मेघसन्देशः - दक्षिणावर्तनाथः - १९१९/उत्तरमेघः

विकिस्रोतः तः
← पूर्वमेघः मेघसन्देशः - दक्षिणावर्तनाथः - १९१९
उत्तरमेघः
कालिदासः

मुखे लम्बमानशरीरस्त्वं तस्य मुखावगुण्ठनप्रीतिं जनयेरित्यर्थः । कल्पद्रुमकिसलयानि कल्पद्रुमकिसलयभूतानि । नानाचेष्टैः, नानाविधा चेष्टा येषाम् । ललितैर्लीलायुतैः । निर्बिशेः अनुभव । इदमत्रानुसन्धेयं – कश्चित् सखा स्वप्रियसखस्य गृहं गत्वा तदीयानि वापी वाहनारामादीनि स्वैरं निर्विशतीर्यर्थो ध्वन्यते इति ॥ ६२॥

तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां

न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन !।
या वः काले वहति सलिलोद्गारमुच्चैर्विमानै-

र्मुक्ताजालग्रथितमलकं कामिनीवाभ्रबृन्दम्॥६३॥

तस्येति । उत्सङ्गे उपरितले अङ्के च । प्रणयिनो भर्त्तुः । प्रणयिन उत्सङ्गे कामिनीमिति वक्तव्ये कामिनीशब्दानुपादानमुत्तरार्धे वक्ष्यमाणत्वात् । स्रस्तगङ्गादुकूलां, ‘दुकूलं शुक्लवस्रेऽपी’ति यादवः । इदमुभयत्र योज्यम् । न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यस इति, पूर्वमेवालकाज्ञानं मेधस्यास्तीति सूचयितुं नञ्दूयं प्रयुक्तम् । कामचारिन् !, अनेन सर्वचारित्वं कामुकत्वं च विवक्षितम् । वः काल इति । वः त्वादृशानां मेघानां काले वर्षाकाल इत्यर्थः । सलिलोद्गारं, सलिलमुद्गिरतीति सलिलोद्गारः । ‘कर्मण्यण्’ (३.२.१) इत्यण्प्रत्ययः । उच्चैरुत्तुङ्गैर्विमानैः । सप्तभूमिकं भवनं विमानम् ।

"विमानोऽस्त्री देवयाने सप्तभूमे च सद्मनि"

इति यादवः । मुक्ताजालग्रथितं मौक्तिकगुणाबद्धम् । अत्रेदमनुसन्धेयं – प्रोषिता उदात्ताः पुरुषाः[१] वर्षाकाले समागत्य विगतमाना भूत्वा स्त्रीणां कपोललम्बानलकान् मुक्ताजालैरुद्गृह्य बध्नन्तीत्यर्थो विवक्षितः । उत्तरार्धेनाप्यलकाया ज्ञानोपाय उक्तः ॥ ६३॥

पूर्वसन्देशः समाप्तः ।


अतः परं च सप्तसु श्लोकेषु ययाकयाचन विघया मेघसम्बन्धमुक्त्वा अलकां वर्णयति –

विद्युन्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः

सङ्गीतार्थप्रहतमुरवाः स्निग्धगम्भीरघोषम् ।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः

प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः॥१॥

विद्युत्वन्तमिति । सचित्रा आलेख्यसहिताः । सङ्गीतार्थप्रहतमुखा इति पाठः । नृत्तवाद्यगीतानां त्रयं सङ्गीतम् । अर्थशब्दो हेतुवचनः । सङ्गीतार्थाः प्रहता मुरवा येषाम् । स्निग्धपर्जन्यघोषं, पर्जन्योऽभ्रध्वनितम् ।

"पर्जन्यो गर्जदभ्रेऽभ्रध्वाने शक्रेऽस्त्रयन्त्रके"[२]

इति यादवः । स्तिग्धगर्जितघोषमित्यर्थः । अत्र मेघगर्जितवाचिनः पर्जन्यशब्दस्य प्रयोगेणैव सिद्धेऽप्यर्थे घोषशब्दप्रयोगः ‘केकारवैर्बर्हिण’ इत्यत्र केकारववत् सोढव्यः । अभ्रंलिहाग्राः, ‘वहाभ्रे लिहः’ (३.२.३२) इति खश् । तुलयितुं तुलां कर्तुम् । तुलाशब्दः सदृशवाचकोऽप्यस्ति । त्वां सदृशीकर्तुमित्यर्थः । ननु ‘तुल उन्मान’ इत्ययं धातुश्चौरादिकः तुलेति कथं व्युत्पन्नः णिचोऽनित्यत्वात् तुलेत्यपि भवति । अलं पर्याप्तम् [३] । तैस्तैर्विशेषैः तै लितवनितादिभिर्विशेषैः । पूर्वोक्तानां विशेषाणां समासवृत्तितिरोहितत्वात् स्पष्टार्थं तैस्तैर्बिशेषैरित्युक्तम् । अत्र मेघसंबन्धः स्पष्टः ॥१॥

हस्ते लीलाकमलमलके बालकुन्दानुवेधो

नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः ।
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥

हस्त इति । अनेन श्लोकेन शरद्धेमन्तशिशिरवसन्तग्रीष्मप्रावृषां षष्णामृतूनां लिङ्गभूतैरसाधारणैः पुष्पैरलकायां युगपदेव प्रवृत्तिरुक्ता । तद्यथा – हस्ते लीलाकमलमित्यत्र शरल्लिङ्गेन कमलेन शरत्कालस्य सन्निधिरुक्ता । अलकं वालकुन्दानुविद्धमित्यपपाठः । अलकशब्दस्य पुल्लिङ्गत्वात् । ‘अलकाश्चूर्णकुन्तला’ इत्यमरः । अलके बालकुन्दानुवेध इति पाठः । अस्मिन् पाठे रीतिभङ्गश्च न भवति । कुन्देन हेमन्तसंनिधिरुक्तः । ननु
"निषिञ्चन् माघवीवृत्तिं कुन्दशेषं च वर्धयन्"

इत्यत्र वसन्तात् प्राचीनस्य शिशिरस्य लिङ्गं कुन्दमिति प्रतीयते । कथं हेमन्तस्य लिङ्गमित्युक्तम् । उच्यते । हेमन्तशिशिरयोर्द्वयोरपि लिङ्गं कुन्दम् । हेमन्ते प्रादुर्भवति शिशिरे प्रौढीभवतीति विशेषः । अत एव बालकुन्दानुवेध इति बालशब्दः प्रयुक्तः । नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीरिति सप्तम्यन्तः पाठः । आनने कान्तिलोध्रप्रसवरजसा पाण्डुतां नीतेत्यर्थः । लोध्रपुष्पं हि शिशिरस्य लिङ्गम् । तथा माघकाव्ये शिशिरवर्णने – "अभिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः" (स० ६. श्लो० ६४) इत्यादि । चूडापाशे नबकूरवकं, चूडापाआशे शिखाकलापे । ‘शिखा चूडा केशपाश’ इत्यमरः ।[४] नवकुरवकं हि वसन्तलिङ्गम् । उक्तं च ‘अग्रे स्त्रीनखपाटलं कुरवकम्’ इति । चारु कर्णे शिरीषं, शिरीषं हि ग्रीष्मस्य लिङ्गम् । उक्तं च –

"स्वेदानुविद्धार्द्रनखक्षताङ्के सन्दष्टभूयिष्ठशिखं कपोले । च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात" ॥

इति । त्वदुपगमजमित्यनेन नीपस्य वर्षालिङ्गत्वं प्रतीयते । वधूनां स्त्रीणाम् । ’वधूर्जाया स्नुषा चे’त्यमरः । त्वदुपगमजं यत्र नीपमिति मेघसंबन्ध उक्तः ॥२॥

यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि

ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः ।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं

त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥३॥

यस्यामिति । सितमणिः स्फटिकमणिः । स्फटिकमणीनां प्रसादवत्तया रात्रिषु प्रतिबिम्बातिशयः सम्भवतीत्पनुसन्धेयम् । आसेवन्ते आदृत्य सेवन्ते । त्वद्गम्भीरध्वनिषु अनेन मेघम्बन्ध उक्तः । पुष्करेषु वाद्यभाण्डमुखेषु ।

"द्विरदकराग्रे पद्मे खड्गफले व्योम्नि वाद्यभाडासुखे । अगदे जले च तीर्थे पुष्करमष्टासु निर्दिष्टम्" ॥

इति भट्टहलायुघः । आहतेषु वाद्यमानेषु ॥३॥

[५][मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि-

र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः॥]
नीवीबन्धोच्छ्वासितशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
विद्युद्दीप्रानभिमुखमपि प्राप्य रत्नप्रदीपान्

ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः॥४॥

नीवीति । बिम्बाधराणां बिम्बफलमिवाधरो यासां ता विम्बाधरा इति स्त्रीणां नामधेयम् । अनिभृतकरेषु व्याप्रियमाणकरेषु । आक्षिपत्सु अहितस्तु । विद्युद्दीप्रानिति पाठः । त्वदीयविद्युत्तुल्यानित्यर्थः । अनेन मेघसम्बन्ध उक्तः । अभिमुखमपि प्राप्य ओभिमुख्येन[६] प्राप्यापीत्यर्थः[७] । हीमूढानां लज्जाविमनस्कानाम् । चूर्णमुष्टिः मुखवासकर्पूरादिचूर्णसुष्टिः ॥४॥

नेत्रा नीताः सततगतिना यद्विमानाग्रभूमी-

रालेख्यानां सलिलकणिकादोषमुत्पाद्य सद्यः ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालजालै-

र्धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति॥५॥

नेत्रेत्ति । नायकेन प्रापकेणेत्यर्थः । सततगतिना वायुना । सलिलकणिकादोषं सलिलकणिकास्पर्शदूषणम् । जलस्पर्शेन चित्राणि विनश्यन्तीत्यभिप्रायः । शङ्कास्पृष्टाः आलेख्यविनाशं दृष्ट्वा कोऽप्यस्मान् ग्रहीष्यतीति शङ्कमाना इत्यर्थः । यन्त्रजालैः सुखबन्धादिरुपजालकैः । धूमोद्गारानुकृतिनिपुणाः धूमनिर्गमानुकारेषु[८] सम्यक् समर्थाः । ‘साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः (२.३.४३) इति समासः । जर्जराः, निर्गमद्वारानुरूपं कृतवेषवैषम्यत्वाज्जर्जराः । निष्पतन्ति निर्यान्ति । अनेन मेघसम्बन्धः स्पष्टः ॥५॥

यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गिताना-

मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे

व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः॥

यत्रेति । प्रियतमभुजोच्छवासितालिङ्गितानां, बलात्कारात् सञ्जातोच्छवासत्वादुछवासितं, प्रियतमभुजदृढालिङ्गितानामित्यर्थः । तन्तुजालावलम्बाः । हिमजलपातनिवारणार्थमुपरि बद्धे विताने प्रलम्बमानानि मुक्तादामस्थानीयानि तन्तुजालानि अवलम्बमानास्तन्तुजालावलम्बाः । यद्वा तन्तुमयं जालमानायः तन्तुजालम् । प्रासादानामुप- रितलेषु भेकादीनामवतरणनिषेधाय जालं वितन्वन्तीति प्रसिद्धम् । अत्र चन्द्रकान्तमणिबद्धरचनतन्तुजालं विवक्षितम् । त्वत्संरोधापगमविशदैः, अनेन मेघसंबन्ध उक्तः । व्यालुम्पन्ति अपहरन्ति [९] । चन्द्रपादैः स्फुटजललवस्यन्दिन इत्यन्वयः । चन्द्रकान्ताश्चन्द्रकान्तमणयः ॥ ६॥

[अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै-

रुद्गायद्भिर्धनपतियशः किन्नरैर्यत्र सार्धम् ।
वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति॥

[१०]गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै-
र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम्॥]
मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं
प्रायश्चापं न वहति भयात् त्वामपि प्रेक्ष्य कामः ।
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघै-

स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः॥७॥

मत्वा देवं धनपतिसखमिति । अनेन वैश्रवणसख्यात् कैलासे नित्यं शिवो वसतीत्युक्तम् । प्रायः, उत्प्रेक्षायामिदमव्ययम् ।

"मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥"
इत्यलङ्कारे । भयात् त्वामपि प्रेक्ष्य काम इति पाठः । विरहिणां प्रोत्साहकारिणं भवन्तं प्रेक्ष्यापीत्यर्थः । मयि तं देशं प्रविष्टे मदनव्यापारः कथं भविष्यतीत्याशङ्क्याह- सभ्रूभङ्गप्रहितनयनैरिति । तस्यारम्भः तस्य प्रवृत्तिः । सिद्धः सिद्धो भविष्यतीत्यर्थः । त्वामपि प्रेक्ष्येत्यनेन मेघसंबन्ध उक्तः । मन्मथः षट्पदज्यमिति पाठे पूर्वश्लोकेष्विव मेघसांबन्धो न स्यात् ॥७॥
[११][वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं

पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान्
लाक्षारागं चरणकमलन्यासयोग्यं च यस्या-
मेकः सूते सकलमबलामण्डनं कल्पवृक्षः॥]
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
दूराल्लक्ष्यं त्वदमरधनुश्चारुणा तोरणेन ।
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे

हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः॥ ८ ॥

तत्रेति । तस्यामलकायाम् । इतः परं पञ्चसु श्लोकेषु ययाकयाचन विधया मेघसंबन्धमुक्त्वा स्वगृहस्य लक्षणमाह । वक्ष्यति च ‘एभिः साघो! हृदयनिहितैर्लक्षणैर्लक्षयेथाः’ इति । घनपतिगृहानुत्तरेणेति पाठः । घनपतिगृहान् वैश्रवणगृहान् । ‘गृहाः पुंसि च भूम्न्येव’ इत्यमरः । उत्तरेणोत्तरतः समीपे । ‘एनबन्यतरस्यामदूरेऽपञ्चम्याः’ (५.३.३५) इत्येनपप्रत्ययः । ‘एनपा द्वितीया’ (२.३.३१) इति द्वितीया । कृतकतनयः कृत्रिमपुत्रकः । बालमन्दारवृक्षः बालकल्पवृक्षः । त्वदमरघनुश्चारुणा तोरणेनेति मेघसंबन्ध उक्तः ॥ ८ ॥

वापी चास्मिन् मरतकशिलाबद्धसोपानमार्गा

हैमै स्फीता कमलमुकुलैर्दीर्घवैदूर्यनालैः ।

यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं

नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥

वापीति । अस्मिन् अगारे । स्फीता पुष्टा । यस्यास्तोये इति, यस्यां कृतवसतय इति वक्तव्ये तोयग्रहणं वर्षाकालेऽपि तोयस्य प्रसादातिशयसूचकम् । आध्यास्यन्तीति पाठः । आध्यानमुत्कण्ठा । ‘आध्यानमुत्कण्ठोत्कलिके समे’ इत्यमरः । त्वामपि प्रेक्ष्येत्यनेन मेघसंबन्ध उक्तः ॥९॥


तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।
मद्गेहिन्याः प्रिय इति सखे ! चेतसा कातरेण

प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि॥ १० ॥

तस्या इति । पेशलैः चारुभिः । ‘चारौ दक्षे च पेशलः’ इत्यमरः । मद्गेहिन्याः प्रिय इति,शतिशब्दो हेतौ । तमेव क्रीडाशैलमेव । उपान्तस्फुरिततडितं त्वां प्रेक्ष्य कातरेण चेतसा तमेव स्मरामि इत्यन्वयः । अत्र मेघसंबन्धः स्पष्टः ॥१०॥

रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः

प्रत्यासन्नौ कुरुवकवृतेर्माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी

काङ्क्षत्यन्यो वदनमदिरां दोहदच्छ्द्मनास्याः॥

रक्तेति केसरो वकुलः । कुरवकवृतेः कुरवक एव वृतिरावरणं यस्य । माघवीमण्डपस्य, माधवी अतिमुक्तः, माधवीवेष्टितमण्डपस्येत्यर्थः । तव सख्या इति मेघसंबन्ध उक्तः । सह मया वामपादाभिलाषीति वाक्यच्छेदः । दोहलच्छद्मना, दोहलं नाम फुसुमाद्युत्पादकं संस्कारद्रव्यम् | तथा सप्तशत्यां-

[१२]" दोहळिअमप्पणो किं ण मग्गसे मग्गसे कुरवअस्स ।
एअं तुह सुहग ! हसइ वळिआणणपङ्कअं जाआ" ॥

अयमभिप्रायः – अहं कृतयाच्ञाञ्जलिस्तव सख्या वामपादाभिताडनं दोहलव्याजेन यथाभिलषामि, तथायं चलकिसलयो रक्ताशाकः तस्या वामपादाभिताडनं दोहलव्याजेनाभिलषतीति (न?) तथा कान्तः केसरद्रुमोऽपि दोहलच्छद्मना तस्या वदनमदिरां काङ्क्षतीति च ॥११॥

तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-

र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।
तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे

यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥

तन्मध्ये गृहमध्ये । स्फटिकफलका स्फटिकमयी निवासफलका यस्याः । स्फटिकफलकोपादानं मयूरस्य शीतप्रियत्वापेक्षया कृतम् । अनतिप्रौढवंशप्रकाशैः तरुणवेणुकादण्डसमानवर्णैः । शिञ्जावलयसुभगौरिति ।[१३] शिञ्जा शिञ्जितं, शिञ्जावन्ति वलयानि शिञ्जावलयानि । शाखावृक्षवत् समासः । शिञ्जद्वलयसुभगैरिति पाठे, ‘शिञ्जि अव्यक्ते शब्दे’ इत्ययं धातुरात्मनेपदी । तस्मात् परस्मैपदं न भवति । नीलकण्ठः सुहृद् वः इति मेघसंबन्ध उक्तः ॥१२॥

एभिः साधो ! हृदयनिहितैर्लक्षणैर्लक्षयेथा

द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्॥

एभिरिति । साधो ! विद्वन् ! लक्षणैः चिह्नैः । लक्ष्येथाः पश्येरित्यर्थः । शङ्खपद्मौ शङ्खपद्माख्यौ निधिविशेषौ ।

"निधिर्ना शेवधिर्भेदाः शङ्खपद्मादयो निधेः"

इत्यमरः । लक्षयतेः कर्मादर्शनाल्लक्षयेस्तदिति केचित् पठन्ति । तस्मिन् पाठे तदिति पूर्वोक्तमगारं परामृश्यते । इदानीमात्मीयं तद्भवनं संस्मृत्य विषण्ण आह –क्षामच्छायमिति, क्षामकान्ति । अभिख्यां शोभाम् ॥१३॥

गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः

क्रीडाशैले प्रथमकथिते रत्नसानौ निषण्णः ।
अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं

खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम्॥१४॥

गत्वेति । श्रीघ्रसंपातहेतोः । प्रथमकथिते ‘तस्यास्तीरे विहितशिखर’ इति पूर्वोक्ते । रत्नसानौ, इदं विशेषणं सौदामनीदर्शनेऽपि रत्नप्रभेति तस्या बुद्धिजननाय कृतम् । विद्युदुन्मेषदृष्टिम् । विद्युदुन्मेषो विद्युत्स्फुरणं तदेव दृष्टिरिति विद्युदुन्मेषदृष्टिः ॥

इदानीं स्वप्रेयस्या लक्षणान्याह –

तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी

मध्येक्षामा चकितहरिणीप्रेक्षिणी निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद् युवतीविषये सृष्टिराद्यैव धातुः ॥

तन्वीति । श्यामा श्यामवर्णा, हरितवर्णेत्यर्थः । अस्यार्थस्यानुकूलमेव वक्ष्यति – ‘श्यामास्वङ्गमि’ति । यद्वा-

"श्यामा यौवनमध्यस्था प्रौढा निष्क्रान्तयौवना"

इत्युत्पलमालायाम् । अस्यार्थस्यानुकूलं द्योतकं युवतिविषय इति पदम् । शिखरिदशनेति पाठः । शिखरीणि कोटिमन्ति दशनानि यस्याः सा शिखरिदशना । तथा सामुद्रे –

" स्निग्धाः समानरूपाः सुपङ्क्तयः शिखरिणः श्लिष्टाः । दन्ता भवन्ति यासामासां पादे जगत् सर्वम् ॥"
इति ।
"पक्वडाडिमबीजाभं माणिक्यं शिखरं विदुः ।
" ।

मध्येक्षामा, ‘अमूर्धमस्तकात् –’ (६.३.१२) इत्यलुक् । क्षामा क्षीणा [१४]। चकितहरिणीप्रेक्षिणीति पाठः । ‘कर्तर्युपमाने’ (३.२.७९) इति णिनिः । तत्र तस्मिन् भवने । स्याद्, आख्यातप्रतिरूपमव्ययमिदं यद्यर्थे वर्तते । तथा श्रीरामायणे प्रयोगश्च – "पठन् द्विजो वागृषभत्वमीयात् स्यात् क्षत्रियो भूमिपतित्वमीयात्" इति । युवतिविषये युवतिपक्षे, युवतिगोचर इत्यर्थः । आद्या प्रथमा । धातुः प्रथमाया युवतिसृष्टेरादरेण[१५] निर्मितत्वात् तद्रामणीयकमस्तीति भावः । एवंरुपा तस्मिन् भवने यद्यस्ति[१६], तां जानीया इत्युत्तरत्र सम्बन्धः ॥१५॥


तां जानीयाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बाला

जाता मन्ये शिशिरमथिता पद्मिनीवान्यरूपा ॥

तामिति । परिमितकथां स्वभावतः स्वल्पभाषिणीम् दूरीभूते दूरस्थे । सहचरे चक्रवाकीमिवैकामिति वाक्यच्छेदः । सहचरे चक्रवाके दूरीभूत इत्यर्थः । अस्यार्थस्य मूलं "सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना" । इति श्रीरामायणवचनम् । एकामसहायाम् । पूर्वोक्तानां लक्षणानामन्यथाभावमाशङ्क्याह – गाढोत्कण्ठेति । शिशिरमथिता हिमसंपर्कविशीर्णा । अन्यरूपा नष्टशोभा । अस्यार्थस्य मूलं ‘हिमहतनलिनीव नष्टशोभा’ इति वचनम् । अनेन श्रीरामायणवचनार्थानुसारेण कवेः पूर्वोक्तो राम्कथाभिलाषः स्पष्टः ॥१६॥

सर्वेषामङ्गानां प्रघानभूतस्य मुखस्यान्यरूपत्वमाह -

नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया

निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-

दिन्दोर्दैन्यं त्वदुपगमनक्लिष्टकान्तेर्बिभर्ति॥१७॥

नूनमिति । नूनं वितर्के । प्रबलरुदितोच्छूननेत्रं भूयिष्ठरोदनोच्छ्वसितनेत्रम् । उच्छूनं, 'टुओश्वि गतिवृद्धयोः’ इति धातोर्निष्ठानत्वे ‘वचिस्वपि –’ (६.१.१५) इत्यादिना संप्रसारणे कृते रूपमिदम् । असकलव्यक्ति अस्पष्टसकलप्रदेशम् । त्वदुपगमनक्लिष्टकान्तेरिति मेघसम्बन्धः । मेघसंवृतत्वमलकलम्बनस्थानीयम् ॥१७॥ तां ज्ञातुं लक्षणान्तराण्याह –

आलोके ते निपतति पुरा सा बलिव्याकुला वा

मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां

कच्चिद भर्तुः स्मरसि गिरिके ! त्वं हि तस्य प्रियेति॥

आलोक इति । आलोके दर्शने । ‘आलोको दर्शनोदद्योतावि’-त्यमरः । पुरा, भविष्यत्कालद्योतकमव्ययमिदम् । पुरा निपततीति निपतिष्यतीत्यर्थः । त्वां दृष्ट्वा सा भृशं मद्विरहाद् भूमौ निपतिष्यतीति यावत् । अस्मिन्नर्थे लिङ्गं- ‘तामुन्निद्रामवनिशयनाम्’ इति वक्ष्यमाणवचनम् । अथवा त्वद्दर्शनात् पुरा वक्ष्यमाणान् कुर्वती सा तवालोके भूमौ निपततीत्यर्थः । बलिव्याकुला, अत्र प्रियतमागमनार्थं देवताभ्यो बलिप्रदानं विवक्षितम् । तथा सप्तशत्यां – [१७]"णेच्छइ पासासङ्की काओ दिण्णं पि पहिअवहुआए । ओअन्तकरअळोज्झिअवळअअमज्झट्ठिअं पिण्डं" ॥ इति । मत्सादृश्यं मत्प्रतिकृतिं मद्विषयमालेख्यम् । ‘आलेख्येऽपि च सादृश्यम्’ इत्यजयः । उक्तं ‘सादृश्यप्रतिकृतिदर्शनैः प्रियाया’ इति । विरहतनु विरहेण तनुसंस्थानम् । इदं विशेषणं सादृश्यशब्दस्यालेख्यवाचित्वे घटते । भावगम्यं, विरहात् प्राक् तादृशस्य संप्रत्येवमन्यथाभावः संभवतीत्युत्प्रेक्षागम्यमित्यर्थः । शारिकां, शारिकेति व्यक्तवाक् कापि चटकविशेषस्त्री । ‘वाचाला मुखरा शारी’ इति यादवः । पञ्जरस्थां, विलालादिभयेन पञ्जरस्थामित्यर्थः । भर्तुः स्मरसीति ‘अधीगर्थदयेशां कर्मणि’ (२.३.५२) इति कर्मणि षष्ठी । स्मरसि उत्कण्ठस इत्यर्थः । गिरिके !, मार्जारादिसन्निघानात् पञ्जराभ्यन्तरं प्रविश्य बालमूषिकेव बिभेतीति बालमूषिकानामान्तरेण शारिकाया उपालम्भपूर्वं संबोधनम् । ‘गिरिका बालमूषिका’ इत्यमरः ॥ १८॥


उत्सङ्गे वा मलिनवसने सौम्य ! निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथञ्चिद्

भूयो भूयः स्वयमधिकृतां मूर्च्छनां विस्मरन्ती॥

उत्सङ्ग इति । मद्गोत्राङ्कं मन्नामधेयचिह्नम् । सारयित्वा करेण परामृश्य । स्वयमधिकृताम् आत्मप्रस्तुताम् । कथञ्चित् स्वयमधिकृता मित्यन्वयः । मूर्छनां सप्तस्वारक्रमस्थापनाम् ।

"क्रमयुक्ताः स्वराः सप्त मूर्छना परिकीर्तिता" ॥
इति[१८] भरते ॥१९॥
शेषान् मासान् विरहदिवसस्थापितस्यावधेर्वा

विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः ।
मत्संयोगं वा हृदयनिहितारम्भमास्वादयन्ती

प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः॥२०॥

शेषानिति । शेषान् गतशेषान् । अवधेः शापान्तावधेरित्यर्थः । देहलीमुक्तपुष्पैः, गृहद्वारयन्त्रस्य तिरश्चीनफलकं देहली । सा च बहिर्द्वारदेहली, तत्रैव तस्याः प्रियतमालोकनोत्सुकतयावस्थानात् ॥२०॥

सव्यापारमहनि न तथा पीडयेन्मद्वियोगः

शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे

तामुन्निद्रां विरहशयनां सद्मवातायनस्थः॥

सव्यापारामिति । सव्यापारां सविनोदाम् । रात्रौ निर्विनोदां तव सखीं यथा विप्रयोगः पीडयति, अहनि सव्यापारां न तथा पीडयेदित्यर्थः सद्मवातायनस्थ इति पाठः । भवनवातायनस्थ इत्यर्थः । निशीथे साध्वीमत एवोन्निद्रां तां मत्सन्देशैः सुखयितुमलं पश्येत्यर्थः ॥२१॥ कीदृशीं तां सुखयामीत्यपेक्षायामाह –

आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां

प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या

तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम्॥२२॥

आधिक्षामामिति । प्राचीमूले तनुमिवेति, प्राचीमूलग्रहणं दिने दिने क्षीयमाणत्वं सूचयितुं कृतम् । तनुं शरीरम् । कलामात्रशेषां, मात्रशब्दोऽवधारणे । क्षण इवेति पाठः । या यज्जातीया तामेव तज्जातीयामेव ॥२२॥

निश्श्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं

शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बम् ।
मत्संभोगः कथमुपनमेत् स्वप्नजोऽपीति निद्रा-

माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम्॥

निःश्वासेनेति । विक्षिपन्तीं चलयन्तीम् । शुद्धस्नानाद् गन्धामलकादिरहितस्नानात् । परुषमस्निग्धम् । आगण्डलम्बम् गण्डावधि लम्बमानामित्यर्थः । उपनमेत् उपगच्छेत् । नयनसलिलोत्पीडरुद्धावकाशां बाष्पौधनिरुद्धनिद्रावसराम् ॥ २३॥


आद्ये बद्धा विरहदिवसे या शिरोदाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्शक्लिष्टामयमितनखेनासकृत् सारयन्तीं

गण्डाभोगात् कठिनविषमामेकवेणीं करेण॥२४॥

आद्य इति । शिरोदाम हित्वेति पाठः । शिखादाम हित्वेति पाठे शिखाशब्दः शिरःशब्दपर्यायो न भवति । ’घृणिज्वाले अपि शिखे’ इत्यमरसिंहवचने, ‘शिखा ज्वालाकेकिमौल्योरि’ ति यादवप्रकाशवचनेऽपि शिखाशब्दस्य शिरःशब्दपर्यायत्वादर्शनात् । स्पर्शक्लिष्टां स्पर्शने सक्लेशाम् । परस्परव्यतिषक्तफकेशविश्लेषणार्थं हस्तस्पर्शे कृते केशमूलेषु सव्यथामित्यर्थः । अयमितनखेन अकृत्तोपान्तनखेन । सारयन्तीं परामृशन्तीम् । गण्डाभोगाद् गण्डस्थलात् । कठिनविषमां कठिनोच्चावचाम् । एकवेणीम्, एकबन्धनवती वेणी एकवेणी ॥२४॥


पादानिन्दोरमृतशिशिरान् जालमार्गप्रविष्टान्
पूर्वप्रीत्या गतमपि ततः संनिवृत्तं तथैव ।
चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्च्छादयन्तीं

साभ्रेऽह्नीव स्थलकमलिनीं नप्रबुद्धां नसुप्ताम्॥

पादानिति । पूर्वप्रीत्या पूर्वकालस्नेहेन । गतमपि इन्दोः पादान् प्राप्तमपि । ततः सन्निवृत्तं तथैवेति पाठः । तत इन्दुपादेभ्यः । सन्निवृत्तं स्वयमेव सन्निवृत्तम् खेदात् विरहव्यसनात् । पूर्वकालप्रीत्या चन्द्रकिरणान् गत्वा तेभ्यो विरहखेदाद् यथागतं निवत्तं चक्षुरित्यर्थः । पक्ष्मभिरक्षिरोमभिः । साभ्रेऽह्नि मेघच्छन्ने दिने । नप्रबुद्धां नसुप्तां स्थलकमलिनी सूर्यकिरणस्पृष्टा विकसति मेघच्छन्नैः किरणैरस्पृष्टा निमीलति च ॥२५॥

सा संन्यस्ताभरणमबला पेलवं धारयन्ती

शय्योत्सङ्गे निहितमसकृद् दुःखदुःखेन गात्रम् ।
त्वामप्यास्रं नवजलमयं मोचयिष्यत्यवश्यं

प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा॥२६॥

सेति । संन्यस्ताभरणं शरीरसादात् त्यक्ताभरणम् । पेलवं मृदु । त्वामप्यास्रं नवजलमयं मोचयिष्यत्यवश्यमिति, तथा दुःखितां दृष्ट्वा त्वमप्यवश्यं बाष्पं मोक्ष्यसीत्यर्थः । करुणावृत्तिः करुणामयचित्तवृत्तिर्यस्य । आर्द्रान्तरात्मा, मेघस्य जलार्द्रान्तरात्मत्वं विवक्षितम् ॥२६॥

सा त्वद्विरहे खिन्नां दशां प्राप्तुं किं कारणमित्याशङ्क्याह –

जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा-

दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभावः करोति

प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत्॥

जान इति । इत्यम्भूतां पूर्वोक्तदुःखावस्थाम् । भवान् सौभामग्येनैवमाहेत्याशङ्क्याह- वाचालं मामिति । सुभगंमन्यभावः । सुभगशब्दोपपदान्मन्यतेर्धातोः ‘आत्ममाने खश्च’ (३.२.८३) इति खश् । ‘अरुर्द्विषदजन्तस्य मुम्’ (६.३.६७) सुभगंमन्यः । तस्य भावः, सुभगंमन्यभावः । प्रत्यक्षं ते सकलमिति, मयोक्तमिदं सर्वं तवाचिरेण प्रत्यक्षं भविष्यतीत्यर्थः ॥२७॥

रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं

प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि वामं मृगाक्ष्या

मन्ये मीनोञ्चलकुवलयश्रीतुलामेष्यतीति॥२८॥

रुद्धापाङ्गप्रसरं रुद्धापाङ्गे प्रसरो यस्य । अपाङ्गो नेत्रान्तः । अञ्जनस्नेहशून्यम् अञ्जनेन स्नेहः स्निग्धत्वम् अञ्जनस्नेहः तेन शून्यम् । प्रत्या देशात् निराकरणात्, निषेधादित्यर्थः । ‘प्रत्यादेशो निराकृतिरि’त्यमरः । मधुनः मधुपानस्य निषेधाद् विस्मृतभ्रूविलासमित्यर्थः । ननु विलासिनीनां स्वभावत एव भ्रूविलासः सम्भवति । उक्तं च –

"तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरायतरेखयोर्या ।
तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥ " ॥

इति । कथमत्र मधुपानायत्तो भ्रूविलास इत्युक्तम् । सत्यम् । अत्र स्वभावसिद्धोऽपि भ्रूविलासः स्वोद्दीपनविभावस्य मधुपानस्याभावान्नाभिव्यज्यत इति कवेरभिप्रायः । अत एव विस्मृतभ्रूविलासमिति विस्मृतपदं प्रयुक्तम् [१९] । त्वद्दर्शनेन तस्याः कुशलसूचकं वामाक्षिस्पन्दनरूपं निमित्तं भविष्यतीत्याह [२०]– त्वय्यासन्ने, भवति समीपप्राप्ते । उपरिस्पन्दि वामं मृगाक्ष्या मन्ये मीनोच्चलकुवलयश्रीतुलामेष्यतीतीति पाठः । स्त्रीणां वामाक्षिस्पन्दनमेतन्निमित्तमिति श्रीरामायणे दर्शितं –

"तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् ।
प्रास्पन्दतैकं नयनं मृगाक्ष्या मीनाहतं पद्ममिवाभिताम्रम्" ॥

इति ॥२८॥

त्वद्दर्शनात् तस्या वामोरुस्पन्दनमपि भविष्यतीत्याह –

वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै-

र्मुक्ताजालं चिरविरचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्तसंवाहनानां

यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम॥ २९ ॥

वाम इति । कररुहपदैः नखपदैः । मुक्ताजालं, स्त्रीणां मुक्तामयं दृटीभूषणं मुक्ताजालमित्युच्यते । हारयष्टिप्रभेदाधिकारे कौटिल्यः – ‘सुवर्णसूत्रान्तरं सोपानकं मणिमध्यं वा मणिसोपानकम् । तेन शिरोहस्त

पादकटीकलापजालकविकल्पा व्याख्याता’ इति । चिरविरचितं चिरकालेन विनिर्मितम् । इदमत्रानुसन्धेयम् – ऊरुमूले निहितानां नखक्षतानां निर्वापणाय स्त्रियः खलु प्रियतमैः सार्धं स्वयं विरचितानि मुक्ताजालकानि बिभ्रति । सा पुनरिदानीं नखक्षताभावाद् नखक्षतनिर्वापणं मुक्ताजालकं दैवगत्या न बिभर्तीति खेदवचनमिति । अस्मिन्नर्थे लिङ्गं तज्जातीयदन्तक्षतनिर्वापणवचनम् । यथा कुमारसंभवे –

“दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा ।
शीतलेन निरवापयत् क्षणं मौलिचन्द्रशकलेन शूलिनः ॥”।

इति । हस्तसंवाहनानां हस्ताभ्यां सुखमर्दनानाम् । ‘संवाहनं मर्दनं स्याद्’ इत्यमरः । सरसकदलीस्तम्भगौरम् आर्द्रकदलीस्तम्भपाण्डुरम् । ऊर्वोर्गौरत्वं च निवातवर्तित्वात् । चलत्वं स्फुरणम् ॥ २९॥

तस्मिन् काले जलद ! यदि सा लब्धनिद्रासुखा स्या-

दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथञ्चित्

सद्यःकण्ठच्युतभुजलताग्रन्थि गाढोपगूढम्॥ ३० ॥

तस्मिन्निति । तस्मिन् निशीथे काले । ‘मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे’ इत्युक्तत्वात् । लब्धनिद्रासुखा स्यादिति, सा सततं विरहवेदनादनिद्रा भवति दैवाद् यदि सुप्ता स्यादित्यर्थः । अन्वास्य याममात्रं सहस्वेति । ननु विरहिणां याममात्रं स्वापो न भवति । उक्तं च –

"त्रिभागशेषासु निशासु च क्षणं
निमील्य नेत्रे सहसा व्यबुध्यत"
इति । सत्यमिदम् । न तत्स्वापापेक्षया याममात्रपदं प्रयुक्तं किन्तु संभोगापेक्षया । संभोगस्य परमावधिरेकवारो यामावसायिक[२१] इति कामतन्त्रविदो वदन्ति । तथा रतिविलासे –
"परमा तु रतिर्यूनामिष्टा यामावसायिकी"[२२]

इति । सद्यःकण्ठच्युतभुजलताग्रन्धीति पदच्छेदः । गाढोपगूढं गाढालिङ्गनम् ॥३०॥


तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीरैः स्तनितवचनैर्मानिनीं प्रक्रमेथाः॥ ३१ ॥

तामिति । प्रत्याश्वस्तां प्रतियुद्धाम् । सममभिनवैर्जालकैर्मालतीनामिति, यथा जालकानि मेघजलकणिकाशीतलेनानिलेन रात्रौ समुच्छ्वसन्ति तथा प्रत्यागताश्वासां तामुत्थाप्येत्यर्थः । अनेन जातीकुसुमेभ्योऽप्यधिकं तस्याः सौकुमार्यमस्तीति सूचितम् । मालत्यः[२३] खलु वर्षासु पुष्प्यन्ति रात्रौ च विकसन्ति । अस्मिन्नर्थे लिङ्गं श्रीरामायणवचनं –

"निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः ।
विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः" ॥

इति । विद्युद्गर्भः अन्तःस्तम्भितविद्युत्कः । इदं विशेषणं तस्या मेघसन्दर्शनसुखार्थमुक्तम् । स्तिमितनयनां निश्चलनयनाम् त्वत्सनाथे त्वदधिष्ठिते त्वत्सहित इत्यर्थः । भर्तृसकाशादेव [२४]कोऽप्यागच्छेद् इत्युत्कण्ठया सर्वदा वातायनदत्तदृष्टिमित्यभिप्रायः । धीरैर्गम्भीरैः । स्तनितवचनैः गर्जितबचनैः । मानिनीमुन्नतचित्तां मनस्विनीमित्यर्थः । ‘मानश्चित्तसमुन्नतिरि’त्यमरः । अनेन विशेषणेन तस्याः पुरस्ताद् धीरमेव वक्तव्यं कातरवचने तु सा मिथ्येति जानातीत्युक्तम् ॥३१॥

भर्तुर्मित्रं प्रियमविधवे ! विद्धि मामम्बुवाहं
तत्सन्देशान्मनसि निहितादागतं त्वत्समीपम्
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि॥३२॥

भर्तुरिति । अविधवे !, अनेन तव भर्ता जीवतात्युक्तम् । अविधवापदं कविसमये भ्रष्टमिति न मन्तव्यं, तथा श्रीरामायणे प्रयोगात् –

"ये मामाहुः पितुर्गेहे पुत्रिण्यविघवेति च"

इति । तत्सन्देशात् तत्सन्देशवचनकरणात् । अस्यार्थस्य द्योतकं मनसि निहितादिति वाक्यम् । न केवलं मित्रमात्रमहं, किन्तु त्वत्समागमाय तस्य प्रेरकश्च भवामीत्यभिप्रायेणाह- यो वृन्दानि त्वरयतीति । पथि श्राम्यतां पथिकानामित्यर्थः । प्रोषितानां स्वभार्यादिकं विहाय कार्यवशाद् देशान्तरगामिनामित्यर्थः । मन्द्रस्निग्धैः गम्भीरसुखश्रवैः । इदं विशेषणम् उग्रगर्जितश्रवणे प्रोषितानां विनाशो मा भीदित्यभिप्रायेण प्रयुक्तम् ॥३२॥


इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव ।
श्रोष्यत्यस्मात् परमवहिता सौम्य ! सीमन्तिनीनां

कान्तोदन्तः सुहृदुपनतः संगमात् किञ्चिदूनः॥३३॥

इतीति । पवनतनयं हनूमन्तम् । सम्भाव्य चैव सम्भावनां च कृत्वैवेत्यर्थः [२५]। अन्योऽयमिति न तूष्णीमास्ते, भर्तुर्मित्रमिति बुद्ध्वा सा निश्शङ्कमेव त्वां प्रेक्षिष्यते सम्भावयति चेत्यर्थं द्योतयितुमेवकारः प्रयुक्तः । अस्मात् परं भर्तुर्मित्रमित्येतस्माद् वचनात् परम् । अतः परभवधाने किं कारणमित्यपेक्षायामाह – सङ्गमात् ॥ ३३॥

तामायुष्मन् मम च वचनादात्मनश्चोपकर्तु-
र्ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः ॥ ३४ ॥

अव्यापन्नः कुशलमबले ! पृच्छति त्वां वियुक्तः

पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव॥३४॥

तामिति । आयुष्मन्नित्यनेन त्वयि जीवति साहं च जीवा (ब)[२६] इत्युक्तम् । आत्मनश्चोपकर्तुरिति पाठः । उपकर्तुरुपकारिणः । मम वचनाच्चायुष्मन् ! उपकारिणस्तव वचनाच्च तामेवं ब्रूया इत्यर्थः । मेघवचनप्रकारमाह – तव सहचरो रामगिर्याश्रमस्थ इति । आश्रमपदं तत्रापि तपस्विप्राय एव वर्तते इति द्योतयितुं प्रयुक्तम् । अत्रेदमनुसन्धेयं – तव सहचर इत्यादि मन्मुखेनेदमाह इत्यन्तं वाक्यजातं मेघस्य वचनम् । अतः परं श्यामास्वङ्गमित्यादिवचनं यक्षस्य चेति । पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेवेति, स्वयमव्यापन्नः सन् प्रियजनं प्रति कुशलप्रश्नं करोतीति यद् एतदेव सुलभविपदां प्राणिनां प्रथमप्रार्थनीयमित्यर्थः ॥३४॥


अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं
सास्रेणास्त्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती

सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥३५॥

अङ्गेनेति । अङ्गेन शरीरेण । कीदृशेन शरीरेण कीदृशमित्यपेक्षायामाह – तनु च तनुनेति । चकारः प्रतिविशेषणमाख्यातसम्बन्धं कर्तुं प्रयुक्तः । अङ्गस्य तनुत्वे निदानमाह –गाढतप्तेन तप्तमिति । तापस्य किमभिव्यञ्जकमित्यपेक्षायामाह – सास्रेणेति । आस्रद्रुतमिति पाठः । द्रुतास्रमित्यर्थः । आहिताम्न्यादिषु पाठात् साधुत्वम् । आस्रस्य किं निमित्तमित्यपेक्षायामाह – अविरतोत्कण्ठमुत्कण्ठितेन । आत्मधर्मा अप्युत्कण्ठादयः शरीरेऽपि प्रयुज्यन्ते । उक्तं च – त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैरिति । उत्कण्ठायाः किमभिव्यञ्जक- मित्यपेक्षायामाह- उष्णोच्छ्वासमिति । समधिकखरोच्छ्वासिनेति पाठः । खरमुष्णम् ।

"तिग्मं तीव्रं खरं तीक्ष्णं चण्डमुष्णं पटु स्मृतम्"

इति भट्टहलायुधः । उच्छ्वासशब्देन निःश्वासो विवक्षितः । सङ्कल्पैस्तैरिति । सङ्कल्पैर्मानसकर्मीभूतैस्तनुत्वतापादिविशिष्टैः शरीरावस्थान्तरैः । किमर्थमेवं करोतीत्याशङ्क्याह- विधिना वैरिणा रुद्धमार्ग इति ॥३५॥

शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्

कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट-

स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह॥ ३६ ॥

शब्देति । शब्दाख्येयं शब्दा एवाख्येयमभिधेयं यस्य तच्छब्दाख्येयं निरर्थकमित्यर्थः । सखीनां पुरस्तादिति वचनं जनाकीर्णत्वान्निर्व्याजाननस्पर्शदौर्लभ्यादुक्तम् । श्रवणविषयं श्रवणदेशम्, अन्योन्यवार्ताश्रवणदेशमित्यर्थः । उत्कण्ठाविरचितपदम् उत्कण्ठामधिकृत्य विरचितशब्दमित्यर्थः । इदं वक्ष्यमाणं वाक्यजातम् ॥३६॥ अतः परं चतुर्भिः श्लोकैर्विरहिणां कामतन्त्रोक्तानि विरहिणीसदृशावलोकनचित्रकर्मस्वप्नसमागमतदङ्गस्पृष्टस्पर्शनानि चत्वारि विनोदनान्युक्तानीत्यनुसन्धेयम् । यथा गुणपताकायां –

"वियोगे चायोगे प्रियजनसदृक्षानुगमनं[२७]

ततश्चित्रालोकं स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपगतवतां स्पर्शनमिति

प्रतीकारः कामव्यथितमनसां कोऽपि गदितः" ॥
इति । तेषु प्रियासदृशावलोकनमाह –
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं

वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूपताकां

हन्तैकस्थं क्वचिदपि न ते चण्डि ! सादृश्यमस्ति॥

श्यामास्विति । श्यामासु प्रियङ्गुलतासु । उत्पश्यामि उत्प्रेक्षे । प्रतनुषु अतिशयेन तन्वीषु । भ्रूपताकां, पताका ध्वजं भ्रूरेव पताका भ्रूपताका । भ्रुबः पताकात्वेन रूपणं भावादिसूचकत्वात् । हन्त विषादे । एकस्थं एकत्र स्थितम् । चण्डि ! अत्यन्तकोपने! । अनेनैकत्र सादृश्यं लब्धं चेद् भवति तदेवालं भवति किं मया कार्यमिति मह्यं मा कुप्य इति परिहासाभिप्रायेण प्रयुक्तम् । सदृशमेव सादृश्यं, पूर्वोदाहृतानां सदृशवाचित्वात् ॥३७॥

चित्रदर्शनमाह--

त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-

मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
आस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे

क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः॥३८॥

त्वामिति । धातुरागैः धात्वाख्याञ्जनद्रव्यैः । आत्मानं माम् । तस्मिन्नप्यालेख्येऽपि । नौ आवयोः । कृतान्तः दैवम् ॥३८॥

स्व्प्रसमागममाह-

मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-

र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां

मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति॥ ३९ ॥

मामिति । सम्भावनार्थं नञ्द्वयं प्रयुक्तम् । स्थलीदेवतानां, त रुकिसलयेष्विप्ति वक्ष्यमाणत्वाद् वनशब्दाप्रयोगः । तरुकिसलयेषु, इदं पतितानामश्रुलेशानां प्रकाशनाय प्रयुक्तम् । स्वप्नसन्दर्शने कथमपि लप्स्यमानायास्तव निर्दया श्लेषहेतोः स्वापात् प्रागेवाकाशप्रणिहितमुजं मां दृष्ट्वा करुणरसाविद्धहृदया वनस्थलीदेवता बाष्पं मुञ्चन्तीत्यर्थः । अन्ये तु पश्यन्तीनां तुहिनकणिकाच्छद्मना देवतानामिति पाठमादृत्य व्याचक्षते । इदं रसावहं न भवति । कामार्तस्य तत्त्वं विहाय व्याजबाष्पमोचनवर्णनस्यायुक्तत्वात् [२८] ॥३९॥

तदङ्ग्स्पृष्टस्पर्शनमाह--


भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः
आलिङ्ग्यन्ते गुणवति  ! मया ते तुषाराद्रिवाताः

पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति॥४०॥

भित्त्वेति । देबदारुद्रुमाणाम् । दारुशब्दे सति किमर्थं द्रुमशब्दः प्रयुक्त इति नाशङ्कनीयं, संज्ञापातित्वाद् दारुशब्दस्य । उक्तं च – ‘स देवदारुद्र्मवेदिकायाम्’ इति । दक्षिणेन, मार्गेणेति शेषः। ‘प्रकृत्यादिभ्य उपसंख्यानम्’ (वा० २.३.१८) इति तृतीया । अस्य विशेष्याप्रयोगः समेन धावति विषमेण धावतीतिवत् । प्रयुक्तं च ‘भूय एवोत्तरेण’ इति । गुणवति !, गुणः शरीरस्य हृद्यः स्पर्शगुणो विवक्षितः । गुणवति !, आलिङ्गनादिषु सुखस्पर्शवतीत्यर्थः । एतदेव विवृणोति- पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति । किलशब्दः सम्भावनायाम् । एभिः तुषाराद्रिवातैः । इतिशब्दो हेतौ । अस्यार्थस्य मूलं –

"वाहि वात ! यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश"

इति श्रीरामायणवचनम् ॥४०॥


संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा

सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात्
इत्थं चेतश चटुलनयने दुर्लभप्रार्थनं मे
गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः॥ ४१॥

सङक्षिप्येतेति । प्रार्थनायां लिङ् । सर्वावस्थासु ग्रीष्ममध्यन्दिनावस्थासु । मन्दमन्दातपं ‘प्रकारे गुणवचनस्य’ (८.१.१२) इति द्विर्वचनम् । अहरपि मन्दातपमेव स्यादित्यर्थः । दुर्लभप्रार्थनं दुर्लभत्रियामासंक्षेपादिप्रार्थनम् । गाढोष्णाभिः, अनेन दिवसस्य मन्दातपस्य विघातो विवक्षितः । अशरणम् अरक्षकं त्वद्वियोगव्यथाभिः । अनेन त्रियामासंक्षेपप्रतिबन्धो विवक्षितः ॥४१॥

इदानीं स्वशोकावस्थाकर्णनेन सा दुःखिता भविष्यतीत्याशङ्क्य तामाश्वासयति –
न त्वात्मानं बहु विगणयन्नात्मना नावलम्बे

तत् कल्याणि ! त्वमपि नितरां मा गमः कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा

नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥ ४२ ॥

नेति । तुशब्दोऽवधारणे । बहु विगणयन् बहु भद्रकं भविष्यतीति । आत्मना स्वयमेव । अबलम्बे धारयामि । बहु विगणयन्नात्मानं स्वदेहं स्वयमेव धारयामीत्यर्थः । अस्य मूलं –

“दुष्करं कुरुते रामो हीनो यदनया प्रभुः ।
धारयत्यात्मनो देहं न शोकेनावसीदति”॥

इति श्रीरामायणवचनम् । तत् तस्मात् । कल्याणि ! कल्याणार्थिनि ! त्वमपि कल्याणाशंसिनी भूत्वा कातरत्वं मा गच्छेरित्यर्थः । मद्विशिष्टस्यापि सर्वस्य जनस्य सुखदुःखे पर्यायेण भवत इत्याह – कस्येति । अत्यन्तम् अतिक्रान्तावसानं, नित्यमिति यावत् । एकान्तत एकान्तम् । प्रथमार्थे तसिल् ॥४२॥

कदा कल्याणमावयोर्भविष्यतीत्यपेक्षायामाह-
शापान्तो मे भुजगशयनाद उत्थिते शार्ङ्गपाणौ

शेषान मासान गमय चतुरो लोचने मीलयित्वा
पश्चाद आवां विरहगुणितं तं तम आत्माभिलाषं

निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥ ४३ ॥

शापान्त इति । भुजगशयनादुत्यिते शार्ङ्गषाणाविति, अनेन यस्मिन् शरत्काले परमपुरुषः प्रबुध्यते तस्मिन् काले मम शापान्त इत्युक्तम् । तथा कौर्मे पुराणे –

"क्षीराब्धौ शेषपर्यङ्क आषाढयां संविशेध्दरिः ।
निद्रां त्यजति कार्तिक्यां तयोः संपूजयेध्दरिम्" ॥

इति । मासानन्यान् गमय चतुर इति, आषाढमासादिकानाश्वयुजमा सान्तानित्यर्थः । ननु आषाढस्य प्रथमदिवस इत्युक्तम् । आषाढश्रावणौ प्रावृद् । ततः परं शरदिति प्रसिध्दम् । तस्मात् कथमाषाढात् प्रभृति मासचतुष्टयात् परः शरत्काल इत्युक्तम् । उच्यते । ऋतूनां कल्पना द्विधा । केचित् षडृतव इति वदन्ति । अपरे त्रय इति । अत्र तावद् ऋतुत्रयपक्षाश्रयेणोक्तम् । तथा श्रीरामायणे –

"चत्वारो वार्षिकाः प्रोक्ता गता वर्षशतोपमाः"

इति । लोचने मीलयित्वेति वचनं ;लोकोक्तिच्छाययोक्तम् । विरहगणितमिति पाठः । विरहकाले पश्चादेवमनुभविष्याव इति गणितं सङ्कल्पितम् । आत्माभिलाधं गण्यित्वा हृदये निहितमित्यर्थः । निर्वेक्ष्यावोऽनुभविष्यावः ॥४३॥

सर्वमिदं वञ्चकवचनमिव प्रतिभाति । मया ज्ञातपूर्व किमपिलक्षणं वदेत्याशङ्कयाह –
भूयश्चाह त्वम अपि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किम अपि रुदती सस्वरं विप्रबुद्धा

सान्तर्हासं कथितमसकृत् पृच्छ्तश्च त्वया मे

दृष्टः स्वप्ने कितव ! रमयन् कामपि त्वं मयेति॥

भूय इति । भूयश्चाह इति पाठः । भूयश्चाह पुनरपि मन्मुखेनाहेत्यर्थः । मन्मुखेनेदमाह इत्युक्तत्वात् ! त्वमसीति पाठः । सस्वरं सशब्दम् । कितव ! धूर्त ! अयमर्थः – निद्रासमये रुदित्वा सशब्दं प्रबुद्धासि । किमिति बहुशः पृच्छतो मे कितव ! स्वप्ने त्वं कामपि रमयन् मया दृष्ट इति सान्तर्हासं पुरा त्वया कथितमिति ते प्रियतमो भूयश्च मन्मुखेनेदमभिज्ञानमाहेति ॥४४॥

एतस्मान्मां कुशलिनमभिज्ञानदानाद् विदित्वा

मा कौलीनादसितनयने ! मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि विरहे ह्रासिनास्ते ह्यभोगा-

दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति॥४५॥

एतस्मादिति । अभिज्ञानदानाद् अभिज्ञानस्य वाचा प्रदानात् । कौलीनाल्लोकवादाद्, एतावता कालेन तव भर्ता परासुः स्यान्नोचेदागमिष्यतीति जनवादादित्यर्थः । असितनयने !, इदमप्यभिज्ञानम् । कौलीनान्मय्यविश्वासिनी मा भूः इत्यर्थः । एतावन्तं कालं विरहितयोरावयोः स्नेहा विगलन्तीत्याह – स्नेहानाहुः किमपि विरहे ह्रासिन इति । स्नेहान् विरहे हासिन इत्याहुः । तत् किमपि किञ्चिदतितुच्छमित्यर्थः । प्रत्युत स्नेहा विरहे वर्धन्ते इति स्वमतेनाह – ते ह्मभोगादिति । अभोगाद् भोगालाभात् । वस्तुनि प्रयोजनादिविषये । उपचितरसा उपचितश्रृङ्गारादिरसाः । ते स्नेहाः इष्टे वस्तुनि भोगालाभादेव उपचितरसाः प्रेमराशीभवन्तीत्यर्थः । ननु ‘प्रेमा ना प्रियता हार्दम्’ इत्यमरसिंहवचनात् प्रेमस्नेहयोरैक्यं प्रतीयते । कथं तयोर्भेदवचनमिति । उच्यते । स्नेहादन्यत् प्रेम । यथाहुरलङ्कारविदः –

"अवलोकनाभिलाषौ रागस्नेहौ ततः प्रेम ।
रतिश्रृङ्गारौ योगे वियोगगतो विप्रलम्भश्च" ॥

इति ॥४५॥

[आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते

शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः ।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः॥]
इदानीं मेघं स्तौति-
कच्चित् सौम्य ! व्यवसितमिदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव॥४६॥

कच्चिदिति । इदं बन्धुकृत्यं त्वया व्यवसितं कच्चिदित्यन्वयः । अहं करिष्यामीति प्रत्युत्तरं न ब्रूषे । तथाप्यन्येषामिव प्रत्युत्तरप्रदानात् तव धैर्यं न कल्पयामीत्याह – प्रत्यादेशादिति । आदेशो वचनं, प्रत्यादेशः प्रतिवचनम् इत्युत्तरं विनापि भवतो धीरतां कल्पयामीत्यभिप्रायः । यद्यपि प्रत्यादेशशब्दः प्रत्याख्यानवचनः, तथाप्यत्र प्रतिवचनवाचको भवति प्रत्युक्तमिति वक्ष्यमाणत्वात् । उक्तमर्थमुपपादयति – निश्शब्दोऽपीति । अनेन निरुत्तरत्वं विवक्षितम् । प्रत्युक्तं प्रतिवचनम् । प्रणयिषु प्रार्थयमानेषु । सतामुत्तमानाम् । ईप्सितार्थक्रिया ईप्सितार्थसम्पादनम् । प्रणयिषु ईप्सितार्थादनतिर्वृत्तिरेव प्रतिवचनं भवतीत्यर्थः ॥४६॥

<poem>

एतत् कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे

सौहार्दाद् वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।

इष्टान् देशान् विचर जलद ! प्रावृषा संभृतश्री-

र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः॥ ४७ ॥

एतदिति । अनुचितप्रार्थनावर्त्मनः भवतः प्राधान्यमनादृत्य मत्प्रियायै सन्देशं हरेत्येवमनुचितप्रार्थनाप्रकरस्य । सौहार्दाद् वा एतावन्तं कालमाभाषणादिजनितात् सुहृद्भावादित्यर्थः । उक्तं च – ‘सम्बन्धमाभाषणपूर्वमाहुः’ इति । विधुर इति वा । विधुरः प्रियाविश्लिष्टः । मयि विधुर इत्यनुग्रहबुद्ध्या वेत्यर्थः । विचर, विपूर्वश्चरतिः सकर्मको भवति । ‘अधिज्यधन्वा विचचार दावम्’ इत्युक्तत्वात् । प्रावृषा संभृतश्रीः वर्षाकालेन संभृतशोभः । अयमत्र समाधिः –कश्चित् पथिको देशान्तराणि गच्छन् कयापि दास्या संभृतार्थो भवतीति । एवं मम वियोगप्रकारेण । तव विद्युता विप्रयोगो मा भूदिति देशान्तरगमनात् पथिकायमानस्य भवतः क्षणमपि मम कान्तयेव विद्युता विप्रयोगो मा भूदित्यभिप्रायः ॥४७॥

इति श्रीदक्षिणावर्तनाथविरचितो

मेघसन्देशप्रदीपः समाप्तः ।

 ----
शुभं भूयात् ॥
  1. १. 'षाः का' क. पाठः.
  2. 'न्त्रिते इ'
  3. २. 'प्तैः' क. पाठः.
  4. १. 'रः । कु' क. पाठः
  5. *अव्याख्यातत्वन्मेघसम्बद्धार्थाप्रतिपादकत्वाच्च श्लोकोऽयं नूनं प्रक्षिप्तः, मल्लिनाथेन तु व्याख्यातः ।
  6. १.'अभिमुखमपि प्रा' क. प्राठः
  7. २.'प्येत्य',
  8. ३.'सा ख. पाठः',
  9. १. 'न्ति । स्फुटजललवस्यन्दिनः च' क. पाठः
  10. * इमावपि श्लोकौ मन्दाकिन्या इतिश्लोकवत् ।
  11. * प्रक्षिप्तत्वधियायं श्लोको न व्याख्यातोऽन्यव्याख्यातोऽपि ।
  12. दोहदमात्मनः किं न मृगचसे मृगयसे कुरवकस्य |
    एवं तव सुभगा हसति वलिताननपङ्कजं जाया ॥
  13. १. 'ति वामे शि' क. पाठः.
  14. १. 'कुक्षौ च'
  15. २. 'तिविषये सृ'
  16. ३. 'यास्ति चेत् तां' क. पाठः
  17. *'नेच्छति पाशाशङ्की काको दत्तमपि पथिकवध्वा ।
    अवनतकरतलोज्झितवलयमध्यस्थितं पिण्डम् ॥
  18. १. 'ति निघण्टुः ॥' ख. पाठः.
  19. १. 'मिति'
  20. २. 'ह उ' क पाठः
  21. १. 'नि' ख. पाठः.
  22. १. 'नि' ख. पाठः
  23. २. 'त्यः व'
  24. ३. 'व न को' क. पाठः
  25. १. 'त्वेत्य' व पाठः
  26. १. 'वित इ' क. पाठः.
  27. १. 'भवनं' ख. पाठः.
  28. १. 'प्पस्य यु' क. पाठः.