सामग्री पर जाएँ

मैत्रायणीसंहिता/काण्डं २/प्रपाठकः ०३

विकिस्रोतः तः

काम्या इष्टयः

2.3.1 अनुवाकः1
आग्नेयमष्टाकपालं निर्वपेन् मैत्रावरुणीं पयस्यां आमयाविनं याजयेत् , ऋद्यासम एवाग्नेयो , अथो अस्थन्वन्तमेवैनं कृत्वा प्रतिष्ठापयति , ईश्वरा वै पयस्या ऋते पशोरशान्ता निर्मृजः, पशुरप्यालभ्यः शन्त्या अनिर्मार्गाय , एते वै पशवो यद् व्रीहयश्च यवाश्च, यद् व्रीहिमयः पुरोडाशो भवति तेनैव पशुरालभ्यते शान्त्या अनिर्मार्गाय, मैत्रावरुणी ब्राह्मणस्य स्यात् , मैत्रावरुणो हि ब्राह्मणो देवतया , ऐन्द्रवारुणी राजन्यस्य स्यात् , ऐन्द्रवारुणो हि राजन्यो देवतया , आग्निवारुणी वैश्यस्य स्यात् , अग्निर्वै सर्वा देवता, अत्र वैश्यस्यापि देवता , आमयाविनं याजयेत् , स्वामेव देवतां प्रायश्चित्त्या उपासरत् , वरुणगृहीतो वा एष य आमयावी, वरुणादेवैनं तेन मुञ्चति, पयो वै पुरुषः, पय एतस्यामयति, पयसैवास्य पयो निष्क्रीणाति, यद् व्यूहति, विकृत्य हि शल्यं मध्यतो निर्हरन्ति, तद्यक्ष्मं वावास्यैतन्मध्यतो निर्हरन्ति , अथ यत् पुनः समुह्याग्नये समवद्यति यथा शल्यं निर्हृत्योष्णीषेण वेष्टयन्त्येवं तद् भूतिकामं याजयेत् , स्वामेव देवतां प्रायश्चित्त्या उपासरत् , वरुणगृहीतो वा एष यो भूतिकामो , वरुणादेवैनं तेन मुञ्चति, पयो वै पुरुषः, पय एष इच्छति यो भूतिमिच्छति, पयसैवास्मै पयोऽवरुन्धेयं, यद् व्यूहति यज्ञस्य गोपीथाय , अथ यत् पुनः समूहति भूत्यैवैनं समूहति, ग्रामकामं याजयेत् , स्वामेव देवतां प्रायश्चित्त्या उपासरत् , वरुणगृहीतो वा एष यो ग्रामकामो , वरुणादेवैनं तेन मुञ्चति, पयो वै पुरुषः, पय एष इच्छति यो ग्रामं इछति, पयसैवास्मै पयोऽवरुन्धे ि, यद् व्यूहति यज्ञस्य गोपीथाय , अथ यत् पुनः समूहति, ग्रामेणैवैनं समूहति , एककपालान् जुहोति , अत्रात्र वै वरुणस्य पाशा, स्तत एनं मुञ्चति, यन्नाना जुहुयाद्, विकर्षः स यज्ञस्य , अग्नौ सर्वे होतव्याः समृद्यैएन ॥ या वां मित्रावरुणा ओजस्या तनूस्तया वां विधेम, तयेमममुं मुञ्चतमंहसो , या वां मित्रावरुणौ सहस्या तनूस्तया वां विधेम, तयेमममुं मुञ्चतमंहसो , या वां मित्रावरुणौ यातव्या तनूस्तया वां विधेम, तयेमममुं मुञ्चतमंहसो , या वां मित्रावरुणौ रक्षस्या तनूस्तया वां विधेम, तयेमममुं मुञ्चतमंहसो , या वां मित्रावरुणा ओजस्या सहस्या यातव्या रक्षस्या तनूस्तया वां अविधाम, तयेमममुममौक्तमंहसो , यस्ते राजन्वरुण देवेषु पाशस्तं त एतेनावयजे, तस्मै ते स्वाहा, यस्ते राजन्वरुणान्ने पाशस्तं त एतेनावयजे, तस्मै ते स्वाहा, यस्ते राजन्वरुण द्विपात्सु चतुष्पात्सु पशुषु पाशस्तं त एतेनावयजे, तस्मै ते स्वाहा, यस्ते राजन्वरुणौषधीषु वनस्पतिष्वप्सु पृथिव्यां दिक्षु पाशस्तं त एतेनावयजे, तस्मै ते स्वाहा ॥ एते वै वरुणस्य पाशा, स्तत एनं मुञ्चति ॥

2.3.2 अनुवाकः2
वैश्वदेवं चरुं निर्वपेद् भ्रातृव्यवान् , देवाश्च वा असुराश्चास्पर्धन्त, ते देवाः संग्रहणेनायजन्त, ते यत् किंचासुराणां स्वमासीत्तत्समगृह्णन् , मनांसि वावैषां तत्समगृह्णन् , तेऽमनसः पराभवन् , भ्रातृव्यवान् यजेत, मनोग्रहणं वा एतत् , मनांसि वा एतद् भ्रातृव्याणां संगृह्णाति, तेऽमनसः पराभवन्ति, ग्रामकामो यजेत, मनोग्रहणं वा एतत् , मनांसि वा एतत्सजातानां संगृह्णाति, तेऽस्मान्मनोगृहीता नापयन्ति, सर्वेषां सजातानां गृहादाज्यमाहरेयु , र्यावतामेव कियतां च गृहादाज्यमाहरन्ति तेषां सर्वेषां मनांसि संगृह्णाति, तेऽस्मान्मनोगृहीता नापयन्ति , आमनेन जुहोति , आमनस एवैनान् करोति ॥ आमनस्य देव ये सजाताः समनसस्तानहं कामये हृदा, ते मां कामयन्तां हृदा, तान्मा आमनसस्कृधि स्वाहा , आमनस्य देव ये पुत्राः समनसस्तानहं कामये हृदा, ते मां कामयन्तां हृदा, तान्मा आमनसस्कृधि स्वाहा , आमनस्य देव याः स्त्रियः समनसस्ता अहं कामये हृदा, ता मां कामयन्तां हृदा, तान्मा आमनसस्कृथि स्वाहा , आमनस्य देव ये पशवः समनसस्तानहं कामये हृदा, ते मां कामयन्तां हृदा, तान्मा आमनसस्कृधि स्वाहा ॥ एते वै सजाताः सजाता इव पुत्रा इव स्त्रिय इव पशव इव, तैरात्मानं अभिसंयुङ्क्ते, तैर्भवति, पृषती गौर् धेनुर्दक्षिणा, सा हि वैश्वदेवी , अथ यद् वैश्वदेवीष्टि , र्वैश्वदेवीर्वा इमाः प्रजा, स्ता एवावारुन्द्ध, ता आद्या अकृत, बहिरात्मं वै प्रयाजानुयाजा, आत्मा देवता, यत् प्रयाजानुयाजानां पुरस्ताद्वोपरिष्टाद्वा जुहुयाद् बहिरात्मं सजातान् दधीत , अथ यन्मध्यतो जुहोति, मध्यत एव सजातानात्मन् धत्ते, यदि कामयेत, ताजग् एयुस्ताजक् परेयुरिति दारुमयेण जुहुयात् , चराचरा हि वनस्पतयो , यदि कामयेत ध्रुवाः स्युः कृछ्रादेयुरिति मृन्मयेन जुहुयात् ॥ ध्रुवा हीयम् , ध्रुवोऽसि, ध्रुवस्त्वं देवेष्वेधि, ध्रुवोऽहं सजातेषु भूयासं प्रियः सजातानां उग्रश्चेत्ता वसुवित् , उग्रोऽसि , उग्रस्त्वं देवेष्वेधि , उग्रोऽहं सजातेषु भूयासं प्रियः सजातानां उग्रश्चेत्ता वसुवित् , अभिभूरसि , अभिभूस्त्वं देवेष्वेधि , अभिभूरहं सजातेषु भूयासं प्रियः सजातानां उग्रश्चेत्ता वसुवित्, परिभूरसि, परिभूस्त्वं देवेष्वेधि, परिभूरहं सजातेषु भूयासं प्रियः सजातानां उग्रश्चेत्ता वसुवित् , सूरिरसि, सूरिस्त्वं देवेष्वेधि, सूरिरहं सजातेषु भूयासं प्रियः सजातानां उग्रश्चेत्ता वसुवित् ॥ एते वै सजातास्तानस्मिन् दधाति, तानस्मादनपक्रमिणः करोति ॥

2.3.3 अनुवाकः3
अथैषोऽश्वः प्रतिगृह्यते, स वा उभयतोदन् प्रतिगृहीतो निर्बभस्त्यस्येन्द्रियं च पशूंश्च, वरुणो वा अश्वो वरुणदेवत्यो , यो वा अश्वं प्रतिगृह्णाति वरुणं स प्रसीदति, तदश्वहविषा यष्टव्यं , निर्वरुणत्वाय, चतुष्कपाला भवन्ति, चतुष्पाद्वा अश्वः, कपालैरेवैनं आप्नोति, यावन्तोऽश्वास्तावन्तः पुरोडाशा भवन्ति, सर्वत एवैनं मुञ्चति , एकोऽधि भवति, यन् नोपस्मरति तस्मा एव स, यः पुनः प्रतिग्रहिष्यन्स्यारिन् न स यजेत, यद्धि पुनः प्रतिगृह्णीयात् पुनर्वरुणं प्रसीदेत् , अथ यः पुनः प्रतिग्रहीष्यन्स्यानोत्तस्य वारुणा नेमाः स्युः सौर्यवारुणा नेमा, यद्वारुणो , वरुणादेवैनं तेन मुञ्चति , अथ यत्सौर्यः, स्वामेव देवताम् उपप्रतिगृह्णाति , आत्मनोऽहिंसायै , एकविंशतिः सामिधेनीर्भवन्ति , असा आदित्य एकविंशः, प्रजापतिरसा आदित्यः, प्राजापत्योऽश्वो , यावान् एवाश्वस्तमाप्नोति, सर्वे वा अन्ये पशवो योनिमन्तः पुरुषयोनयो , अयोनिरश्वोऽप्सुजा, यदेषोऽपोनप्त्री, यश्चरुर्भवति योनिमन्तमेवैनं अकः, स्व एवैनं योनौ प्रतिष्ठापयति ॥ यस्ते राजन्वरुण गायत्रछन्दाः पाशो ब्रह्मन् प्रतिष्ठितस्तं त एतेनावयजे, तस्मै ते स्वाहा, यस्ते राजन्वरुण त्रिष्टुप्छन्दाः पाशः क्षत्रे प्रतिष्ठितस्तं त एतेनावयजे, तस्मै ते स्वाहा, यस्ते राजन्वरुण जगच्छन्दाः पाशो विशि प्रतिष्ठितस्तं त एतेनावयजे, तस्मै ते स्वाहा, यस्ते राजन्वरुणानुष्टुप्छन्दाः पाशो दिक्षु प्रतिष्ठितस्तं त एतेनावयजे, तस्मै ते स्वाहा ॥ छन्दांसि वै वरुणस्य पाशा, स्तैर् एनं गृह्णाति, यैर् एनं गृह्णाति तैर् एनं मुञ्चति , अपोनप्त्रीयाभ्यां द्वाभ्यां जुहोति, य एवाप्सव्यो वरुणस्तत एनं मुञ्चति ॥

2.3.4 अनुवाकः4
अग्नेरायुरसि, तेनास्मा अमुष्मा आयुर्देहि , इन्द्रस्य प्राणोऽसि, प्राणं देह्यमुष्मै यस्य ते प्राणः, स्वाहा, पितॄणां प्राणोऽसि, प्राणं दत्तामुष्मै येषां वः प्राणः, स्वाहा, विश्वेषां देवानां प्राणोऽसि, प्राणं दत्तामुष्मै येषां वः प्राणः, स्वाहा, बृहस्पतेः प्राणोऽसि, प्राणं देह्यमुष्मै यस्य ते प्राणः, स्वाहा, प्रजापतेः प्राणोऽसि, प्राणं देह्यमुष्मै यस्य ते प्राणः स्वाहा ॥
यन् नवमैत्तन् नवनीतमभवद्यदसर्पत् तत्सर्पिः ।
यदघ्रियत तद् घृतं ॥
घृतस्य पन्थां अमृतस्य नाभिम् इन्द्रेण दत्तं प्रयतं मरुद्भिः ।
तत् त्वा विष्णुरन्वपश्यत् तत्त्वेडा गव्यैरयत् ॥
पावमानस्य त्वा स्तोमेन गायत्रस्य वर्तन्योपांशोस्त्वा वीर्येणोत्सृजे, बृहता त्वा रथंतरेण त्रैष्टुभ्या वर्तन्या शुक्रस्य त्वा वीर्येणोद्धरे , अग्नेष्ट्वा मात्रया जागत्या वर्तन्या देवस्त्वा सवितोन्नयतु जीवात्वै जीवनस्यायै ॥
इदं वर्चो अग्निना दत्तमागान्महि राधः सह ओजो बलं यत् ।
दीर्घायुत्वाय शतशारदाय प्रतिगृभ्णामि महत इन्द्रियाय ॥
इममग्ना आयुषे वर्चसे कृधि तिग्मम् ओजो वरुण सोम राजन् ।
मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत् ॥
अग्निरायु, स्तस्य मनुष्या आयुष्कृत, स्तेनायुषायुष्मान् एधि, ब्रह्मायु, स्तस्य ब्राह्मणा आयुष्कृत, स्तेनायुषायुष्मान् एधि, यज्ञ आयु, स्तस्य दक्षिणा आयुष्कृत, स्तेनायुषायुष्मान् एधि , अमृतमायु, स्तस्य देवा आयुष्कृत, स्तेनायुषायुष्मान् एधि , अश्विनोः प्राणोऽसि, तौ ते प्राणं दत्तां , तेन जीव, मित्रावरुणयोः प्राणोऽसि, तौ ते प्राणं दत्तां , तेन जीव, बृहस्पतेः प्राणोऽसि, स ते प्राणं ददातु, तेन जीव, प्रजापतेः परमेष्ठिनः प्राणोऽसि, स ते प्राणं ददातु, तेन जीव ॥

2.3.5 अनुवाकः5
आग्नावैष्णवं एकादशकपालं निर्वपेत् , सारस्वतं चरुं बार्हस्पत्यं चरुम् , पूर्वेद्युरामयाविनं याजयेत् , अग्निर्वै सर्वा देवता, विष्णुर्यज्ञो , देवताभिश्चैवास्मिन् यज्ञेन चायुर्दधाति, वाक् सरस्वती, ब्रह्म बृहस्पति , र्वाचा चैवास्मिन् ब्रह्मणा चायुर्दधाति , अथो प्राणा वै देवताः, प्राणान् वा एतत् पूर्वेद्युर्गृहीत्वोपवसति, स श्वो भूत आग्नेयमष्टाकपालं निर्वपेत् , सौम्यं पयसि चरुमादित्यं घृते चरुं वारुणं चरुं यवमयमियन्तमग्नये वैश्वानराय द्वादशकपालं आमयाविनं याजयेत् , यो वै प्रमीयतेऽग्निं तस्य शरीरं गच्छति सोमं रसो , यदाग्नेयः, शरीरं एवास्य तेन निष्क्रीणाति, यत्सौम्यो , रसं तेन, यावान् एव तं निष्रीयाय , इयं वा अदिति, रस्यामधि प्रजाः प्रजायन्ते , अस्यां एवैनं अधि प्रजानयति , इयांश्चरुर्भवति , एतावान् वा आत्मा, यावान् एवास्यात्मा तं वरुणान् मुक्त्वा, संवत्सरो वा अग्निर्वैश्वानरः, संवत्सर एवैनं प्रतिष्ठापयति, संवत्सरायुषं एनं करोति , अग्नेरायुरसि, तेनास्मा अमुष्मा आयुर्देहीति , अग्निर्वै मनुष्याणामायुषः प्रदाता, सोऽस्मा आयुः प्रयच्छति, पञ्चभिर्जुहोति, पाङ्क्तः पुरुषो , यावान् एव पुरुषस्तं समीरयति, यावान् एव पुरुषस्तं समीरयित्वा , अयं वाव यः पवत एष प्राणः , आभ्यो वा एष दिग्भ्योऽधिपवते , एतद्देवत्या वा इमा दिशो , यथादेवतं वावैनं एतदाभ्यो दिग्भ्योदिऽधि समीरयित्वा प्राणानस्मिन् दधाति ॥
यन् नवमैत्तन् नवनीतमभवद्यदसर्पत्तत्सर्पिः ।
यदघ्रियत तद् घृतं ॥
इति घृतस्य वा एतन्महिमानं उदाचष्टे , अथो महयत्य् एवैनत् , पावमानस्य त्वा स्तोमेन गायत्रस्य वर्तन्योपांशोस्त्वा वीर्येणोत्सृजा, इति यथा वा इदं वध्यम् उत्सृजत्य् उद्धरत्य् उन्नयत्येवं तत् , एतावद्वा अस्ति स्तोमा ग्रहाश्छन्दांसि, यावदेवास्ति तेनास्मा आयुर्दधाति, यज्ञेनास्मा आयुर्दधाति, सर्व ऋत्विजः पर्याहुः, सर्वे वा एत एतस्मै चिकित्सन्ति, सर्व एवास्मा आयुर्दधाति , ब्रह्मणो हस्तमालभ्य पर्याहु , र्ब्रह्म वै ब्रह्मा, ब्रह्मणैवास्मिन् ब्रह्मायुर्दधाति, हिरण्यादधि घृतं निष्पाययन्ति , अमृतं वै हिरण्यम्, आयुर्घृतं, अमृतादेवैनं अध्यायुर् निष्पाययन्ति निरिव धयति , आयुरेवात्मन् धत्ते, तदस्मा आबध्नाति , आयुषैनं समर्धयति , आग्नेय्यां बध्नाति , अग्निर्वै सर्वा देवता, सर्वाभिरेवास्मिन् देवताभिरायुर्दधाति , अग्निरायु, स्तस्य मनुष्या आयुष्कृत, स्तेनायुषायुष्मान् एधीति, यो वै देवानायुष्मतश्चायुष्कृतश्च वेद सर्वमायुरेति न पुरायुषः प्रमीयते , एते वै देवा आयुष्मन्तश्चायुष्कृतश्च यदिमे प्राणा, स्तेऽस्मिन्नायुर्दधाति , अश्विनोः प्राणोऽसि तौ ते प्राणं दत्तां, तेन जीवेति , इमे वा एते प्राणा, स्तानस्मिन् दधाति, तानस्मादनपक्रमिणः करोति, दश देया , दश ह्यात्मन् प्राणाः, प्राणानस्मिन् दधाति , अश्वो देयो , वासो देयम् , हिरण्यं देयम् , गौर्देयो , वरो देयो , बहु देयम् ॥

2.3.6 अनुवाकः6
आग्नेयमष्टाकपालं निर्वपेदैन्द्रं पञ्चकपालं दधि मधु घृतं धाना उदकं, तत् संसृष्टं भवति , अर्यम्णे चरुर्भवति, ऋद्यापि एवाग्नेय , ऐन्द्रः पञ्चकपालः, पाङ्क्तो यज्ञः, पङ्क्ती याज्यानुवाक्ये, पाङ्क्ताः पशवः, पाङ्क्तः पुरुषो , यावान् एव पुरुषस्तमाप्नोति, स सर्वो भूत्वा पशूनाप्नोति, पशव इव ह्येतत् संसृष्टं, अथो यावन्त एव पशवस्तानस्मै संसृजति, तदाहु , रैन्द्र एकादशकपालः कार्या, इति ऐन्द्रा हि पशवो , अथो आहुः, प्राजापत्यं कार्यम् इति, प्राजापत्या हि पशवः, प्रजापतिः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति , अथैषोऽर्यम्णे चरु , र्यो ददाति सोऽर्यमा, दानं अर्यमा, दानकामा अस्मै प्रजा भवन्ति , अग्नये भ्राजस्वतेऽष्टाकपालं निर्वपेत्सौर्यं चरुमग्नये भ्राजस्वतेऽष्टाकपालं , चक्षुष्कामं याजयेत् , अग्नेर्वै मनुष्या नक्तं चक्षुषा पश्यन्ति सूर्यस्य दिवा , एतौ वै चक्षुषः प्रदातारौ, ता एव भागधेयेनोपासरत्, ता अस्मै चक्षुः प्रयच्छतः, समानं वै चक्षुर्दधातु, यत्समानी देवता चरुमभितो भवति नानानं एवास्मै चक्षुषी प्रतिदधाति, यावदन्यतरेणाक्णा,् पश्यति तावदुभाभ्यां पश्येद्यच्चरुरन्तरा न स्यात् , अथ यच्चरुरन्तरा भवति, तस्मादिदमन्तरा चक्षुषोर् विधृत्यै, शुक्ला व्रीहयो भवन्ति, श्वेता गा आज्याय दुहन्ति , एवं इव ह्यसा आदित्यः समृद्यै, , पयसि भवति, पयो वै घृतं , पयश्चक्षुः, पयसैवास्मै पयश्चक्षुर्दधाति, सौरीभिरादधाति, चक्षुरस्मिन् दधाति ॥

2.3.7 अनुवाकः7
देवा असुराणां वेशत्वमुपायन् , इन्द्रस्तु नाप्युपैत् , तेषां वा इन्द्रियाणि वीर्याण्यपाक्रामन् , अग्ने रथंतरम् , इन्द्रस्य बृहत् , विश्वेषां देवानां वैरूपं , सवितुर्वैराजं , त्वष्टू रेवती, मरुतां शक्वरी, तानि वा इन्द्रोऽन्वपाक्रामत् , तैरात्मानं अभिसमयुङ्क्त, तैरभवत् , यो भूतिकामः स्यात् तं एतया याजयेत् , एतैरेवेन्द्रियैर् वीर्यैरात्मानं अभिसंयुङ्क्ते, तैर्भवति, द्वादशकपालो भवति वैश्वदेवत्वाय , उत्तानानि कपालानि उपदधाति, तत् स्विच्चरुमकर् अनिर्दाहाय , अभिशस्यमानं याजयेत् , यस्य वै देवा अन्नमदन्त्यदन्ति तस्य मनुष्या अन्नं , सर्वा वा एता देवताः, सर्वा वावास्यैतद्देवता अन्नमजीघसत् , अदन्ति हास्य मनुष्या अन्नं ॥ इन्द्राय राथंतरायानुब्रूहि ॥ इति रथंतरस्या ऋचमनूच्य बृहत ऋचा यजेत् ॥ इन्द्राय बार्हतायानुब्रूहि ॥ इति बृहत ऋचमनूच्य रथंतरस्य ऋचा यजेत् ॥ इन्द्राय वैरूपायानुब्रूहि ॥ इति वैरूपस्या ऋचमनूच्य वैराजस्य ऋचा यजेत् ॥ इन्द्राय वैराजायानुब्रूहि ॥ इति वैराजस्या ऋचमनूच्य वैरूपस्य ऋचा यजेत् ॥ इन्द्राय रैवतायानुब्रूहि ॥ इति रेवतीमनूच्य शक्वर्या यजेत् ॥ इन्द्राय शाक्वरायानुब्रूहि ॥ इति शक्वरीमनूच्य रेवत्या यजेत् , एतैरेवैनमिन्द्रियैरेताभिर्देवताभिर् व्यतिषजति, पर्यूहमवद्यति , एतैरेवैनमिन्द्रियैरेताभिर्देवताभिः पर्यूहति, पशवो वै बृहती , अग्नी रुद्रो , यद् बृहत्या वषट्कुर्याद् रुद्रायास्य पशूनपिदध्यात् , अथो बृहतीं ह्ययातयाम्नीं पशवोऽनुप्रजायन्ते , अनुवाक्यायाश्चत्वार्यक्षराणि याज्यामभ्यत्यूहति , अनुष्टुभं च संपादयति पङ्क्तिं च, वाग् वा अनुष्टुप् , प्रजापतिः पङ्क्ति , र्वाचि वा एतत् प्रजापतिम् अप्यस्राट् प्रजननाय, तन् मिथुनं , तस्मादेव मिथुनाद्यजमानः प्रजया च पशुभिश्च प्रजायते ॥

2.3.8 अनुवाकः8
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेण शुक्रां शुक्रेण ।
देवीं देवेनामृताममृतेन सृजामि सं सोमेन ॥
सोमोऽसि , अश्विभ्यां पच्यस्व, सरस्वत्यै पच्यस्व , इन्द्राय सुत्राम्णे पच्यस्व ॥
पुनातु ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
वारेण शश्वता तना ॥
वायोः पूतः पवित्रेण प्रत्यङ् सोमो अतिस्रुतः ।
इन्द्रस्य युज्यः सखा ॥
कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।
इहेहैषां कृणुत भोजनानि ये बर्हिषा नमउक्तिं न जग्मुः ॥
उपयामगृहीतोऽसि , अछिद्रां त्वाछिद्रेणा,ऽश्विभ्यां जुष्टं गृह्णामि , एष ते योनि , रश्विभ्यां त्वा , उपयामगृहीतोऽसि , अछिद्रां त्वाछिद्रेण, सरस्वत्यै जुष्टं गृह्णामि , एष ते योनिः, सरस्वत्यै त्वा , उपयामगृहीतोऽसि , अछिद्रां त्वाछिद्रेणे, न्द्राय सुत्राम्णे जुष्टं गृह्णामि , एष ते योनि , रिन्द्राय त्वा सुत्राम्णे ॥
यदत्र शिष्टं रसिनः सुतस्य यमस्येन्द्रो अपिबञ् शचीभिः ।
अहं तमस्य मनसा घृतेन सोमं राजानमिह भक्षयामि ॥
नाना हि वां देवहितं सदस्कृतं मा संसृक्षाथां परमे व्योमन् ।
सुरा त्वमसि शुष्मिणी सोम एष मा मा हिंसिष्टँ स्वं योनिमाविशन्तौ ॥
द्वे स्रुती अशृणवं पितॄणामहं देवानां उत मर्त्यानां ।
याभ्यां इदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च ॥
ये भक्षयन्तो न वसूनि आनशुर् यानग्नयो अन्वतप्यन्त धिष्ण्याः ।
या तेषामवया दुरिष्टिः स्विष्टिं नस्तां विश्वकर्मा कृणोतु ॥
अयज्ञियान् यज्ञियान्मन्यमानः प्राणस्य विद्वान्त्समरे न धीरः ।
एनो महच्चकृवान् बद्ध एष तं विश्वकर्मन् प्रमुञ्चा स्वस्तये ॥
यजमानं ऋषया एनसाहुर्विहाय प्रजामनुतप्यमानाः ।
मधव्यौ स्तोका अप तौ रराध सं नस्ताभ्यां सृजतु विश्वकर्मा ॥

2.3.9 अनुवाकः9
कुवलसक्तुभिराश्विनं श्रीणाति, बदरसक्तुभिरैन्द्रम् , कर्कन्धुसक्तुभिः सारस्वतं , वाग् वै सरस्वती, वाचैवास्मिन्त् स्वादुमानं दधाति , अथ यैनं असा अश्लीलं वागभिवदति , अत्यपविष्ट व्यार्धिष्टेति, सैनं पुनः कल्याणं वदति, सिंहा अध्वर्युर् ध्यायति, व्याघ्रौ प्रतिप्रस्थाता, वृकौ यजमान , एषा सुरा भवति, स यैरेव तदिन्द्रियैर् वीर्यैर् व्यृध्यते तानि अस्मिन्न् आप्त्वा धत्तो , ब्राह्मणस्य मूर्धन्सावैद्या मेध्यत्वाय , अन्नं वै सुरा, मेध्यं वा अन्नं , तेन मेध्या , एका पुरोरुक् , एका याज्या , एकधास्मिन् वीर्यं दधाति, ब्राह्मणः पाययितव्य, स्तेन हविः क्रियते , आत्मनापेया , आत्मन्न् एव वीर्यं धत्ते , अग्नौ सर्वा होतव्याः समृद्यै ्, मध्यतो वा एष पाप्मना गृहीतो यत्समया व्येति, मध्यत एवैनं पाप्मनो मुञ्चति, यदाहवनीये जुहुयान् न पाप्मना व्यावर्तेत, क्रियेत भेषजं, अथ यद् दक्षिणे जुहोति वि पाप्मना वर्तते क्रियते भेषजं, अथ यद्विक्षारयति , एवं इव ह्येष विक्षरति शतक्षरो भवति, शतायुर्वै पुरुषः शतवीर्या , आयुरेव वीर्यमाप्नोति, यद्वा एतस्य व्यार्धि यत् प्रामायि पितॄन् वा एतस्य तदगन् , यत् पितृमतीभिरनुमन्त्रयन्ते पितॄभ्य एवैनं तेन समीरयन्ति, यत् तिस्र, स्तृतीये हि लोके पितरो , अथ यच्चत्वारो , दिग्भ्य एवैनं तेन समीरयन्ति ॥