मैत्रायणीसंहिता/काण्डं २/प्रपाठकः ०२

विकिस्रोतः तः

काम्या इष्टयः

2.2.1 अनुवाकः1
आदित्या भागं वः करिष्याम्यमुमामुष्यायणं अवगमयत ॥ इति ब्रूयाद्धविर् निर्वप्स्यन् , स एतमादित्यं घृते चरुं निर्वपेत् , आदित्या वा इमाः प्रजा, स्ता एवोपासरत् , ता एनं अवगमयन्ति , सप्ताश्वत्था मयूखा अन्तर्वेदि शयीरन् , तान्त्संस्थिते रथवाहनस्य मध्यमेषायामतिहन्यात् ॥ इदमहमादित्यान् बध्नाम्यामुष्यावगमः ॥ इति , आदित्यान् वा एतद् बध्नाति, त एनं मोक्षमाणा अवगमयन्ति, विशो वीर्यमपाक्रामत् , तदश्वत्थं प्राविशत् , स तेन वीर्येण भर्भराभवत् , तद्विश एवैतेन वीर्यमवरुन्द्धे, यदि सप्तसु नावगच्छेदिध्मे तानपि कृत्वैतदेव हविर् निर्वपेत् , आदित्या वा इमाः प्रजा, स्ता एवोपासरत् , ता एनं अवगमयन्ति, यद्येव सप्तसु, त्रिर्वै सप्त सप्तादित्या, स्तान् एवोपासरत् , ता एनं अवगमयन्ति, यद्येकतयीषु द्वयीषु वावगछेदपरोधुका एनं स्यु , रथ यत्सर्वास्व् अवगच्छति तथा हानपरोध्योऽवगच्छति, स यदावगछेदथादित्येभ्यो धारयद्वद्भ्यो घृते चरुं निर्वपेत् , आदित्या वा अपरोद्धार , आदित्या अवगमयितार, स्त एनं दाध्रति ॥
अदितेऽनुमन्यस्व सत्याशीरिह मनः ॥
इति निरुद्धस्य राज्ञः पदं आददीत, तद्यः पुरस्ताद् ग्राम्यवादीव स्यात्तस्य सभाया अभिवातं परीत्य विध्वंसयेयुः ॥
प्रेत मरुतः स्वतवस एना विश्पत्यामुं राजानं अभि ॥
इति तस्य गृहाद् व्रीहीनाहरेयु, स्तांस्त्रेधा विचिनुयात् , ये कृष्णास्तान् कृष्णाजिन उपनह्य निदध्यात् , ये शुक्लास्तमादित्यं घृते चरुं निर्वपेत् , अदित्या वा इमाः प्रजा, स्ता एवोपासरत् , ता एनं अवगमयन्ति , अथ येभ्योऽधि विचिनुयात्तान् उदङ् परेत्य वल्मीकवपाम् उद्रुज्य जुहुयात् ॥
यदद्य ते घोर आसन् जुहोम्य् एषां बन्धानां प्रमोचनाय ।
यां त्वा जनो भूमिरिति प्रमन्दते निर्ऋतिं त्वाहं परिवेद विश्वतः ॥
इति निर्ऋतिगृहीतो वा एष यो निरुद्धो , निर्ऋत्या एवैनं तेन मुञ्चति , एतद्वै विशमवाग, न्नथ वा अस्य राज्यमन्वगतं , तद् योऽमी कृष्णा व्रीहयस्तं वारुणं घृते चरुं निर्वपेत् , वरुणो वै देवानां राजा, स राज्यस्यावगमयिता, तं एव भागधेयेनोपासरत् , स एनं राज्यमवगमयति , एतद्वै नानाविश्यम् , उभयीमेवैतेन विशमवगच्छति दैवीं च मानुषीं च ॥

2.2.2 अनुवाकः2
सौर्यं घृते चरुं निर्वपेञ् शुक्लानां व्रीहीणां ब्रह्मवर्चसकामः , शतमानो रुक्मो रजतोऽधस्तात् स्यात् , शतमानो रुक्मो हरित उपरिष्टात् , इह वा असा आदित्य आसीत् , तमाभ्यां परिगृह्योपरिष्टादासां प्रजानां न्यदधु, रुपरिष्टाद्वा असा आदित्य इमाः प्रजा अधिषद्यात्ति , इयं वै रजतासौ हरिणी , आभ्यामेवैनं परिगृह्योपरिष्टादासां प्रजानां निदधाति , उपरिष्टादिमाः प्रजा अधिषद्यात्ति, पञ्च कृष्णलानि अपि प्रयाजेषु जुहुयात् , एतैर्वा असा आदित्य इमान् , पञ्च ऋतूननु तेजस्वी , इमा एवैनं पञ्च दिशोऽनु तेजस्विनं करोति, प्राजापत्यं घृते चरुं निर्वपेञ् शतकृष्णलं आयुष्कामो , देवा असुरान् हत्वा मृत्योरबिभयु, स्ते देवाः प्रजापतिमेवोपाधावन् , तान् वा एतया प्रजापतिरयाजयत् , ततो देवा अमृतत्वमगच्छन् , अमृतं वै हिरण्यम् , अमृतमायु, रमृतेनैवैष्वमृतमायुराप्त्वादधात् , य आयुष्कामः स्यात् तं एतया याजयेत् , एतद्वै मनुष्यस्यामृतत्वं यत्सर्वमायुरेति , अमृतं वै हिरण्यम् , अमृतमायु, रमृतेनैवास्मिन्नमृतमायुराप्त्वा दधाति, तेन स सर्वमायुरेति, न पुरायुषः प्रमीयते, शतकृष्णलो भवति, शतायुर्वै पुरुषः शतवीर्यो , आयुरेव वीर्यमाप्नोति, चत्वारिचत्वारि कृष्णलानि अवद्यति समृद्ध्यै , सर्वं ब्रह्मणे परिहर्तवा आह, सर्वं ब्रह्मणि यज्ञं प्रतिष्ठापयति, सर्वमस्मिन् ब्रह्मा वीर्यं दधाति , अथो ब्रह्म वै ब्रह्मा , ब्रह्मणैवास्मिन् ब्रह्मायुर्दधाति ॥

2.2.3 अनुवाकः3
बार्हस्पत्यं चरुं निर्वपेत् , पुरोधाकाम, स्तस्य बार्हस्पत्ये ज्योतिष्मती याज्यानुवाक्ये स्यातां , ब्रह्म वै बृहस्पति, र्बार्हस्पत्यो ब्राह्मणो देवतया, स्वामेव देवतां पुरोधाया उपासरत्, स्वैनं देवता पुरोधां गमयति, यद्वै लेलायद् वीव भाति तज्ज्योति, स्तस्माज्ज्योतिष्मती, यदि नेव पुरोधां गछेदैन्द्राबार्हस्पत्यं हविर् निर्वपेत् , ब्रह्म चैव क्षत्रं च सयुजा अक , स्ताजग् एनं पुरोदधते, बार्हस्पत्यं चरुं निर्वपेत् पयसि ग्रामकामो वा पशुकामो वा, तस्य बार्हस्पत्ये गणवती याज्यानुवाक्ये स्याताम् , यो बहुपुष्टस्तस्य गृहात् क्षीरम् आहरेयुः, स्यात् स्वासां गवां दुग्धं , स्यादुदकं , पुष्टिरेवैषा संभ्रियते, ब्रह्म वै बृहस्पति , र्बृहस्पतिश्छन्दांसि, छन्दोभिर्बृहस्पतिर्गणी, स्वां वा एतद्देवतां भूयिष्ठेनार्पयति, सजातैर् एनं गणिनं करोति, ब्राह्मणस्पत्यं चरुं निर्वपेत् संग्रामे, तस्य ब्राह्मणस्पत्ये वीरवती वयस्वती याज्यानुवाक्ये स्याताम् , छदिर्दर्शे याजयेत् , उद्बर्हिः प्रस्तरः स्यात् , बाणवन्तः परिधयो , वयांसि परं ग्रामं आविशन्ति , तथा विज्ञेयम् , जेष्यामा इति, ब्रह्म वै ब्रह्मणस्पति , र्ब्रह्मैवोपासरत् , ब्राह्मणस्पत्यं चरुं निर्वपेद्यत्र कामयेत, ब्रह्मबलं स्यादिति, तस्य ब्राह्मणस्पत्ये मरुत्वती याज्यानुवाक्ये स्याताम् , ब्रह्म वै ब्रह्मणस्पति , र्विण् मरुतो , ब्रह्मणि वा एतद्विशमधि विनाशयति द्रढिम्नेऽशिथिरत्वाय ॥

2.2.4 अनुवाकः4
बार्हस्पत्यं चरुं निर्वपेद् गार्मुतं पशुकामः, प्रजापतिः पशूनसृजत, तेऽस्मात् सृष्टाः पराञ्च आयन् , तान् बृहस्पतिश्चान्वैताम् , ते यत्रावसंस्ततः शक्नो गर्मुदजायत, तं वा अब्रवीत् , अनेन मा याजयेति, तेन वा एनं अयाजयत् , तं पशव उपावर्तन्त, यः पशुकामः स्यात् तं एतेन याजयेत् , उप हैनं पशवा आवर्तन्ते, यदा हि स तं एतेनायाजयदथ तं पशव उपावर्तन्त, सौमापौष्णँ चरुं निर्वपेद् गार्मुतं पशुकामः , प्रजापतिः पशूनसृजत, तेऽस्मात् सृष्टाः पराञ्च आयन् , तेषां पूषणमधिपामकरोत् , ते यत्रावसंस्ततः शक्नो गर्मुदजायत, तं वा आहरत् , अनेन मे प्रतिष्ठेति , स सोमोऽब्रवीत् , मम वा अकृष्टपच्यं इति , तं सौमापौष्णँ निरवपत् , तं पशव उपावर्तन्त, यः पशुकामः स्यात् , तं एतेन याजयेत् , उप हैनं पशवा आवर्तन्ते, यदा हि स तं एतेनायाजयदथ तं पशव उपावर्तन्त , सोमो वै रेतोधाः, पूषा पशूनां प्रजनयिता, सोम एवास्मै रेतो दधाति, पूषा पशून् प्रजनयति, प्राजापत्यं चरुं निर्वपेद् गार्मुतं पशुकामः, पृश्नीनां गवां दुग्धे पृश्नीनां गवां आज्यं स्यात्, तत्रापि गोमूत्रस्याश्चोतयेयुः, पृश्निर्वै यददुहत्स गर्मुदभवत् , इयं वै पृश्निर्वाग् , तस्या वा एतत्, शिरो यद् गर्मुतो तस्मादेतदाण्डमिव पीयूष इव , तं प्राजापत्यं चरुं निर्वपेत् पशुकामः , प्राजापत्या वै पशवः, प्रजापतिः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत्, सोऽस्मै पशून् प्रजनयति , वास्त्वमयं रौद्रं चरुं निर्वपेद्यत्र रुद्रः प्रजाः शमायेत, वास्तोर्वै वास्त्वं जातं , वास्त्वमयं खलु वै रुद्रस्य, स्वेनैवैनं भागधेयेन शमयति, तया निषादस्थपतिं याजयेत् , सा हि तस्येष्टिः, कूटं दक्षिणा कर्णौ वा गर्दभः ॥
2.2.5 अनुवाकः5
परमेष्ठिने द्वादशकपालं निर्वपेद्यः कामयेत, परमेष्ठी स्यां इति, परमेष्ठी वा एष देवानां यः परमेष्ठी, परमेष्ठी राजन्यो मनुष्याणां , तं एव भागधेयेनोपासरत् , स एनं परमेष्ठिनं करोति, तस्मै धनुश्च तिस्रश्च प्रयछेत् ॥ अग्निस्ते तेजः प्रयच्छत्विन्द्र इन्द्रियं पित्र्यां बन्धुताम् ॥ इति , अग्निरेवास्मै तेजः प्रयच्छति , इन्द्रं इन्द्रियं पित्र्यां बन्धुताम् , वैश्वदेवं द्वादशकपालं निर्वपेद् भ्रातृव्यवान् , तं बर्हिषदं कृत्वा समया स्फ्येन व्यूहेत् ॥ इदमहं मां चामुं च व्यूहामि ॥ इति यं द्विष्यात् तं , यदधोऽवमृद्येत यच्च स्फ्य आश्लिष्येत्तद्विष्णव उरुक्रमायावद्येत् , विष्णुरेवैना अन्तरा विक्रमते, तं पुनः समूहेत् ॥ इदमहं मां चामुं च समूहामि ॥ इति योऽस्य प्रियः स्यात् तं , वैश्वदेवीर्वा इमाः प्रजा, स्ताभिरेवेतरं व्यूहति, ताभिरात्मानं समूहति , इन्द्राण्यै चरुं निर्वपेत् सेनायामुत्तिष्ठन्त्याम् , सेना वा इन्द्राणी, ब्रह्मणैवैनां पुरस्तान् मुखतो जित्यै संश्यति, बल्बजा अपीध्मे स्युः, शक्नो वा एतेऽध्युत्थिता , न्यायेनैवैनामभिनयति, यत्तस्यां सेनायां विन्देत सा दक्षिणा, वाचस्पतये चरुं निर्वपेच् श्रीकामो , यो वै वाचोऽध्यक्षः स वाचस्पति, स्तच् श्रीकरणमेवैतत् ॥

2.2.6 अनुवाकः6
अग्नये वसुमते सतीनानामष्टाकपालं निर्वपेत्, सोमाय रुद्रवते श्यामाकं चरुम्, इन्द्राय मरुत्वते नैवारं एकादशकपालं , वरुणायादित्यवते यवमयं चरुम् , देवा अन्योन्यस्य श्रैष्ठ्ये तिष्ठमानाश्चतुर्धा व्युदक्रामन् , अग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैस्तान् वा एतया बृहस्पतिरयाजयत् संज्ञान्या , अत इन्द्रमेवाभिसमावर्तन्त , इन्द्रमभिसमजानत, तद्य एतया यजते तं एवाभिसमावर्तन्ते, तमभिसंजानते, तदाहु, रैन्द्र एकादशकपालः कार्या इति , इन्द्रं हि तेऽभिसमावर्तन्त , इन्द्रमभिसमजानत ॥
संज्ञानं नो दिवा पशोः संज्ञानं नक्तमर्वतः ।
संज्ञानं नः स्वेभ्यः संज्ञानं अरणेभ्यः संज्ञानं अश्विना युवं इहास्मभ्यं नियच्छतं ॥
समिन्द्र राया समिषा रभेमहि सं वाजैः पुरुश्चन्द्रैरभिद्युभिः ।
सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्ववत्या रभेमहि ॥
इन्द्रवायू सुसंदृशा सुहवेह हवामहे ।
यथा नः सर्वा इज्जनः संगमे सुमना असत् ॥
सं वो मनांसि सं व्रता सं आकूतीरनंसत ।
अमी ये विव्रताः स्थ तान् वः संनमयामसि ॥
समाना वा आकूतानि समाना हृदयानि वः ।
समानं अस्तु वो मनो यथा वः सुसहासति ॥
समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम् ।
समानं क्रतुमभिमन्त्रयध्वं समानेन वो हविषा जुहोमि ॥
संगच्छध्वं संजानीध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे संजानाना उपासते ॥

2.2.7 अनुवाकः7
आग्नेयमष्टाकपालं निर्वपेत् सावित्रं चरुं वायव्यां यवागूं प्रतिधुग् वा भौमं एककपालं यस्य हिरण्यं नश्येद् यो वा हिरण्यं विन्देत् , अग्निर्वा अग्रे हिरण्यमविन्दत्, स सवित्रामन्त्रयत, न खलु वै किंचन वायुनानभिगतमस्ति , अस्यां वै स तदविन्दत् , वित्त्या एवाग्नेयः, प्रसवाय सावित्रो , अभिनीत्यै वायव्या , अथ यद् भौमो , अस्यां हि स तदविन्दत् , एते वै प्रदातार, स्तान् एव भागधेयेनोपासरत्, तेऽस्मै प्रयच्छन्ति, स यदा विन्देदथैतेभ्य एव निर्वपेत् , यैरेवाविन्दत्तान् भागिनः करोति अहिंसायै, प्रजापतिर्वै सोमाय राज्ञे दुहितॄरददान् नक्षत्राणि, स रोहिण्यामेवावसन् नेतरासु, ता अनुपेयमानाः पुनरगच्छन् , तं राजयक्ष्मेणाग्राहयत्, स निरस्रवत् , तस्माद् राजयक्ष्मगृहीतो निःस्रवति, स वै प्रजापतिमेवोपाधावत् , तं प्रजापतिरब्रवीत् , ऋतं ब्रूहीति स ऋतमब्रवीत् , यथा सर्वास्व् एव समावद्वसानीति , तस्मादेष सर्वास्व् एव समावद्वसति , तस्मै वै प्रजापतिः प्रायश्चित्तिम् ऐच्छत् , तस्मा अमावास्यायां वैश्वदेवं चरुं निरवपत् , तेनास्मै प्रायश्चित्तिम् अविन्दत् , सोऽमुमाप्यायमानं अन्वाप्यायत , वसीयानभवत् , यो राजयक्ष्मगृहीतः स्यात्तस्मा अमावास्यायां वैश्वदेवं चरुं निर्वपेत् , एतेन वै स तस्मै प्रायश्चित्तिम् अविन्दत् , तेनैवास्मै प्रायश्चित्तिं विन्दति , अमुं एवाप्यायमानं अन्वाप्यायते, वसीयान् भवति ॥

2.2.8 अनुवाकः8
प्रजापतिर्वै देवेभ्यो भागधेयानि व्यकल्पयत् , स इन्द्रोऽब्रवीत् , यदतिरिच्यते तन्ममेति , तद्वा इन्द्रियमेवात्यरिच्यत, तदिमांल्लोकान् ऊर्ध्वमनूदश्रयत,
तन् नैकेनाप्नोत् , न द्वाभ्यां , तत् तृतीयेनाप्त्वावारुन्द्ध , यत् त्रयः पुरोडाशा भवन्ति , एभ्यो वा एतल् लोकेभ्य इन्द्रियं वीर्यमाप्त्वावरुन्द्धे , उत्तर उत्तरः पुरोडाशो ज्यायान् भवति , उत्तर उत्तरो हि लोको ज्यायान्, इन्द्राय राज्ञे प्रथम , इन्द्राय स्वराज्ञे मध्यम , इन्द्रायाधिराजायोत्तम , एतानि वै सर्वाणीन्द्रोऽभवद् राज्यं स्वाराज्यमाधिराज्यं, एतानि सर्वाणि भवति य एतैर्यजते, सर्वमेतद् भवति य एवं वेद, प्रथमामनूच्य मध्यमया यजेत् , मध्यमामनूच्योत्तमया यजेत् , उत्तमामनूच्य प्रथमया यजेत् , एवमस्य सर्वा अनुवाक्या भवन्ति सर्वा याज्या, एषां लोकानां प्रतिप्रज्ञात्यै , अथो अनुसंतत्यै , इन्द्राय घर्मवते सूर्यवता एकादशकपालं निर्वपेत्तेजस्काम, स्तेजो वै घर्म, स्तेजः सूर्य,स्तेज एवावरुन्द्धे , इन्द्रायेन्द्रियवता एकादशकपालं निर्वपेत् पशुकाम , इन्द्रियं वै पशवो , इन्द्र इन्द्रियस्य प्रदाता, तं एव भागधेयेनोपासरत् , सोऽस्मा इन्द्रियं पशून् प्रयच्छति ॥

2.2.9 अनुवाकः9
इन्द्रायार्कवतेऽश्वमेधवता एकादशकपालं निर्वपेत् , निरुद्धं याजयेत् , अन्तं वा एष गतो यो निरुद्धो , अन्तोऽर्को , अन्तोऽश्वमेधो , अन्तेनैवास्मा अन्ते कल्पयति, वशा दक्षिणा, वशं मा नयादिति , इन्द्रायार्कवतेऽश्वमेधवता एकादशकपालं निर्वपेद्यः कामयेत जने म ऋध्येतेति , अन्तो वा एषा ऋद्धीनां यज्जनो , अन्तोऽर्को , अन्तोऽश्वमेधो , अन्तेनैवास्मा अन्ते कल्पयति, वशा दक्षिणा, वशं मा नयादिति , इन्द्रायार्कवतेऽश्वमेधवता एकादशकपालं निर्वपेद् गतश्री, र्यदा वै श्रियोऽन्तं गच्छत्यथ पापीयान् भवति , अन्तोऽर्को , अन्तोऽश्वमेधो , अन्तमेवालब्ध न पापीयान् भवति , इन्द्रायार्कवतेऽश्वमेधवता एकादशकपालं निर्वपेद्यः कामयेत महायज्ञो मोपनमेदिति , एते वा इन्द्रस्य यज्ञिये तन्वौ यदर्कश्चाश्वमेधश्च , ते एवालब्ध , ताभ्यां महायज्ञं आलभते , इन्द्राय घर्मवते सूर्यवता एकादशकपालं निर्वपेत् , इन्द्राय मन्युमते मनस्वता एकादशकपालं, इन्द्रायेन्द्रियवता एकादशकपालं, इन्द्रायार्कवतेऽश्वमेधवता एकादशकपालं , भूतिकामं याजयेत् , इदं वा इन्द्रस्य घर्मश्च सूर्यश्च , इदमस्य मन्युश्च मनश्च , इदमस्येन्द्रश्चेन्द्रियं च , इदमस्यार्कश्चाश्वमेधश्च , एतानि वै सर्वाणीन्द्रोऽभवत् , एतानि सर्वाणि भवति य एतैर्यजते, सर्वमेतद् भवति य एवं वेद ॥

2.2.10 अनुवाकः10
इन्द्रायांहोमुचा एकादशकपालं निर्वपेत् , आमयाविनं याजयेत् , एषा वा इन्द्रस्य भेषजा तनूर्यदंहोमुक्, तं एव भागधेयेनोपासरत् , स एनं अंहसो मुञ्चति , इन्द्राय त्रात्र एकादशकपालं निर्वपेद् यो ज्यान्या मारणादपरोधाद्वा बिभीयात् , इन्द्रो वै त्राता , इन्द्रोऽपरोद्धा, तं एव भागधेयेनोपासरत् , स एनं त्रायते , इन्द्रायान्वृजवा एकादशकपालं निर्वपेज् ज्येष्ठबन्धु, रिन्द्रियं वै ज्येष्ठबन्धु , रिन्द्रियेणैवैनानन्वृजून् कुरुते , इन्द्राय प्रवभ्रायैकादशकपालं निर्वपेत् संग्रामे, प्रवभ्रो वा इन्द्रो वृत्राय वज्रं प्राहरत् , प्रवभ्र एवैभ्यो वज्रं प्रहरति , इन्द्राय वैमृधायैकादशकपालं निर्वपेत् संग्रामे, मृधो वा एष विहन्ति यः संग्रामं जयति, मृध एव विहते , इन्द्रायाभिमातिघ्न एकादशकपालं निर्वपेत् संग्रामे , अभिमातीर्वा एष हन्ति यः संग्रामं जयति , अभिमातीरेव हते , इन्द्रायाभिमातिषाहा एकादशकपालं निर्वपेद्यः कामयेत विषहेया , अभयं मे स्यादिति , इन्द्रो वै वृत्राय वज्रं उदयच्छत् , तं दानवा नान्वमन्यन्त, तं एतेन भागधेयेनान्वमन्यन्त, ततो वै सोऽभिमातीरहन् , वृत्रमहन् , वृत्रं खलु वा एष हन्ति यः संग्रामं जयति , तद्वार्त्रघ्नं एवैतत् ॥

2.2.11 अनुवाकः11
ऐन्द्रमेककपालं निर्वपेत् , निरुद्धं याजयेत् , आ प्रेहि परमस्याः परावता , इति याज्यानुवाक्ये स्याताम् , परावतं वा एष गतो यो निरुद्धः , परावत एवैनं अध्याप्त्वावगमयति, ऐन्द्रं त्रयोदशकपालं निर्वपेत् , निरुद्धं याजयेत् , अतिरिक्तं वै त्रयोदशम्, अतिरिक्तो निरुद्धो , अतिरिक्तादेवैनं अतिरिक्तमाप्त्वावगमयति , इन्द्राय वज्रिणा एकादशकपालं निर्वपेत् , इन्द्राय वृत्रघ्न एकादशकपालं, इन्द्राय वृत्रतूरा एकादशकपालं यस्य भ्रातृव्यः सोमेन यजेत, वज्रं वा एष भ्रातृव्यायोञ्श्रयति यः सोमेन यजते, यद्वज्रिणे, वज्रेणैवास्य वज्रं स्तृणुते, यद् वृत्रघ्ने, भ्रातृव्यो वै वृत्रो , हन्त्य् एवैनं , यद् वृत्रतूरे, भ्रातृव्यो वै वृत्र, स्तरत्य् एवैनं, इन्द्राय क्षेत्रंजयायैकादशकपालं निर्वपेद्यः क्षेत्रे पशुषु वा विवदेत् , इन्द्रो वै देवानां क्षेत्रंजय, स्तं एव भागधेयेनोपासरत् , सोऽस्मै क्षेत्रं पशून् जयति ,
इन्द्रायाधिराजायैकादशकपालं निर्वपेद्यत्र राजानः सदृशा इव स्यु, रिन्द्रो वै देवानामधिराज, स्तं एव भागधेयेनोपासरत्, स एनं आधिराज्यं गमयति ॥

2.2.12 अनुवाकः12
इन्द्राय मन्युमते मनस्वता एकादशकपालं निर्वपेत् संग्रामे, मन्युना वै वीर्यं क्रियत , इन्द्रियेण जयति, वीर्यं चैवैष्विन्द्रियं च जित्यै दधाति, मन्यवे चरुं निर्वपेत् संग्रामे, मन्युना वै वीर्यं क्रियते, वीर्यमेवैषु जित्यै दधाति, यं जीवग्राहं गृह्णीयुस् तं विकृन्तेयु , र्मन्योः स्विदेव सत्यमकर्, इन्द्राय मनस्वता एकादशकपालं निर्वपेद्यः कामयेत पुण्यः स्यामनाधृष्य इति, मनो वै श्रीस्त्विषिः, श्रियमेवास्मिंस्त्विषिं दधाति, संवत्सरं नु पुरा मनसो न कीर्तयेत् , संवत्सरेण वा अनाप्तमाप्यते, संवत्सरेणैवास्मा आप्त्वा श्रियं त्विषिं दधाति ॥

2.2.13 अनुवाकः13
यस्य सान्नाय्यं चन्द्रमा अभ्युदियाद् ये पुरोडाश्याः स्युस् तांस्त्रेधा कुर्यात् , ये मध्यमास्तमग्नये दात्रेऽष्टाकपालं निर्वपेत् , ये स्थविष्ठास्तमिन्द्राय प्रदात्रे दधंश्चरुम् , ये क्षोदिष्ठास्तं विष्णवे शिपिविष्टाय शृते चरुम् , अग्निर्वै मध्यमस्य दाता , इन्द्रो ज्येष्ठस्य प्रदाता , अथ यत् क्षोदिष्ठं तच् शिपिविष्टं , तदाप्नोति, पशून् एव, सोमो वा एतस्यातिरिच्यते यस्य सान्नाय्यं चन्द्रमा अभ्युदेति, स वै पशून् एवाभ्यतिरिच्यते, यः पशुकामः स्यात् सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यात् , ये पुरोडाश्याः स्युस् तांस्त्रेधा कुर्यात् , ये क्षोदिष्ठास्तमग्नये सनिमतेऽष्टाकपालं निर्वपेत् , ये मध्यमास्तं विष्णवे शिपिविष्टाय शृते चरुम् , ये स्थविष्ठास्तमिन्द्राय प्रदात्रे दधंश्चरुम् , अग्निरेवास्मै तद्विन्दति यदीह, विष्णुस्तद्यदन्तरिक्षा , इन्द्रस्तद्यद्दिवि, सत्वानो गा इच्छन्ति, यदेते तण्डुला विभाज्यन्ते , सत्वानो वा एत एष्टारो अभिरोद्धार एव , आग्नेयमष्टाकपालं निर्वपेद् गतश्री,स्तस्य गौर् धेनुर्दक्षिणा, स प्राङ् प्रयाय वैष्णवं त्रिकपालं , तस्य वडबा धेनुर्दक्षिणा, स प्राङ् प्रयाय गिरिं गत्वापो वा प्रजापत्यं घृते चरुम् , तस्य पुरुषी धेनुर्दक्षिणा, यदाग्नेय इमां तेनाक्रमते, यद् वैष्णवोऽन्तरिक्षं तेन, यत् प्राजापत्योऽमुं तेन लोकं , यत् प्राङ् प्रयात्यभि स्विदेवाक्रमीत् , यद् गिरिं गच्छत्यपो वान्तं स्विदेवागन् , यत् तिस्रो धेनवो दक्षिणा, त्रयो वा इमे लोका , इमानस्मै लोकान् धेनुरकर् , इमानस्मै लोकान् प्रदापयति , प्रत्तान् ह वा अस्मा इमांल्लोकान् दुहे य एवं वेद , सौमेन्द्रं चरुं निर्वपेच् श्यामाकं सोमवामिना , इन्द्रो वै त्वष्टुः सोमं अपिबदनुपहूयमान, स्तस्योर्ध्वः सोमपीथोऽपतत्, ते श्यामाका अभवन् , त्सोमपीथेन वा एष व्यृध्यते यः सोमं वमिति, यत्सौम्यः , सोमपीथेनैवैनं समर्धयति , इन्द्रियेण वा एष वीर्येण व्यृध्यते यः सोमं वमिति, यदैन्द्र , इन्द्रियेणैवैनं वीर्येण समर्धयति, शिथिर इव हि वा एतस्य सोमपीथो, अथैष सोमं वमिति, यच् श्यामाकतण्डुलैः श्रीणाति सोमपीथस्य धृत्यै ॥
इति मध्यमकाण्डे द्वितीयः प्रपाठकः।।