मैत्रायणीसंहिता/काण्डं २/प्रपाठकः ०४

विकिस्रोतः तः
Jump to navigation Jump to search

2.4.1 अनुवाकः1
विश्वरूपो वै त्वाष्ट्र आसीत् त्रिशीर्षासुराणां स्वस्रीयः, स सोमं एकेन शीर्ष्णापिबत् सुरां एकेन , अन्नं एकेनावयत् स इन्द्रोऽमन्यत , अयं वावेदं भविष्यती, ति तेन समलभत, तेन युगशरं अपतत् , स तक्षाणं तिष्ठन्तमब्रवीत् , आधावे, मान्यस्य शीर्षाणि छिन्द्धी, ति तस्य तक्षोपस्कद्य परशुना शीर्षाण्यछिनत् , तस्मात्तक्ष्णे शिरो धृतं , तस्मादस्यान्नमन्नाद्यं , तस्य यत् सोमपं शिरा आसीत्स कपिञ्जलोऽभवत् , यत् सुरापं स कलविङ्को , येनान्नमावयत्स तित्तिरिः, स वै त्वष्टा पुत्रे हते सोमं आहरद् ऋत इन्द्रम् , तमधः शतशलेऽसुनोत् , अथो आहुः सहस्रशला, इति तस्मिन् वा इन्द्र उपहवमैच्छत, तन् नोपाह्वयत, तं प्रासहादाय नाड्या निरपिबत् , स सोमपीथेन व्यार्ध्यत, तस्मात् सोमो नानुपहूतेन पेयः, सोमपीथेन ह व्यर्धुको भवति, यदितोऽमुच्यत तौ सिंहा अभवताम् , यदितस्तौ व्याघ्रौ, यदितस्तौ वृकौ, यत् प्रथमं निरष्टीवत् तत् कुवलं अभवत् , यद् द्वितीयं तद् बदरं , यत् तृतीयं तत् कर्कन्धु , र्यदधस्तात् सा सुरा, तं वा एतयाश्विना अयाजयतां सौत्रामण्या, स यैरेव तदिन्द्रियैर् वीर्यैर् व्यार्ध्यत तानि अस्मिन्न् आप्त्वाधत्तां , सोमेनातिपुपुवानं याजयेत् , इन्द्रियेण वा एष वीर्येण व्यृध्यते यं सोमोऽतिपवते, यावदेवेन्द्रियं वीर्यं तदस्मिन्न् आप्त्वा दधाति, राजसूयेनाभिषिषिचानं याजयेत् , इन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते, यावदेवेन्द्रियं वीर्यं तदस्मिन्न् आप्त्वा दधाति, भूतिकामं याजयेत् , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति, यावदेवेन्द्रियं वीर्यं तदस्मिन्न् आप्त्वा दधाति, ज्योगामयाविनं याजयेत् , इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य ज्योग् आमयति, यावदेवेन्द्रियं वीर्यं तदस्मिन्न् आप्त्वा दधाति, नानार्तेन यष्टव्यं, इत्याहुर् , आर्तयज्ञ इव ह्येष, तदाहु, र्यष्टव्यं एव, सर्वो हि पुरुषा आर्तः, सर्वो बुभूषति, यदाश्विनी , अश्विनौ ह्यभिषज्यताम् , यत् सारस्वती, वाग् वै सरस्वती, वाचा ह्यभिषज्यताम् , यदैन्द्री, इन्द्रे हि तौ तानीन्द्रियाणि वीर्याण्याप्वाधत्तां ॥

2.4.2 अनुवाकः2
सीसेन क्लीबात् कार्या , अनृतं वै सीसं, अनृतं क्लीबो , अनृतं सुरा , अनृतेनैवानृतादनृतं क्रीणाति, तदाहुः, कार्या वडबा दक्षिणेति, सृत्वरी वडबा ह्येषा, सृत्वरी वडबा , आश्विनं प्रथमं आलभन्ते , अथ सारस्वतीम्, अथैन्द्रम् , एवं एव वपाभिश्चरति , इन्द्र एवैषु तदधिभवति , ऐन्द्रः पुनः प्रचरतां प्रथमो भवति , इन्द्रं वा एतत् पुनरालभन्ते सेन्द्रियत्वाय , ऐन्द्री वपानां उत्तमा भवति , ऐन्द्रः पुरोडाशानां प्रथमो , वीर्यं वा इन्द्रो , वीर्य एवैनं अभिसंधत्तः, प्रसवाय सावित्रो , निर्वरुणत्वाय वारुणो , मध्यतो ह्येष वरुणगृहीतः, पश्चाद्वा एषा सृष्टा प्रतीचीनशीर्ष्णी, यदुपरिष्टात् पुरोडाशो भवति , अपिहित्या अछिद्रत्वाय, सह समवत्तं भवति, सहेडामुपह्वयन्ते संहित्यै , अथो इडाया अविदोहाय, यद्वै सौत्रामण्याव्यृद्धं तदस्याः समृद्धं , यदन्यदेवत्याः पुरोडाशा भवन्ति , अन्यदेवत्याः पशवो तदस्या व्यृद्धं सत् समृद्धं, अर्धं वै प्रजापतेरात्मनो धैर्यमासीत् , अर्धं माल्व्यं , यद्धैर्यं तत् पुरस्तादकुरुत, यन्माल्व्यं तत् पश्चात् पर्यौहत, यद्धैर्यं, सोमो वै स, ततो ब्राह्मणमसृजत, तस्माद् ब्राह्मणः सर्व एव ब्रह्माभि धीरो , यन्माल्व्यं, सुरा वै सा, ततो राजन्यमसृजत, तस्माज् ज्यायांश्च कनीयांश्च स्नुषा च श्वशुरश्च सुरां पीत्वा विलालपत आसते, माल्व्यं हि तत् , पाप्मा वै माल्व्यं, तस्माद् ब्राह्मणः सुरां न पिबेत् , पाप्मनात्मानं नेत् संसृजा इति, तदुतैतद् राष्ट्रीयाय ब्राह्मणं ब्रूयात् , तद्य एवं विद्वान्त् सुरां पिबति न हैनं द्रूणाति, एषा वै प्रजापतेर् वीर्यवती तनू , र्वीर्यं प्रजापति, र्वीर्यमस्मिन् दधाति ॥

2.4.3 अनुवाकः3
ततो यः सोमोऽत्यरिच्यत तमग्ना उपप्रावर्तयत् । स्वाहेन्द्रशत्रुर्वर्धस्व ॥ इति , इन्द्रस्याहैनं शत्रुमचिकीर्षत् , इन्द्रमस्य शत्रुमकरोत् , तथा वाक् स्वयमेव व्यैत् , स यं सोमं प्रावर्तयद्यस्मिंश्चाग्ना उपप्रावर्तयत्ता अग्नीषोमौ देवते प्राणापाना अभिसमभवताम् , स यावद् ऊर्ध्वबाहुः पराविध्यत्तावति व्यरमत, यदि वा प्रवणं तावदासीद्, यदि वाग्नेरधि तावदासीत्, स वा इषुमात्रमेवाह्ना तिर्यङ्ङ् वर्धतेषुमात्रमन्वङ् , अथो आहु , रहोरात्रे एवेषुमात्रं तिर्यङ्ङ् अवर्धते, षुमात्रमन्वङ्ङ् , इति अथो आहुर् अर्धमासं , अथो मासं, अथो संवत्सरमिति, स वा इमाः सर्वाः स्रोत्याः पर्यशयत् , तस्माद्वा इन्द्रोऽबिभेत् , तस्मादु त्वष्टाबिभेत् , तस्येन्द्रः प्रत्तिम् ऐच्छत् , तमस्मै प्रायच्छत् , तस्मै त्वष्टा वज्रं असिञ्चत् , तपो वै स वज्र आसीत् , तं उद्यमं नाशक्नोत् , अथ वै तर्हि विष्णुरन्या देवतासीत्, सोऽब्रवीत् , विष्णा एहीदमाहरिष्यावो येनायम् इदमिति, स त्रेधात्मानं विन्यधत्त , अभिपर्यावर्तादबिभेत् , अस्यां तॄतीयम्, अन्तरिक्षे तॄतीयम् , दिवि तृतीयम् , स यदस्यां तॄतीयमासीत्तेन वज्रं उदयच्छत् , विष्ण्वनुष्ठितः स वज्रं उद्यतं दृष्ट्वाबिभेत् , सोऽब्रवीत् , अस्ति वा इदं त्यस्मिन्नन्तर् वीर्यं तत्ते प्रदास्यामि, मा मा वधीरिति, तद्वा अस्मै प्रायच्छत् , तत् प्रत्यगृह्णात् ॥अधा मा ॥ इति, तद्विष्णवेऽतिप्रायच्छत् , तद्विष्णुः प्रत्यगृह्णात् ॥
अस्मास्विन्द्र इन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।
अस्माकं सन्त्व् आशिषः ॥
इति सोऽवेत् , अस्ति वावास्मिन्नन्तर् वीर्यम् इति, स यदन्तरिक्षे तॄतीयमासीत् , तेन वज्रं उदयच्छत् , विष्ण्वनुष्ठितः स वज्रं उद्यतं दृष्ट्वाबिभेत् , सोऽब्रवीत् , अस्ति वा इदं त्यस्मिन्नन्तर् वीर्यम् , तत्ते प्रदास्यामि, मा मा वधीरिति, तद्वा अस्मै प्रायच्छत् , तत् प्रत्यगृह्णात् ॥ द्विर्माधाः ॥
इति तद्विष्णवेऽतिप्रायच्छत् , तद्विष्णुः प्रत्यगृह्णात् ॥
अस्मास्विन्द्र इन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।
अस्माकं सन्व्इन आशिषः ॥
इति सोऽवेत् , अस्ति वावास्मिन्नन्तर् वीर्यम् इति, स यद्दिवि तॄतीयमासीत्तेन वज्रं उदयच्छत् , विष्ण्वनुष्ठितः स वज्रं उद्यतं दृष्ट्वाबिभेत् , सोऽब्रवीत् , अस्ति वा इदं त्यस्मिन्नन्तर् वीर्यम् , तत्ते प्रदास्यामि, मा मा वधीः ॥ संधां नु संदधावहै यथा त्वामेव प्रविशानीति, सोऽब्रवीत् , यन् मां प्रविशेः किं मे ततः स्यादिति, सोऽब्रवीत् , त्वामेवेन्धीय, तव भोगाय त्वां प्रविशेयमिति, तद्वा अस्मै प्रायच्छत् , तत् प्रत्यगृह्णात् ॥ त्रिर्माधाः ॥ इति तद्वाव त्रैधातव्या, सहस्रं वा अस्मै तत् प्रायच्छद् ऋचः सामानि यजूंषि, यद्वा इदं किं च तत् त्रैधातव्या, तदाप्नोति पशून् एव ॥

2.4.4 अनुवाकः4
उदरं वै वृत्रः पाप्मा क्षुद् भ्रातृव्यः पुरुषस्य, यत्तप उपैति पाप्मानं वा एतत् , स्तृणुते भ्रातृव्यं क्षुधमेव, तस्मिन् वा अवदेताम् , सेयमस्या अध्य् ऊर्ध्वा वागवदत् ॥
उभा जिग्यथुर्न पराजयेथे न पराजिग्ये कतरश्चनैनोः ।
इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथां ॥
इति सत्यमाहेत्यब्रवीत् , द्वे एव तॄतीये आहर्तुरेकं प्रतिग्रहीतुरिति, तौ वै तत्रैवातिष्ठेताम् , तस्मादैन्द्रावैष्णवं , त्रिरात्रस्य वा उपेप्सायै त्रैधातव्याह्रियते, यावद्वै त्रिरात्रेणोपाप्नोति तावत् त्रैधातव्ययावरुन्धे , तस्मादाहुः, सहस्रदक्षिणेति , उष्णिहाककुभा अन्वाह, गायत्री वा उष्णिहा , अथ यानि एतानि चत्वार्यक्षराण्य् ऋच्यधि, चतुष्पादो वा एते पशवो , यथा वा इदं पुरोडाशे पुरोडाशोऽध्येवं वा एतद्यद् ऋच्यध्यक्षराणि, प्राणो वै गायत्री, प्राणेन पशवो यता , यदुष्णिहाककुभा अन्वाह पशूनां यत्यै ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः ।
तिस्र उ ते तन्वो देववातास्ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥
इति परिदधाति वीरताया , अथो रूपताया एव, यज्जगत्या परिदध्यादन्तं गछेत् , अथ यत् त्रिष्टुभा परिदधाति तान्तं गच्छति , ओजो वै वीर्यं त्रिष्टुप् , ओजस्येव वीर्ये प्रतितिष्ठति ॥

2.4.5 अनुवाकः5
सर्वाभ्यो देवताभ्यो यज्ञ आहृत्या, इत्याहुः, सर्वो वा एष यज्ञः, सर्वाभ्यो हि देवताभ्यो यज्ञ आह्रियते, सर्वाणि छन्दांस्यन्वाह, सर्वाणि हि छन्दांसि यज्ञे प्रयुज्यन्ते , अभिचरन्नाहरेत् , सर्वो वा एष यज्ञः, सर्वेणैवैनं यज्ञेनाभिचरति , अदक्षिणः तु स्या, स्तत्स्विन्मेनिमक , र्मेनिर् ह्यदक्षिणो , अथ यो यक्ष्य, इत्य् उक्त्वा न यजेत तं एतेन याजयेत् , सर्वो वा एष यज्ञः, सर्वेणैवास्मै यज्ञेन प्रायश्चित्तिं विन्दति , उत्तर उत्तरः पुरोडाशो ज्यायान् भवति , उत्तर उत्तरो हि लोको ज्यायान् , यथा वा इयमेवमसा , अथ वा अन्तरिक्षम् , नास्या रूपं नामुष्या, स्तस्माद्यवमयो मध्यतो , अथो एवं इव ह्यन्तरिक्षस्य रूपं , द्वादशकपालो भवति, यद्वै त्रिस्त्रिस्तत् त्रैधातव्यायाः समृद्धं , सर्वेषामतिघातं अवद्यति , अच्छम्बट्काराय, यावता हि न प्राप्नुयात्तावता छम्बट्कुर्यात् , एतद्वै तद्यदाहु, श्छम्बण्णासा इति, वास इव वै यज्ञ ऊयते, यत्तार्प्याणि विषीव्यन्ति यजुषां तद् रूपं , यद् धेनवो दीयन्त उक्थामदानां तत् , यद्धिरण्यं दीयते चन्द्रं गीयता, इति वै सामाहुः साम्नां तद् रूपं, एतेन वै सृञ्जया अयजन्त, ते श्रियोऽन्तमगच्छन् , तस्मान् नातिबहु यष्टव्यं, ईश्वरो हि पराङ् अतिपत्तो , र्यो वा एतेन यजते वि स छिनत्ति, पुत्रो याजयितव्यो , अनुसंतत्यै ॥

2.4.6 अनुवाकः6
आग्नेयमष्टाकपालं निर्वपेदैन्द्रमेकादशकपालं बार्हस्पत्यं चरुम् भूतिकामं याजयेत् , इन्द्रो वै शिथिर इवामन्यत, सोऽग्निं च बृहस्पतिं चाब्रवीत् , याजयतं मेति, तं वा एतयाग्निश्च बृहस्पतिश्चायाजयताम् , तस्मिंस्तेजोऽग्निरदधात् , इन्द्रियमिन्द्रो , ब्रह्म बृहस्पति, स्तता इन्द्रोऽभवत् , यो भूतिकामः स्यात् तं एतया याजयेत् , तेज एवास्मिन्नग्निर्दधाति , इन्द्रियमिन्द्रो , ब्रह्म बृहस्पति , र्भवत्येव, यदस्मिंस्त्रीणि वीर्याण्यधत्तां तस्मात् त्रिधातु , रैन्द्र इतरा, अभिसंश्लेषयन्ति सेन्द्रियत्वाय ॥

2.4.7 अनुवाकः7
पुरोवात जिन्व रावट् स्वाहा, वातवान् वर्षन् भीम रावट् स्वाहा, स्तनयन्वर्षन्न् उग्र रावट् स्वाहा , अतिरात्रं ववर्वा िन् पूर्त रावट् स्वाहा, बहु ह वा अयमवर्षीदिति, श्रुत रावट् स्वाहा, तपति वर्षन् विराड् रावट् स्वाहा,ऽवस्फूर्जन् विद्युद्वर्षंस्त्वेष रावट् स्वाहा, नशनि अवस्फूर्जन्वर्षन् भूत रावट् स्वाहा ॥
मान्दा वशा ज्योतिष्मतीरमस्वरीः शुन्धो अज्रा उन्दतीः सुफेनाः ।
मित्रभृतः क्षत्रभृतः सुराष्ट्रा इह नोऽवत ॥
वृष्णो अश्वस्य संदानं असि, वृष्ट्यै त्वोपनह्यामि ॥
देवा वसव्या अग्ने सोम सूर्यापो दत्तोदधिं भिन्त ।
दिवः पर्जन्यादन्तरिक्षात् पृथिव्यास्ततो नो वृष्ट्यावत ॥
देवाः शर्मण्या मित्रवरुणार्यमन्नपो दत्तोदधिं भिन्त ।
दिवः पर्जन्यादन्तरिक्षात् पृथिव्यास्ततो नो वृष्ट्यावत ॥
देवाः सपीतयोऽपां नपान् नराशँसापो दत्तोदधिं भिन्त ।
दिवः पर्जन्यादन्तरिक्षात् पृथिव्यास्ततो नो वृष्ट्यावत ॥
दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन ।
यत्पृथिवीं व्युन्दन्ति ॥
आ यन् नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः ।
प्र पर्जन्यः सृजतां रोदसी अनु धन्वना यन्तु वृष्टयः ॥
उदीरयता मरुतः समुद्रतो दिवो वृष्टिं वर्षयता पुरीषिणः ।
न वो दस्रा उपदस्यन्ति धेनवः शुभे कमनु रथा अवृत्सत ॥
सृजा वृष्टिं दिवो , आद्भिः समुद्रं पृण, ये देवा दिविभागाः स्थ ये अन्तरिक्षभागा ये पृथिवीभागास्त इदं क्षेत्रं आविशत, त इदं क्षेत्रमनुविविशत ॥

2.4.8 अनुवाकः8
वृष्टिर्वै देवेभ्योऽन्नाद्यमपाक्रामत् , तत इदं सर्वमशुष्यत् , ते देवाः प्रजापतिमेवोपाधावन् , तान् वा एतया प्रजापतिरयाजयत् कारीर्या, तेभ्यो वृष्टिमन्नाद्यमवारुन्द्ध , यत्र पर्जन्यो न वर्षेत्तदेतया ज्येष्ठं वा पुरोहितं वा याजयेत् , वृष्टिर्वा एतेभ्योऽन्नाद्यमपक्रामति यत्र पर्जन्यो न वर्षति, यत् कारीर्या याजयन्ति वृष्ट्या अन्नाद्यस्यावरुद्यैन् , अष्टौ वातहोमा अष्टौ दिशा, इति दिग्भ्य एवैतैर् वृष्टिमावर्तयन्ति, मान्दा वशा ज्योतिष्मतीरमस्वरी, रिति एतानि वा अपां नामधेयानि, यथा वा इदं नामग्राह, मसा असा इति ह्वयत्ये, वं वा एतदपो नामधेयैश्च्यावयति, वृष्णो अश्वस्य संदानं असीति, वृषा ह्यश्वो , वृषा पर्जन्यः, समृद्यैर् वृष्ट्यै त्वोपनह्यामीति, वृष्ट्यै ह्युपनह्यति, देवा वसव्या अग्ने सोम सूर्ये, ति देवताभिरेवान्वहं वृष्टिमच्छैति, यदि न वर्षेत्तत्रैव वसेयु, रहोरात्राभ्यां एव वृष्टिं च्यावयन्ति, करीराणि भवन्ति वृष्ट्या अन्नाद्यस्यावरुद्यै, , मधूद्युतानि भवन्ति , अपां वा एष ओषधीनां रसो , अपामेवैना ओषधीनां रसेनाच्छैति, रसेनैनाश्च्यावयति , अग्नये धामछदेऽष्टाकपालं निर्वपेन्मारुतं सप्तकपालं सौर्यमेककपालं , वृष्टिकामं याजयेत् , अग्निर्वा इतो वृष्टिम् ईट्टे, मरुतोऽमुतश्च्यावयन्ति, तां सूर्यो रश्मिभिर्वर्षति , एते वै वृष्ट्याः प्रदातार, स्तान् एव भागधेयेनोपासरत् , तेऽस्मै वृष्टिं प्रयच्छन्ति, सृजा वृष्टिं दिव आद्भिः समुद्रं पृणे, ति इमाश्चैवामूश्च समस्रा, डाभिरमूरच्छैति, ये देवा दिविभागाः स्थ ये अन्तरिक्षभागा ये पृथिवीभागास्त इदं क्षेत्रं आविशत त इदं क्षेत्रं अनुविविशतेति , इमान् एव लोकान् वृष्ट्यै संमृशति ॥
इति मध्यमकाण्डे चतुर्थः प्रपाठकः।।