्वा भवन्ति , एतद्वै नैर्ऋतमन्नस्य यत् तुषाः, कृष्णा भवन्ति , एतद्धि निर्ऋत्या रूपं, एतां दिशँ हरन्ति , एषा हि निर्ऋत्या दिक्, ताः स्वकृता इरिणे पराचीर् निदधाति , एतद्वै निर्ऋतिगृहीतं पृथिव्या , निर्ऋतिगृहीत एव निर्ऋतिं निरवदयते, प्राणमेवास्य प्रथमया मुञ्चति , अपानं द्वितीयया, व्यानं तृतीयया , अथो त्र्यक्षरो वै पुरुषो, यावान् एव पुरुषस्तं निर्ऋत्याः पाप्मनो मुञ्चति, निर्ऋतिर्वै कर्मण उपद्रष्ट्रिका, तां वा एतत् स्वेन भागधेयेन शमयित्वाथ सवितृप्रसूतोऽग्निं चिनुते, यं ते देवी निर्ऋतिराबबन्धेति, जालं इष्टकास्व् अध्यस्यति निर्ऋतिपाशमेवोन्मुञ्चते , आत्मनोऽहिंसायै ॥
यदस्य पारे रजसो महश्चित्रं ज्योतिर् अजातय । तन् नः पर्षदति द्विषोऽग्ने वैश्वानरः ॥
स्वाहेत्यपः परिषिञ्चन् पर्येति निर्ऋत्या अनन्ववायाय, भूत्यै नमा, इत्युक्त्वावर्तते, भूतिरेव भूत्वावर्तते , आत्मनोऽहिंसायै , अनपेक्षमाणा आयन्ति निर्ऋत्या अनन्ववायाय, परोगोष्ठं मार्जयन्ते, परोगोष्ठमेव निर्ऋतिं निरवदयन्ते , इन्द्रियेण वा एष वीर्येण व्यृध्यते यो नैर्ऋतीरुपधत्ते, निवेशनः संगमनो वसूना, मित्य् ऐन्र्याे गार्हपत्यं उपतिष्ठते , इन्द्रियेणैवात्मानं समर्धयति, त्रिष्टुभोपतिष्ठते , ओजो वै वीर्यं त्रिष्टुप् , ओजस्येव वीर्ये प्रतितिष्ठति, गार्हपत्यो ऽग्रे चीयते प्रतिष्ठित्यै, गार्हपत्ये वै देवाः प्रतिष्ठाय प्राञ्चः स्वर्गं लोकमभिजयन्त आयन् , यावान् पुरुष ऊर्ध्वबाहुस्तावता वेणुना विमिमीते , एतावद्वै पुरुषे वीर्यम् , वीर्येणैव विमिमीते , अथो एतावान् वै पुरुषे महिमा, महिम्नोऽवरुद्यैद्, यो वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो, वेणुर्वै वनस्पतीनां फलग्रहितमः, स एषां वीर्यवत्तमो, अन्नं वै फलं, अन्नमर्को , अर्कोऽग्नि , रर्केण वा एतदन्नमर्कमग्निं विमिमीते, सप्त पुरुषान् प्रमिमीते, सप्तभ्य एव पुरुषेभ्यो लोकं विन्दति , आ सप्तमात् पुरुषादन्नादो भवति , अरत्निमात्रं पक्षयोरत्युपदधाति, पक्षं बृहद्धि वयः, षड्भिः कृषति, षाड् वा ऋतव , ऋतुभिरेव कृषति , इत्थमभ्यावर्तन्त, कृषति , एषा हि देवानामावृ, दथो अमुष्य वा तदादित्यस्यावृतमनुपर्यावर्तन्ते, तिस्रस्तिस्रः सीताः संपादयति, त्रिवृद्ध्यग्नि , र्द्वादश सीता भवन्ति, द्वादश मासाः संवत्सरः, संवत्सरस्य वा एष विधामनुविधीयते , इयं वा अबिभेत् , अग्निर्मातिधक्ष्यतीति, यत् कृषति अस्या वा एतद् द्विगुणं क्रियते , अनतिदाहाय , अथो पृथिव्या वा एतद् द्विगुणेनाग्नेर् वीर्यमुद्यच्छन्ते , एतां दिशमुत्सृजन्ति , एषा हि देवानां दिक् , अथो स्वर्गं एवैनां लोकमनूत्सृजन्ति ॥

3.2.5 अनुवाकः5
कृष्टे वपति, कृष्टे ह्योषधयः क्षेपिष्ठं प्रतितिष्ठन्ति , अन्नस्यान्नस्य वपत्य् ओषधीनां ऋग्भि, र्ब्रह्म वा ऋक् , ब्रह्मणैवास्मा अन्नाद्यमवरुन्धेस्, चतुर्दशभिर्वपति, द्वादश मासाः संवत्सरो , अथ य एते चतुर्दशे अहोरात्रे एवैते, तत् संवत्सरेण च वावास्मा एतदहोरात्राभ्यां चान्नाद्यमवरुन्धेतु , अन्नं वै फलं, अन्नमर्को , अर्कोऽग्नि , रर्केण वा एतदन्नमर्कमग्निं वपति, यस्यान्नस्य निवपति यत्तस्याश्नीयाद्यानि अवरुद्धानि तैर् व्यृध्येत , इध्मे तस्यापिकुर्यात् , अथो तन्मनसा ध्यायेत् , तेनैव तदवरुन्धेर्, यदि सर्वं न संविन्देद्यवान्मधूद्युतान्वपेत् , यद्यवा ग्राम्यं तेनान्नाद्यमवरुन्धेपि, यन्मध्व् आरण्यं तेन, तेनैव तदुभयम् अवरुन्धेद् , अथैते संभारा , दिग्योधे वा एतत् पृथिव्या ऊर्जं संभरति , ऊर्य्यग्निश्चीयते, यां जनतां कामयेत, क्षोधुका स्यादिति , इषं ऊर्जमहमित आदीति, तस्या अर्धादाददीत, क्षोधुका ह सा जनता भवति, कामं कामदुघे धुक्ष्व , इत्यभिमृशति, तेनास्य सर्वा इष्टकाः कामदुघा भवन्ति , उत्तरवेदिं निवपति , उत्तरवेदिम् इत्येवास्याग्निश्चीयते , अथो यज्ञपुरुषोऽनन्तर्हित्यै , अग्निर्वा एष न्युप्यते यदुत्तरवेदि , र्यदुत्तरवेदिं न्युप्याग्निं चिनोति , अग्नौ वा एतदग्निश्चीयते , अग्ने तव श्रवो वया, इति सिकता निवपति , एता वै वैश्वानरीरिष्टका अपरिमिता , एतदग्नेरपरिमितं चीयते , अग्नेर्वा एतद् वैश्वानरस्य सूक्तं, एषा वा अग्नेः प्रिया तनूर्यद्वैश्वानरः, प्रियायां वा एतत् तन्वामग्निश्चीयते, सतनूरर्को निधीयते, लोमशं वा एतच् छन्दः पशव्यं ऊनातिरिक्तं प्रजननाय , अशीत्यक्षरं, एतेन वै देवाः स्वर्गं लोकमायन् , तदस्याशीत्यक्षरत्वं , समुद्रं वा एतच् छन्दो , योनिः समुद्रः, सोमो रेतोधा , यत्सौमीभ्यां व्यूहति योनौ वा एतद् रेतो दधाति, तस्माद् योनौ रेतो हितं, आप्यानवती भवत, स्तस्माद् योनौ रेता आप्यायते, छन्दोभिर्वा अग्निरुत्तरवेदिमभिप्रह्रियते, या अग्नौ प्रह्रियमाणेऽन्वाहुस्तां तर्हि मनसा ध्यायेत् , छन्दोभिरेवैनं उत्तरवेदिमभिप्रहरति, मनसान्वाह , अनिरुक्तं इव ह्येतदव्यावृत्तं , व्यावृतं पाप्मना भ्रातृव्येण गच्छति , अश्वं पुरस्तान् नयन्ति रक्षसामपहत्यै , आक्रमयन्ति, य एवैनेन भ्रातृव्यः सदृङ् तं वज्रेणावबाधन्ते, प्राञ्चं प्रक्रमयन्ति, य एवैनं भ्रातृव्योऽति तं वज्रेण प्रणुदते, प्रत्यञ्चमभ्यावर्तयन्ति, य एवैनं भ्रातृव्योऽनु तं वज्रेण प्रतिनुदते, तद् भ्रातृव्यस्य वा एष विनोदः, कृष्णो वै भूत्वाग्निरश्वं प्राविशत् , स एतदगच्छद्यत्र मृगशफो , यदश्वमाक्रमयन्ति, यदेवात्राग्नेर् न्यक्तं तस्यावरुद्ध्यै ॥

3.2.6 अनुवाकः6
तपो योनिरसीति, पुष्करपर्णमुपदधाति, योनिर्वा एषोऽग्नेर्यत् पुष्करपर्णम् , नाभिर्वधकः, सयोनिरेव सनाभिश्चीयते , इयं वा अबिभेत् , अग्निर्मातिधक्ष्यतीति, यत् पुष्करपर्णमुपदधाति अस्या अनतिदाहाय, अधस्तान्नाभि सादयति ओषधीनां प्रतिष्ठित्यै , अथो येऽप्स्वग्नयस्तान् एवावरुन्द्धे, प्रजापतिः प्रजा असृजत, याः पुरा ब्रह्मणोऽसृजत ताभिर्नाराध्नोत् , अथ या ब्रह्ममुखा असृजत ताभिरराध्नोत् , यद् ब्रह्म, जज्ञानं प्रथमं पुरस्ता, दिति रुक्मं उपदधाति , ऋद्ध्या , ऋध्नोत्येव , अथो मिथुनत्वाय, न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवी, त्याहु , अमृतं वै हिरण्यम्, अमृते वा एतदग्निश्चीयते, श्मशानचितो वा एते चीयन्ते, चित्यां चित्यां हिरण्यशकलम् उपास्यति, तेन वा एषोऽश्मशानचित्, तेन स्वर्गो , अथैष पुरुषो हिरण्ययो , यजमानलोकं एवैष दाधार , एष ह त्वेव यजमानोऽग्निनामुष्मिंल्लोके सम्यङ् यस्यैष उपधीयते , अथो मध्ये ज्योतिरेव चीयते, द्रप्सश्चस्कन्द पृथिवीमनु द्यां इत्यभिमृशति, होत्रास्व् एवैनं प्रतिष्ठापयति , अथैतानि सर्पनामानि, मृत्युर्वै सर्पनामानि, यदुपदध्यात् प्रमायुकः स्यात् , तस्मादनुदिशति, सोमे वा एका त्विषि , र्व्याघ्र एका, सर्प एका, ता एवावरुन्धेस्, वामदेवस्य राक्षोघ्नेन व्याघारयति , एतेन वै वामदेवः कुसिताय्याः शिरा आदीपयत् , रक्षसामपहत्यै, पञ्चभिर् व्याघारयति, पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्ध , अथो यावान् एव यज्ञस्तस्माद्रक्षांस्यपहन्ति , अथैते स्रुचौ, कार्ष्मर्यमयीं दक्षिणतः सादयति रक्षसामपहत्यै, दक्षिणतो वै देवानां यज्ञं रक्षांस्यजिघांसन् , तानि कार्ष्मर्येणैवापाघ्नत, यत् कार्ष्मर्यमयीं दक्षिणतः सादयति रक्षसामपहत्यै, घृतस्य पूर्णा भवति , एषा वा अग्नेः प्रिया तनूर्यद् घृतं , प्रिययैवैनं तन्वा समर्धयति, गायत्र्या सादयति, तेजो वै गायत्री ब्रह्मवर्चसं , तेज एव ब्रह्मवर्चसं अवरुन्धेस् , औदुम्बरीमुत्तरतः सादयति दध्नः पूर्णां, ऊर्ग् वा उदुम्बरो , अन्नं दधि , ऊर्ज्येवास्यान्नं दधाति, त्रिष्टुभा सादयति , ओजो वै वीर्यं त्रिष्टुप् , ओज एव वीर्यमवरुन्धेस्, पूर्णे सादयति , अक्षिते यजमानलोकमुपतिष्ठेते, मूर्धन्वतीभ्यां सादयति, मूर्धन्योऽसानीति, विराज्यग्निश्चेतव्या, इत्याहुः, स्रुचौ वै विराजौ, यत् स्रुचा उपदधाति विराजि वा एतदग्निश्चीयते , अथैषा स्वयमातृण्णा , इयं वै प्रथमा स्वयमातृण्णा , अन्तरिक्षं द्वितीया , असौ तृतीया , इमान् एव लोकानुपधत्ते , अश्वमुपघ्राय्य सादयति, प्रजापतिचित एवास्य भवति , अथो प्राणानामुत्सृष्ट्यै, भूरसीति प्राचीम् उदूहेद्यद्येनं भ्रातृव्योऽतीव स्यात् , भूमिरसीति प्रतीचीं यद्यनु , अदितिरसि भूमिरसीति तिरश्चीं यदि सदृङ् , इयं वा अदिति , रनया वा एतद्यजमानो भ्रातृव्यं प्रभूतं प्रणुदते , अनया प्रतिनुदते , अनया विनुदते, तद् भ्रातृव्यस्य वा एष विनोदः, काण्डात्काण्डात् प्ररोहन्ती, ति दूर्वेष्टकाम् उपदधाति , ओषधीनां प्रतिष्ठित्यै, काण्डात्काण्डाद्ध्येषा प्रतितिष्ठतीति, पशवो वा इष्टका , न वै पशवा आयवसे रमन्ते, यद् दूर्वेष्टकाम् उपदधाति , आयतनमिव वा एतत् क्रियते, पशूनां यत्यै , अथैषा वामभृद् द्विर्यजु , र्यजमानलोकमन्येन दाधार , भ्रातृव्यलोकमन्येन वृङ्क्ते , एतया वै देवा असुराणां वामं पशूनवृञ्जत, तद्वामभृतो वामभृत्त्वम् , छन्दांसि वै देवानां वामं पशव , श्छन्दांस्येवैतया वामं पशून् यजमानो भ्रातृव्यस्य वृङ्क्ते , अथैते रेतःसिचौ , इयं विराट् , असौ स्वराट् , असा एव रेतः सिञ्चति , इयं प्रजनयति , अग्निरत्यन्नादो भवति यस्यैते उपधीयेते, यदि पुत्री चिन्वीत प्रथमायां चित्यामन्यामुपदध्यात् , उत्तमायामन्याम् , रेतसः सिक्तस्य परिगृहीत्यै, यद्यपुत्रः प्रथमायां चित्यामुभे उपधेये, सम्यञ्चौ हि भूत्वा रेतः सिञ्चतः ॥

3.2.7 अनुवाकः7
अथैता विश्वज्योतिषं , एषु वा एतल् लोकेषु ज्योतिष्मन्तमग्निं निधत्ते , अथो प्राणानां विधृत्यै , अथैषा त्र्यालिखिता , इमे वै लोकास्र्यारिलिखिता , इमान् एव लोकानुपाधत्ते , उभये वा एताम् उपादधत देवाश्च वा असुराश्च , उपरिष्टाल्लक्ष्माणं देवा उपादधत , अधस्ताल्लक्ष्माणमसुरा, स्ततो देवा अभवन् , परासुरा , उपरिष्टाल्लक्ष्माणं उपदधीत भ्रातृव्यवान्यो वास्य प्रियः स्यात् , तस्य भवत्यात्मना, परास्य भ्रातृव्यो भवति , एष वा असपत्नेष्टका , असपत्नो भवति य एताम् उपधत्ते , अथो देवलक्ष्मं वा एषा, देवलक्ष्ममेवोपधत्ते, या सोषाया अधि मृदुच् शिष्यते तस्या एतां कुर्यात् , तेनास्य सर्वा आग्नेयीरिष्टका भवन्ति , अथैष कूर्मः, श्मशानचितो वा एते चीयन्ते, जीवः कूर्म उपधेय, स्तेन वा एषोऽश्मशानचित् , तेनोत्पाती, पशूनां वा एष मेध , एतं वै मेधं पश्यन्त एनं पशवोऽमुष्मिंल्लोक उपतिष्ठन्ते, प्रत्यञ्चं सादयति, प्रत्यञ्चो हि पशवो मेधमुपतिष्ठन्ते , द्यावापृथिवीयया सादयति, द्यावापृथिवी हि पशवोऽनूपतिष्ठन्ते, पशुभिरेवैनं सम्यञ्चं दधाति, विष्णोर्नाभ्यां अग्निश्चेतव्या, इत्याहुः, प्रादेशमात्रमुलूखलं कार्यम् , एतावान् वै विष्णु , र्विष्णोर्वा एतन्नाभ्यां अग्निश्चीयते , ऊर्य्लग्निश्चेतव्या इत्याहु , रूर्ग् वा उदुम्बरो , यदौदुम्बरं उलूखलं भवति , ऊर्जि वा एतदग्निश्चीयते, वैष्णव्या सादयति, वैष्णवं ह्य् उलूखलं , स्वयैव देवतया , अथैषोषा, पृथिव्या वा एतदोजो वीर्यं संभ्रियते , ओजो वा एतद्वीर्यं मध्यतोऽग्नेर् धीयते , अथो मध्ये ज्योतिरेव चीयते, यद् रिक्तामवेक्षेत क्षोधुको यजमानः स्यात् , अथ यत् पूर्णामवेक्षते तथा हाक्षोधुको भवति, सिकताभिः पूरयितव्या , अग्नेर्वा एतद् वैश्वानरस्य भस्म यत् सिकताः, स्वेनैवैनां भस्मना प्रीणाति, दध्नः पूरयितव्यो , ऊर्ग् वै दधि , ऊर्जं एवावरुन्धेवै, घृतस्य पूरयितव्या , एषा वा अग्नेः प्रिया तनूर्यद् घृतं , प्रिययैवैनं तन्वा समर्धयति, मधोः पूरयितव्या , आ हास्य प्रजायां मधव्यो जायते व्यृध्यै, न्द्रियाणि वै पशुशीर्षाण्ययज्ञियानि अमेध्यानि, यच् छिद्रेषु हिरण्यशकलानि अप्यस्यति , इन्द्रियेणैवैनानि वीर्येण समर्धयति, मेध्यानि एनानि यज्ञियानि करोति , अर्धं वै पुरुषः सहस्रस्य, यच्छन्त्यर्धम् इतरे पशव, स्तस्मादेतन्मध्यत उपदधाति , अभिता इतराणि, पशोः सवीर्यत्वाय , अथो सायतनत्वाय, यं कामयेत पशुमान्त् स्यादिति तस्य समीचीनानि पशुशीर्षाण्य् उपदध्यात् , समीच एवास्मै पशून् उपदधाति, पशुमान् भवत्य् , अथ यं कामयेत , अपशुः स्यादिति तस्य विषूचीनानि पशुशीर्षाण्य् उपदध्यात् , विषूच एवास्मै पशून् उपदधाति , अपशुर्भवति , एता वै साहस्रीरिष्टकाः पश्विष्टका, स्ताः सोमदक्षः कौश्रेयो विदांचकार, ताः श्यापर्णायोपदधौ, स सहस्रं पशून् प्राप, प्र सहस्रं पशूनाप्नोति यस्यैता उपधीयन्ते, यविष्ठो वै नामैषोऽग्नि, स्तस्माच् चिन्वतान्तरा न व्येतवै, यद्वीयात् प्राणानस्य युवेत , उत्सर्गैरुपतिष्ठते , आरण्यान् एव पशूञ् शुचमनूत्सृजति ॥

3.2.8 अनुवाकः8
पुरुषशीर्षमुपदधाति , एष हि पशूनां वीर्यवत्तमो, वीर्यमस्मिन् दधाति , एकमुपदधाति , एकधास्मिन् वीर्यं दधाति, सौर्या पुरुषशीर्षमभिजुहोति स्वर्गस्य लोकस्य समष्ट्यै, सौरी वा एषा सती मैत्रावरुणी , अहर्वै मित्रो , रात्रिर्वरुणो , अहोरात्रयोरेव प्रतितिष्ठति , अर्धऋचाभ्यां जुहोति , इयं वा अर्धऋचो , असा अर्धऋचो , अनयोरेव प्रतितिष्ठति , अथ यदेकय ऋचा द्विर्जुहोति तस्मादेकः सन् पुरुषो द्विपात् , यद्वा एतत् किंचाकर् योनिं वा एतद्व्यक, र्यदेता अपस्याः सादयति तस्मिन्न् एव योनौ रेतो दधाति , इयं वा अबिभेत् , अग्निर्मातिधक्ष्यतीति, सैता इष्टका अपश्यत् , अथो आहुः, प्रजापतिरपश्यदिति, ता उपाधत्ते, यदेता उपधीयन्ते , अस्या अनतिदाहाय, यदिदन्नं इति होवाचेयं, य एता उपदधाता इति , अन्नादो भवति यस्यैता उपधीयन्ते, तस्माद् रेतसः सिक्तादेष पशुः संभवति यदेताश्छन्दस्याः, पशवो वै छन्दांसि, यद् दक्षिणत उपदध्यादभीपतः प्रजा वरुणो गृह्णीयात् , अथ यदुत्तरत उपदधाति , अपवाहत एव , अथैताः प्राणभृत, स्तस्मिन् पशौ संभूते प्राणं चक्षुः श्रोत्रं वाचं तानि दधाति , अक्ष्णया सादयति, पशुं वा एतदाक्रमयति, तस्मात् पशवोऽक्ष्णयाङ्गानि प्रहरन्तो यन्ति, दशभिर्दशभिर्वा अता इष्टकाभिर् ऋषय आर्नुश्वन् , ता ऋद्धीर् ऋध्नोति यस्यैता उपधीयन्ते , अथैताः संयतो , रेतो वा एतत् सिच्यते यदग्निश्चीयते, यदेता उपधीयन्ते रेतसः सिक्तस्य संयत्यै, लोकं पृण छिद्रं पृणेति , एषा वा अछिद्रेष्टका, अछिद्रा वा एतया चितयश्चीयन्ते , इन्द्राग्नी त्वा बृहस्पतिरिति , ओजो वै वीर्यमिन्द्राग्नी, ओजसा वा एतद्वीर्येणाग्निश्चीयते, ता अस्य सूददोहसा, इति परुषिपरुष्येव रसं दधाति, सोमं श्रीणन्ति पृश्नया इति , अन्नं वै पृश्न्य, न्नं एवावरुन्द्धे, जन्मन् देवानां विशा, इत्याह, प्रजात्या एव, त्रिष्वा रोचने दिव इति, सवनानि वै त्रीणि रोचनानि, सवनचितं एवैनं अकर् अनुष्टुब् वा एषा, वाग् वा अनुष्टुप् , प्राणो वै वाक् , यदेषा सर्वा इष्टका अनुसंचरति तस्मात् प्राणः सर्वाण्यङ्गानि अनुसंचरति , आग्नेयी वा एषा वर्णेन स्वेन वा एतच् छन्दसाग्निश्चीयते , नाध्वर्युः सन्नार्ति म् आर्छति य एवं वेद ॥

3.2.9 अनुवाकः9
उत्सन्नयज्ञो वा एष यदग्निश्चित्यः, को ह तद् वेद यदेतस्य क्रियते य, न्नाश्विनौ वै देवानां भिषजा अक्लृप्तस्य कल्पयितारौ, यदेता आश्विनीरुपधीयन्ते अक्लृप्तस्य क्लृप्त्यै, पञ्चोपदधाति, पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्ध , अथो यावान् एव यज्ञस्तमचीक्लृपत् , अथैता आश्विनीर् ऋतव्या अनूपधीयन्ते, रेतसे वा एतत् सिक्ताय ऋतूनुपाधात् , तस्मात्सर्वेष्व् ऋतुषु रेतो हितं , तस्मात्सर्वान् ऋतून् रेतोऽनुप्रजायते , अथैता ऋतव्या वायव्या अनूपधीयन्ते, तस्मात्सर्वान् ऋतून् वायुरन्वावरीवर्ति , अथैता वायव्या अपस्या अनूपधीयन्ते, तस्मात् पशवो नानाव्रताः सन्तोऽप एवाभि सव्रता , श्चतस्रः पुरस्तादुपदधाति, चतुर्विधं हि शिरः, प्राणश्चक्षुः श्रोत्रं वाक् , मूर्धन्वतीभिः सादयति, मूर्धन्योऽसानीति, पञ्चपञ्चाभिता उपदधाति, पशोः सवीर्यत्वाय , अथो सायतनत्वाय, तस्मात् पशुः पश्चाद्वरीयाञ् श्रोणिमत्तर, स्तस्मादु प्राङ् संहाना , इन्द्राग्नी अव्यथमानां इष्टकां दृंहतं युवं इति , अन्तरिक्षं वा एषा चिति , रन्तरिक्षम् इमाः प्रजा , इन्द्राग्नी वै देवानां ओजोभृतौ , ओजो वीर्यमिन्द्राग्नी, ओजो वा एतद्वीर्यं मध्यतः प्रजानां धीयते , अथैता दिश्या , देवा वै स्वर्गं लोकमायन् , ते दिशा आक्रमन्त, ता अव्लीयन्त, ता एताभिरदृंहन्, यदेता उपधीयन्ते दिशां धृत्यै,पञ्चोपदधाति, पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्ध, दशैताः पुरस्तात् सादयति, दशाक्षरा विराट् , विराट् खलु वै चक्षुर्ज्योतिश्छन्दसां , चक्षुर्वा एतज्ज्योतिः पुरस्तात् पशोर्दधाति, तस्मादिदं पुरस्ताच्चक्षु, रथो अन्नं वै विराट् , अन्नं वा एतन् मुखतो दधाति, मा छन्दः, प्रमा छन्दः, प्रतिमा छन्दा इति , इयं वै मा , अन्तरिक्षं प्रमा , असौ प्रतिमा , इमान् एव लोकानुपधत्ते , अथो देवछन्दसानि वा एतानि, देवछन्दसानि एवोपधत्ते, द्वादश द्वादशाभिता उपदधाति, तत् षट्त्रिंशत् , षट्त्रिंशदक्षरा बृहती, बृहती खलु वै छन्दसां स्वाराज्यमानशे, गच्छति स्वाराज्यं यस्यैता उपधीयन्ते, पशवो वै बृहती, पशवो मध्यमा चिति, स्तस्मादेतस्यां चित्यामेता उपधीयन्ते , आदित्यधामानो वा उत्तरे प्राणा , अङ्गिरोधामानोऽधरे, मूर्धासि राड् इति, य उत्तरे प्राणास्तान् एताभिर् दाधार, यन्रीशे राड् इति, येऽधरे प्राणास्तान् एताभिर् दाधार, तदेषां वावैताः प्राणानां विधृत्यै, समावद्भाजः सादयति, समावद्भाजो हीमे प्राणाः, प्राणानां विधृत्यै, यं द्विष्यात्तस्याक्ष्णया सादयेत् , प्राणानस्य मोहयति, प्रमायुको भवति, मूर्धन्वतीभिः सादयति, मूर्धन्योऽसानीति ॥

3.2.10 अनुवाकः10
त्रिवृद्वतीं पुरस्तात् सादयति, त्रिवृद्वै यज्ञमुखम् , मुखतो वा एतद्यज्ञमुखं दधाति, सप्तदशवतीं दक्षिणतो , अन्नं वै सप्तदशो , अन्नं वा एतद् दक्षिणतो दधाति, तस्माद् दक्षिणेन हस्तेनान्नमद्यते, तस्माद् दक्षिणोऽर्ध आत्मनो वीर्यवत्तर, स्तस्माद् दक्षिणमर्धं वयांस्यनुपर्यावर्तन्ते, पञ्चदशवतीमुत्तरत , ओजो वै पञ्चदश , ओजो वा एतदुत्तरतो दधाति , एकविंशवतीं पश्चात् प्रतिष्ठित्यै, त्रिवृद्वतीं पुरस्तात् सादयति, त्रिवृद्वै यज्ञमुखम् , मुखतो वा एतद्यज्ञमुखं दधाति, पञ्चदशवतीं दक्षिणतः सादयति, सप्तदशवतीमुत्तरतः, पक्षयोः सवीर्यत्वाय , अथो सायतनत्वाय, तस्मादुभाभ्यां हस्ताभ्यां अन्नमद्यते , अथो वज्रो वै पञ्चदशो , वज्रेण वा एतद्यजमानो भ्रातृव्यमुभभयतो निर्भजति , एकविंशवतीं पश्चात् प्रतिष्ठित्यै, प्रतिष्ठा ह्येकविंशो , अर्कस्य वा एष विधामनुविधीयते , अन्नमर्को , अन्नादो भवति यस्यैता उपधीयन्ते , अग्नेर्भागोऽसि दीक्षाया आधिपत्यं , ब्रह्म स्पृतं , त्रिवृत् स्तोमा इति, स्पृतो वै नामैता इष्टका , एताभिर्वै प्रजापतिर् यद्यदकामयत तत्तदस्पृणोत् , यद्यदेवैताभिर्यजमानः कामयते तत्तत् स्पृणोति , एकयास्तुवत, प्रजा अधीयन्तेति, सृष्टयो वै नामैता इष्टका , एताभिर्वै प्रजापतिर् यद्यदकामयत तत्तदसृजत, यद्यदेवैताभिर्यजमानः कामयते तत्तत् सृजते, अग्ने जातान् प्रणुदा नः सपत्नान् इति , पुरस्तात् सादयति, य एव जाताः सपत्नास्तान् एतया प्रणुदते, प्रत्यजातान् जातवेदो नुदस्वेति पश्चात् , य एव जाताः सपत्नास्तान् एतया प्रतिनुदते, तद् भ्रातृव्यस्य वा एष विनोद , श्चतुश्चत्वारिंशी स्तोमो, वर्चो द्रविणं इति दक्षिणतः सादयति, षोडशी स्तोमा, ओजो द्रविणं इत्य् उत्तरत , श्चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप् , वज्रस्त्रिष्टुप् , वज्रः षोडशी, सव्यापग्रहणो वै वज्रो दक्षिणाप्रहरणः, सव्यापग्रहणं वा एतद्वज्रं दक्षिणाप्रहरणं यजमानो भ्रातृव्याय प्रहरति, पुरीषवतीं मध्यतः सादयति, पुरीषं इव हीदं मध्यतः पशोः, पुरीषं मध्यमात्मनः, सात्मानं एवाग्निं चिनुते , अथैता विराजो , वाग् वै विराट्, पशवो वा एता इष्टकाः, पशुषु वा एतदुत्तमां वाचं दधाति, तस्मात् पशुमान् उत्तमां वाचं वदति ॥
इत्य् उपरिकाण्डे दृषानो नाम द्वितीयः प्रपाठकः ॥