मेघसन्देशः - दक्षिणावर्तनाथः - १९१९/पूर्वमेघः

विकिस्रोतः तः
← उपोद्घातः मेघसन्देशः - दक्षिणावर्तनाथः - १९१९
पूर्वमेघः
कालिदासः
उत्तरमेघः →
॥ श्रीः ॥

महाकविश्रीकालिदासप्रणीतः

मेघसन्देशः

श्रीदक्षिणावर्तनाथप्रणीतप्रदीपाख्य-

व्याख्यासनाथः ।
-----
(पूर्वसन्देशः)

रघुवंशकुमारसम्भवौ द्वौ स्फुटभावौ किल यस्य दीपिकाभ्याम् ।
स ददाति रसोज्ज्वलं प्रदीपं तिमिरं मेघसमुद्भवं विहन्तुम् ॥

 इह खलु कविः सीतां प्रति हनूमता हारितं सन्देशं हृदयेन[१] समुद्वहन् तत्स्थानीयनायकाद्युत्पादनेन सन्देशं करोति--

कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥

 कश्चिदिति । रामकथाभिलापे लिङ्गम् 'इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा' इति वक्ष्यमाणवचनम्[२]। कश्चिद् यक्षः रामगिर्याश्रमेषु वसतिं चक्रे । कश्चिद् देवयोनिविशेषः रामनाम्नः पर्वतस्य आश्रमेषु देवभूमिषु वसतिं पदं चकार । कीदृशो यक्षः, स्वाधिकारात्[३] प्रमत्तः स्वस्याधिकारात् स्थानात् प्रमत्तः भ्रष्टोऽनवहितः । ‘प्रमादोऽनवधानता’ इत्यमरः[४] । ‘जुगुप्साविरामप्रमादार्थानाम्--'(वा० १.४.२४) इत्यपादाने पञ्चमी । स्वाधिकारप्रमत्त इति पाठे समासः कृच्छ्रलभ्यः । शापेन शापफलेन । निग्रहवचनं शापः । अस्तङ्गमितमहिमा, अस्तमिति मकारान्तमव्ययमिदम् । अस्तंगमितेत्येकं पदम् । वर्षभोग्येण कृत्स्नैकवर्षभोग्येण । ‘अत्यन्तसंयोगे च’ (२.१.२९) इति समासः । भर्तुः पोष्टुः, स्वामिन इत्यर्थः । यक्षो देवयोनिविशेषः । जनकतनयेत्यादिना रामकथा सूचिता । स्त्रिग्धच्छायातरुषु स्निग्धा लावण्यशालिनः छायाप्रचुरास्तरवो येषु रामगिर्याश्रमेषु । अनेनापि रामकथा सूचिता । बहुवचनेन विरहखेदादेकत्रावस्थानं तस्य न भवतीति सूचितम् ॥ १ ॥

तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥

 तस्मिन्निति । अद्रिग्रहणं पूर्वश्लोके रामगिर्याश्रमे (ष्वित्युक्त)- त्वात् कृतम् । कतिचित्, अनिर्दिष्टसङ्ख्याविशेषेऽप्यस्मिन् पदे सङ्ख्याविशेषो द्रष्टव्यः । तद्यथा ‘मासानन्यान् गमय चतुरो लोचने मीलयित्वा’ इति वक्ष्यमाणवचनेन चतुर्णां मासानां गमयित(व्यं ? व्यत्वं) प्रतीयते । ते चाषाढात् प्रभृति चत्वारो मासाः, ‘आषाढस्य प्रथमदिवस’ इति वक्ष्यमाणत्वात् । पारिशेष्यादेकस्मिन् वत्सरे मासाष्टकं गमितमिति प्रतीयते । अबलाविप्रयुक्तः । पूर्वश्लोके कान्ताविप्रयोगे कथिते सत्य(पि) पुनर्वचनं वक्ष्यमाणकनकवलयभ्रंशादेः कान्ताविरह एव निमित्तमिति सूचयितुम् । कामीति पदमाश्रमवासित्वेऽपि तस्य तपःपरत्वं नास्तीति सूचयितुम् । कनकवलयभ्रंशरिक्तप्रकोष्ठः । विरहकार्श्यात् कामिनां कनकवलयभ्रंशो भवति । तथा शाकुन्तले

"इदमशिशिरैरन्तस्तापाद् विवर्णमणीकृतं
निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।
अनतिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्
कनकवलयं स्रस्तं मया प्रतिसार्यते ॥"

इति । न त्वधिकारनिषेधादिति भावः । वप्रक्रीडापरिणतगजप्रेक्षणीयं वप्रक्रीडा तटाघातक्रीडा तदर्थं परिणतस्तिर्यग्दन्तप्रहारवान् गजः । ‘तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः’ इति हलधरः । अनेन विशेषणेन मत्तगजदर्शनात् कार्यसिद्धिर्भवतीति सूचितम् । अत्र महायात्रायां वराहमिहिरः--

"ज्वलितशिखिफलाक्षतेषुयक्षद्विरदमृदङ्गकचामरायुधानि ।
मरतककुरुविन्दपद्मरागस्फटिकमणिप्रमुखाश्च रत्नभेदः ॥

 स्वयमपि रचितान्ययत्नतो वा यदि कथितानि भवन्ति मङ्गलानि ।"

इति ॥ २ ॥

तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो-
रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥

 तस्य स्थित्वा कथमपि पुर इति । स्वप्रवृत्तिं प्रियां प्रति मेघेन हारयितुकामस्तदर्थं मेघस्य स्वागतादिकरणाय कामार्तोऽपि महता यत्नेन तस्य पुरः स्थित्वेत्यभिप्रायः । कौतुकाधानहेतोरिति पाठः । कौतुकं कामविषयौत्सुक्यम् । कौतुकार्पणहेतोरित्यर्थः ।

 "कौतुकं विषयाभोगे हस्तसूत्रे कुतूहले ।

 कामे ख्याते मङ्गले च"

इति यादवः । केतकाधानहेतोरिति पाठे केतकानां गर्भाधानहेतोरित्यर्थः किल भवेत् । इदमत्यन्तश्लाघ्यविशेषणं न स्यादिति बोद्ध व्यम् । कौतुकाधानहेतोरिति विशेषणं मनोरथस्थितं मेघस्वागतादिकार्यं विस्मृत्य स परवशो बभूवेत्यर्थस्य कारणत्वेनोक्तम् । अन्तर्बाष्पः प्रभुत्वादन्तःस्तम्भितबाष्पः । प्रभुत्वं राजराजस्यानुचर[५] इति सूचितम् । चिरं दध्यौ इति सम्बन्धः । दध्यौ चिन्तयामास । मोहाद् विषयशून्यचित्ततया ध्यायतेः कर्माप्रयोगः । सुखिनः सुखहेतुमतः, सन्निहितप्रियजनस्येत्यर्थः । अन्यथावृत्ति उत्कण्ठापरवशम् । कण्ठाश्लेषप्रणयिनि जन इति । वर्षासमये मेघगर्जितश्रवणभयाद् भर्तृकण्ठमालिङ्गितुं प्रार्थयमाने प्रियजन इत्यर्थः । तस्याश्लेषप्रणयिनि जन इति पाठः । तस्य यक्षस्य । दूरसंस्थे दूरस्थिते ॥३॥

प्रत्यासन्ने मनसि दयिताजीवितालम्बनार्थां
जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ।
स प्रत्यग्रैः कुटचकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥

प्रत्यासन्न इति । प्रत्यासन्ने प्रकृतिस्थे मनसि चेतसि । ध्यानव्याकुलिते हृदये पुनः प्रतिष्ठिते सतीत्यर्थः । प्रत्यासन्ने नभसि इति पाठे नभःशब्दः श्रावणमासवचनः । ‘नभः खं श्रावणो नभा’ इत्यमरसिंहवचनात् । तदा प्रस्तुतमाषाढं विहाय विलम्बनमयुक्तमिति मन्तव्यम् । किञ्च श्रावणमासे ‘मासानन्यान् गमय चतुरो लोचने मीलयित्वा’ इति वचनं स्यादयुक्तमिति । अन्ये त्वाहुः -- नभःशब्दो वर्षर्तुवाचकः, वर्षासमये समागते दयिताजीवितालम्बनार्थां स्वप्रवृत्तिं जीमूतेज हारयिष्यन्निति वर्षासमयात् प्रागेव तस्य चिन्तेति । तदप्यसङ्गतम् । ‘इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे’ इति तात्कालिककार्यचिन्तानिर्देशात् । दयिताजीवितालम्बनार्थां दयिताजीवितप्रयोजनाम् । जीमूतेन । प्रकृतस्य तच्छब्दं विना नाम्नोपादानं वाक्यान्तरव्यवधानादित्यनुसन्धेयम् । प्रवृत्तिं वृत्तान्तम् । कुटचकुसुमैः । ‘कुटचो गिरिमल्लिका’ इति हलायुधः । कुटचकुसुमग्रहणं वार्षिकत्वात् कृतमित्यनुसन्धेयम् । कल्पितार्घाय इति पाठः । कल्पितपूजाविधये । ’मूल्ये

पूर्वसन्देशः ।


पूजाविधावर्घः’ इत्यमरः । प्रीतिप्रमुखवचनं पूज्यानां प्रीतिवचने प्रधानवचनं स्वागतं शोभनमागतमागमनम् । अनेन स्वागतशब्दो विवक्षितः ॥४॥
सन्देशहरणाख्यस्य वस्तुनश्चैतन्यशून्येन मेघेन दुष्करत्वमाशङ्क्य परिहरति –

धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः
सन्देशार्थः क्व पटुकरणैः प्राणिभिः प्रापणीयः ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्ता हि प्रणयकृपणाश्चेतनाचेतनेषु ॥ ५ ॥

धूमेति । सन्निपातः समुदायः । सन्देशार्थः, सन्देश एवार्थः सन्देशार्थ इति कर्मधारयः । सन्देशाश्चेति केचित् पठन्ति । पटुकरणैः पट्विन्द्रियैः । ‘खमक्षमिन्द्रियं स्त्रोतो हृषीकं करणं मतम्’ इति हलायुधः । औत्सुक्याद् इष्टार्थोद्युक्तत्वात् । ‘इष्टार्थोद्युक्त उत्सुक’ इत्यमरः । इत्यपरिगणयन्निति सम्बन्धः । गुह्यकः, निधिं गूहत इति गुह्यकः । यक्षाणां वैश्रवणनिधिगूहनात् क्रियानामधेयमिदम् । अथवा यक्षगुह्यकशब्दौ घनदेऽपि वर्तेते । ‘अथो यक्षगुह्यकौ । धनदेऽपी’ति यादवः । तस्माद् वैश्रवणवाचकेन गुह्यकशब्देन तद्भृत्यानां यक्षाणां व्यपदेशस्य युक्तत्वादुक्तं गुह्यक इति । तस्माद् यक्षगुह्यकयोर्भेदे सत्यपि (यश्चक्रयित्ययक्षश्चक्रया ? यक्षश्चक्रे इत्यपेक्ष्य) गुह्यकशब्दस्य विरोधो(न) भवतीत्यनुसन्धेयम् । ययाच इति वक्ष्यमाणापेक्षया । प्रणयकृपणा याच्ञायां क्षुद्राः । क्षुद्रत्वं च दृष्टापरित्यागः । चेतनाचेतनेषु, इयं हि विषयसप्तमी । अचेतनेष्वपीति वक्तव्ये (चेतना) चेतनग्रहणं धूमज्योतिःसलिलमरुतामित्यादिना प्रस्तुतस्याचेतनस्य तदनन्तरं क्व पटुकरणैरित्युपक्षिप्तस्य चेतनस्य (चा)नुगुणेन कृतमित्यनुसन्धेयम् ॥५॥ इदानीं स्तुतिपूर्वां याच्ञां करोति --

जातं वंशे भुवनविदिते पुष्कलावर्तकानां

जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः

तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥

जातमिति । पुष्कलावर्तकानां मेघानाम् । कूटस्थाः केचन मेघाः पुष्कलावर्तकाः । प्रकृतिपुरुषम् अमात्यादिप्रकृतिवर्गस्थं पुरुषम् । कामरूपम् इच्छाधीनविग्रहम् । इदं विशेषणं दुर्गादिगमनार्थम् । वक्ष्यति – ‘तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी’ति, ‘गत्वा सद्यः कलभतनुतामि’ति च । तेनाभिजात्यप्रभुत्वपरिज्ञानेन । अर्थित्वम् अभ्यर्थनाम् । विधिवशाद् दूरबन्धुः इत्यन्वयः । दूरबन्धुर्दूरस्थभार्यः । बध्नातीति बन्धुरिति व्युत्पत्त्या बन्धुशब्दो भावबन्धिन्यां भार्यायां वर्तते । बन्धुशब्दपर्यायेण सुहृत्पदेन भार्यापि गृह्यते –-

"पुत्रः प्रियाणामधिको भार्यापि सुहृदां वरा ।
गिरीणामधिको मेरुर्देवानां मधुसूदनः ॥"

इति । मोघा व्यर्था निरर्थका । वरमीषत्प्रियम् । वरिष्ठाश्रयणे तु वरेति वक्तव्यम् । अत्रामरसिंहः –- 'देवाद् वृते वरः श्रेष्ठे त्रिषु क्लीबे मनाक्प्रिये’ इति । अधिगुणे सगुण इत्यर्थः । अधमे निर्गुणे । लब्धकामा लब्धप्रार्थनीया । अधिगुणे मोघापि याच्ञा वरमीषत्प्रियमित्यर्थः । अलाभादप्रिया च भवतीत्यभिप्रायेण मनाक्प्रियमित्युक्तम् । अधमे यच्ञा लब्धकामापि न वरमित्यन्वयः ॥ ६ ॥ का वा भवतो याच्ञा इत्यपेक्षायामाह –-

सन्तप्तानां त्वमसि शरणं तत् पयोद ! प्रियायाः

सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां

बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥

सन्तप्तानामिति । आतपसन्तप्तानां कामसन्तप्तानां च । ननु कामसन्तप्तानां मेघालोकनं विरोधि । उक्तं च ‘कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे’ इति । तत् कथं कामसन्तप्तानामित्यर्थो गृह्यते । उच्यते । मेघः खलु प्रोषितप्रियतमप्रेरणया तान् प्रोषितान् प्रियत-

इति यादवः । अन्योऽपि, ममासदृशोऽपि पृथग्जनोऽपीत्यर्थः । ‘अन्यौ तु भिन्नासदृशौ’ इति यादवः । अयमिव जनः (जनमिति?) इति अहमिवेत्यर्थः । अहं पराधीनवृत्तिर्यथा भवामि, तथा पृथग्जनोऽपि पराधीनवृत्तिर्न स्यात्, स कस्त्वयि सन्नद्धे जायामुपेक्षेतेत्यर्थः ॥

अनया निमित्तगत्या मत्प्रियादर्शनात् प्रागेव भवतः प्रियजनसङ्गमो भविष्यतीत्यभिप्रायेणाह –-

मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां

वामश्चायं नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षमपरिचयान्नूनमाबद्धमालाः

सेविष्यन्ते नयनसुभगाः खे भवन्तं वलाकाः ॥ ९ ॥

मन्दं मन्दं नुदतीति । मन्दपवनानुकूल्यमत्र निमित्तम् । तथा महायात्रायां वराहमिहिरः -–

" प्रोत्क्षिप्तानलपांसुपत्रविहगच्छत्रध्वजापन्नकृद्

दुर्गन्धः क(र ? रि)दानशोषजननः सम्पृक्तलोष्टोद्गमः ।
यातुर्वायुरभीष्टदः शुभकरो यात्रानुगोऽल्पोद्यमः

प्रह्लादी सुरभिः प्रदक्षिणगतिः सारश्च सिद्धिप्रदः"

इति । उक्तं च --

" पवनस्यानुकूलत्वात् प्रार्थनासिद्धिशंसिनः ॥"

इति । पवनश्चेत्यत्र चकारेण निमित्तान्तरं चातकानुकूल्यं समुच्चीयते । यथाशब्दः सादृश्ये । सादृश्यं निमित्तफलयोरानुरूप्यम् ।

’यथा सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे’

इति यादवः । अथवा यथाशब्दो यस्मादर्थे । प्रमाणं तु मृग्यम् । यथा त्वामनुकूलः पवनो मन्दं मन्दं नुदति, तथा वलाकासङ्गमो भविष्यतीत्यर्थः । वामो वामपार्श्वस्थः । चकारस्यार्थः पूर्वोक्तरीत्या बोद्धव्यः । नदति स्वनं करोति । मधुरं सुखश्रवम् । सगन्धः ‘स गन्धो बन्धुरिष्यते’ इति हलायुधः । ‘पितृपैतामहानमात्यान् कुर्वीत-

अनयैव निमित्तगत्या त्वमविघ्नगतिर्मम जायां चाव्यापन्नामेवावश्यं द्रक्ष्यसीत्यभिप्रायेणाह –-

तां चावश्यं दिवसगणनातत्परामेकपत्नी-

मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशप्राणमप्यङ्गनानां

सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥

तां चावश्यमिति । दिवसगणनातत्पराम्, अनेन मद्विरहे सा न विपन्ना स्याद् विरहावधेर्नियतत्वादित्युक्तम् । सा कामं जीवतु, तस्याः शीलं यदि खण्डितं स्यात् तव प्रार्थना व्यर्था भविष्यतीत्याशङ्क्याह- एकपत्नीम् । एका असपत्नीका पत्नी यज्ञसंयोगार्हा वेत्येकपत्नीति कर्मधारयः । असपत्नीकत्वात् पत्नीत्वाञ्च तस्याः शीलखण्डनं न भवतीत्यभिप्रायः । तस्मादव्यापन्नाम् । अविहतगतिः त्वमविघ्नितगतिः । भ्रातृजायाम् अनेन परस्त्रीदर्शननिषेधस्तवात्र न स्यात् त्वद्भ्रातृजायात्वादित्युक्तम् । प्रकृत्या सुकुमारहृदयाः खलु स्त्रियः । ततः कथमेतावन्तं कालं दिवसगणनां कृत्वा जीवतीत्याशङ्क्याह-- आशेत्यादि । आशावन्धः प्रियतमश्चेत् जीवति कालान्तरे तत्समागमो भविष्यतीत्यभिलाषः । आशाबन्धशब्देन निगलसमाधिर्विवक्षितः । रुणद्धीति, निगलकार्यस्य वक्ष्यमाणत्वात् । कुसुमसदृशप्राणं कुसुमसदृशवलम् ।

"प्राणो वायौ बले स्थैर्ये पुंसि भूम्न्यसुवाचकः"

इति केशवस्वामी । कुसुमसदृशं प्रायशो ह्यङ्गनानामिति केचित् पठन्ति । सद्यःपातप्रणयीति पाठः । विरहसमये सद्यः पातप्रार्थनाशीलम् ॥

मार्गे तव सहायाः संभविष्यन्तीत्याह –

कर्तुं यच्च प्रभवति महीमुत्सिलिन्ध्रामवन्ध्यां

तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः
आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः

सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥

दम् । ‘आनन्दनसभाजने । आप्रच्छनमि’त्यमरः । अत्र गच्छामीति प्रश्नवचनेन पूजनं विवक्षितम् । न केवलं भवतः सख्यादेवास्य पर्वतस्य सभाजनं कार्यं, विशिष्टपुरुषपरिग्रहाच्चेत्याह-- वन्द्यैः पुंसामिति । अङ्कितं कृतसञ्चारम् । मेखलासु सानुषु । अस्य मया सह सख्यमस्तीति कुतोऽवगम्यत इत्यपेक्षायामाह – काले काले इति । प्रतिवर्षासमयं सुहृत्सङ्गमकालश्च विवक्षितः । स्नेहव्यक्तिः प्रेमाविष्करणम् । बाष्पमूष्माणमश्रुजलं च । ‘बाष्पोऽश्रुण्यम्बुधूमे च’ इति यादवः । उष्णं, चिरविरहजत्वादुष्णमित्यर्थः । भवता संयोगमेत्य चिरविरहजमुष्णं बाष्पं मुञ्चतो यस्य स्नेहव्यक्तिर्भवतीत्यन्वयः । अत्र कश्चित् सुहृद् दूरादागतं सुहृदं दृष्ट्वा चिरविरहोष्णं बाष्पमुन्मुच्य सौहृदमाविष्करोतीत्यर्थः खण्डश्लेषालङ्कारेण प्रतीयत इत्यनुसन्धेयम् ॥१२॥

मार्गं मत्तः शृणु कथयतस्त्वत्प्रयाणानुरूपं

सन्देशं मे तदनु जलद ! श्रोष्यसि श्राव्यबन्धम् ।
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र

क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ १३ ॥

मार्गमिति । मार्ग मत्तः श्रृणु कथयत इति पाठः । मत्त इति पञ्चमी । मार्गं तावत् कथयत इति पाठे कथयत इत्यस्य विशेष्यपदं नास्तीत्यनुसन्धेयम् । सन्देशं ‘श्यामास्वङ्गमि’त्यादिना वक्ष्यमाणम् । श्राव्यबन्धम् । अवश्यं श्रोतव्यरचनम् । श्रृणोतेः ‘ओरावश्यके’ (३.१.१२५) इति ण्यत्प्रत्ययः । खिन्नः खिन्नः यदा यदा खिन्नः तदा तदा शिखरिषु पदं न्यस्य गमिष्यसीत्यर्थः । खेदश्च शारीरः । यत्र यस्मिन् मार्गे । क्षीणः क्षीण इत्यसमस्तम् । क्षयश्चाभ्यन्तरो विवक्षितः । परिलघु गौरवरहितम् । स्रोतसां, पर्वतोद्भूतानामिति शेषः । परिलघुग्रहणं स्रोतोग्रहणं च पानीयस्य पथ्यत्वाय । अत्र बाहटे –-

"उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः ।
हिमवन्मलयोद्भूताः पथ्याः"

इति ॥ १३ ॥

रत्नच्छायाव्यतिकर इव प्रेक्ष्यणीयं पुरस्ताद्

वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते

बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥

रत्नेति । रत्नच्छायाव्यतिकर इति पाठः । वल्मीकाग्रात् प्रभवति, तदन्तर्गतसर्पशिरोरत्नच्छायाव्यतिकर इव प्रेक्षणीयं घनुःखण्डं वल्मीकाग्रात् प्रभवतीत्यर्थः । वल्मीकाग्रादिन्द्रघनुषः प्रादुर्भाव उक्तः संहितायां -‌-

"जलमध्येऽनावृष्टिर्भुवि सस्यवधस्तरूत्थिते व्याधिः ।
वल्मीके शस्त्रभयं निशि सचिववधाय धनुरैन्द्रम् ॥"

इति । अनेनार्थेनापि निमित्तं सूचितम् । तथाह महायात्रायां --

"चापमैन्द्रमनुलोम(य ? म)खण्डं प्रोज्ज्वलद्वहलमायतमिष्टम्"

इति ॥ १५ ॥

त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः

प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं

किञ्चित् पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६ ॥

त्वय्यायत्तमिति । अत्रेदमनुसन्धेयं – रामगिरेरुत्तरतः केचिद् देवमातृका जनपदाः सन्ति । तत्रत्याः स्त्रियः पामर्यः ! तस्मात् ता सां स्त्रीणां भ्रूविलासानभिज्ञत्वमुक्तम् । सद्यःसीरोत्कषणसुरभि, इदमारोहणक्रियाविशेषणम् । वर्षानन्तरं हलोत्कर्षणसुरभिगन्धमित्यर्थः । मालं पर्वतप्रायमुन्नतस्थलम् । तयोत्पलमालायां ‌--

"मेघमन्मथयोर्मारो मारं मरणमिष्यते ।
माला पुष्पादिबन्धे स्यान्मालमुन्नतभूतलम् ॥"

इति । मालयोगान्मालव इति प्रसिद्धो देशः । आरुह्येत्यनेनापि तस्योन्नतत्वं प्रतीयते । लघुगतिः, मालक्षेत्रे वृष्टिविसर्जनाल्लघुगतिरित्यर्थः । मालेन पश्चाद्गमनं तदुत्तरेण गमनं चाम्रकूटाख्ये पर्वते विश्रान्त्यर्थमुक्तमित्यवसेयम् ॥१६॥



पूर्वसन्देशः ।

१५

तामेव विश्रान्तिमाह --

त्वामासारप्रशमितदवोपप्लवं साधु मूर्ध्ना

वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय

प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥

त्वामासारेति । अनेन प्रथमोपकारः सूचितः । आसारो धारासम्पातः । मूर्ध्ना शिखरेण शिरसापीति ध्वन्यते । वक्ष्यति, वहतेरिदं रूपम् । अध्वश्रमपरिगतम् अध्वश्रमेण परिक्षीणगमनमिति व्याचक्षते । मद्वहने किं कारणमित्याशङ्क्याह -- न क्षुद्रोऽपीति । संश्रयाय निवासाय । तथोच्च इति, हृदयस्थिततद्वैभवानुसन्धानेन तथाशब्दः प्रयुक्तः। क्षुद्रोऽपि स्वस्मिन् संश्रयाय मित्रे प्राप्ते प्रथमसुकृतापेक्षया विमुखो (न) भवति । तथोञ्चः किं पुनरित्यर्थः ॥ १७ ॥

छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै-

स्त्वय्यारूढे शिखरमचलः सर्पषेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां

मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥

छन्नेति । छन्नोपान्तः छादितपर्यन्तः । परिणतफलद्योतिभिः परिणतफलपाण्डुवर्णोज्ज्वलैः । पाण्डुवर्णत्वं च हरिणसमानवर्णत्वं, न तु श्वैत्यम् । आम्रफलानमनेकवर्णत्वात् ।

"अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम्"

इति श्रीरामायणवचनदर्शनात् । अनेन वर्षासु काननाम्राः फलन्तीति सूचितम् । सर्पवेणीसवर्णे । वेणी केशबन्धः । सर्पस्य वेणी सर्पस्य वेष्टनम् । वर्णतः संस्थानतश्च सर्पवेणीसमान इत्यर्थः

"नीलालके मेघचये मेचके स्तनचूचुके ।
मण्डले कृष्णसर्पाणां सर्पवेणी निगद्यते ॥"
शेषविस्तारपाण्डुः, मध्यादन्यत्र हरिणवर्णः । ‘हरिणः पाण्डुरः पाण्डुः’ इत्यमरः ॥१८॥

स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं
तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः ।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां

भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९ ॥

स्थित्वेति । कुञ्जं लतादिपिहितोदरं पर्वतगृहम् । अनेन वनचरवधूसम्भोगं च द्रक्ष्यसीत्युक्तम् । मुहूर्तम्, अनेन वनचरवधूपरिभोगदर्शनात् तव कालविलम्बो मा भूदिति विवक्षितम् । तोयोत्सर्गद्रुततरगतिः ‘आसारप्रशमितदवोपप्लवम्’ इत्यत्रोक्तस्तोयोत्सर्गोऽत्र विवक्षितः । तत्परं शैलात् परम् । तीर्णोऽतिक्रान्तः । वनचरमिथुनपरिभोगानतिदर्शनात् तव विषादो मा भूत् । सम्भोगलोलुपं मिथुनान्तरं द्रक्ष्यसीत्यभिप्रायेणाह- रेवां द्रक्ष्यसीति । रेवां नर्मदाम् । विन्ध्यपादे विन्ध्यपर्यन्तपर्वते । विन्ध्यपादे विशीर्णामित्यनेन कामातिशयात् प्रियतमपादे कस्याश्चित् पतनं ध्वन्यते । भक्तिच्छेदैः छेदाकारभक्तिभिर्बहुविधाभिर्भक्तिरेखाभिः । विरचितामर्पिताम् । भूतिं भसितम् । उक्तञ्च --

"भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तहस्तिनः"

इति ॥ १९ ॥


तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि-
र्जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन ! तुलयितुं नानिलः शक्ष्यति त्वां

रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २० ॥

तस्या इति । तस्यास्तिक्तैः, तिक्तशब्देन सुरभिगन्धश्च तिक्तरसश्च विवक्षितः ।

"कटुतिक्तकषायास्तु सौरभ्यॆ परिकीर्तिताः"
"जलप्रायमनूपं स्यात् पुंसि कच्छस्तथाविधः"

इत्यमरः । जग्ध्वेति पाठः । जग्ध्वा भक्षयित्वा । 'अद भक्षणे' इत्यस्माद् धातोः क्त्वाप्रत्यये कृते ‘अदोजग्धिर्ल्यप् ति किति’ (२.४.३६) इति जग्ध्यादेशः । ननूर्वीगन्धस्य वक्ष्यमाणत्वाद् दग्धारण्येष्विति पाठ एव युक्त इति । तन्न । दाहमन्तरेणापि वसुधागन्धस्य सम्भवात् । उत्तरत्र वक्ष्यति च- ‘त्वं निःष्यन्दोच्छृसितवसुधागन्धसम्पर्करम्य’ इति । अरण्येषु, सर्वशेषमिदम् । अधिकसुरभिं, स्वभावत एव उर्च्या गन्धवत्त्वापेक्षया अधिकशब्दः प्रयुक्तः । सारङ्गाः हरिणाः ।

"चातके हरिणे पुंसि सारङ्गः शबले त्रिषु"

इति सिंहः । जललवमुचः , अनेन नीपकन्दलीवसुधागन्धानामुत्पादकत्वमुक्तम् । निर्मनुष्येष्वरण्येषु हरिणास्तवाभिनववृष्टिपातोद्भूतं नीपं दृष्ट्वा तथानुकच्छं कन्दलीश्च जगध्वा उर्च्या अधिकसुरभिं गन्धमाघ्राय च त्वद्गमनमार्गं त्वदागमनोत्सुकेभ्यः पथिकेभ्यः सूचयिष्यन्तीव्यर्थः । ये पुनः सारङ्गशब्देन चातकहरिणगजाविवक्षिता इति व्याचक्षते, तेषां तु मतमुपेक्षणीयं, सारङ्गशब्दस्य गजवाचित्वादर्शनात् ।

"सारङ्गः शबलो वर्णश्चातकः षट्पदो मृगः"

इति यादवः । किञ्च एकस्यैव शब्दस्य युगपदनेकार्थत्वस्य भिन्नक्रियासमन्वयस्य च क्लिष्टत्वात् कन्दलीश्चेत्यत्र समुच्चयानुपपत्तेश्चेत्यलमतिप्रसङ्गेन ॥२१॥

उत्पश्यामि द्रुतमपि सखे ! मत्प्रियार्थं यियासोः

कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः

प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥ २२ ॥

उत्पश्यामीति । उत्पश्यामि उत्प्रेक्षे चिन्तयामीत्यर्थः । ककुभसुरभौ, अनेन प्रत्युद्गमने पुष्पसम्पत्तिर्निसर्गसिद्धेत्युक्तम् । शुक्लापाङ्गैर्मयूरैः ।

"मयूरो बर्हिणो बर्ही शुक्लापाङ्गः शिखावलः"

तेषामिति । तेषां दशार्णानाम् । दिक्षु प्रथितविदिशालक्षणां प्रसिद्धविदिशानामधेयाम् ।

"लक्षणं कार्षिके चिह्ने नाम्नि मुद्राङ्गसम्पदोः"

इति यादवः ।

"बभूव विदिशानाम पुरी वेत्रवतीतटे"

इति कथासारे । विदिशेति कापि नद्यप्यस्ति ।

"परभृतकलव्याहारेषु त्वमात्तरतिर्मधुं
नयसि विदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान्"

इति वचनात् । सा त्वन्यत्र देशे, वेत्रवतीपरिभोगस्योक्तत्वादित्यनुसन्धेयम् । राजधानीं प्रधाननगरीम् । तेषां राजधानीमित्यन्वयः । लब्धा इति पाठः । लब्धा लप्स्यते, कर्मणि लुडन्तमिदं रूपम् । राजधानीं प्राप्य त्वया कामुकत्वस्य फलं लप्स्यत इत्यर्थः । कुतो लप्स्यते इत्यपेक्षायामाह- तीरोपान्तस्तनितसुभगमिति । अनेनाधरोपान्तस्तनितसीत्कारसुभगत्वं च विवक्षितम् । यद् यस्मात् । तत् तस्मात् । तच्छब्देन प्रसिद्धं परामृश्यते । ‘यच्छब्दनिकटवर्ती तच्छब्दः प्रसिद्धिं परामृशती’ति वचनात् । सभ्रूभङ्गं भ्रूमङ्गसहितम् । वेत्रवत्याश्चलोर्मि इति पाठः । चलोर्मि चलतरङ्गम् । इदं विशेषणं सभ्रूभङ्गविशेषणस्थानीयम् । कामिन्याः ससीत्कारं सभ्रूभङ्गं मुखमिव वेत्रवत्यास्तीरोपान्तस्तनितसुभगं चलोर्मि स्वादु तत् पयः पास्यतीति यस्मात् तस्मात् कामुकत्वस्य फलं त्वया लप्स्यत इत्यर्थः । उत्तरश्लोकपरिज्ञानायात्रेदमनुसन्धेयं -– विदिशानगरवर्तिन्यः पण्याङ्गनाः सर्वाङ्गसुन्दर्यः सर्वललितकलाविचक्षणाः सर्वपुरुषावर्जनकुशलाश्च भवन्ति । तत्रत्याः पुनर्नागराः पुरुषास्ताभ्योऽप्यतिसुन्दराः सुभगयौवनाः स्त्रीसम्भोगविदग्धाश्च भवन्ति । तेषां नागराणां सौन्दर्यातिशयेन तान् कामयमानाः पण्याङ्गनाः मात्रादिभयेन स्वगृहेषु भोक्तुमपारयन्त्यस्तस्मान्नगरान्निर्गत्य प्रत्यासन्नस्य नीचैराख्यस्य गिरेः सङ्केतस्थानभूतेषु शिलागृहेषु तैर्निर्दयं रतान्यनुभूयानुभूय पुनर्विदिशां गुप्तं[६] प्रविशन्तीत्यैतिह्यमस्ति इति ॥२४॥

इत्यत्र सिञ्चतेर्धातोः द्रवद्रव्यरूपममृतं कर्मीभवति । कथमत्र जलकणान् विहाय सिञ्चतेर्जालकानि कर्मत्वेनोक्तानि । किरतिसिञ्चतीत्यादीनां कुसुमजलादीनि कदाचित् कर्मीभवन्ति । कदाचित् करणीभवन्ति । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां गण्डस्वेदापमार्जनकरस्पर्शवेदनाक्लान्तकर्णोत्पलानाम् । पुष्पलावीमुखानां, पुष्पं लुनन्तीति पुष्पलाव्यः । ‘कर्मण्यण्’ (३.२.१) इत्यण् । ‘टिड्ढाणञ् -–’ (४.१.१५) इत्यादिना ङीप् ॥२६॥

वक्रः पन्थास्तव भवतु प्रस्थितस्योत्तराशां

    सौधोत्सङ्गप्रणयविमुखो मा च भूरुज्जयिन्याः ।
विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां

    लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितः स्याः ॥ २७ ॥

वक्र इति । चेति समुच्चये । उत्तराशां प्रस्थितस्य तव पन्थाः वक्रश्च भवतु । तथापि कार्यगौरवात् तत् सोढव्यमित्यभिप्रायः । अत्रेदमनुसन्धेयं – विन्ध्याद्रिप्रभवा विन्ध्यं निर्भेद्य उत्तरवाहिनी कापि नद्यस्ति निर्विन्ध्येति । तस्याः प्राक्तीरे कियन्तं चाध्वानं प्रागतिक्रम्य वर्तते खलूज्जयिनी । तस्मान्निर्विन्ध्यायाः पश्चिमतीरदेशेनोत्तरां गच्छतो मेघस्योज्जयिनीगमने पन्था वक्रः स्यादिति । सौधोत्सङ्गप्रणयविमुखो मा च भूरुज्जयिन्या इति (पाठः) । प्रणयः परिचयः ।

"प्रणयः स्यात् परिचये याञ्चायां सौहृदेऽपि च"

इति यादवः । चकारो वाक्यान्तरसमुच्चये । अनया मार्गवक्रत्वालोचनयापि तवोज्जयिनीसौधोत्सङ्गपरिचये वैमुख्यं च मा भूदित्यर्थः । वञ्चितः स्या इति, यदि तव तां रतिं न वेदयामि, ततस्त्वं मया वञ्चितः स्या इत्यर्थः । यद्वा वञ्चितः स्याः व्यर्थजन्मा भविष्यसीति ॥

वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्

पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां

शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥

प्राप्येति । उदयनकथाकोविदग्रामवृद्धान् । उदयनो वत्सराजः, तस्य महान्त्यद्भुतानि कर्माणि विद्यन्ते, तत्कथापण्डितग्रामवृद्धानिति । पूर्वोद्दिष्टां मा च भूरुज्जयिन्या इति पूर्वोद्दिष्टाम् । विशालाम्, उज्जयिन्या विशालेति नामापि । ‘विशालोज्जयिनी समे’त्यमरः । उज्जयिन्याः स्वर्गसाम्यं पौराणां देवसाधर्म्यं चाभिप्रेत्याह – स्वल्पीभूत इति । सुचरितफले सुचरितस्य स्वर्गाख्ये फले । गां भूमिम् । अयमभिप्रायः -– स्वर्गिणः स्वपुण्यफले सकलस्वर्गोपभोगे स्वल्पावशिष्टे सत्यस्मात् फलोपभोगात् पुण्यानि क्षीयन्ते, सकलस्वर्गोपभोगोऽपि दुर्लभ इति मत्वा शेषैः स्वकीयैः पुण्यैर्भूमौ स्वपुण्यानुरूपं स्वर्गैकखण्डं यदि कुर्युस्तदिव विराजमानामित्यर्थः । ननु "सर्ववर्णानां स्वधर्मानुष्ठाने परम्परिमितं सुखं, ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यत" इत्यापस्तम्बवचनात् प्राणिनः कर्मशेषयुक्ता एव जायन्त इति प्रतीयते । तस्मादयमर्थः किमित्युपेक्षित इति । एतत्पक्षाश्रयणे विशालायाः समुत्कर्षो न स्यात्, कर्मशेषयोगेन जननस्य सर्वप्राणिसाधारणत्वादित्यलं विस्तरेण ॥

दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां

प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः

सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३१ ॥

दीर्घीकृर्वन्निति । सारसकूजितस्य दीर्घीभावो वातानुधावनेन । स्फुटितकमलामोदमैत्रीकषायः विकसितकमलपरिमलसम्पर्कसुरभिः । इति त्रिभुवनगुरोः । उज्जयिन्यां महाकालमिति किमपि देवतायतनमस्ति । तत्र परमेश्वरः सदा सन्निधत्ते, सर्वेभ्यो वरांश्च ददातीति प्रसिद्धम् । तस्मात् त्रिभुवनगुरोरित्युक्तम् । चण्डेश्वरस्य, इदं महाकालनिकेतनेश्वरस्य देवस्याभिधानमिति केचित् । अन्ये रौद्राकारत्वाच्चण्डेश्वरपदं प्रयुक्तमिति वदन्ति । धूतोद्यानमिति पाठः । कुवलयरजोगन्धिभिः कुवलयपरागगन्धिभिरित्यर्थः । गन्धवत्याः, इदं नाम । तोयक्रीडाभिरतयुवतिस्नानतिक्तैर्मरुद्भिरिति पाठे स्नानं स्नानीयम् । ‘स्नानीयेऽभिषवे स्नानम्’ इति यादवः । गन्धवत्या मरुद्भिरिति संबन्धः । अत्रेदमनुसन्धेयं – पूर्वार्धे तु पुण्यं यायास्त्रिभुवनगुरोर्धाम इति धाम्नः पावनत्वमुक्तम् । उत्तरार्धे तु तस्यैव धाम्नः उद्यानादिमत्तया विलासास्पदत्वं चोक्तमिति । ननु कुवलयरजोगन्धिभिरित्यनेन गन्धवतीमरुतां गन्धवत्त्वमुक्तम् । पुनश्च कथं तोयक्रीडाभिरतयुवतिस्नानतिक्तैर्मरुद्भिरिति गन्धवत्त्वमुच्यत इति ।[७] उच्यते । विलासिनीनां शरीरसंस्कारहेतुना कुसुमादिना स्त्रीसंभोगसंमर्देन च उभयथा गन्धवत्त्वमस्ति । तत्समाधिना मरुतामपि विशेषणमुक्तमिति ॥३३॥

अप्यन्यस्मिन् जलधर ! महाकालमासाद्य काले

स्थातव्यं ते नयनविषयं यावदत्येति भानुः ।
कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीया-

मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥

अपिति । अप्यन्यस्मिन् सन्ध्यासमयादन्यस्मिन्नपि काल इत्यर्थः । महाकालम्, इदमुज्जयिन्यामीश्वरस्य स्थानम् । स्थातव्यं ते स्थातव्यं त्वया । नयनेन यावान् देशो दृश्यः तावान् देशो नयनविषयः । नयनविषयं यावदतिक्रामतीत्यर्थः । सन्ध्यावलिपटहतां, सन्ध्यासमयभूतबलिप्रदानार्थः पटहः सन्ध्याबलिपटहः । आमन्द्राणामीषद्गम्भीराणाम् ‘मन्द्रस्तु गम्भीरे’ इत्यमरः ॥ ३४॥

गच्छन्तीनां रमाणवसतिं योषितां तत्र नक्तं

रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं

तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः॥३७॥

गच्छन्तीनामिति । तत्र उज्जयिन्यां नरपतिपथे राजमार्गे । सूचिभेद्यैः, अतिबहुलत्वात् सूच्यग्रभेदनार्हैरित्यर्थः । मा च भूरिति, चकारो दर्शयेति क्रियया सेवासमुच्चयार्थः ॥३७॥

तां कस्याञ्चिद् भवनवलभौ सुप्तपारावतायां

नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः
दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं

मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः॥३८॥

तामिति । कस्याञ्चित् सुप्तपारावतायाम् । अनेन विशेषणेन पौरजनस्तावद् वर्षासमयत्वाद् वलभिं विहाय गर्भगृहे शेते, तत्र पारावता एव भवन्ति, तेष्वपि सुप्तेषु निश्शब्दा भवन्तीत्युक्तम् । चिरविलसनाद्, विलसनशब्देन स्फुरणं विलासश्च विवक्षितः । वाहयेत् प्रापयेदित्यर्थः । वहन्तं यान्तमध्वानं वाहयतीति वाहयोदिति रुपम् । अध्वनि च यातीति प्रयोगोऽस्ति ।

एष पन्था विदर्भाणामेष यास्यति कोसलान्

इति दर्शनात् । अभ्युपेतार्था कृत्या कार्यक्रिया यैस्ते ।

कृत्या क्रियादेवतयोः कार्ये क्ली कुपिते त्रिषु

इति यादवः ॥३८॥

तस्मिन् काले नयनसलिलं योषितां खण्डितानां

शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्त्रं कमलवदनात् सोऽपि हर्तुं नलिन्याः

प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः॥३९॥

तस्मिन्निति । खण्डितानां, भर्तुरन्यासङ्गदर्शनादीर्ष्यालुः खण्डिता ।

ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता

इति दशरूपके । शान्तिमुपरतिं नेयं प्रापयितव्यम् वर्त्म उदयवर्त्म । त्वया प्राचमुखे निरुद्धे प्रणयिनो रात्रिशङ्कया प्रभातेऽपि खण्डितानां प्रसादं न कुर्युः । अतो भानोरुदयवर्त्म त्यजेत्यभिप्रायः । सोऽपि भानुरपि नलिन्याः खण्डिताया इत्येव । तस्याः खण्डितात्वं भानोर्देशान्तरगमनात् । प्रत्यावृत्तः प्रतिनिवृत्तः । कररुधि अनेन हस्तरोधश्च प्रतीयते ॥३९॥

गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने

छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-

न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि॥४०॥

गम्भीराया इति । गम्भीरशब्देनोदात्तनायिका च प्रतीयते । छायात्मा प्रतिबिम्बात्मा ।

छाया त्वनातपे कान्तौ प्रतिबिम्बार्कजाययोः

इति यादवः । अनेन विशेषणेन परमात्मा प्रतिबिम्बं च ध्वन्यते । प्रकृतिसुभगः प्रकृत्या सुभगः, सांख्याभिमतस्य प्रकृत्याख्यस्य तत्त्वस्य सांयोगेन सुभग इत्यर्थोऽपि ग्राह्यः । प्रसन्ने चेतसि प्रकृतिसुभगः परमात्मबिम्बः प्रतिफलतीत्यर्थोऽपि ध्वन्यत इत्यवगन्तव्यम् । त्वं स्वरूपेण तां गम्भीरां प्रवेष्टुं यद्यपि नेच्छसि, तथापि तवच्छायात्मा प्रवेक्ष्यत्यवश्यम् । तस्मात् त्वं धैर्यं कृत्वा चटुलशफरोद्वर्तनप्रेक्षितान्यवमानयितुं नार्हस्येव । ततो मत्कार्यविलम्बो भविष्यतीति भावः ॥४०॥

उक्तमर्थं विवृणोति -

तस्याः किंचित करधृतमिव प्राप्त्वानीरशाखं
नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः॥
तस्या इति । मुक्तरोधोनितम्बं मुक्तरोधः कटीप्रदेशः । "नितम्बः पश्चिमे श्रोणिभागे च कटके कटौ"

इति यादवः । ज्ञातास्वादः ज्ञातस्त्रीसंभोगरसः । विवृतजघनां विवृतकटिप्रदेशाम् ।

"जघनं स्यात् कटौ पूर्वश्रोणिभागापराङ्गयोः"

इति यादवः ॥ ४१ ॥

त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः

स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते

शीतो वायुः परिणमयिता काननोदुम्बराणाम्॥४२॥

त्वन्निःष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः त्वदीयनवजलबृंहितवसुधागन्धसम्पर्करम्यः । अनेन वायोर्गन्ध(व) त्वमुक्तम् । स्रोतोरन्ध्रध्वनितसुभगं, स्रोतसां रन्ध्रं स्रोतोरन्ध्रमिति जलप्रणालोविवक्षितः । स्रोतोरन्ध्रसंमूर्छज्जलध्वनितसुभगमित्यर्थः । दन्तिभिः सरन्ध्रेण करेण पीयमानो वायुः जलप्रणालनिस्सरत्प्रवाह इव शब्दायत इत्यर्थः । अनेन मान्द्यमुक्तम् । नीचैः । अधस्ताद् दन्तिभिः पीयमानत्वान्मन्दवेगस्तव नीचैरेव वास्यति । तेन दीर्घाध्वगामिनस्ते वायुप्रेरणया श्रान्तिर्न भविष्यतीत्यभिप्रायः । देवपूर्वं देवशब्दपूर्वगिरिं गिरिशब्दम् । एतौ देवगिरिशब्दौ स्वरूपेण मेघानभिगम्यत्वाद् मेघाभिगम्यं स्वसमुदायवाच्यं देवगिरिं लक्षयत इत्यनुसन्धेयम् । काननोदुम्बराणाम् उदुम्बरफलानाम् । कृद्योगे षष्ठी ॥४२॥

तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान व्योमगङ्गाजलार्द्रैः ।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूना-
मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः॥४३॥

तत्रेति । तत्र देवगिरौ नियतवसतिम् । पुरा किल देवार्थमसुरान् निहत्य तत्र विश्रान्तः स्कन्दो देवैर्याचितः सन् तत्रैव मद्दर्शनायागताभ्यां शिवाभ्यां सह नित्यं वसामीति प्रतिज्ञातवान् । तस्मात् तत्र स्कन्दस्य नियतवसतित्वमुक्तमित्यैतिह्यमनुसन्धेयम् । पुष्पमेधीकृतात्मा, कामरूपत्वादेतन्मेघस्य संभवति । उक्तमैतिह्यं किञ्चिद् विवृणोति – रक्षाहेतोरिति । इयं ‘षष्ठी हेतुप्रयोगे’ (२.३.२६) इति षष्ठी । अत्यादित्यमतिक्रान्तादित्यम् । हुतवहमुखे संभृतं तद्धि तेज इति स्कन्दस्याग्निमुखोत्पत्तेरुक्तम् ॥४३॥

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी

पुत्रप्रेम्णा कुवलयदलक्षेपि कर्णे करोति
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं

पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः॥४४॥

ज्योतिरिति । कुवलयदलक्षेपीति पाठः । कुवलयदलनिन्दकमित्यर्थः । धौतापाङ्गं शोधितापाङ्गम् । शोधनं च धवलापाङ्गोज्ज्वलीकरणम् । अनेन नर्तकस्य मुखमण्डनसमाधिश्च प्रतीयते । पावकेः स्कन्दस्य । अनेन हुतवहमुखे संभृतं तद्धि तेज इत्यस्य विवरणं कृतम् । पश्चात् पुष्पस्नपनात् पश्चात् ।अद्रिग्रहणगुरुभिः, अद्रिग्रहणं गुहाग्रहणम् । नर्तयेथाः, तदाराधनं नृत्तमत्र विवक्षितं, तदभिषेकस्योक्तत्वाद्, आराध्यैनमिति वक्ष्यमाणत्वाच्च । अनेन श्लोकेन शिवयोः सन्निधानमुक्तमित्यनुसन्धेयम् ॥४४॥

आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा

सिद्धद्वन्द्वैर्जलकणभयाद् वीणिभिर्मुक्तमार्गः ।
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्

स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्॥४५॥
आराध्येति । सिद्धद्वन्द्वैः, स्कन्दमुपर्वाणयितुमागच्छाद्भिरिति भावः । वीणिभिर्वीणावद्भिः । व्रीह्यादित्वादिनिः ।

"व्रीहिः शिखाष्टका माला पताका वर्मकर्मणी ।
मेखला बडबा वीणा संज्ञा चर्म वलाकया"

इति व्रीह्यादिगणः । जलसिक्ततन्त्रीका वीणा न क्वणतीति सिद्धानां मेघमार्गपरित्यागः । वक्ष्यमाणार्थपरिज्ञानायात्रेदमनुसन्धेयं – दशपुराख्यस्य पुरस्याधिपतिः पुण्यश्लोकः कश्चन रन्तिदेव इति राजा बभूव । तदीयानां धेनूनां मध्ये प्रतिदिनं काञ्चनखुरश्रृङ्गाद्यवयवैः सञ्चरमाणाः काश्चन देवगव्यः समवतीर्य स्वैरं विहृत्य गच्छन्ति । तासां रुपं दृष्ट्वा रन्तिदेवधेनवः पप्रच्छुः कुतो युष्माकमीदृशं रूपं सञ्जातमिति । ताः पुनरब्रुवन् पुरा यज्ञेषु संज्ञपिता वयमीदृश्यो जाता इति । ताश्च धेनवः स्वामिनं रन्तिदेवमुपगम्याब्रुवन् – हे राजन् ! एतावन्तं कालं भवतो वयमुपकृतवत्यः । तस्मादस्मान् क्रतुषु त्वमालभेयाः, येन दिव्यरुपा भवामेति । सोऽपि ता यज्ञेषु विशस्य तासां चर्माणि पर्वतमिव क्वापि संबभार । तस्मात् सरक्तनिःष्यन्दाच्चर्मपर्वतात् कापि नदी प्रवहति, यां चर्मप्रभवत्वाच्चर्मण्वतीमाहुरिति भारतीयमुपाख्यानं हृदये कृत्वा तां नदीं तस्य किर्तित्वेन वर्णयन्नाह- व्यालम्बेथा इति । व्यालम्बेथाः विनम्य प्राप्नुहि । सुरभितनयालम्भजां, सुरभितनया धेनवः तासामालम्भो विशसनम् । स्रोतोमूर्त्या चर्मण्वतीजलमूर्त्या ॥४५॥

मया तस्याः का माननेत्यपेक्षायामाह‌--

त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचोरे
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात प्रवाहम् ।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी-
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम॥४६॥

त्वयीति । पृथुमपि तनुं पृथुमपि दूरभावात् तनुं प्रवाहमित्यन्वयः । गगनगतयः खेचराः सिद्धादयः । एकं मुक्तागुणमिति, एकशब्द एकावलीसमाधिना प्रोक्तः ॥४६॥


तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं
पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम॥ ४७ ॥

तामिति । उपरिविलसत्कृष्णशारप्रभाणां ‘कृष्णरक्तसितः शारः’ इति यादवप्रकाशेन शारशब्दो वर्णत्रयसाङ्कर्यवाचको यद्यपि अत्र पृथगेव कृष्णशब्दोपादानात् शारशब्दः सितरक्तवर्णयोः साङ्कर्ये सङ्कुचितवृत्तिः । तथा श्रीरामायणप्रयोगश्च विद्यते – ‘कृष्णशारे विलोचने’ इति । सप्तशत्यां च – ‘एको वि काळसारो ण देइ’ इति । कुन्दक्षेपानुगमधुकरश्रीमुषाम् । कुन्दस्य क्षेपो वायुना प्रेरणम् । मधुकरश्रीर्मधुकरशोभा । रक्तकुसुमोदरेषु मधुपानार्थं प्रवेशान्मधुकराणां तत्परागपाटलत्वं च स्वभावतो नीलत्वं च विद्यत इत्यनुसन्धेयम् । आत्मबिम्बं स्वशरीरमण्डलम् ।

"बिम्बोस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु।
प्रतिबिम्बे तत्प्रकृतौ"

इति यादवः । दशपुरवधूनेत्रकौतूहलानाम् । वधूः स्त्री । नेत्राणां कौतूहलादागतानि उन्मेषणादीनि नेत्रकौतूहलानि । तस्मान्नेत्रकौतूहलानां नेत्रोन्मेषणादीनां परिचितभ्रूलताविभ्रमत्वमुपरिविलसत्कृष्णशारप्रभत्वं च संभवति ॥४७॥

ब्रह्मावर्तं जनपदमथच्छायया गाहमानः
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि॥४८॥

ब्रह्मेति । ब्रह्मावर्त इति मध्यदेशे पुण्यः कोऽपि जनपदः । अत्र मनुः –

"सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥"
इति । अथानन्तरम् । छायया गाहमानः, अनेन तस्य पुण्यदेशत्वात् स्वरूपेणाक्रमणं न युक्तमिति सूचितम् । क्षत्रप्रधनपिशुनम्, अद्यापि शिरःकपालादिमत्तया पाण्डवानां क्षत्रियाणां युद्धसूचकम् । कौरवं कुरूणां संबन्धि । राजन्यानां मूर्घाभिषिक्तानाम् । गाण्डीवधन्वा अर्जुनः । ‘धनुषश्च’ (५.४.१३२) इत्यनङादेशः । मुखानि, मुखग्रहणमनेककर्माश्रयत्वात् कृतम् ॥४८॥

यद्यपि प्रकृत्या पुण्यं कुरुक्षेत्रं, तथापि यस्मिन् प्रदेशे युद्धमासीत् तं नरशिरःकपालादिदूषितं प्राप्य कथमशुद्धो भविष्यामीत्याशङ्क्याह -

हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां

बन्धुस्नेहात् समरविमुखो लाङ्गली याः सिषेवे ।
कृत्वा तासामभिगममपां सौम्य ! सारस्वतीना-

मन्तःशुद्धस्त्वमसि भविता वर्णमात्रेण कृष्णः॥ ४९ ॥

हित्वेति । अभिमतरसाम् अभिमतरसत्वं रेवतीलोचनप्रति बिम्बितां गत्वा । बन्धुस्नेहाद् धर्मपुत्रादिषु दुर्योधनादिषु च तुल्यत्वेन वर्तमानादित्यर्थः । समरविमुखस्त्यक्तसमरः । लाङ्गली, लाङ्गलमस्यास्तीति लाङ्गली बलभद्रः । अनेन सायुधोऽपि बन्धुस्नेहात् समरविमुख इत्यवगम्यते । याः सिषेव इति अपो भक्षयित्वा तपश्चचारेत्यर्थः । अभिगममभिमुखत्वेन गमनम् । अन्तः शुद्धस्त्वमसि भवितेति । असीति मध्यमप्रतिरूपकमव्ययमिदम् । तथा माघकाव्ये – "स्वयमेवशन्तनुतनूज! यमसि गण्मर्घ्ययमभ्यधाः"(स० १५. श्लो० २०) इति । भविता, तृजन्तमिदम् । अन्तः शुद्धो भवितासि अन्तः शुद्धो भविष्यसीत्यर्थः । पापकार्ष्ण्याभ्यां मुक्तद्रव्यवाचिनः शुद्धशब्दस्य श्रवणात् तव कृष्णवर्णलोपो न शङ्कनीय इत्याशङ्क्याह- वर्णमात्रेण कृष्ण इति । वर्णमात्रेण वर्णेनैव । तव चारुत्वहेतोः कृष्णवर्णस्य विपर्ययो न भवतीत्यभिप्रायः ॥४९॥

तस्माद् गच्छेरनुकनखलं शैलराजावतीर्णां

जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
गौरीं वक्त्रेभ्रुकुटिरचनां या विहस्येव फेनैः
शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता॥५०॥

तस्मादिति । अनुकनखलम् । कनखल इति गङ्गाद्वारे कोऽपि पर्वतः । तथा महाभारते –

"गङ्गाद्वारं युधिष्टिर! ।

पुण्यं तत् ख्यायते राजन्! ब्रह्मर्षिगणसेवितम् ॥
सनत्कुमरः कौरव्य! पुण्यः कनखलस्तथा ।
पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः ॥"

इति । शैलराजावतीर्णां हिमवतः प्रवृत्तां हिमवतः प्रसूतां च । सगरतनयस्वर्गसोपानपङ्क्तिः, सगरपुत्राणां कथा प्रसिद्धा । गौरीं बक्रेभ्रुकुटिरचनामिति पाठः । वक्रेभ्रुकुटिरचनां वक्रे भ्रुकुटिरचना यस्याः सा तथोक्ता । ‘अमूर्धमस्तकात्’ (६.३.१२) इति सप्तम्या अलुक् । भ्रुकुटिर्भ्रूकौटिल्यं, कोपोल्लसितभ्रूभङ्गामित्यर्थः । केशग्रहणम्, अनेन केशेष्ववस्थानं बलात्कारेण केशग्रहणं च विवक्षितम् । इन्दुलग्नोर्मिहस्ता अनेन केशग्रहणे मालत्यादिकृतशेखरलग्नहस्तत्वं च ध्वन्यते । अयमभिप्रायः – आवर्योर्द्वयोरपि शैलराजप्रभवत्वे साधारणे त्वं शम्भोरर्धहरासि । अहं तु तस्य मूर्धन्यवस्थानं कृतवतीति केशग्रहणदर्शनकुपितां गौरीं फेनव्याजेन हसन्तीव या विभातीत्यर्थः ॥५०॥

तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी

त्वं चेदच्छ्स्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
संसर्पन्त्या सपदि भवतः स्रोतसिच्छाययासौ

स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा॥५२॥

तस्या इति । व्योम्नि पश्चार्धलम्बी आकाशे पृष्ठभागेन लम्बमानः । लोके हि पश्चादुत्तरशब्दौ पर्यायौ भवतः । अत्र पश्चार्धशब्देन् किमुत्तरार्धं नेष्यते । उक्तंच – ‘तं वाहनादवनतोत्तरकायम्’ (रघु० ९.६०) इति । पश्चार्धशब्दस्य मृगादिषु पृष्ठभागे एव प्रयोगदर्शनात् । तथा शाकुन्तले – ‘पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम्’ इति । तर्कयेश्चिन्तयेः । व्योम्नि तिर्थक् पश्चार्धलम्बी तस्यास्तदम्भः पातुं तर्कयेश्चेदित्यर्थः । संसर्पन्त्या अवगाहमानाया । संपदि ससर्पन्त्येत्वन्वयः । छायया प्रतिबिम्बेन अस्थानोपगतयमुनासङ्गमा गङ्गायमुनयोः प्रयागाख्य एव तीर्थे सङ्गमो भवति । ततोऽन्यत् सर्वमस्थानम् । विशिष्टयोः समागमसमाधिरत्र ध्वन्यते ॥५१॥

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां

तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
वक्ष्यस्यध्वश्रमविनयेन तस्य शृङ्गे निषण्णः

शुभ्रां शोभां त्रिनयनवृषोत्खातपङ्कोपमेयाम्॥ ५२ ॥

आसीनानामिति । नाभिगन्धैर्मृगमदगन्धैः । ‘मृगनाभिर्मृगमदः’ इत्यमरः । मृगाणामित्युक्तत्वाद् मृगनाभिगन्धैरित्यनुक्तम् । तस्या एव प्रभवं गङ्गाया एवोत्पत्तिस्थानम् । वक्ष्यसि, वहतेरिदं रूपं, वोढा भविष्यसि । शुभ्रां दीप्ताम् । ‘शुभ्रः स्याद् दीप्तशुक्लयोः’ इत्यमरः । पङ्कोपमानादुपेक्षितः शुक्लवर्णः (शुभ्र ? शोभां) त्रिनयनवृषोत्खातपङ्कोपमेयामिति पाठः । कामपि वधूं भुक्त्वा तस्या एव जन्मगृहे गन्धादिभिः श्रममपहरतो जामातुः कान्तिरत्र ध्वन्यते ॥५२॥

तं चेद् वायौ सरति सरलस्कन्धसङ्घट्टजन्मा

बाधेतोल्काक्षपितचमरीवालभारो दवाग्निः ।
अर्हस्येनं शमयितुमलं वारिधारासहस्रै-

रापन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम्॥५३॥

तमिति । सरलस्कन्धसंघट्टजन्मा । सरलो वृक्षविशेषः । स्कन्धशब्देन स्कन्धशाखा विवक्षिता । हिमजलस्वरूपत्वत् तस्य हिमवतः

किमग्निना व्यसनमित्यपेक्षायामाह – उल्काक्षपितचमरीवालभार इति । दवाग्निः वनवह्निः । वायौ सरति सति सरलस्कन्धसंघट्टजन्मा दवाग्निरुल्काक्षपितचमरीवालभारो भूत्वा तं बाघेत चेदित्यर्थः । वारिधारासहस्रैः वारिधाराणां सहस्रसंख्याभिः । अत्र सहस्रशब्दः संख्यावचनोऽपि क्रियासमन्वयसामर्थ्याभावात् संख्येये पर्यवस्यतीत्येव वोद्धव्यं, बारिधाराभिरित्यर्थः ॥५३॥

ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन्

मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान् कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान्

के वा न स्युः परिभवफला निष्फलारम्भयत्नाः॥

य इति । संरम्भोत्पतनरभसा इति, संरम्भः कोपः, कोपोत्पतनवेगिन इत्यर्थः । स्वाङ्गभङ्गाय स्वशरीरभङ्गाय । सुक्ताध्वानं शरभाणां मार्गमुक्त्वा दूरगामिनम् । मुक्तमार्गत्वात् त्वयि शरभाणां लङ्घनं न संभवति, तेषां शरीरभङ्ग एव भविष्यतीत्यभिप्रायः । तुमुलकरकावृष्टिपातावकीर्णान् । करको घनोपलः । ‘घनोपलस्तु करके’ इति यादवः। करकाणाम् आ(वृष्टिः?)समन्ताद् वृष्टिपातः । परिभवफलाः तिरस्कारः फलं येषाम् । निष्फलारम्भयत्नाः निष्फला आरम्भयत्नाश्चेति कर्मधारयः । आरम्भयत्नाः कर्मव्यापाराः । आरम्भयत्नानां नैष्फल्यं मेघाभिलङ्घनस्याभावात् । यद्वा निष्फला इति पदच्छेदः । निष्फला अफलाः । रम्भयत्नाः संरम्भयत्नाः । ‘रम्भस्तु संरम्भे स्त्री मोचाप्सरसोरि’ति केशवः । के वा निष्फलाः संरम्भयत्नाः परिभवफला न स्युरित्यर्थः ॥५४॥

तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः

शश्वत् सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः ।
यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः

कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः॥५५॥

तत्रेति । हिमवतः कस्यांचिच्छिलायां रुद्रपादन्यासो विद्यत इति प्रसिद्धम् । शश्वत् सिद्धैरुपहृतबलिं सर्वदा सिद्धैरु(पहृतो) पहारम् ।

"बलिः पूजोपहारे दैत्यभेदे करेपि च"

इति यादवः । अनेन ज्ञानोपायः सूचितः । परीयाः परित ईयाः प्रदक्षिणं कुर्वीथा इत्यर्थः । करणविगमात्, करणं शरीरम् ।

"करणं साधकतमकक्षेत्रगात्रेन्द्रियेष्वपि"

इति यादवः । शरीरपरित्यागादूर्ध्वमित्यर्थः । कल्पिष्यन्ते स्थिरगणपदप्राप्तय इति । ‘नमःस्वस्तिस्वाहास्वधालम् –’ (२.३. १६) इति सूत्रेत्वलंशब्दस्यार्थग्रहणात् पर्याप्तिवाचिनः क्लृपिधातोर्योगे स्थिरगण्पदप्राप्तय इति चतुर्थीनिर्देशः ॥५५॥

शब्दायन्ते मधुरसनिलैः कीचकाः पूर्यमाणाः

संसक्ताभिस्त्रिपुरविजयो गीयते किंनराभिः ।
निर्ह्रादी ते मुरव इव चेत् कन्दरेषु ध्वनिः स्यात्
सङ्गीतार्थो ननु पशुपतेर्नृत्यतस्तत्र पूर्णः ॥५६॥

शब्देति । ‘शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे’ (३.१.१७) इति क्यङ् । संसक्ताभिः भक्तिमतीभिः [८] । शब्दायन्ते गीयते इति च वर्तमाननिर्देशः सर्वदा संभवात् कृतः । निर्ह्रादी ते मुरव इव चेत् कन्दरेषु ध्वनिः स्यादिति ।

"निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनिः कलः"

इति यादवः । पर्यायत्वेन यद्यपि चरन्ति तथाप्यत्रानुनादो निर्ह्रादत्वेन विवक्षितः । मुरव इति सप्तम्यन्तः । मुरवे निर्ह्रादी ध्वनिरिव कन्दरेषु ध्वनिस्ते स्याच्चेदित्यर्थः । सङ्गीतार्थः सङ्गीतस्य हेतुः । सङ्गीतं नाम प्रेक्षणीयनृत्तगीतवाद्यात्मकं त्रयम् । ननु सङ्गीतशब्दस्य नृत्तादित्रयवाचकत्वं नास्ति, नाटकेषु सङ्गीतकमनुतिष्ठामीति दर्शनात् । सङ्गीतशब्दस्तु गानमात्रे प्रयुज्यते । तथा कुमारसंभवे – ‘वनान्तसङ्गीतसखीररोदयत्’ इति । वक्ष्यति च- ‘सङ्गीताय प्रहतमुरवा’ इति ।

कथमत्र सङ्गीतशब्दस्य नृत्तादित्रयवाचकत्वमस्तीति व्याख्यायते इति । उच्यते । सङ्गीतशब्दस्यैव नृत्तादित्रयवाचकत्वं यादवेनोक्तं –

<centre>"नृत्तं गीतं वाद्यमिति नाट्यं तौर्यत्रिकं त्रिकम् । सङ्गीतं प्रेक्षणार्थेऽस्मिन्"

इति । पशुपतेर्नृत्यतस्तत्र पूर्ण इति पाठः । पशुपतेस्तत्र भावी (समग्रः) इति पाठे तु नृत्तानुपादानात् सङ्गीतार्थः पूर्णो न स्यात् । अन्ये तु सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समस्त इति पठन्ति । पादन्यासमन्तरेण स्वरुपेणापि पशुपतिस्तत्र वसतीति प्रसिद्धम् ॥५६॥

प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान्

हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी
श्यामः पादो बलिविमथनाभ्युद्यतस्येव विष्णोः॥५७॥

प्रालेयेति । तांस्तान् विशेषान् ‘तस्माद् गच्छेरनुकनखलम्’ इत्युक्तान् विशेषान् । हंसद्वारं हंसानां मानसाख्यसरोगमनद्वारम् । भृगुपतियशोवर्त्म । अत्रेदमनुसन्धेयं – स्कन्देन कौञ्चारातिना स्पर्धमानः परशुरामः कौञ्चाचलं शरेण सरन्ध्रमकरोत् । तेन तस्य महती कीर्तिरासीत् । तस्माद् भृगुपतियशोवर्त्मेत्युक्तम् । यथाह मुरारिः-

"यद्वाणव्रणवर्त्मना शिखरिणः क्रौञ्चस्य हंसच्छला- दद्याप्यस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः ॥"

इति । अनुसरेः उद्दिश्य गच्छेः । रन्ध्रस्य तिरश्चीनोर्ध्वत्वात् तिर्यगायामशोभीत्युक्तम् । बलिविमथनाभ्युद्यतस्येव विष्णोः इति । बलिभङ्गोद्यतस्य । इदं व्याप्तिवावकत्वात् तत्कालोचितं विशेषणम् ॥५७॥

गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः

कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।
शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं

राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः॥५८॥

गत्वेति । तेन रन्ध्रेणोर्ध्वं गत्वेत्यर्थः । दशमुखभुजोच्छ्वासितप्रस्थसन्धेः दशमुखभुजोद्धारणाद् दलितसानुसन्धेः । त्रिदशवनितादर्पणस्य । ननु इदं विशेषणमयुक्तं मेघवातस्पर्शाद् दर्पणस्यान्धीभावात् । उक्तं च--

''मत्तः सदाचारशुचेः कलङ्कं पयोदवातादिव दर्पणस्य''

इति । अस्य परिहारः – कैलासस्य महत्तया मालिन्यं न संभवतीति । महत्तामेव दर्शयति – श्रृङ्गोच्छ्रायैरिति । वितत्य विस्तीर्य । यावदाकाशं वितत्येत्यर्थः । अट्टहासो महाहासः । ‘अट्टहासो महाहास’ इति यादवः ॥५८॥

उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे

सद्यःकृत्तद्विरदरदनच्छेदगौरस्य तस्य ।
शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री-
मंसन्यस्ते सति हलभृतो मेचके वाससीव॥५९॥

उत्पश्यामीति । स्निग्धभिन्नाञ्जनाभे भन्नस्निग्घाञ्जनशिलासन्निभे । स्तिमितनयनप्रेक्षणीयामिति उत्पश्यामीत्यनेन संबन्धः । हलभृतो नीलाम्बरस्य । अस्यापि सद्यः कृत्तद्विरदरदनच्छेदगौरस्येत्यादि योज्यम् । मेचके नीले ।

"कृष्णे नीलासितश्यामकालश्यामलमेचकाः"

इत्मरः ॥५९॥

हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता

क्रीडाशैले यदि च विहरेत् पादचारेण गौरी ।
भङ्गी भक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः

सोपानं कुरु मणितटारोहणायाग्रयायी॥६०॥

हित्वेति । भुजगवलयोत्सारणं देव्यास्रासाभावाय । यदि चेति चकारस्य त्वमित्यनेन संबन्धः । विहरेत् क्रीडेत् परिक्रामोदिति वा । भङ्गी भङ्गवान् । ‘भङ्गो विभङ्गः शकलः’ इति केशवः । उक्तंच ‘शिलाविभङ्गैरि’ति । भक्त्या ईश्वरभक्तया । प्रागप्युक्तं ‘भक्तिनम्रः परीया’

इति । विरचितवपुः । विच्छिद्य विच्छिद्य रचनं विरचनं सोपानमित्यर्थः[९] । मणितटारोहणाय [१०] । मणिग्रहणं मेघस्य नीलवर्णत्वात् तटसोपानयोरेकवर्णत्वं सूचयितुं कृतम् । गौरी क्रीडाशैले पादचारेण यदि विहरेत्, त्वं च भक्त्या भङ्गीभूत्वा विरचितवपुः मणितटारोहणाय सोपानं कुर्वीत्यर्थः ॥६०॥

तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं

नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे ! घर्मलब्धस्य न स्यात्

क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः॥६१॥

तत्रेति । वलयकुलिशोद्धट्टनोद्गीर्णतोयं वलयमेव कुलिशं वलयकुलिशं तेन वलयकुलिशेन ऊर्ध्वप्रोतत्वं वलयकुलिशोद्धट्टनम् । कुलिशग्रहणेनोद्धट्टनसाधनत्वमुक्तम् । यन्त्रधारागृहत्वं कृत्रिमधारागृहत्वम् । धर्मलब्धस्य धर्मकाललब्धस्य । ननु वर्षाकालो वर्तते । कथं धर्मकाललाभः । देवभूमित्वात् कैलासे षडृतवः सर्वदा वर्तन्त्ते । वक्ष्यति च – ‘हस्ते लीलाकमलम्’ इति । अथवा धर्मशब्देन श्रमो विवक्षितः । फ्रीडाश्रमसमये लब्धस्येत्यर्थः । भाययेर्भयं जनयेः ॥६१॥

हेमाम्भोजप्रसवि सलिलं मानसस्याददानः

कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य ।
धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वातै-

र्नानाचेष्टैर्जलद ! ललितैर्निर्विशेस्तं नगेन्द्रम्॥६२॥
डेमेति । प्रसवो जननं पुष्पं वा, तदस्यास्तीति प्रसवि ।
''प्रसवो जननानुज्ञापुत्रेषु फलपुष्पयोः ''

इति यादवः । कामाद् यथेष्टम् । इदं सर्वशेषम् । क्षणमुखपटप्रीतिं, क्षणग्रहणं सलिलादानमुहूर्तविवक्षायाम् । मुखपटप्रीतिं मुखावगुण्ठनपटप्रीतिम् । ऐरावतस्य मानसावगाहिनः । उन्मज्जत ऐरावतस्य

  1. 'ये कुर्वाणः त’ ख. पाठः.
  2. 'नम् । स्वा'
  3. ’त् प्रमत्तः इति पाठः । जुगुप्साविरामार्थानामित्यपादाने पञ्चमी । प्रमत्तोऽनवहितः ।’ क. पाठः.
  4. 'रः । स्वा’ क. पाठः.
  5. ’रत्वेन सू’ ख. पाठः.
  6. १. ’दृप्ताः प्र’ ख. पाठः,
  7. १. ’ति षि’ क. पाठः,
  8. १. ’र’ क. पाठः
  9. १. 'न कुरु । म'
  10. १. 'य । सोपानं कु' क. पाठः