मैत्रायणीसंहिता/काण्डं २/प्रपाठकः १२

विकिस्रोतः तः

अग्निचितिः

2.12.1 अनुवाकः1
विश्वे नो अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयः समिद्धाः ।
विश्वे नो देवा अवसागमन्निह विश्वमस्तु द्रविणं वाजो अस्मे ॥
वाजो मे सप्त प्रदिशश्चतस्रो वा परावतः ।
वाजो मा विश्वैर्देवैर् धनसाता इहावतु ॥
वाजः पुरस्तादुत मध्यतो नो वाजो देवान् ऋतुभिः कल्पयाति ।
वाजस्य हि प्रसवे नन्नमीति विश्व आशा वाजपतिर् भवेयम् ॥
वाजो मे अद्य प्रसुवाति दानं वाजो देवान् हविषा वर्धयाति ।
वाजो हि मा सर्ववीरं चकार सर्वा आशा वाजपतिर्जयेयम् ॥
सं मा सृजामि पयसा पृथिव्याः सं मा सृजाम्यद्भिर् ओषधीभिः ।
सोऽहं वाजं सनेयम् अग्ने ॥
पयः पृथिव्यां पया ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥

2.12.2 अनुवाकः2
ऋताषाड् ऋतधामाग्निर्गन्धर्व, स्तस्यौषधयोऽप्सरसो मुदा नाम, स न इदं ब्रह्म क्षत्रं पातु, ता न इदं ब्रह्म क्षत्रं पान्तु, तस्मै स्वाहा वट् , ताभ्यः स्वाहा वट् , संहितो विश्वसामा सूर्यो गन्धर्व, स्तस्य मरीचयोऽप्सरस आयुवो नाम, सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्व, स्तस्य नक्षत्राण्यप्सरसो बेकुरयो नाम , इषिरो विश्वव्यचा वातो गन्धर्व, स्तस्यापोऽप्सरसा ऊर्जो नाम, भुजी सुपर्णो यज्ञो गन्धर्व, स्तस्य दक्षिणा अप्सरसा एष्टयो नाम, बृहस्पतिर् विश्वकर्मेन्द्रो गन्धर्व, स्तस्य मरुतोऽप्सरसा ओजो नाम, प्रजापतिः परमेष्ठी मनो गन्धर्व, स्तस्य ऋक्सामाण्यप्सरसः स्तवा नाम , अमृडयो दूरेहेतिर् मृत्युर्गन्धर्व, स्तस्य प्रजा अप्सरसो भीरवो नाम, स नो भुवनस्य पते यस्य त उपरि गृहा विराट्पतेऽस्मै ब्रह्मणेऽस्मै क्षत्राय महि शर्म यच्छ, यस्य ते विश्वा आशा अप्सरसः प्लीया नाम स न इदं ब्रह्म क्षत्रं पातु, ता न इदं ब्रह्म क्षत्रं पान्तु, तस्मै स्वाहा वट्, ताभ्यः स्वाहा वट् ॥

2.12.3 अनुवाकः3
समुद्रोऽसि नभस्वानार्द्रदानुः, शंभूर्मयोभूरभि मा वाहि स्वाहा , अवस्युरसि दुवस्वान् , शंभूर्मयोभूरभि मा वाहि स्वाहा, मारुतोऽसि मरुतां गणः, शंभूर्मयोभूरभि मा वाहि स्वाहा, सजूरब्दा आयवभिः, सजूरुषा आरुणीभिः, सजोषा अश्विना दंसोभिः, सजूः सूरा एतशेन, सजूर्वैश्वानर ईडया घृतेन स्वाहा ॥
अग्निं युनज्मि शवसा घृतेन दिव्यं सुपर्णं वयसं बृहन्तम् ।
तेन वयं पतेम ब्रध्नस्य विष्टपं स्वो रुहाणा अधि नाक उत्तमे ॥
इमौ ते पक्षा अजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्यग्ने ।
ताभ्यां वयं पतेम सुकृतामु लोकं यत्रा ऋषयो जग्मुः प्रथमा ये पुराणाः ॥
इन्दुर्दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।
महान्त्सधस्थे ध्रुव आ निषत्तो नमस्ते अस्तु मा मा हिंसीः ॥
दिवो मूर्धासि नाभिः पृथिव्या ऊर्गपामोषधीनां ।
विश्वायुः शर्म सप्रथा नमस्पथे विश्वस्य मूर्धन्नधितिष्ठसि श्रितः ॥
समुद्रे ते हृदयमन्तरायुरपो दत्तोदधिं भिन्त ।
दिवः पर्जन्यादन्तरिक्षात् पृथिव्यास्ततो नो वृष्ट्यावत ॥
वि ते मुञ्चामि रशनां वि रश्मीन् वि योक्त्राणि परिचर्तनानि ।
धत्तादस्मभ्यं द्रविणेह भद्रं प्र मा ब्रूताद् भागदां देवतासु ॥
इष्टो यज्ञो भृगुभिर्द्रविणोदा यत्तिभिर् आशीर्दा वसुभिः ।
इष्टो अग्निराहुतः पिपर्तु न इष्टं हविः स्वगेदं देवेभ्यो नमः ॥

2.12.4 अनुवाकः4
येना ऋषयस्तपसा सत्रमासतेन्धाना अग्निं स्वराभरन्तः ।
यमाहुर्मनवः स्तीर्णबर्हिषं तस्मिन्नहं निदधे नाके अग्निम् ॥
तं पत्नीभिरनुगच्छेम देवाः पुत्रैर् भ्रातृभिरुत वा हिरण्यैः ।
नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥
आ वाचो मध्यमरुहद् भुरण्युरयमग्निः सत्पतिश्चेकितानः ।
पृष्ठे पृथिव्या निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः ॥
अयमग्निर् वीरतमो वयोधाः सहस्रीयो ज्योतताम् अप्रयुच्छन् ।
विभ्राजमानः सलिलस्य मध्या उप प्रयाहि दिव्यानि धामन् ॥
अग्ने च्यवस्व सं अनु प्रयाह्याविष् पथो देवयानान् कृणुष्व ।
इदमिदं सुकृतमारभस्व यत्रा ऋषयो जग्मुः प्रथमा ये पुराणाः ॥
संप्रच्यवध्वं उप सं प्रयाताविष्पथो देवयानान् कृणुध्वं ।
एभिः सुकृतैरनुगच्छेम देवा यत्र नः पूर्वे पितरः परेताः ॥
उद्बुध्यस्वाग्ने प्रतिजागृह्येनमिष्टापूर्ते संसृजेथां अयं च ।
पुनः कृण्वन्तः पितरो युवानोऽन्वातांसुस्तव तन्तुमेतं ॥
येन वहसि सहस्रं येनाग्ने सर्ववेदसं ।
तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥
अयं ते ॥

2.12.5 अनुवाकः5
समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।
सं दिव्येन दीदिहि रोचनेन विश्वा आभाहि प्रदिशश्चतस्रः ॥
सं चेध्यस्वाग्ने प्र च बोधयैनं उच्च तिष्ठ महते सौभगाय ।
मा च रिषदुपसत्ता ते अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥
त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।
सपत्नहाग्ने अभिमातिजिद् भव स्वे गये जागृह्यप्रयुच्छन् ॥
इहैवाग्ने अधिधारया रयिं मा त्वा निक्रन् पूर्वचित्तौ निकारिणः ।
क्षत्रमग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ॥
क्षत्रेणाग्ने स्वेन संरभस्व मित्रेणाग्ने मित्रधेये यतस्व ।
सजातानां मध्यमेष्ठेयाय राज्ञामग्ने विहव्यो दीदिहीह ॥
अति निहो अति सृधो अत्यचित्तिम् अति निर्ऋतिम् अद्य ।
विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥
अनाधृष्यो जातवेदा अनिष्टृतो विराडग्ने क्षत्रभृद् दीदिहीह ।
व्यमीवाः प्रमुञ्चन्मानुषाणां शिवेभिरद्य परिपाहि नो वृधे ॥
बृहस्पते सवितर् बोधयैनं संशितं चित् संतरं संशिशाधि ।
वर्धयैनं महते सौभगाय विश्वे चैनं अनुमदन्तु देवाः ॥
अमुत्रभूयादध यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः ।
प्रत्यूहतामश्विना मृत्युमस्माद्देवानामग्ने भिषजा शचीभिः ॥
उद्वयं तमसस्परि ज्योतिः पश्यन्ता उत्तरं ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमं ॥

2.12.6 अनुवाकः6
ऊर्ध्वा अस्य समिधो भवन्यू िर्ध्वा शुक्रा शोचींष्यग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोः ॥
तनूनपादसुरो विश्ववेदा देवो देवेभ्यो देवयानान् पथो अनक्तु मध्वा घृतेन ।
मध्वा यज्ञं नक्षति प्रीणानः ॥
नराशंसो अग्निः सुकृद्देवः सविता विश्ववारः ।
अछायमेति शवसा घृतेन ॥
ईडानो वह्निर्नमसाग्निं स्रुचो अध्वरेषु प्रयत्सु ।
स यक्षदस्य महिमानं अग्नेः ।
स ईं मन्द्रा सुप्रयसा स्तरीमन् ।
बर्हिषो मित्रमहाः ।
वसुश्चेतिष्ठो वसुधातमश्च ॥
द्वारो देवीरन्व् अस्य विश्वा व्रता ददन्ते अग्नेः ।
उरुव्यचसो धाम्ना पत्यमानाः ॥
ते अस्य योषणे दिव्ये न योना उषासानक्ता ।
इमं यज्ञमवतामध्वरं नः ॥
दैव्या होतारा ऊर्ध्वमिममध्वरं नोऽग्नेर् जिह्वाभिगृणीतं ।
कृणुतं नः स्विष्टं ॥
तिस्रो देवीर् बर्हिरेदं स्योनमिडा सरस्वती मही ।
भारती गृणाना ॥
तन् नस्तुरीपमद्भुतं पुरुक्षु त्वष्टः सुवीर्यम् ।
रायस्पोषं विष्य नाभिमस्मे ॥
वनस्पतेऽवसृजा रराणः त्मना देवेभ्यः ।
अग्निर्हव्यं शमिता सूदयाति ॥
अग्ने स्वाहा कृणुहि जातवेदा इन्द्राय देवेभ्यः ।
विश्वे देवा हविरिदं जुषन्ताम् ॥
इति मध्यमकाण्डे द्वादशः प्रपाठकः