मैत्रायणीसंहिता/काण्डं २/प्रपाठकः ०१

विकिस्रोतः तः
Jump to navigation Jump to search

काम्या इष्टयः

2.1.1 अनुवाकः1
ऐन्द्राग्नमेकादशकपालं निवर्पेद्यस्य सजाता वीयायु , रोजो वै वीर्यमिन्द्राग्नी, ओजसैवैनान् वीर्येण पुनरुपास्यते , ऐन्द्राग्नमेकादशकपालं निवर्पेद् भ्रातृव्यवा,नोजो वै वीर्यमिन्द्राग्नी, ओजसैवैनान् वीर्येणाभिभवति , ऐन्द्राग्नमेकादशकपालं निर्वपेत् प्रजाकामो योऽलं प्रजायै सन् प्रजां न विन्देत, प्रजापतेर्वा इन्द्राग्नी प्रजामपागूहताम् , ता एतेन भागधेयेनोपाधावत् , ता अस्मै प्रजां पुनरदत्तां, इन्द्राग्नी खलु वा एतस्य प्रजामुपगूहतो योऽलं प्रजायै सन् प्रजां न विन्दते , ता एव भागधेयेनोपासरत् , ता अस्मै प्रजां पुनर्दत्तो , विन्दद्वती याज्यानुवाक्ये भवतो वित्त्या एव , ऐन्द्राग्नमेकादशकपालं निर्वपेत् संग्राममभिप्रयान् , ओजो वै वीर्यमिन्द्राग्नी , ओजसैवैनं वीर्येणाभिप्रयाति , ऐन्द्राग्नमेकादशकपालं निर्वपेत् संग्रामं संयत्य , ओजो वै वीर्यमिन्द्राग्नी , ओजसैवैनं वीर्येण जयति , स यदा संग्रामं जयेदथैन्द्राग्नमेकादशकपालं निवर्पेत् , ओजसा वा एष वीर्येण व्यृध्यते यः संग्रामं जयति , ओजो वीर्यमिन्द्राग्नी , ओजसैवैनं वीर्येण समर्धयत , ऐन्द्राग्नमेकादशकपालं निवर्पेत् पौष्णँ चरुं जनतामभिप्रयान् , ओजो वै वीर्यमिन्द्राग्नी , ओजसैवैनां वीर्येणाभिप्रयाति , पूषा वीर्यस्यानुप्रदाता , सोऽस्मै वीर्यमनुप्रयच्छति , ऐन्द्राग्नमेकादशकपालं निर्वपेत् पौष्णँ चरुं क्षेत्रस्य पतये चरुं क्षेत्रं अध्यवस्यन् , ओजो वै वीर्यमिन्द्राग्नी , ओजसैवास्मै वीर्येण लोकं विन्दतः , पूषा वीर्यस्यानुप्रदाता , सोऽस्मै वीर्यमनुप्रयच्छति , इयं क्षेत्रस्य पत्नी , अस्यां एव प्रतितिष्ठति ॥

2.1.2 अनुवाकः2
अग्नये वैश्वानराय द्वादशकपालं निवर्पेत् कामाय , संवत्सरो वा अग्निर्वैश्वानरः , संवत्सरे काम आप्यते , संवत्सरमेवापत् , सोऽस्मै कामं आप्नोति यत्कामो भवति , अग्नये वैश्वानराय द्वादशकपालं निर्वपेत्समान्तमभिध्रोक्ष्यन् , संवत्सरो वा अग्निर्वैश्वानरः , संवत्सराय समम्यते , संवत्सरमेवाप्त्वा वरुणं काममभिद्रुह्यति , अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् सनिं प्रैष्यन् , संवत्सरो वा अग्निर्वैश्वानरः , संवत्सराय प्रतिगृह्यते, संवत्सरमेवाप्त्वा सातां सनिं वनुते , स यदा वन्वीताथाग्नये वैश्वानराय द्वादशकपालं निर्वपेत् , संवत्सरो वा अग्निर्वैश्वानरः, संवत्सरमेष प्रयुङ्क्ते, संवत्सर एतस्मै वनुते, तं एव भागिनं अक, स्तं व्यमौक् , यं द्विष्यात्तस्मै दक्षिणां दद्यात् , पाशेन वा एष चरति , तं एवास्मिन् प्रतिमुञ्चति , एकहायनो गौर्दक्षिणा, स हि संवत्सरस्य प्रतिमा , अग्नये वैश्वानराय द्वादशकपालं निर्वपेदनन्नमत्स्यन् , संवत्सरो वा अग्निर्वैश्वानरः , संवत्सरायैवैनदप्यधात् , स यदानन्नमद्यादथाग्नये वैश्वानराय द्वादशकपालं निर्वपेत् , यदेवादोऽनन्नमत्ति तदस्मै संवत्सरः स्वदयति , स्वदितं एवात्ति, सीसं दक्षिणा कृष्णं वा वासो , अनन्नं वै सीसं अनन्नं कृष्णं , अनन्नेनैवानन्नमपहत्यान्नाद्यमात्मन् धत्ते , अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् संग्राममभिप्रयान् , संवत्सरो वा अग्निर्वैश्वानरः , संवत्सरेणैवैनं अभिप्रयाति , अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् संग्रामं संयत्य , यतरो वै संगृभाणयोरायतनवत्तरो भवति स जयति , इयं वा अग्निर्वैश्वानर , इमां एवायतनं अकृत , अस्यां पराक्रंस्त , जयति संग्रामं , स यदा संग्रामं जयेदथाग्नये वैश्वानराय द्वादशकपालं निर्वपेत् , संवत्सरो वा अग्निर्वैश्वानरः , संवत्सरमेष प्रयुङ्क्ते , संवत्सर एतस्मै जयति , तं एव भागिनं अक , स्तं व्यमौक् , अग्नये वैश्वानराय द्वादशकपालं निर्वपेद्यः कामयेत , अनेन राज्ञेमान् यवान् व्रीहीन् वादधीयेति, संवत्सरो वा अग्निर्वैश्वानरः , संवत्सरोऽन्नाद्यस्य प्रदाता , तं एव भागधेयेनोपासरत् सोऽस्मा अन्नाद्यं प्रयच्छति , अग्नये वैश्वानराय द्वादशकपालं निर्वपेद्वारुणं यवमयम् चरुम् आमयाविनं याजयेत् , वरुणगृहीतो वा एष य आमयावी, वरुणादेवैनं तेन मुञ्चति , असौ वा आदित्योऽग्निर्वैश्वानरो , अमुना वा एनं एतं निगृहीतं वरुणो गृह्णाति, तत एनं मुक्त्वा यावान् एवास्यात्मा तं वरुणान् मुञ्चति, वारुणं चरुं निर्वपेद्यवमयमीयन्त, मग्नये वैश्वानराय द्वादशकपालं भूतिकामं याजयेत् , वरुणगृहीतो वा एष यो भूतिकामो , वरुणादेवैनं तेन मुञ्चति , इयांश्चरुर्भवति , एतावान् वा आत्मा, यावान् एवास्यात्मा तं वरुणात् मुक्त्वा , असौ वा आदित्योऽग्निर्वैश्वानरो , अमुं एनं अन्वारम्भयति , अमुष्यैनं आदित्यस्य मात्रां गमयति ॥

2.1.3 अनुवाकः3
अग्नये जातवेदसेऽष्टाकपालं निर्वपेद् दधिक्राव्णा एकादशकपालं अग्नये वैश्वानराय द्वादशकपालं यः सर्ववेदसी प्रथमां इष्टिमालभेत , अग्निर्वा एतस्य तद् वेद यत्रास्येष्टं यत्र सुकृतं, अग्निरेवास्मै तद्विन्दति , अमेध्यो वा एष यः सर्वं ददाति, तद् दधिक्रावैवैनं मेध्यं करोति , संवत्सरो वा अग्निर्वैश्वानरः, संवत्सरो वा एतस्य तद् वेद यत्रास्येष्टं यत्र सुकृतं , संवत्सर एवास्मै तद्विन्दति , अग्नये सुरभिमतेऽष्टाकपालं निर्वपेत् , अभिशस्यमानं याजयेत् , रथप्रोतं वै दार्भ्यमभ्यशँसन् , तं कौलकावती अब्रूतां , तथा त्वा याजयिष्यावो यथा तेऽन्नमत्स्यन्ति, यत्र ग्राम्यस्य पशोर् नोपशृणवस्तद् गच्छ, यस्त्वा कश्चोपायत् तूष्णीमेवास्वेति , तं ह स्म वै व्याघ्रा उपघ्रायं तूष्णीमेवापक्रामन्ति, तौ वै तत्रैव श्वो भूते यज्ञायुधैरन्वेत्याग्निं मथित्वाग्नये सुरभिमतेऽष्टाकपालं निरवपताम् , ततो वा एनं न पर्यवृञ्जन् , यमभिशंसेयुस्तमेतया याजयेत् , दुरभि वा एतमारद्यमभिशंसन्ति , एषा वा अग्नेर् भेषजा तनूर्यत् सुरभि , र्भेषजं एवास्मा अकः , सुरभिमेनं अकः , शमयत्येव , अग्नये पवमानायाष्टाकपालं निर्वपेद् दधिक्राव्णा एकादशकपालं अग्नये वैश्वानराय द्वादशकपालं पुनरेत्य गृहेषु , पवमान एवैनं पुनात्य, ग्निर् निष्टपति , अपूतो वा एष यमभिशंसन्ति , नैनं दधिक्रावा चन पावयांक्रियादि, ति खलु वा आहु, स्तद् दधिक्रावैवैनं पावयति, संवत्सरो वा अग्निर्वैश्वानरः, संवत्सर एवैनं स्वदयति , आग्नेयमष्टाकपालं निर्वपेदग्नीषोमीयमेकादशकपालं द्यावापृथिवीयं द्विकपालं यः संग्रामं जिगीषेन् नृज्यायं वा जिज्यासेत् , ऋद्ध्या एवाग्नेयो , अग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रमहन् , वृत्रं खलु वा एष हन्ति यः संग्रामं जयति नृज्यायं वा जिनाति , तद्वार्त्रघ्नं एवैतत् , इन्द्रो वै वृत्राय वज्रं उदयच्छत् , तं द्यावापृथिवी नान्वमन्येताम् , तं एतेन भागधेयेनान्वमन्येताम् , यद् द्यावापृथिवीयो वज्रस्यानुमत्यै , अथो अनुमतवज्रोऽसदिति , स यदा संग्रामं जयेन् नृज्यायं वा जिनीयादथाग्नेयमष्टाकपालं निर्वपेदैन्द्राग्नमेकादशकपालं द्यावापृथिवीयं द्विकपालं , ऋद्ध्या एवाग्नेयो , अग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रमहन् , त्स ओजसा वा वीर्येण व्यार्ध्यत, स एतमैन्द्राग्नमपश्यत् , तेनौजो वीर्यमात्मन्नधत्त , ओजसा वा एष वीर्येण व्यृध्यते यः संग्रामं जयति नृज्यायं वा जिनाति , ओजो वीर्यमिन्द्राग्नी , ओजसैवैनं वीर्येण समर्धयतो , अथ यद् द्यावापृथिवीयो , वा ये एवास्मै वज्रं अन्वमंसातां ताभ्यां एष भागः क्रियते ॥

2.1.4 अनुवाकः4
अग्नीषोमीयमेकादशकपालं निर्वपेद् ब्राह्मणः कामाय , अग्नीषोमीयो वै ब्राह्मणो देवतया , स्वामेव देवतां कामाय भागधेयेनोपासरत् , ता अस्मै कामं समर्धयतो यत्कामो भवति , अग्नीषोमीयमेकादशकपालं निर्वपेत् ब्राह्मणं भूतिकामं याजयेत् , देवा वै सत्रमासत कुरुक्षेत्रेऽग्निः सोमा इन्द्र, स्तेऽब्रुवन् , यतमं नः प्रथमं यश ऋच्छात् तं नः सहेति, तेषां वै सोमं यश आर्छत्, तमभिसमगच्छन्त, तस्मात् सोममभिसंगच्छन्ते, स हि यशस्वितम , स्तद्वै सोमो न्यकामयत, स गिरिमगच्छत् , तमग्निरन्वगच्छत् , तौ गिरा अग्नीषोमौ समभवताम् , तस्मात्सददि गिरा अग्निर्दहति गिरौ सोमः , स वा इन्द्रः शिथिर इवामन्यत, सोऽग्नीषोमा अन्वगच्छत् , ता अब्रवीत् , याजयतं मेति , तं वा एतयाग्नीषोमा अयाजयताम् , तस्मिंस्तेजोऽग्निरदधादिन्द्रियं सोम, स्तता इन्द्रोऽभवत् , यो भूतिकामः स्यात् तं एतया याजयेत् , तेज एवास्मिन्नग्निर्दधातीन्द्रियं सोमो , भवत्येवा , अग्नीषोमीयमेकादशकपालं निर्वपेञ् श्यामाकं वसन्ता ब्रह्मवर्चसकामो , अग्नीषोमौ वै ब्रह्मवर्चसस्य प्रदातारौ, ता एव भागधेयेनोपासरत्, ता अस्मै ब्रह्मवर्चसं प्रयच्छतो, वसन्ता यजेत, वसन्तो वै ब्राह्मणस्य ऋतुः, स्व एवास्मा ऋतौ ब्रह्मवर्चसं प्रयच्छतो , यत् पुरोडाशस्तेनाग्नेयो , यञ् श्यामाकस्तेन सौम्यः , सर्वमेवाग्नीषोमाभ्यां हव्यं संप्रादात् , ता अस्मै सर्वं ब्रह्मवर्चसं प्रयच्छतः , सौमाग्नी संयाज्ये स्याताम् , तेजो वा अग्निः , इन्द्रियं सोम, स्तेजसा च वावास्मा एतदिन्द्रियेण चोभयतो ब्रह्मवर्चसं परिगृह्णाति, सौमापौष्णँ चरुं निर्वपेन् नेमपिष्टं पशुकामः , सोमो वै रेतोधाः , पूषा पशूनां प्रजनयिता, सोम एवास्मै रेतो दधाति, पूषा पशून् प्रजनयति , सौमेन्द्रं चरुं निर्वपेत् पुरोधाकामः , सौम्यो वै ब्राह्मणो देवतया , ऐन्द्रो राजन्यो , अनपदोष्यं खलु वै सोमः प्रयच्छति , तं एव भागधेयेनोपासरत् , सोऽस्मा अनपदोष्यं राष्ट्रं प्रयच्छति , आग्निवारुणं चरुं निर्वपेत्समान्तमभिद्रुह्यामयावी वा , अनृतं वा एष करोति यः समान्तमभिद्रुह्यति, देवता वा एष आरद्योऽनृतं करोति , अग्निर्वै सर्वा देवता , अत्र वै सापि देवता यामारत्तत एनं मुञ्चति , यद्वारुणः , वरुणादेवैनं तेन मुञ्चति, तत् काजवं वा एतत् क्रियते सर्वस्यावेष्टिः सर्वस्य प्रायश्चित्तिः ॥

2.1.5 अनुवाकः5
सौमारौद्रं घृते चरुं निर्वपेच् शुक्लानां व्रीहीणां ब्रह्मवर्चसकामः , स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत् , तं सोमारुद्रा अभिषज्यताम् , तस्य वा एतेनैव शमलं अपाहताम्, एतेनास्मिंस्तेजोऽधत्तां , यो ब्रह्मवर्चसकामः स्यात् तं एतया याजयेत् , शमलं एवास्यापहन्ति, तेजोऽस्मिन् दधाति , इयांश्चरुर्भवति , एतावान् वा आत्मा, यावान् एवास्यात्मा तावदस्मिंस्तेजो दधाति, शुक्ला व्रीहयो भवन्ति, श्वेता गा आज्याय दुहन्ति, तेज एवैतत् संभ्रियते , घृतं प्रोक्षणं भवति , घृतेन मार्जयन्ते, घृते भवति, भूय एवास्मिंस्तेजो दधाति, यस्या रात्र्याः प्रातर्यक्ष्यमाणः स्यान्नास्य तां रात्रीमपो गृहान् प्रहरेयुरा , पो वै शान्तिः, शमयेयुरेव , परिश्रिते याजयन्ति तेजसः परिगृहीत्यै , साकं रश्मिभिः प्रचरन्ति , साकं एवास्य रश्मिभिः शमलं अपघ्नन्ति , तिष्यापूर्णमासे याजयेत् , सोमो वै चन्द्रमा , रुद्रस्तिष्यः, संप्रत्येवैना उपासरत् , प्राचीनं वै सौमीर् ओषधयः, प्रतीचीनं रौद्री , र्न हि प्राचीनं शुष्यन्ति, शुष्यन्ति प्रतीचीनं , मनोर् ऋचो भवन्ति, मनुर्वै यत् किंचावदत्तद् भेषजं एवावदत्, तद् भेषजत्वायैव , एताः शक्वरीर्भवन्ति शक्यैमो, नाराशँसीर्भवन्ति शान्त्यै किलासत्वाद्वा एतस्य, भयमति ह्यपहन्ति, सौमापौष्णँ चरुं निर्वपेन्नेमपिष्टं पशुकामः, सौम्यो वै ब्राह्मणो देवतया, पशवः पूषा, स्वां वा एतद्देवतां पशुभिर् बंहयते, त्वचं एवाकृत ॥

2.1.6 अनुवाकः6
सौमारौद्रं चरुं निर्वपेत् कृष्णानां व्रीहीणामभिचरन् , सौमीर्वा ओषधय, स्तत एनं निर्याच्य रुद्रायास्य पशूनपिदधाति, कृष्णा व्रीहयो भवन्ति, तमो वै कृष्णं , मृत्युस् तमो , मृत्युनैवैनं ग्राहयति, शरमयं बर्हिर् भवति वैभीदक इध्मः, शृणादिति शरमयं बर्हिर् भवति, विभत्त्यै वैभीदक इध्मः, सौमारौद्रं चरुं निर्वपेदुदश्चित्यविचितानां व्रीहीणां यः कामयेत द्वितीयमस्य लोके जनेयमिति, सौमीर्वा इमाः प्रजा, द्वितीयमेवास्य लोके जनयति, नेमं शरमयं बर्हिर् भवति नेमं अशरमयम् , नेमो वैभीदक इध्मो नेमोऽवैभीदको , द्वितीयमेवास्य लोके जनयति, सौमारौद्रीमामिक्षां निर्वपेत् , आमयाविनं याजयेत् , आग्नेयो वै प्रमीतः, सौम्यो जीवन् , उभयत एवैनं निःक्रीणाति, पयो वै पुरुषः, पय एतस्यामयति, पयसैवास्य पयो निःक्रीणाति , अपिनद्धाक्षो होता स्यात् , तमरण्यं पराणीय विक्शापयेत् , तस्मा अनड्वाहं दद्यात् , तं घ्नीत , तस्याश्नीयात् , यत्तस्य नाश्नीयात् प्रमीयेत ॥

2.1.7 अनुवाकः7
आग्नावैष्णवं एकादशकपालं निर्वपेदभिचरन्नभिचर्यमाणो वा , सरस्वतीमप्याज्यस्य यजेत् , अग्निर्वै सर्वा देवता, देवताभिरेवास्य देवताः प्रतिचरति, विष्णुर्यज्ञो , यज्ञेन यज्ञं , वाक् सरस्वती , वाचा वाचं , तदभिचर्याभिप्रायुक्त , अथो प्रतिचर्यात्येव प्रायुक्त , आग्नावैष्णवं घृते चरुं निर्वपेच्चक्षुष्कामो , अग्निर्वै मनुष्याणां चक्षुषः प्रदाता विष्णुर्देवानां, एतौ वै चक्षुषः प्रदातारौ, ता एव भागधेयेनोपासरत्, ता अस्मै चक्षुः प्रयच्छतो , धेन्वा वै घृतं पयोऽनडुहस्तण्डुला, स्तन्मिथुनं , मिथुनं चक्षु, र्मिथुनेनैवास्मै मिथुनं चक्षुर्जनयतः , पयो वै घृतं , पयश्चक्षुः, पयसैवास्मै पयश्चक्षुर्जनयत, स्तेजो वै घृतं , तेजश्चक्षु, स्तेजसैवास्मै तेजश्चक्षुर्जनयतो , हिरण्यं ददाति , आयुर्वै हिरण्यम्, आयुश्चक्षु , आयुषैवास्मा आयुश्चक्षुर्दधाति, शतमानं भवति , शतायुर्वै पुरुषः शतवीर्यो , आयुरेव वीर्यमाप्नोति , आग्नावैष्णवं एकादशकपालं निर्वपेदभिचर्यमाणः , अग्निर्वै सर्वा देवता , विष्णुर्यज्ञो , देवताश्चैव यज्ञं चास्तृत्यै मध्यतः प्रविशति , आग्नावैष्णवं एकादशकपालं निर्वपेत् संग्रामे , सरस्वतीमप्याज्यस्य यजेत् , अग्निर्वै सर्वा देवता, देवताभिरेवास्य देवताः प्रणुदते, विष्णुर्यज्ञो , यज्ञेन यज्ञं , वाक् सरस्वती, वाचा वाचं , यदि मन्येत, प्रति पुरस्ताच्चरन्तीति, द्वे पुरोनुवाक्ये कुर्यादेकां याज्याम् , समं एव द्वाभ्यां क्रियते, ऽत्येकया प्रयुङ्क्ते , आग्नावैष्णवं प्रातरष्टाकपालं निर्वपेत् सारस्वतं चरुं बार्हस्पत्यं चरुमाग्नावैष्णवं एकादशकपालं मध्यंदिने सारस्वतं चरुं बार्हस्पत्यं चरुमाग्नावैष्णवं द्वादशकपालं अपराह्णे सारस्वतं चरुं बार्हस्पत्यं चरुं यस्य भ्रातृव्यः सोमेन यजेत , अग्निर्वै सर्वा देवता, देवताभिरेवास्य देवता आप्नोति, विष्णुर्यज्ञो , यज्ञेन यज्ञं , वाक् सरस्वती, वाचा वाचं , ब्रह्म बृहस्पति , र्ब्रह्मणैवास्य ब्रह्माप्नोति, कपालैश्छन्दांसि, पुरोडाशैः सवनानि, मैत्रावरुणं एककपालं निर्वपेत् पयस्यां वा , अनूबन्ध्यामेवैतेनाप्नोति , सैषाध्वरकल्पेष्टि , र्यज्ञमेवैतयाप्नोति ॥

2.1.8 अनुवाकः8
आग्निमारुतं चरुं निर्वपेद् वृष्टिकामः, समान्या मृदश्चरुं च कुर्युः कुम्भं च , यस्मिन्न् एवाग्नौ चरुं पचेयुस्तस्मिन् कुम्भं धूपयेयु , र्धूमो वा अस्यामूं गच्छति नार्चि, स्तस्मादेतं धूपयन्ति , न पचन्ति, यदा हवींष्यासादयेयुरथ दक्षिणायां श्रोण्यां कुम्भमासाद्योदकेन पूरयेयु , र्यदि पुरा संस्थानाद्वीर्येत , अद्य वर्षिष्यतीति ब्रूयात् , यदि संस्थिते, श्वो व्रष्टेति ब्रूयात् , यदि चिरमिव वीर्येत, नाद्धा विद्मे, ति ब्रूयात् , अग्निर्वा इतो वृष्टिम् ईट्टे, मरुतोऽमुतश्च्यावयन्ति , एते वै वृष्ट्याः प्रदातार, स्तान् एव भागधेयेनोपासरत् , तेऽस्मै वृष्टिं प्रयच्छन्ति , मारुतं चरुं निर्वपेत् पयसि प्रैयङ्गवं ग्रामकामो वा पशुकामो वा , पृश्नीनां गवां दुग्धे पृश्नीनां गवां आज्यं स्यात् , तत्रापि गोमूत्रस्याश्चोतयेयुः , पृश्निर्वै यददुहत्स प्रियङ्गुरभवत् , इयं वै पृश्निर्वाग् वा, तस्या वा एतत् पयो यत् प्रियङ्गवः, स्वेनैवैनां पयसाच्छैति, प्रियवती याज्यानुवाक्ये भवतः, प्रियमेनं सजातानां करोति, द्विपदा च चतुष्पदा च भवतो , द्विपदश्चैवास्मै चतुष्पदश्च पशूनवरुन्धेना , यथा वत्स ऊधरभ्यायच्छति वत्सं वा गौर् एवं एनं सजाता अभ्यायच्छन्ति , मारुतं त्रयोदशकपालं निर्वपेद्यस्य यमौ पुत्रौ गावौ वा जायेयाताम् , निर्वीरतां वै पुरुषो यमो जात आशास्तेऽपशुतां गौ , र्यत् त्रयोदशम् , प्रजापतिर्वै त्रयोदशम् , प्रजापतिमेवाप्नोति, यद् द्वादशं संवत्सरात् तेन, यद् गायत्य््नुवाक्या संवत्सरात् तेन, यज्जगती याज्या पशुभ्यस्तेन, यन्मारुतीष्टिः पशुभ्यस्तेन, मारुतं सप्तकपालं निर्वपेद्यत्र विड् राजानं जिज्यासेत् , अगस्त्यस्य कयाशुभीयं सामिधेनीश्च स्युर् याज्यानुवाक्याश्च , अगस्यो ा वै मरुद्भ्य उक्ष्णः प्रौक्षत् , तानिन्द्रायालभत , ते वज्रं आदायाभ्यपतन् , तान् वा एतेनाशमयत् तं शमयत्य् एवैतेन, सप्तकपालो भवति, सप्त हि मरुतो , विण्मरुतः, स्वेनैवैनान् भागधेयेन शमयति ॥

2.1.9 अनुवाकः9
ऐन्द्रमेकादशकपालं निर्वपे, न्मारुतं सप्तकपालं राजन्यं भूतिकामं याजयेत् , ऐन्द्रो वै राजन्यो देवतया, मारुती विट् , इन्द्रियेणैवास्मै विशम् उपयुनक्ति , अनुकामस्मै विशमविवादिनीं करोति , ऐन्द्रमेकादशकपालं निर्वपेन्मारुतं सप्तकपालं यः कामयेत , विशे च क्षत्राय च समदं कुर्याम् इति , ऐन्द्रस्यैन्द्रीमनूच्य मारुत्या यजेत् , मारुतस्य मारुतीमनूच्यैन्र्याता यजेत् , स्व एवैभ्यो भागधेये समदं करोति , यदि कामयेत , अतुर्मुह्यं स्यादिति, पूर्वार्धेऽन्यां जनताया गां निदध्याज्जघनार्धेऽन्यामपि, ते संगच्छेते, तावदतुर्मुह्यं भवति, यदि कामयेत, कल्पेतेत्ये, ते एव हविषी निरुप्य यथायथं यजेत् , कल्पतेऽह , ऐन्द्रमेकादशकपालं निर्वपेन्मारुतं सप्तकपालं अभिचरन् , उपरिष्टादैन्द्रस्यावद्येदधस्तान्मारुतस्य , उभयत एवैनानादीपयति ज्येष्ठतश्च कनिष्ठतश्च , ऐन्द्रमेकादशकपालं निर्वपेन्मारुतीमामिक्षाम् , राजन्यं ग्रामकामं याजयेत् , मध्य आमिक्षायाः पुरोडाशं निधायोभयस्यावद्येत् , क्षत्रं वा इन्द्रो , विण् मरुतो , विशँ वा एतन्मध्यतः प्रविशति , पर्यूहमवद्यति , विशैवैनं पर्यूहति , मारुतमेकविंशतिकपालं निर्वपेदभिचरन् , देवविशा वै मरुतो , न वै विशा प्रत्तं घ्नन्ति , देवविश एवैनं निर्याच्य स्तृणुते , तं बर्हिषदं कृत्वा समया स्येशान विहन्यात् ॥ इदमहममुष्यामुष्यायणस्येन्द्रवज्रेण शिरश्छिनद्मि ॥ इति इन्द्रवज्रेणैवास्य शिरश्छिनत्ति , अथ यत् स्फ्यो , वज्रो वै स्फ्यो , वज्रेणैवैनं स्तृणुते ॥
एना व्याघ्रं परिषस्वजानाः सिंहं मृजन्ति महते धनाय ।
महिषं नः सुभ्वं तस्थिवांसं मर्मृज्यन्ते द्वीपिनं अप्स्वन्तः ।।
इति वज्रो वा आपो , यदेतदप्सुमद्यजुर्भवति वज्रेणैवैनं स्तृणुते ॥

2.1.10 अनुवाकः10
अग्नये पथिकृतेऽष्टाकपालं निर्वपेद्यस्य प्रज्ञातेष्टिरतिपद्येत, बहिष्पथं वा एष एति यस्य प्रज्ञातेष्टिरतिपद्यते , अग्निर्वै देवानां पथिकृत् , तं एव भागधेयेनोपासरत् , स एनं पन्थां अपिनयति , अनड्वान् दक्षिणा , स हि पन्थां अपिवहति , अग्नये व्रतपतयेऽष्टाकपालं निर्वपेद्य आहिताग्निः सन् प्रवसति व्रत्येद्, बहु वा एष व्रतं अतिपादयति य आहिताग्निः सन् प्रवसति, व्रत्ये ह्यहनि स्त्रियं वोपैति मांसं वाश्नाति , अग्निर्वै देवानां व्रतपति, स्तं एव भागधेयेनोपासरत् , स एनं व्रतमालंभयति , अग्नये व्रतभृतेऽष्टाकपालं निर्वपेद्य आहिताग्निः सन्नश्रु कुर्यात् , आनीतो वा एष देवानां य आहिताग्नि, स्तस्मादेतेनाश्रु न कर्तवै, न हि देवा अश्रु कुर्वन्ति , अग्निर्वै देवानां व्रतभृत् , अग्निमेतस्य व्रतमगन् , तस्मादेवाधिव्रतमालभते , अग्नये यविष्ठायाष्टाकपालं निर्वपेदभिचर्यमाणः , याभिरेवैनमितरः प्रयुक्तिभिरभिप्रयुङ्क्ते ता अस्माद्यविष्ठो योयाव , अग्नये वाजसृतेऽष्टाकपालं निर्वपेत् संग्रामे, वाजं वा एष सिसीर्षति यः संग्रामं जिगीषति , अग्निर्वै देवानां वाजसृत् , तं एव भागधेयेनोपासरत् , सोऽस्मै वाजं धावति , अग्नयेऽनीकवतेऽष्टाकपालं निर्वपेत् संग्रामे, यद्र्यग् वा अग्नेरनीकं एति न तत् प्रतिधृषे , अग्निरेवास्मा अनीकानि जयति, विष्णुमप्याज्यस्य यजेत् , अतो वै विष्णुरिमांल्लोकान् उदजयत् , विष्णोरेवोज्जितिम् अन्व् इमांल्लोकान् उज्जयति, प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते , अग्नये रुद्रवतेऽष्टाकपालं निर्वपेद्यः कामयेत रुद्रायास्य पशूनपिदध्याम् इति , अग्निर्वै रुद्रो , रुद्रायैवास्य पशूनपिदधाति, यदि कामयेत शाम्येदित्य, ग्नये सुरभिमतेऽष्टाकपालं निर्वपेत् , एषा वा अग्नेर् भेषजा तनूर्यत् सुरभि , र्भेषजं एवास्मा अकः, सुरभिमेनं अकः, शमयत्येव , अग्नयेऽन्नवतेऽन्नादायान्नपतयेऽष्टाकपालं निर्वपेद्यः कामयेत , अन्नवानन्नादोऽन्नपतिः स्यां इति , अग्निर्वै देवानामन्नवानन्नादोऽन्नपति, स्तं एव भागधेयेनोपासरत् , स एनं अन्नवन्तमन्नादमन्नपतिं करोति ॥

2.1.11 अनुवाकः11
अग्नये रक्षोघ्नेऽष्टाकपालं निर्वपेद् यो रक्षोभ्यो बिभीयात् , इन्द्रं वै रक्षांस्यसचन्त, सोऽग्निं प्राविशत् , तानि वा एनं अभिसममृशन् , स एता विप्रुषोऽजनयत या इमाः स्कूयमानस्य विप्रवन्ते, तानि वा अग्निनैवापाहत , अग्निर्वै देवानां रक्षोहा, तेनैव रक्षांस्यपहते, नक्तं याजयेत् , नक्तं वै रक्षांसि प्रेरते, यर्येक्व प्रेरते तर्येनैनानि अपहते, वामदेवस्य पञ्चदश सामिधेनीश्च स्युर् याज्यानुवाक्याश्च, वामदेवश्च वै कुसितायी चाजीमयातामात्मनोः, सा कुसितायी वामदेवरथस्य कूबरं अछिनत् , सापरं न्याप्लवत, युगं वा छेत्स्यामीषां वेति, सोऽग्निम् उख्यमवैक्षत, स एतं मन्त्रं अपश्यत् , तामर्चिरुदौषत् , सार्चिषा दह्यमाना ह्रदं प्राविशत् , स वाव कौसितो ह्रदो , रक्षांसि वै स तेनापाहत, तद्रक्षांस्येवैतेनापहते , आग्नेयमष्टाकपालं निर्वपेद् यो राष्ट्रे स्पर्धेत यो वा कामयेत , अन्नादः स्यादिति, देवाश्च वा असुराश्चास्पर्धन्त, तान् गायत्री सर्वमन्नं परिगृह्यान्तरातिष्ठत् , तेऽविदु , र्यतरान् वा इयम् उपावर्स्यावति त इदं भविष्यन्तीति, तस्यां वा उभय ऐच्छन्त , तां नाम्नोपैप्सन् ॥ दाभि ॥ इत्यसुरा आह्वयन् ॥ विश्वकर्मन् ॥ इति देवाः, सा नान्यतरांश्चनोपावर्तत, तां देवा एतेन यजुषावृञ्जत ॥ ओजोऽसि, सहोऽसि, बलं असि, भ्राजोऽसि, देवानां धाम नामासि, विश्वमसि विश्वायुः, सर्वमसि सर्वायुरभिभूः ॥ इति संवत्सरो वै गायत्री, संवत्सरो वै तदतिष्ठत् , संवत्सरं वा एषां तदन्नाद्यमवृञ्जत, तत् संवत्सरमेवैतदन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्ते, सैषा गायत्रीष्टिर , थो आहू , राष्ट्रस्य संवर्ग इति ॥

2.1.12 अनुवाकः12
ऐन्द्राबार्हस्पत्यं हविर् निर्वपेद् यो राष्ट्रीयो नेव प्रस्तिङ्नुयात् , अदितिर्वै प्रजाकामौदनं अपचत् , सोञ्शिष्टमाश्नात् , तं वा इन्द्रमन्तरेव गर्भं सन्तमयस्मयेन दाम्नापौम्भत् , सोऽपोब्धोऽजायत, तं वा एतेन बृहस्पतिरयाजयदैन्द्राबार्हस्पत्येन , तस्य तद् दाम स्वयमेव व्यपद्यत , स इमा दिशो वज्रेणाभिपर्यावर्तत, यो राष्ट्रीयो नेव प्रस्तिङ्नुयात् तं एतेन याजयेदैन्द्राबार्हस्पत्येन , परिततो हि वा एष पाप्मना , अथैष न प्रस्तिङ्नोति, बृहस्पतये निरुप्यते , इन्द्राय क्रियते, सर्वत एवैनं मुञ्चति, वज्रेणेमा दिशोऽभिपर्यावर्तते ॥
इति मध्यमकाण्डे प्रथमः प्रपाठकः।।