मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः ०१

विकिस्रोतः तः
Jump to navigation Jump to search

अग्निचिति-ब्राह्मणम् (जुहूमग्रीयः)

3.1.1 अनुवाकः1
जुहूमग्रे संमार्ष्टि, जुहूर्वै यज्ञमुखम् , मुखतो वा एतद्यज्ञं आलब्ध, जुह्वा वै देवा विराजमह्वयन्त, तज्जुह्वा जुहूत्वं, अन्नं वै विराट् , अन्नं जुहू , रर्कोऽग्नि , र्यज्जुह्वा जुहोति अन्नस्य चार्कस्य चावरुद्ध्यै , अष्टौ कृत्वो जुह्वां गृह्णाति , अष्टाक्षरा गायत्री, गायत्री यज्ञमुखम् , यज्ञमुखमेवालब्ध, यत् सावित्राणि हूयन्ते प्रसूत्यै , अथो यजुषामेव नानावीर्यत्वाय , अग्निर्वै यत्रयत्रागच्छत् तं सवितान्वपश्यत् यत् सावित्राणि हूयन्ते अग्नेरेवानुक्शात्यै , अग्निं ज्योतिर् निचाय्य पृथिव्या अध्याभरदिति, सविता वा एतदग्रे ज्योतिः पृथिव्याः समभरत् , तस्मादेवमाह, युक्तिमन्ति च जुहोति मनस्वती च, युक्तेन हि मनसा यज्ञस्तायते, षड् ऋग्माणि भवन्ति, षड् वा ऋतवो , ऋतुष्वेव प्रतितिष्ठति , एति वा एष यज्ञमुखाद् योऽन्यामाग्नेय्या अग्रे देवताम् उपैति, यत् सावित्राणि न स्युरियात् सावित्रात् प्रसवात् , अष्टौ वा एतानि यजूंषि , अष्टाक्षरा गायत्री, गायत्री यज्ञमुखम् , तेन यज्ञमुखान् नैति, यदु सावित्राणि तेन सावित्रात् प्रसवान् नैति, छन्दोभिर्जुहोति, छन्दोभिर्वा एतदग्नये बलिं हारयति, बहवो हास्य बलिहृतो भवन्ति , ऋग् वै यज्ञस्य नेदीयो , यजुर्यजमानस्य, यदि कामयेत, यज्ञं यज्ञयशसेनार्पयेय, मित्यृगुत्तमानि कुर्यात् , यज्ञं वा एतद्यज्ञयशसेनार्पयति, यदि कामयेत, यजमानं यज्ञयशसेनार्पयेयमिति, यजुरुत्तमानि कुर्यात् , यजमानं वा एतद्यज्ञयशसेनार्पयति , आहुतीनां वा अभिक्रान्त्या यजमान ऋध्नोति, यं कामयेत, ऋध्नुयादिति, तस्य सकृत्सर्वाण्यनुद्रुत्य जुहुयात् , ऋध्नोति , अथ यं कामयेत, पापीयान्त्स्यादिति, तस्य नाना जुहुयात्, पापीयान् भवति , ऋचा स्तोमं समर्धये, त्याह, समृद्ध्या एव, गायत्रेण रथन्तरमिति , इयं वै गायत्री , इयं रथन्तरम् , असौ बृहत् , अनयोर्वा एषा लोकयोर् व्याप्त्या अन्ततः क्रियते , अष्टौ वा एतानि यजूंषि , अष्टाक्षरा गायत्री , अक्षरशो वा एतद् गायत्रीं प्रीणाति , अथ यदाहुतिर्नवमी तेन त्रिवृतो यज्ञमुखान् नैति , अथ यदेकामाहुतिम् अष्टाभिर्यजुर्भिर्जुहोति तस्मादेकस्मै सते बहवो बलिं हरन्ति, बहवो हास्य बलिहृतो भवन्ति, यजुरुत्तमानि भवन्ति, ब्रह्म वै यजु, र्ब्रह्मणि वा एतदन्ततो यज्ञस्य यजमानः प्रतितिष्ठति ॥

3.1.2 अनुवाकः2
सावित्रैरभ्रिमादत्ते प्रसूत्यै, चतुर्भिरादत्ते, चत्वारि वै छन्दांसि, छन्दोभिरेवादत्ते , अथो ब्रह्म वै छन्दांसि, ब्रह्मणैवादत्ते , इयं वै गायत्री , अन्तरिक्षं त्रिष्टुब् , द्यौर् जगती, दिशोऽनुष्टुप् , सवितृप्रसूतो वा एतदेभ्यो लोकेभ्यश्छन्दोभिर् दिग्भ्यश्चाग्निं संभरति , यत्र वा अदोऽग्निर् होत्राद् भीषापाक्रामत्स सर्वेषु भुतेष्ववसत् , यां वनस्पतिष्ववसत् तां वेणा अवसत् , स यत्र निरदहत्तानि कल्माषाण्यभवन् , येन समचरत्तत् सुषिरम् , यत्रावसत्तत् पर्व, यद्वैणव्यभ्रिर्भवति स्वेनैवैनं योनिना संभरति, यो वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो , वेणुर्वै वनस्पतीनां फलग्रहितमः, स एषां वीर्यवत्तमो , अन्नं वै फलं, अन्नमर्को , अर्कोऽग्नि , रर्केण वा एतदन्नमर्कमग्निं संभरति, व्याममात्री कार्या , एतावद्वै पुरुषे वीर्यम् , वीर्यसंमिता क्रियते , अथो एतावान् वै पुरुषे महिमा, महिम्नोऽवरुद्ध्यै , अरत्निमात्री कार्या यज्ञपुरुषासंमिता, प्रादेशमात्री कार्या विष्णुना यज्ञेन संमिता , उभ्यतःक्ष्णुत् कार्या , उभयस्यान्नाद्यस्यावरुद्ध्यै , अन्यतःक्ष्णुत् कार्या, अन्यतःक्ष्णुद्धि फाल, स्तावन्तमर्कं करोति , अन्नं वा अर्को , अन्नाद्यस्यावरुद्ध्यै , औदुम्बरी कार्या , ऊर्ग् वा उदुम्बर , ऊर्जोऽवरुद्ध्यै , अपरिमिता कार्या , अपरिमितस्यावरुद्ध्यै, य एव कश्च वृक्षः फलग्रहिस्तस्य कार्या , अन्नाद्यस्यावरुद्ध्यै ॥

3.1.3 अनुवाकः3
अश्वेन वै देवा अग्रे विजितिं व्यजयन्त, यदश्वेन यन्ति, विजित्यै , अग्निर्वै यत्रयत्रागच्छत् तं प्रजापतिर् अन्वपश्यत्, प्राजापत्योऽश्वो , यदश्वेन यन्ति अग्नेरेवानुक्शात्यै, प्रजाप्तिर्वा अग्निं संभरिष्यन्त्स एभ्यो लोकेभ्योऽश्वं निर्माय दिग्भ्यश्चाग्निं समभरत् , यदाह, दिवि ते जन्म परममन्तरिक्षे तव नाभिः पृथिव्यामधि योनिरिदिति, यथादेवतं वा एतदेभ्यो लोकेभ्योऽश्वं निर्माय दिग्भ्यश्चाग्निं संभरति, युञ्जाथां रासभं युवं इत्याह, युक्त्या एव, गर्दभेन संभरति , एष हि पशूनामनुपजीवनीयतमो , अग्निर्वा एतस्याग्रे सृष्टस्य योने रेतो निरदहत् , तस्मादेष समावदन्यैः पशुभी रेतो धत्ते,ऽथ कनिष्ठो , अश्वं पूर्वं नयन्ति गर्दभमपरं पापवसीयसस्य व्यावृत्त्यै, तस्माच् श्रेयांसं पूर्वं यन्तं पापीयान् पश्चादन्वेति, यदि कामयेत, पापवसीयसं स्यादिति, गर्दभं पूर्वं नयेयुरपरं अश्वम् , एतेन वै विपूजनः सौराकिः पापवसीयसं चकार, तत्पापवसीयसं एवैतेन करोति, योगेयोगे तवस्तरं, इत्यूतिमत्या वाजवत्या यन्ति , अन्नं वै वाजो , गातुरूति, रन्नाय च खलु वै गातवे चाग्निश्चीयते, यद् ऊतिमत्या वाजवत्या यन्ति अन्नस्य च गातोश्चावरुद्ध्यै, भवति वा एष योऽग्निं चिनुते, सर्वो वै भवत इरस्यति, वज्री वा एष प्राजापत्यो यदश्वो , यदाह, प्रतूर्वन्न् एह्यवक्रामन्नशस्तीरिति, वज्रेण वा एतदशस्तीररातीयन्तमवक्रामति, रौद्रा वै पशवो , अग्नी रुद्रो , यद् रुद्रात् पशूननिर्याच्याग्निं चिन्वीत रुद्रोऽस्य पशूनभिमानुकः स्यात् , यदाह, रुद्रस्य गाणपत्यान्मयोभूरेहीति, रुद्राद्वा एतत् पशून् निर्याच्याग्निं चिनुते , अघातुकोऽस्य पशुपतिः पशून् भवति , उर्वन्तरिक्षं वीहीत्याह , एषां लोकानां विधृत्यै, रक्षांसि वा एतौ जिघांसन्त्यग्निं संभरिष्यन्तौ, यदाह, स्वस्तिगव्यूतिर् अभयानि कृण्वन्न् इति, स्वस्तिमेवाभ्यामकः, पुरीषं वा अग्नेरायतनं, अङ्गिरस एतमग्रे समभरत् , यदाह , अग्निं पुरीष्यमङ्गिरस्वदाभरेति, सायतनं एवैनं देवताभिः संभरति, येन पुरुषेण संगछेत तमभिमन्त्रयेत , अग्निं पुरीष्यमङ्गिरस्वदछेमा इति, वाजं एव तेन तस्माद् वृङ्क्ते, प्रजापतये प्रोच्याग्निश्चेतव्या, इत्याहु , र्यतः सूर्यस्योदयनं ततो वल्मीकवपामपघ्नन् ब्रूयात् , अग्निं पुरीष्यमङ्गिरस्वद् भरिष्यामा इति , इयं वै प्रजापति, स्तस्या एष कर्णो यद्वल्मीक, स्तस्मा एव प्रोच्याग्निं चिनुते, शृण्वन्ति हैनं अग्निं चिक्यानं, असा अग्निमचेष्टेति, तस्मात्पापीयाञ् श्रेयसः कर्ण आह, कर्णः कर्णायाह ॥

3.1.4 अनुवाकः4
अन्व् अग्निरुषसामग्रमक्शदित्याह , अनुक्शात्या एव , आगत्य वाज्यध्वानं सर्वा मृधो विधूनुता इति, मृध एव व्यास्थतैच्छद् वा एतं प्रजापतिः पूर्वयर्चा , अविन्ददुत्तरया , ऐषीदेवैनं पूर्वयर्चा , अविन्ददुत्तरया, द्यौस्ते पृष्ठं पृथिवी सधस्थम् इति, द्यौर् ह्येतस्य पृष्ठम् , पृथिवी सधस्थमात्मान्तरिक्षं, समुद्रो योनिरिति , आत्मा ह्येतस्यान्तरिक्षम् , समुद्रो योनिः , विक्शाय चक्षुषा त्वमभितिष्ठ पृतन्यत इति, पृतन्यन्तमेवाभितिष्ठति, यं द्विष्यात् तं ब्रूयात् ॥ अमुमभितिष्ठ ॥ इति तं एवाभितिष्ठति , उत्क्रामेत्याह , उत्क्रान्त्या एव, यत्र वै यज्ञस्यानुरूपं क्रियते तद्यजमान ऋध्नोति , उत्क्रामोदक्रमीदिति , अनुरूपं वा एतत् क्रियते यज्ञस्यावरुद्ध्यै, कृष्णो वै भूत्वाग्निरश्वं प्राविशत् , स एतदगच्छद्यत्र मृगशफो , यदश्वस्य पदे जुहोति , अग्निमत्येव जुहोत्यायतनवति , अन्धोऽध्वर्युः स्याद्यदनायतने जुहुयात् , एतद्वै तद्यदाहु , र्मृगशफमरेन्वराड् इति, मनस्वतीभ्यां जुहोति, मनसा ह्याहुतीराप्यन्ते, त्रिष्टुब्भ्यां जुहोति , इन्द्रियस्यावरुद्ध्यै , अन्नवतीभ्यां जुहोति , अन्नाद्यस्यावरुद्ध्यै, गायत्र्या परिलिखति , अस्या एवैनं तेन परिगृह्णाति, त्रिष्टुभा , अन्तरिक्षात् तेन , अनुष्टुभा परिलिखति , अनुष्टुब् वै सर्वाणि छन्दांसि परिभू, स्तस्मादनुष्टुभा परिलिखति, सावित्रैरभ्रिम् आदत्ते प्रसूत्यै, द्वाभ्यां खनति, द्विपाद्यजमानः प्रतिष्ठित्यै, शुग् वा अत्र प्रजा ऋच्छति यत्राग्निः खायते चीयते वा, यदाह, शिवं प्रजाभ्योऽहिंसन्तमिति, प्रजाभ्य एवैनं शिवमकः ॥

3.1.5 अनुवाकः5
अपां पृष्ठमसी, त्याह , अपां ह्येतत्पृष्ठम् , पृष्ठेनैवैनत्पृष्ठमकर् योनिरग्नेरिति, योनिर्वा एषोऽग्नेर्यत् पुष्करपर्णम् , नाभिर्वधकः, सयोनिरेव सनाभिः संभ्रियते, दिवो मात्रया वरिणा प्रथस्वे, त्यनयोरेवैनं मात्रया वरिणा प्रथयति, शर्म च स्थो वर्म च स्था इति कृष्णाजिनं च पुष्करपर्णं च संस्तृणाति , इमे एवास्मा एतद् द्यावापृथिवी संस्तृणाति, व्यचस्वती संवसेथां इति, न वा एतन्मनुष्या यन्तुमर्हन्ति , आभ्यामेवैनं परिगृह्णाति, कृष्णाजिनेन संभरति , एष हि पशूनामनुपजीवनीयतमो , अथो आरण्यान् एव पशूञ् शुचार्पयति, लोमतः संभरति , अतो वै कृष्णाजिनस्य सदेवं , यज्ञेनैव यज्ञं संभरति, पुष्करपर्णेन संभरति, योनिर्वा एषोऽग्नेर्यत् पुष्करपर्णम् , स्वेनैवैनं योनिना संभरति, गायत्रीभिर् ब्राह्मणस्य संभरति, गायत्रो हि ब्राह्मणः, त्रिष्टुभा राजन्यस्य, त्रैष्टुभो हि राजन्यो , जगतीभिर्वैश्यस्य’ जागतो हि वैश्यो यं कामयेत, ऋध्नुयादिति, तस्य गायत्रीभिश्च त्रिष्टुब्भिश्च संभरेत् , ऋध्नोति, पुरीष्योऽसि विश्वंभरा अथर्वा त्वा प्रथमो निरमन्थदग्ना इति, प्रजापतिर्वा अथर्वा, स एतमग्रेऽमन्थत् , सोऽजनयत्, स्व एवैनं मन्थति, स जनयति, तिसृभिः संभरति, त्रयो वा इमे लोका , एभ्य एवैनं लोकेभ्यः संभरति, यजुस्तुरीयम् , दिग्भ्य एवैनं तेन संभरति, पुरोवातं वै वातं वर्षमनुप्रतितिष्ठति, वर्षमन्व् ओषधया , ओषधीरनु पशवः, पशूननु मनुष्या , एता वै प्रतिष्ठा, स्ता यजमानोऽवरुन्द्धे , अपो देवीरुपसृजा मधुमती, रित्याहौषधीनां प्रतिष्ठित्यै, तासामास्थानादुज्जिहताम् ओषधयः सुपिप्पला इति, तस्मादेतासामास्थानादुज्जिहताम् ओषधयः सुपिप्पलाः, सं ते वायुर्मातरिश्वा दधात्व् इति , तस्मादेतस्या यत् कृष्यते यत् खायते तत् संधीयते, यद् घृतेन जुहुयाच् शुचेमामर्पयेत् , अथ यदप उपसृजति शमयत्येव, यो देवानां चरसि प्राणथेन कस्मै देव वषडस्तु तुभ्यम् इति, षड् वा ऋतव , ऋतुषु वा एतद् वृष्टिं प्रतिष्ठापयति, तस्मात्सर्व ऋतवो वृष्टिमन्तः, सुजातो ज्योतिषेति, स्वर्ग्यमेवैनं अकर्, वासो अग्ने विश्वरूपं संव्ययस्व विभावसा इति, छन्दांसि वा अग्नेर्वास , श्छन्दांस्येष वस्ते, छन्दोभिरेवैनं परिददाति , आगामुकं एनं अस्मिंल्लोके वासो भवत्यनग्नोऽमुष्मिंल्लोके भवति य एवं वेद, वरुणमेनिर्वा एष एत, र्ह्युदु तिष्ठ स्वध्वरे, ति ऊर्ध्वां एव वरुणमेनिमुत्सृजति, द्वाभ्यां उत्सृजति, द्विपाद्यजमानः प्रतिष्ठित्यै, स जातो गर्भो असि रोदस्योरिति , अनयोर्वा एष गर्भ , आभ्यामेषोऽधिजायते , आभ्यामेवैनं अधिजनयति , अग्ने चारुर्विभृता ओषधीष्व् इति तस्मात्सर्वास्व् ओषधीष्वग्निः, प्र मातॄभ्यो अधि कनिक्रदद् गा इति , ओषधयो वा एतस्य मातर, स्ताभ्या एवैनं अधि प्रच्यावयत , ऐच्छद्वा एतं प्रजापतिः पूर्वेणार्धऋचेना , अनूत्तरेणातिष्ठत , ऐषीदेवैनं पूर्वेणार्धऋचेन , अनूत्तरेणास्थित ॥

3.1.6 अनुवाकः6
स्थिरो भव वीड्वङ्गा इति गर्दभ आदधाति, वीर्यमस्मिन् दधाति, तस्मात्सर्वेषां पशूनां गर्दभो वीर्यवत्तमो , वीर्यं ह्यस्मिन् दधाति , ईश्वरो वा एषोऽन्तरिक्षसद् भूत्वा प्रजा हिंसितो , र्यदाह, शिवो भव प्रजाभ्या इति, प्रजाभ्य एवैनं शिवमक, र्मा पाद्यायुषः पुरेति , आयुरेवास्मिन्दधाति समष्ट्यै, वृषाग्निं वृषणं भरन्न् इति, वृषा ह्येष वृषणं भरन् , अपां गर्भं समुद्रियमिति , अपां ह्येष गर्भः समुद्रियो , अग्ना आयाहि वीतया इति , अग्निना वै मुखेन देवा इमांल्लोकानभ्यजयन् , अग्निना वा एतन् मुखेन यजमान इमांल्लोकानभिजयति , ऋतं सत्यं ऋतं सत्यं, ऋते चैव सत्ये च प्रतितिष्ठति , इयं वा ऋतं, असौ सत्यं, अनयोरेव प्रतितिष्ठति , अहर्वा ऋतं , रात्रिः सत्यं, अहोरात्रयोरेव प्रतितिष्ठति , ओषधयः प्रतिगृभ्णीताग्निमेतं इति , ओषधीरेवैनं सम्यञ्चं दधाति, पुष्पवतीः सुपिप्पला इति , ओषधीरेव फलं ग्राहयति, तस्मादोषधयः शीर्षन् फलं गृह्णन्ति, वरुणमेनिर्वा एष एतर्ह्युपनद्धो, वि पाजसा पृथुना शोशुचाना इति , अनुरूपेणैव वरुणमेनिं विष्यति, द्वाभ्यां विष्यति, द्विपाद्यजमानः प्रतिष्ठित्यै , आपो हि ष्ठा मयोभुवा इत्य, प उपसृजति , आपो वा अशान्तस्य शमयित्रिका, स्तस्मादप उपसृजति शान्त्यै, तिसृभिरुपसृजति, त्रिवृद्ध्यग्नि , र्वरुणमेनिर्वा एष एतर्हि, मित्रः संसृज्या पृथिवीं इति, मित्रेणैव वरुणमेनिं संसृजति, रुद्राः संसृज्या पृथिवीं इति , एता वा एताम् अग्रे देवताः प्रजापतये समसृजन् , ताभिरेवैनां संसृजति, पञ्चभिः संसृजति, पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्ध ॥

3.1.7 अनुवाकः7
मखस्य शिरोऽसीत्याह, यज्ञो वै मख, स्तस्य वा एतच् शिरो यदुखा, मुखतो वा एतद्यज्ञं आलब्ध, वसवस्त्वा कृण्वन्तु गायत्रेण छन्दसेति, छन्दोभिश्च वा एषा देवताभिश्च क्रियते, छन्दोभिश्चैवैनां देवताभिश्च करोति, ध्रुवासि पृथिव्यसीति, छन्दसां एवैषाशी, रदित्या रास्ना, स्यदितिस्ते बिलं गृभ्णात्व् इति, यजुषा करोति , अयजुषा हि मनुष्याः कुर्वन्ति व्यावृत्त्यै, तां पुत्रेभ्यः प्रायच्छददितिः श्रपयान् इति , आदित्या वा इदं स्मो यन्मनुष्यां , स्तेभ्य एवैनां संप्रादात् , त्र्युद्धिः कार्या, त्रयो वा इमे लोका , वा एषा लोकानां उखा प्रतिमा क्रियते , अष्टस्तना कार्या, गायत्र्या रूपं , चतुस्तना कार्या , अदित्या दोहाय, द्विस्तना कार्या , अन्तरिक्षं वा उखा , इमौ लोकौ स्तनौ, प्रत्तौ ह वा इमौ लोकौ दुहे य एवं वेद, व्याममात्री कार्या , एतावद्वै पुरुषे वीर्यम् , वीर्यसंमिता क्रियते , अथो एतावान् वै पुरुषे महिमा, महिम्नोऽवरुद्धयै , अरत्निमात्री कार्या यज्ञपुरुषासंमिता, प्रादेशमात्री कार्या विष्णुना यज्ञेन संमिता , अथो प्रजापतेरेवानतिवादाय सप्तभिर् धूपयति, सप्त वै शीर्षन् प्राणाः, शिर एतद्यज्ञस्य यजुषा, शीर्षन् वा एतत् प्राणान् दधाति, सप्तभिर् धूपयति, सप्त वै छन्दांसि, छन्दोभिरेवैनां धूपयति , अथो ब्रह्म वै छन्दांसि, ब्रह्मणैवैनां धूपयति, वैष्णवं वा एतत्पात्रं , तत् स्वया देवतया व्यर्धयति यदन्याभिर्देवताभिर् धूपयति, यदाह, विष्णुस्त्वा धूपयत्व् अङ्गिरस्वदिति, स्वयैवैनं देवतया समर्धयति , अश्वशकेन धूपयति, वृषा ह्यश्वो वृषाग्निः समृद्ध्यै , अथो प्राजापत्यो वा अश्वः, प्राजापत्योऽग्नि, स्तस्मादश्वशकेन धूपयति सयोनित्वाय ॥

3.1.8 अनुवाकः8
प्रजापतिर्वा अमन्यत, यो वा अस्या अग्रे विखनिष्यत्यार्तिं स आरिष्यतीति, स एतद्यजुरपश्यत् , अदितिष्ट्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् खनत्ववटेति , इयं वा अदितिर् देवी विश्वदेव्यवती , अनया वै स तदस्यामखनदहिंसायै, न हि स्वः स्वं हिनस्ति, देवानां त्वा पत्नीर्देवीर्विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वद् दधतूखा इति , ओषधयो वै देवानां पत्नीर्देवीर्विश्वदेव्यवतीर् ओषधीष्वेवैनां प्रतिष्ठापयति, धिषणा त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वदभीन्धाताम् उखा इति, वाग् वै धिषणा देवी विश्वदेव्यवती, वाचैवैनामभीन्द्धे, ग्नास्त्वा देवीर्विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वच् श्रपयन्तूखा इति, छन्दांसि वै ग्नास्त्वा देवीर्विश्वदेव्यवती , श्छन्दोभिरेवैनां श्रपयति, वरूत्री त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वत् पचताम् उखा इति , अहोरात्रे वै वरूत्री देवी विश्वदेव्यवती, अहोरात्राभ्यां एवैनां पचति, जनयस्त्वाछिन्नपत्रा देवीर्विश्वदेव्यवतीः पृथिव्याः सधस्थे अङ्गिरस्वत् पचन्तूखा इति, नक्षत्राणि वै जनयोऽछिन्नपत्रा देवीर्विश्वदेव्यवती , र्नक्षत्रैरेवैनां पचति , एता वा एताम् अग्रे देवताः प्रजापतयेऽपचन् , तस्मादेतानि पङ्क्तिमन्ति यजूंषि, तैरेवैनां पचति, द्वाभ्यां पचति, द्विपाद्यजमानः प्रतिष्ठित्यै, वरुणमेनिर्वा एष एतर्ह्यभीद्धो , मित्रस्य चर्षणीधृता इति, मित्रेणैव वरुणमेनिमुपैति, देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिरिति, सवितृप्रसूत एवैनां उद्वपति , आत्मनोऽहिंसायै , उत्तिष्ठ बृहती भवेत्याह धृत्या एव , अव्यथमाना पृथिव्यामाशा दिशा आपृणेति, तस्मादग्निः सर्वा दिशा आभाति ॥ मित्रैतां त उखां परिददाम्यभित्त्यै , एषा मा भेदि ॥ इति मित्रायैवैनां परिददाति अभित्त्यै, यद्धि मित्रायापरित्ता भिद्येत पुनः कार्या स्यात् , वसवस्त्वाछृन्दन्तु गायत्रेण छन्दसेति, छन्दोभिश्च वा एषा देवताभिश्च क्रियते, छन्दोभिश्चैवैनां देवताभिश्चाछृणत्ति, स्वेनायतनेनाजक्षीरेणाछृणत्ति , आग्नेयं वा एतत् पयो यदजक्षीरम्, आग्नेयमेतत्पात्रं यदुखा, स्वेन वा एतत् पयसा स्वं पात्रं आछृणत्ति, परमं वा एतत् पयो यदजक्षीरम् , परमं एतत्पात्रं यदुखा, परमेण वा एतत् पयसा परमं पात्रं आछृणत्ति ॥

3.1.9 अनुवाकः9
षडेतानि आधीतयजूंषि जुहोति, षड् वा ऋतवो , ऋतुभिर्वा एतत् पृथिव्या वीर्यमुद्यच्छते, नाना जुहोति, नानावीर्या हीमे प्राणाः, प्राणानां विधृत्यै, यं कामयेत बधिरः स्यादिति, तस्य सकृत्सर्वाण्यनुद्रुत्य जुहुयात् , प्राणानस्य संभिनत्ति, बधिरो भवति, तस्माद् बधिरो वाचा वदति, न शृणोति, वाचं ह्यस्येन्द्रियमनुपद्यते, प्राणा वा एतानीतराणि छन्दांसि, वाग् अनुष्टुब् , यदनुष्टुभा सप्तमं जुहोति वाचं वा एतत् प्राणेषूपसंदधाति, तस्मादियं वाक् सप्तमी प्राणानां , मा सु भित्था मा सु रिषा इति प्रवृणक्ति , असुरमाया वा एषासीत् , तां देवा एतेन यजुषावृञ्जता,ऽऽसुरी माया स्वधया कृतासीति, तन्मायां एवैतेन यजमानो भ्रातृव्यस्य वृङ्क्ते, द्वाभ्यां प्रवृणक्ति, द्विपाद्यजमानः प्रतिष्ठित्यै, प्रवृञ्ज्याद् भूतिकामस्य, भविष्यद्वा इदं उपजीवामो , भविष्यदेवोपैति, श्वःश्वः श्रेयान् भवति, जातं अवदध्याद् गतश्री, र्जातो वा एष यो गतश्री , र्जातेनैवैनं जनयति, भ्रष्ट्रादाहरेद् यं कामयेतान्नादः स्यादिति , एष वा अग्नीनामन्नादो , अन्नकरणं भ्रष्ट्रं, अन्नाद्यमस्मा अवरुन्द्धे, प्रदावादाहरेद् यं कामयेत प्रसेनेनास्य राष्ट्रं जायुकं स्यादिति, प्रसेनेनास्य राष्ट्रं जायुकं भवति, यतः कुतश्चाहृत्यावदध्याद् यं कामयेत , अस्य पाप्मा भ्रातृव्यो द्वितीयो जायेतेति , एतद्वै यजमानस्यायतनं , स्वे वावास्मा एतदायतने पाप्मानं भ्रातृव्यं द्वितीयं जनयति, द्र्वन्नः सर्पिरासुतिरिति, क्रुमुकं घृतान्वक्तमादधाति , एषा वा अग्नेः प्रिया तनूर्यत् क्रुमुक, स्तेजो घृतं , प्रिययैवैनं तन्वा तेजसा च समर्धयति, परस्या अधि संवता, इत्यौदुम्बरीम् , देवा यत्रोर्जं व्यभजन्त तत उदुम्बरा उदतिष्ठत् , यदौदुम्बरी , ऊर्जं एवावरुन्द्धे, परमस्याः परावता, इति वैकङ्कतीम्, अग्नेर्वै सृष्टस्य भा अपाक्रामत् , तद्विकङ्कतं प्राविशत् , यद्वैकङ्कती, भा एवावरुन्द्धे, यदग्ने यानि कानि चे, ति शमीमयीम् शान्त्यै , अग्नये वै न किंचनापरशुवृक्णमस्वदन्त, तस्मै वा एतया सङ्गः प्रायोगिः सर्वमस्वदयत् , यदग्ने यानि कानि चेति, तदग्नय एवैतया सर्वं स्वदयति, सर्वमस्मै स्वदितं भवति, रात्रीँ रात्रीमप्रयावं भरन्ता इति , आशिषं एवाशास्ते, नाभा पृथिव्याः समिधानो अग्निमिति, पृतनाजितं एवैनं अकर् , अग्निं वै सृष्टं रक्षांस्यजिघांसन् , तानि वा एताभिरेवापाहत, याः सेना अभीत्वरीरिति, तदग्नेरेवैताभी रक्षांस्यपहन्ति , एता एव समिधा आदध्याद्यत्र रक्षोभ्यो बिभीयात् , रक्षसामपहत्यै , अथो ग्राहुका ह तां समां स्तेनान् भवन्ति, तैल्वकीमभिचरन्नादध्यात् , एष वै वनस्पतीनां वज्र, स्ताजग्घ प्रमीयते, यं द्विष्यात् तं तर्हि मनसा ध्यायेत् , मनो वा आशी , र्यो वाच आहुतिमेवैनं भूतं अग्नयेऽपिदधाति, यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जना इति, तस्मादग्निचितोऽश्लीलं न कीर्तयितव्यं , नो अग्निविदः, संशितं मे ब्रह्म संशितं वीर्यं बलं इति, ब्रह्मणा वा एतत् क्षत्रं संश्यति, क्षत्रेण ब्रह्मा,ऽथो ब्रह्म चैव क्षत्रं च सयुजा अकर्, एतद्वा एषाभ्यनूक्ता ॥ ब्रह्म क्षत्रं सयुजा न व्यथेते इति, ब्रह्माह क्षत्रं जिन्वति क्षत्रियस्य ।
क्षत्रं ब्रह्म जिन्वति ब्राह्मणस्य यत् समीची कृणुतो वीर्याणि ॥

3.1.10 अनुवाकः10
अग्निभ्यः ॥ इति कामायालभ्यन्ते, यत्कामो भवति सं हास्मै स कामो नमति , आप्रीणन्ति, यज्ञियान् एवैनान् मेध्यान् कुर्वन्ति, पर्यग्निकृतान् उत्सृजन्ति अयातयामत्वाय , एकेन संस्थापयन्ति यज्ञस्य संतत्या अविच्छेदाय, पुष्करा भवन्ति सेन्द्रियत्वाय, त्रिष्टुभो याज्यानुवाक्या भवन्ति इन्द्रियस्यावरुद्ध्यै , अथैषोऽग्नये वैश्वानराय द्वादशकपालः, संवत्सरो वा अग्निर्वैश्वानर , एषा वा अग्नेः प्रिया तनूर्यद्वैश्वानरः, प्रिययैवैनं तन्वा समर्धयति , अथो अयातयामत्वायैव , अयातयामा हि वैश्वानरः, श्वेतं वायवे नियुत्वता आलभेत तेजस्कामो , वायुर्वा अग्नेस्तेज, स्तस्माद्वायुमग्निरन्वेति, यद्वायवे , अग्नेः सतेजस्त्वाय, यद्वायव एकधा स्यादुन्मादुको यजमानः स्यात् , यन् नियुत्वते द्वितीयत्वाय , अथो धृत्या अनुन्मादाय, सर्वेषां वा एष पशूनां रूपाणि प्रति, यद्वायव एकधा स्यादुन्मादुको यजमानः स्यात् , यदेष प्राजापत्यो द्वादशकपालो द्वितीयत्वाय , अथो धृत्या अनुन्मादाय , अथैष आग्नावैष्णव एकादशकपालो , अग्निर्वै सर्वा देवता , विष्णुर्यज्ञो , देवताश्चैव यज्ञं चालब्ध , अथैष आदित्यो घृते चरु , रादित्या वा इत उत्तमाः स्वर्गं लोकमायन् , तेभ्य एव प्रोच्य स्वर्गं लोकं एति , आदित्या वा अस्मिंल्लोक ऋद्धा , आदित्या अमुष्मिन् , पुरोडाशेन वै देवा अस्मिंल्लोक आर्ध्नुवन् , चरुणामुष्मिन् , अस्मिन्न् एव लोके पुरोडाशेन ऋध्नोति, चरुणामुष्मिन् , अथैषोऽग्नये वैश्वानराय द्वादशकपालो , देवायतनं वा अग्निर्वैश्वानरो , देवायतन एव प्रतिष्ठाप्याग्निं बिभर्ति , अथो कामो वै वैश्वानरो, यत्कामो भवति सं हास्मै स कामो नमति ॥
इत्य् उपरिकाण्डे जुहूमग्रीयः प्रथमः प्रपाठकः ॥