सामग्री पर जाएँ

मैत्रायणीसंहिता/काण्डं २/प्रपाठकः ०५

विकिस्रोतः तः

काम्याः पशवः

2.5.1 अनुवाकः1
सौम्यं बभ्रुं लोमशं पिङ्गलमालभेत पशुकामः, सौमीर्वा ओषधया , ओषधयः पशवो , यत्सौम्यः, प्रत्यक्षमेवास्मै पशुमालभते, लोमशो भवति , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, बभ्रुः पिङ्गलो भवति सोमस्य रूपं समृद्ध्यै, यस्त्रैतानां उत्तमो जायेत तं सौमापौष्णमालभेत पशुकामः, सोमो वै रेतोधाः, पूषा पशूनां प्रजनयिता, सोम एवास्मै रेतो दधाति, पूषा पशून् प्रजनयति, स्तनं वा एतेषाम् द्वा अभिजायेते, ऊर्जं तृतीया , ऊर्ग् वै पशव , ऊर्जैवास्मा ऊर्जं पशूनाप्त्वावरुन्द्धे, त्रिर्वा एषा संवत्सरस्यान्यान् पशून् परिविजायत , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, भागिनीर्वा अन्याः प्रजा, अभागा अन्या , यदौदुम्बरो यूपो भवति , उभयीरेवैना भागिनीः करोति, मासि मासि वा एषोऽवान्तरम् अन्येभ्यो वनस्पतिभ्यः पच्यते , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, प्राजापत्यं तूपरम् आलभेत पशुकामः, प्राजापत्या वै पशवः, प्रजापतिः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत्, सोऽस्मै पशून् प्रजनयति, योनिर्वै प्रजापति , र्योनेरेव प्रजायते, सर्वेषां वा एष पशूनां रूपाणि प्रति, पुरुषस्येव श्मश्रूणि , अश्वस्येव शिरस् , गर्दभस्येव कर्णौ, शुन इव लोमानि, गोरिव पूर्वौ पादौ , अवेरिवापरौ , अजः खलु वै सर्वाण्येव पशूनां रूपाण्याप्त्वावरुन्द्धे, सर्वाण्येनं पशूनां रूपाण्य् उपतिष्ठन्ते, हिरण्यगर्भवत्याघारो , याः प्रजापतेः सामिधेनीस्ताः सामिधेनी , याः प्रजापतेराप्रियस्ता आप्रियो , हिरण्यं देयम् सशुक्रत्वाय, तार्प्यं देयम् सयोनित्वाय , अधीवासो देयो , यज्ञस्य तेन रूपाण्याप्त्वावरुन्द्धे , एतेन वा उपकेरू रराध, ऋध्नोति य एतेन यजते, द्वादशधा ह त्वै स प्राशित्रं परिजहार, तत्र द्वादश द्वादश वरान् ददौ, यद् द्वादश दीयन्ते तस्यैषा प्रतिमा, श्वेतं वायवा आलभेत, भूतिकामं याजयेत् , वायुर्वै देवानां ओजिष्ठः क्षेपिष्ठः, स एनं भूत्यै निनयति, तदाहु , रधृता देवतेश्वरा निर्मृज ईश्वरैनं आर्तिं निनेतोरिति, तदति सैवैनं भूत्यै निनयति, श्वेतं वायवे नियुत्वता आलभेत, ग्रामकामं याजयेत् , वायुर्वा इमाः प्रजा नस्योता इत्थं चेत्थं च नेनीयते, यद्वायवे, वायुरेवास्मै नस्योतां विशं निनयति, नियुत्वती याज्यानुवाक्ये भवतो , ग्राममस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै, श्वेतं वायवे नियुत्वता आलभेत , आमयाविनं याजयेत् , प्राणो वै वायुः, प्राणो हि वा एतस्यापक्रान्तोऽथैतस्यामयति, यद्वायवे, वायुरेवास्मै प्राणं निनयति, नियुत्वती याज्यानुवाक्ये भवतः, प्राणं अस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै, श्वेतं वायवे नियुत्वता आलभेत, पशुकामं याजयेत् , प्राणो वै वायुः, प्राणं वा एतत् पशवः प्रतिधावन्ति यद्वर्षेषु वातं प्रतिजिघ्रति, यद्वायवे, वायुरेवास्मै पशून् निनयति, नियुत्वती याज्यानुवाक्ये भवतः, पशूनस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै ॥

2.5.2 अनुवाकः2
स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत् , तस्य देवास्तमोऽपाघ्नन् , यत् प्रथमं तमोऽपाघ्नन्साविः कृष्णाभवत् , यद् द्वितीयं सा लोहिनी, यत् तृतीयं सा बलक्षी, यदध्यस्तादपाकृन्तत् साविर्वशाभवत् , तेऽब्रुवन् , देवपशुमिमं कामायालभामहा इति , अथ वा इयं तर्ह्य् ऋक्षासीदलोमिका, तेऽब्रुवन् , तस्मै कामायालभामहै यथास्यामोषधयश्च वनस्पतयश्च जायन्ता इति, तां वै तस्मै कामायालभन्त, ततोऽस्यामोषधयश्च वनस्पतयश्चाजायन्त, यः प्रजाकामो वा पशुकामो वा स्यात्स एताम् अविं वशामालभेत, प्र प्रजया च पशुभिश्च जायते , अथो आहु , र्यः प्रथमस्तमस्यपहते सूर्यस्य रश्मिर् यूपस्य चषालेऽवातनोत् साविर्वशाभवदिति, तदुभयेनैव देवपशुरालभ्यते, यद्यस्यास्तज्जन्म यदि वेतरं तत् कामाय कामायैवाविर्वशालभ्यते, आग्नेयमजमालभेत, वारुणं पेत्वं भूतिकामं याजयेत् , आग्नेयानि वै पुरुषस्यास्थानि, वारुणं मांसं, आग्नेयेनैवास्याग्नेयं निष्क्रीणाति, वारुणेन वारुणं , भवत्येव, सारस्वतीं मेषीमालभेत यो वाचो गृहीत, वाग् वै सरस्वती, वाचैवास्य वाचं भिषज्यति , अपन्नदती भवति सर्वत्वाय , अनधिस्कन्ना समृद्यैती, श्वेता मल्हा आलभेत ब्रह्मवर्चसकाम आग्नेयीं बार्हस्पत्यां सौरीम् , वसन्ताग्नेयीम् , प्रावृषि बार्हस्पत्याम् , शिशिरे सौरीम् , यदाग्नेयी, तेजस्तयावरुन्धेस्, यद् बार्हस्पत्या, ब्रह्मवर्चसं तया, यत्सौरी, रुचं तया, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति, संवत्सरं पर्यालभ्यन्ते, संवत्सरेण वा अनाप्तमाप्यते, संवत्सरेणैवास्मा आप्त्वा तेजो ब्रह्मवर्चसं दधाति, श्वेता भवति, ब्रह्मणो रूपं समृद्यैत्, वायव्यामजामालभेत, सारस्वतीं मेषीमदित्या अजां अभिशस्यमानं याजयेत् , वायुर्वा एतस्याश्लीलं गन्धं जनता अनुविहरति यमभिशंसन्ति , एष हीदं सर्वमुपगच्छति, यद्वायवे, वायुरेवास्य तं गन्धं सुरभिमकः, सोऽस्य सुरभिर्गन्धो जनता अनुवितिष्ठते, वाचा वा एतमभिशँसन्ति यमभिशंसन्ति, वाक् सरस्वती, यत् सारस्वती, वाचैवैषां वाचं शमयति , अप्रतिष्ठितो वा एष यमभिशंसन्ति , इयं वा अदिति , रियं प्रतिष्ठा, यदादित्या , अस्यां एव प्रतितिष्ठति , इन्द्रियेण वा एष वीर्येण व्यृध्यते यमभिशंसन्ति , इन्द्रियं वीर्यं गर्भो , यद् गर्भिणीर्भवन्ति इन्द्रियेणैवैनं वीर्येण समर्धयन्ति ॥

2.5.3 अनुवाकः3
देवाश्च वा असुराश्चास्पर्धन्त, ते वै समावदेव यज्ञे कुर्वाणा आयन् , यदेव देवा अकुर्वत तदसुरा अकुर्वत, ते न व्यावृतमगच्छन् , ते देवा एतं वामनं पशुमपश्यन् , तं वैष्णवमालभन्त, ततो वै विष्णुरिमांल्लोकान् उदजयत् , ततो देवा असुरान् एभ्यो लोकेभ्यः प्राणुदन्त, ततो देवा अभवन् , परासुरा, यः सपत्नवान् भ्रातृव्यवान् वा स्यात्स एतं वामनं वैष्णवमालभेत , अतो वै विष्णुरिमांल्लोकान् उदजयत् , विष्णोरेवोज्जितिम् अन्व् इमांल्लोकान् उज्जयति, प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते, विषम इवालभेत, विषमान् इव हीमांल्लोकान् देवा उदजयन् , इमान् एव लोकान् उज्जयति , इन्द्रो वै वृत्रमहन् , स प्राङ् अपद्यत, स पद्यमाना इन्द्रं सप्तभिर् भोगैः पर्यगृह्णात् , तस्माद्विष्वञ्चः पशवो व्युदायन् , मूर्धतो वैदेहीरुदायन् , तस्मात्तासां पुरो जन्म पुर ओक, स्तासां जघनत ऋषभो वैदेहोऽनूदैत् , तमचायत् , अयं वाव मास्मादंहसो मुञ्चेदिति, तमैन्द्रमालभेत , आग्नेयं तु पूर्वमजमालभत, स वा अग्निनैव वृत्रस्य भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन्नधत्त, यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्रम् ऋषभमालभेत , आग्नेयं तु पूर्वमजमालभेत , अग्निनैव पाप्मनो भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते , इन्द्रो वै वलमपावृणोत् , ततः सहस्रम् उदैत् , तस्य सहस्रस्याग्रतः कुभ्र उदैत् , तस्मादेतं, साहस्री लक्मीसि, रित्याहुर्यश्च वेद यश्च न , अथो आहुर् , इमं वा एष लोकं पश्यन्नभ्युदैत् , स समैषत् , स एष समीषितः कुभ्र, इति तमैन्द्रमालभेत पशुकाम , ऐन्द्रा वै पशवा , इन्द्रः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, स यदा सहस्रं पशून् गछेदथैतं वामनं वैष्णवमालभेत , एतस्मिन्वै तत्सहस्रं प्रत्यतिष्ठत् , स तिर्यङ् व्यैषत् , तस्मादेष तिर्यङ्ङ् इव वीषित , एतेन वै स तत्सहस्रं पर्यगृह्णात् , तत्सहस्रस्य वा एष परिगृहीत्या अविक्षोभाय, देवाश्च वै पितरश्चास्मिंल्लोक आसन् , तद्यत् किंच देवानां स्वमासीत्तद्यमोऽयुवत, ते देवाः प्रजापतिमेवोपाधावन् , स प्रजापतिरेतौ मिथुनौ पशू अपश्यद् ऋषभं च वशां च, ता आलभत, वैष्णववारुणीं तु पूर्वां वशामालभत, तान्वै वरुणेनैव ग्राहयित्वा विष्णुना यज्ञेन प्राणुदता , अथैन्द्रं देवेष्वालभत, तेनैष्विन्द्रियाणि वीर्याण्याप्त्वादधाद्यः सपत्नवान् भ्रातृव्यवान् वा स्यात्स एतौ मिथुनौ पशू आलभेत ऋषभं च वशां च, वैष्णववारुणीं तु पूर्वां वशामालभेत, वरुणेनैवैनान् ग्राहयित्वा विष्णुना यज्ञेन प्रणुदते , अथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते ॥

2.5.4 अनुवाकः4
सावित्रं पुनरुत्सृष्टमालभेत यः पुरा पुण्यः सन् पश्चात् पापत्वं गछेत्, सविता वै श्रियः प्रसविता, तं एव भागधेयेनोपासरत् , स एनं श्रियै प्रसुवति, पापो वा एष पुरा सन् पश्चात् श्रियमश्नुते यः पुरानड्वान्त्सन् पश्चोक्षत्वं गच्छति, यथैष श्रियमश्नुत एवं एवैनं श्रियं गमयति , ओषधीभ्यो वेहतमालभेत प्रजाकामा , ओषधीनां वा एषा प्रिया , एता वा एतां सूतोः परिबाधन्ते , ओषधयः खलु वा एतस्य प्रजामपगूहन्ति योऽलं प्रजायै सन् प्रजां न विन्दते, ता एव भागधेयेनोपासरत् , ता अस्मै प्रजां पुनर्ददति , आपो वा ओषधया , आपो ह त्वेवासत् खनन्ति, ता अस्मै प्रजां खनन्ति, द्यावापृथिवीये धेनू संमातरा आलभेतान्नकामो , यद्ध्यसौ वर्षति तदस्यां प्रतितिष्ठति, द्यावापृथिवी वा अन्नस्येशाते, ते एव भागधेयेनोपासरत् , ते अस्मा अन्नाद्यं प्रयच्छतः, स वत्सं वायवा आलभेत, वायुर्वा अनयोर्वत्सो , वायुरिमे प्रदापयति, प्रत्ते ह वा इमे दुहे य एवं वेद , ऐन्द्रीं सूतवशामालभेत, राजन्यं भूतिकामं याजयेत् , एतस्या वा अधीन्द्रोऽजायत, स जायमान एतं योनिं निरवर्तयत् , सा सूतवशाभवत् , अथो आहुर् , एतदेव सकृदिन्द्रियं वीर्यं तेजो जनयित्वा नापरं सूता आशँसत, सा सूतवशाभवदिति , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति , ऐन्द्री भवति , इन्द्रियम् अस्मिन् दधाति , अथ यस्तं विन्देद् यं सूत्वा सूतवशा भवति तमैन्द्रमालभेत तेजस्काम, स्तदेवेन्द्रियं वीर्यं तेज आप्नोति, सारस्वतीं धेनुष्टरीमालभेत यः क्षेत्रे पशुषु वा विवदेत, वाग् वै सरस्वती, वाचैवैषां वाचं वृङ्क्ते, धेनुर्वा एषा सती न दुहे, तर्यमेवैषां वाचं करोति, द्यावापृथिवीयां धेनुं पर्यारिणीमालभेत यो राजन्योऽभ्यर्धो विशश्चरेत् , द्यावापृथिवीभ्यां हि वा एष निर्भक्तो, अथैषोऽभ्यर्धो विशश्चरति, द्यावापृथिवी एवैनं विशि प्रतिष्ठापयतः, पर्यारिणी भवति, पर्यारीव ह्येतद् राष्ट्रम् , यदभ्यर्धो विशश्चरति द्यावापृथिवी एवैनं विशि प्रतिष्ठाप्य, स श्वो भूते वत्सं वायवा आलभेत, वायुर्वा अनयोर्वत्सो , वायुरिमौ क्षयौ विशं च प्रदापयति, प्रत्तौ ह वा इमौ क्षयौ विशं च दुहे य एवं वेद ॥

2.5.5 अनुवाकः5
अग्नेयमजमालभेत, सौम्यं बभ्रुम् ऋषभं पिङ्गलम् भूतिकामं याजयेत् , ऋद्ध्याएव एवाग्नेय , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति, यत्सौम्यः, स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धे , भवत्येव, बभ्रुः पिङ्गलो भवति, सोमस्य रूपं समृद्ध्यै, गोमृगं वायवा आलभेत , अभिशस्यमानं याजयेत् , अपूतो वा एष यमभिशंसन्ति, वायुर्वै देवानां पवित्रं , वायुनैवैनं पवित्रेण पुनाति, नेव वा एष ग्रामे नारण्ये यमभिशंसन्ति, नेव खलु वा एष ग्राम्यः पशुर्नैवारण्य, स्तस्मादस्यैष देवतया पशूनां समृद्ध ऐन्द्राग्नमनुसृष्टमालभेत यस्य पिता पितामहः सोमं न पिबेत् , इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति, यदैन्द्र , इन्द्रियेणैवैनं वीर्येण समर्धयति, देवताभिर्वा एष व्यृध्यते यस्य पिता पितामहः सोमं न पिबति, यदाग्नेयो , अग्निर्वै सर्वा देवता , देवताभिरेवैनं समर्धयति , अनुसृष्टो भवति , अनुसृष्ट इव ह्येतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति, तस्मादस्यैष देवतया पशूनां समृद्धस्त्वाष्ट्रम् अवलिप्तमालभेत पशुकाम, स्त्वाष्ट्रा वै पशव, स्त्वष्टा पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, सौमापौष्णँ नपुंसकमालभेत, पण्डकं याजयेत् , यत्र तू भूमेर् जायेत तत् प्रजिज्ञासेता, ऽत्र वा एतस्य जायमानस्येन्द्रियं वीर्यमपाक्रामत् , तदेवास्मा इन्द्रियं वीर्यमाप्त्वा दधाति, सोमश्च वा एतस्य पूषा च जायमानस्येन्द्रियं वीर्यमयुवेताम् , इयं वै पूषौ, षधयः सोमो , यत्सौमापौष्णः, स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धेवै, भवत्येव, यानि अनवदानीयानि तैर् नैर्ऋतैः पूर्वैः प्रचरन्ति, निर्ऋतिगृहीता वा एषा स्त्री या पुंरूपा, निर्ऋतिगृहीत एष पुमान् यः स्त्रीरूपो , निर्ऋत्या एवैनं तेन मुञ्चति, न वै नैर्ऋत्याहुतिरग्निमानशे, यदङ्गारेषु जुहोति तत् स्विदग्नौ जुहोति तदु न, यत्र वा अद इन्द्रो वृषणश्वस्य मेनासीत्तदेनं निर्ऋतिः पाप्मागृह्णात् , स यं पाप्मानं अपाहत स नपुंसकोऽभवत् , यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्रं नपुंसकमालभेत, येनैवेन्द्रः पाप्मानं अपाहत तेन पाप्मानं अपहते , अथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते, प्रजापतिः पशूनसृजत, स वा एतं एवाग्रे नपुंसकमसृजत, तं पशवोऽन्वसृज्यन्त , अथो आहु, रेतमेवाग्रे सृष्टं त्वष्ट्रे च पत्नीभ्यश्च नपुंसकमालभत, तेन प्रजा असृजत , इति, यः प्रजाकामो वा पशुकामो वा स्यात्स एतं त्वष्ट्रे च पत्नीभ्यश्च नपुंसकमालभेत, मिथुनं वै त्वष्टा च पत्नीश्च, त्वष्टारं वा एतन् मिथुनेऽप्यस्राट् प्रजननाय, तन् मिथुनं , तस्मादेव मिथुनाद्यजमानः प्रजया च पशुभिश्च प्रजायते ॥

2.5.6 अनुवाकः6
प्रजापतिः प्रजा असृजत, ता एनं सृष्टा अत्यमन्यन्त, ता अतिमन्यमाना वरुणेनाग्राहयत् , ता वरुणगृहीताः कृष्णः पेत्वोऽध्यस्कन्दत् , तस्यानुहाय पादमगृह्णात् , तस्य शफः प्रावृह्यत, स एकशितिपादभवत् , तमचायत् , अयं वावासां प्रजानामवरुणगृहीतो , अनेनेमाः प्रजा वरुणान् मुञ्चानि , इति तं वारुणमालभत, तत इमाः प्रजा वरुणात् प्रामुच्यन्त, तद्वरुणप्रमोचनीय एवैष, यो ज्योगामयावी स्यात् तं एतेन याजयेत् , वरुणेन हि वा एष पाप्मना गृहीतो , अथैतस्य ज्योग् आमयति, यद्वारुणो , वरुणादेवैनं तेन मुञ्चति , एकशितिपाद् भवति , एवं इव हि तस्य रूपमासीत् समृद्ध्यै्, द्वीपे याजयेत् , एता वै प्रत्यक्षं वारुणीर्यदापः, स्वे वा एतद् योनौ प्रत्यक्षं वरुणं अवयजति, समन्तमापः परिवहन्ति, रक्षसामनन्ववायाय, वारुणं कृष्णँ पेत्वमालभेताभिचरन् , यद्वारुणो , वरुणेनैवैनं ग्राहयित्वा स्तृणुते, कृष्णो भवति, तमो वै कृष्णं , मृत्युस्तमो , मृत्युनैवैनं ग्राहयति , एतद्वै पाप्मनो रूपं यत् कृष्णं , कृष्ण इव हि पाप्मा, पाप्मनैवैनं अभिषुवति, तं नियुञ्ज्यात् ॥
पशुं बध्नामि वरुणाय राज्ञा इन्द्राय भागं ऋषभं केवलो हि ।
गात्राणि देवा अभिसंविशन्तु यमो गृह्णातु निर्ऋतिः सपत्नान् ॥
इति , एताभ्य एवैनं देवताभ्यो निर्याच्य, मृत्युर्वै यमो, मृत्युनैवैनं ग्राहयति , अग्नये वैश्वानराय कृष्णं पेत्वमालभेत समान्तमभिध्रोक्ष्यन् , संवत्सरो वा अग्निर्वैश्वानरः, संवत्सराय समम्यते, संवत्सरमेवाप्त्वावरुणं काममभिद्रुह्यति , आश्विनं कृष्णललामं आलभेत , आनुजावरं याजयेत् , अश्विनौ वै देवानामानुजावरौ , अश्विना एतस्य देवते य आनुजावर, स्ता एव भागधेयेनोपासरत् , ता एनं अग्रं परिणयतः, कृष्णो भवति, पाप्मानं एवापहते, ललामो भवति, मुखतोऽस्मिंस्तेजो दधाति , आश्विनं कृष्णललामं आलभेत , आमयाविनं याजयेत् , अश्विनौ वै देवानां भिषजौ , अश्विना एतस्य देवते य आमयावी, ता एव भागधेयेनोपासरत् , ता एनं भिषज्यतः, कृष्णो भवति, पाप्मानं एवापहते, ललामो भवति, मुखतोऽस्मिंस्तेजो दधाति ॥

2.5.7 अनुवाकः7
छन्दांसि वै यज्ञाय नातिष्ठन्त, स वषट्कारोऽभिहृत्य गायत्र्याः शिरोऽछिनत् , तस्माच् शीर्ष्णश्छिन्नाद् यो रसोऽक्षरत्ता वशा अभवन् , तद्वशानां वशात्वं, अथो आहु, र्वशँ वै ता अक्षरन् , ता वशा अभवन् , तद्वशानां वशात्वं, इति अथो आहुर् , वसा वै सासीत् , तद्वसा वा एता इति, ततो यः प्रथमो रसः प्राक्षरत् तं बृहस्पतिरुपागृह्णात् , सा रोहिणी बार्हस्पत्या, ततो योऽत्यक्षरत् तं मित्रावरुणौ, सा द्विरूपा मैत्रावरुणी, ततो योऽत्यक्षरत् तं विश्वे देवाः, सा बहुरूपा वैश्वदेवी, ततो योऽत्यक्षरत्तमग्निश्च मरुतश्च, सा पृश्निराग्निमारुती , अथो आहुः, कृष्णशबलीति , अथ या विप्रुषा आसंस्तानीमानि अन्यानि रूपाणि, ततो यः प्रथमो द्रप्सः परापतत् तं बृहस्पतिरभिहायाभ्यगृह्णात् , स उक्षाभवत् , तदुक्ष्णः उक्षत्वं, अथो आहु, र्यद्देवता अनुव्यौक्षत स उक्षाभवत् , तदुक्ष्णः उक्षत्वं इति, तं ब्राह्मणस्पत्यं आलभेत, ब्राह्मणं भूतिकामं याजयेत् , ब्रह्म वै ब्रह्मणस्पति , र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धेप्, भवत्येव, रोहिणीं बार्हस्पत्यामालभेत ब्रह्मवर्चसकामो , ब्रह्म वै बृहस्पति , र्बार्हस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयाप्त्वा तेजो ब्रह्मवर्चसं दधाति, रोहिणी भवति, ब्रह्मणो रूपं समृद्ध्यै, मैत्रावरुणीं द्विरूपामालभेत पशुकामो , अहोरात्रे वै मित्रावरुणौ , अहोरात्रे अनु पशवः प्रजायन्ते, ता एव भागधेयेनोपासरत् , ता अस्मै पशून् प्रजनयत , श्छन्दसां वा एष रस , श्छन्दसां एवास्मै रसेन पशून् धत्तो , द्विरूपा भवति समृद्ध्यैन, वैश्वदेवीं बहुरूपामालभेत यस्मै कामाय कामयेत, सर्वा वा एता देवता, सर्वा वा एतद्देवताः कामाय भागधेयेनोपासरत् , ता अस्मै कामं समर्धयन्ति यत्कामो भवति, छन्दसां वा एष रस , श्छन्दसां एवास्मै रसेन दधति, बहुरूपा भवति समृद्ध्यै , आग्निमारुतीं पृश्निमालभेत वृष्टिकामो , अग्निर्वा इतो वृष्टिम् ईट्टे, मरुतोऽमुतश्च्यावयन्ति , एते वै वृष्ट्याः प्रदातार, स्तान् एव भागधेयेनोपासरत् , तेऽस्मै वृष्टिं प्रयच्छन्ति, छन्दसां वा एष रसो , रसो वृष्टि, श्छन्दसां एवास्मै रसेन रसं वृष्टिं निनयन्ति, पृश्निर्भवति, पृश्निमातरो हि मरुतो , भौमीं कृष्णशबलीमालभेतान्नकाम , इयं वा अन्नस्य प्रदात्रिका, तामेव भागधेयेनोपासरत् , सास्मा अन्नाद्यं प्रयच्छति, न चर्माप्याहरेयु , रनन्नं वै चर्म , अनन्नं कृष्ण, मनन्नेनैवानन्नमपहत्यान्नाद्यमात्मन् धत्ते, यद्वै तच् शीर्ष्णश्छिन्नात्तेज इन्द्रियं वीर्यं परापतत् सा बभ्रुर्वशाभवत्, तदेषा वशा , अन्नं एवेतरा, स्तां ब्राह्मणस्पत्यामालभेताभिचरन् , ब्रह्म वै ब्रह्मणस्पति , र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया, यावदेव ब्रह्म तेनैनं सर्वेणाभिचरति, तेजसैनं प्रछिनत्ति, स्तृणुत एव, बभ्रुर्भवति, ब्रह्मणो रूपं समृद्ध्यै, सौरीं श्वेताम् आलभेत ब्रह्मवर्चसकामो , असौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता, तं एव भागधेयेनोपासरत् , सोऽस्मै ब्रह्मवर्चसं प्रयच्छति, श्वेता भवति, ब्रह्मणो रूपं , समृद्ध्यै, मैत्रावरुणीं कृष्णकर्णीमालभेत वृष्टिकामो, अहोरात्रे वै मित्रावरुणा , अहोरात्रे अनुवर्षति , एतद्वा अह्नो रूपं यच् शुक्लम् , यत् कृष्णँ तद् रात्रे, र्द्विरूपा भवति समृद्ध्यै ॥

2.5.8 अनुवाकः8
इन्द्राय मन्युमते मनस्वते ललामं आलभेत संग्रामे, मन्युना वै वीर्यं क्रियत, इन्द्रियेण जयति, वीर्यं चैवैष्विन्द्रियं च जित्यै दधाति, ललामो भवति, पुरस्ताद्ध्ययं मन्यु , रथो ब्रह्मणैवैनान् पुरस्तान् मुखतो जित्यै संश्यति , इन्द्रायाभिमातिघ्न ऋषभमालभेत भ्रातृव्यवान्, अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहते, स इन्द्राय वृत्रतुरा आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहत्य वृत्रतूरेवाभूत्, स्वाराज्यं एव गच्छति, वृत्रतू, रिति ह्येतमाहुर्यः स्वाराज्यं गच्छति , ऐन्द्रामारुतं पृश्निसक्थमालभेत, राजन्यं ग्रामकामं याजयेत् , ऐन्द्रो वै राजन्यो देवतया, मारुती विट् , इन्द्रियेणैवास्मै विशम् उपयुनक्ति, पृश्निसक्थो भवति, पश्चादेवास्मै विशम् उपदधाति , अनुकामस्मै विशमविवादिनीं करोति, इन्द्राय वज्रिण ऋषभमालभेत, राजन्यं भूतिकामं याजयेत् , यदा वै राजन्यो वज्री भवत्यथ भूतिं गच्छति, यद्वज्रिणे, वज्रं एवास्मा आधात्, तेन विजितिं भूतिं गच्छति, स एनं भूत्यै श्रेम्ण इन्धेति, यद्वज्रिणा इति तदस्याभिचरणीयम् , यं द्विष्यात् तं तर्हि मनसा ध्यायेत् , वज्रं एवास्मै प्रहरति, स्तृणुत एव, सौम्यं बभ्रुम् ऋषभं पिङ्गलमालभेत योऽलं राज्याय सन् राज्यं न प्राप्नुयात् , सोमो वै राजैतस्य देवता, सोमो हि राजा, स्वामेव देवतां राज्यायोपासरत् , स्वैनं देवता राज्यं गमयति, बभ्रुः पिङ्गलो भवति, सोमस्य रूपं समृद्ध्यै ॥

2.5.9 अनुवाकः9
यः प्रथम एकाष्टकायां जायेत यस्तमालप्स्यमानः स्यात्स आग्नेयमष्टाकपालं निर्वपेत् , अग्निर्वै पशूनां योनिः, स्वादेवैनान्योनेर् निष्क्रीणात्या मेध्याद् भवितो, रग्नये वैश्वानराय द्वादशकपालं मासि मासि निर्वपेत् , संवत्सरो वा अग्निर्वैश्वानरः, संवत्सरादेवैनं निष्क्रीणाति, स यदा मेधं गछेदथेन्द्रायाभिमातिघ्न आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहते , अश्वोऽव्युप्तवहो दक्षिणा , एष वै व्यावृत्तः पाप्मना, पाप्मनैवैनं व्यावर्तयति , अथ योऽपरस्यां एकाष्टकायां जायेत तं एवं एवोत्सृज्याथेन्द्राय वृत्रतुरा आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहत्य वृत्रतूरेवाभूत् , स्वाराज्यं एव गच्छति, वृत्रतूरिति ह्येतमाहुर् यः स्वाराज्यं गच्छति, शतमव्युप्तवहा दक्षिणा , एते वै व्यावृत्ताः पाप्मना, पाप्मनैवैनं व्यावर्तयन्ति, शतं भवन्ति, शतायुर्वै पुरुषः शतवीर्या , आयुरेव वीर्यमाप्नोति, देवाश्च वा असुराश्चास्पर्धन्त, तेऽब्रुवन् , ब्रह्मणि नोऽस्मिन् विजयेथां, इति अरुणः तूपरश्चैत्रेयो देवानामासीच् श्येतोऽयःशृङ्गः शैनेयो ऽसुराणां , तेऽसुरा उत्क्रोदिनोऽचर, न्नराडोऽस्माकं तूपरोऽमीषाम् इति, तौ वै समलभेताम् , तस्य देवाः क्षुरपवि शिरोऽकुर्वन् , तस्यान्तरा शृङ्गे शिरो व्यवधाय विष्वञ्चं व्यरुजत् , यासुरी वागवदत् सेमां प्राविशत् , योदजयत् , सा वनस्पतीन् , तस्माद् ब्राह्मणो मृन्मयेन न पिबेत् , असुर्या वाचात्मानं नेत् संसृजा, इति तद्य एवं विद्वानमृत्पात्रपो भवत्युज्जितं एव वाच उपैति, तं ब्राह्मणस्पत्यं आलभेताभिचरन् , ब्रह्म वै ब्रह्मणस्पति, र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया, यावदेव ब्रह्म तेनैनं सर्वेणाभिचरति, तेजसैनं प्रछिनत्ति, स्तृणुत एव , अरुणः तूपरो भवति , एवं इव हि तस्य रूपमासीत् , समृद्ध्यैा, देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त, ते रात्रीं प्राविशन् , तानश्विना अनुप्राविशताम् , तौ तमः पर्यगृह्णात् , ता एतमाश्विनं अञ्जिमालभेताम् , तेन तमोऽपाघ्नाता, मसा एना आदित्यः पुरस्ताज्ज्योतिषा प्रत्यागच्छत् , स आभ्यां तमोऽध्यपाहन् , यः पाप्मना तमसा गृहीतो मन्येत स एतमाश्विनं अञ्जिमालभेत, येनैवाश्विनौ तमोऽपाघ्नातां तेन पाप्मानं अपहते , असा एनं आदित्यः पुरस्ताज्ज्योतिषा प्रत्यागच्छति, सोऽस्मात्तमोऽध्यपहन्ति ॥

2.5.10 अनुवाकः10
असौ वा आदित्यस्तेजोभिर् व्यार्ध्यत, तत इदं सर्वं तमोऽभवत् , स प्रजापतिरेतान् दश ऋषभानपश्यत् , अथो आहुरिन्द्रोऽपश्यदिति, तानैन्द्रानालभत, तैरस्मिन्निन्द्रियाणि वीर्याण्याप्त्वादधात् , यल् ललामा आलभ्यन्त मुखतोऽस्मिंस्तैस्तेजोऽदधात् , यच् शितिककुद उपरिष्टात्तै , र्यच् श्वेतानूकाशाः पश्चात्तै , स्ततो वा असा आदित्यः सर्वतस्तेजस्व्यभवत् , यस्तेजस्कामः स्यात्स एतानैन्द्रान् ऋषभानालभेत, यल् ललामा आलभ्यन्ते मुखतोऽस्मिंस्तैस्तेजो दधाति, यच् शितिककुद उपरिष्टात्तै, र्यच् श्वेतानूकाशाः पश्चात् तैः, सर्वत एवैनं तेजस्विनं करोति , अमुष्यैनं आदित्यस्य मात्रां गमयति, प्राजापत्यं दशमं द्वादशे मासा आलभेत, द्वादश मासाः संवत्सरः, संवत्सरमेवाप्त्वावरुन्द्धे, नवालभ्यन्ते, नव वै प्राणाः, प्राणाः खलु वै पुरुषे वीर्यम् , प्राणानस्मिन् वीर्यं दधाति, दशालभ्यन्ते, दशाक्षरा विराट् , विराडेतानि एवेन्द्रियाणि वीर्याण्यात्मन् धित्वा , इयं विराट् , अस्यां एव प्रतितिष्ठति ॥
नमो महिम्ने चक्षुषे मरुतां पितस्तदहं गृणे ते ।
हुतो याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैः ॥
देवानां एष उपनाह आसीदपां पतिर् वृषभ ओषधीनां ।
सोमस्य द्रप्समवृणीत पूषा बृहन्नद्रिरभवद्यत्तदासीत् ॥
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥
पिता वत्सानां पतिरघ्न्यानां उतायं पिता महतां गर्गराणां ।
वत्सो जरायु प्रतिधुक् पीयूष आमिक्षामस्तु घृतमस्य योनिः ॥
त्वां गावोऽवृणत राज्याय त्वां वर्धन्ति मरुतः स्वर्काः ।
वर्ष्मन् क्षत्रस्य ककुब्भिः शिश्रियाणस्ततो न उग्रो विभजा वसूनि ॥

2.5.11 अनुवाकः11
वायव्यमजमालभेतैन्द्रं वृष्णिं वृषभं वा वारुणं पेत्वं भूतिकामं याजयेत् , यद्वायवे, वायुरेवैनं भूत्यै निनयति , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति, यदैन्द्र , इन्द्रियेणैवैनं वीर्येण समर्धयति, वरुणगृहीतो वा एष योऽलं भूत्यै सन् न भवति, यद्वारुणो , वरुणादेवैनं तेन मुञ्चति , एतान् एवाभिचरन्नालभेत, यद्वायवे, वायुरेवास्मै वज्रं संश्यति , ऐन्द्रो वै वज्र , इन्द्रियेण खलु वै वज्रः प्रह्रियते, यदैन्द्रो , वज्रं एवास्मै प्रहरति, यद्वारुणो , वरुणेनैवैनं ग्राहयित्वा स्तृणुते, सौर्यं बलक्षं पेत्वमालभेत ब्रह्मवर्चसकामो , असौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता, तं एव भागधेयेनोपासरत् , सोऽस्मै ब्रह्मवर्चसं प्रयच्छति, यद् बलक्षः समृद्धस्तेन, यदलूनः समृद्धस्तेन, यत् पीवा समृद्धस्तेन, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति , आदित्यं बहुरूपमालभेत यस्याश्विने शस्यमाने सूर्यो नोदियात् , पराचीर्वा एतस्मै व्युच्छन्ति यस्याश्विने शस्यमाने सूर्यो नोदेति, यदादित्यो , अमुं एवास्मा उन्नयति, बहुरूपो भवति, बहूनि वै रश्मीनां रूपाणि, रश्मीनां एवास्मै रूपाण्याप्त्वोन्नयति , अग्निर्वै सृष्टो न व्यरोचत , सोऽग्नये तेजस्विनेऽजं कृष्णग्रीवमालभत, तेन तेजस्व्यभवत् , सोऽकामयत, सर्वत्र विभवेयमिति, सोऽग्नये विभूतिमतेऽजं कृष्णग्रीवमालभत, तेन सर्वत्र व्यभवत् , सोऽकामयत, सर्वत्रापिभागः स्यां इति, सोऽग्नये भागिनेऽजं कृष्णग्रीवमालभत, तेन सर्वत्रापिभागोऽभवत् , सोऽकामयत, दानकामा मे प्रजाः स्युरिति, सोऽग्नये दात्रेऽजं कृष्णग्रीवमालभत, तेनास्मै दानकामाः प्रजा अभवन् , यः कामयेत, तेजस्वी स्यां, सर्वत्र विभवेयं, सर्वत्रापिभागः स्यां, दानकामा मे प्रजाः स्युरिति, स एतानजान् कृष्णग्रीवानालभेत, तेजस्वी भवति, सर्वत्र विभवति, सर्वत्रापिभागो भवति, दानकामा अस्मै प्रजा भवन्ति, प्राजापत्यं बहुरूपमालभेत पशुकामः, प्राजापत्या वै पशवः, प्रजापतिः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, बहुरूपो भवति, बहूनि वै पशूनां रूपाणि, पशूनां एवास्मै रूपाण्याप्त्वावरुन्धेहु, यामं शुकहरिमालभेत शुण्ठँ वा यः कामयेत, यमलोक ऋध्नुयां इति , एतेन वै यमोऽमुष्मिंल्लोक आर्नोपंत् , यमोऽमुष्य लोकस्याधिपत्यमानशे, तं एव भागधेयेनोपासरत् , स एनं अमुष्य लोकस्याधिपत्यं गमयति , एकधा वा एतेन यमलोक ऋध्नोति, परे वयसि यष्टव्यं , ताजग् घि प्रमीयते, शुण्ठो वा भवति शुकहरिर्वा , एष ह्येतस्य देवतया पशूनां समृद्धः ॥
इति मध्यमकाण्डे पशुबन्ध नाम पञ्चमः प्रपाठकः।।