मुद्राराक्षसम्/उपोद्घातः

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

उपोद्धातः


सिन्दूरारुणगण्डमण्डलमदामोद्भ्रमद्भृङ्गिका
झ्ंकारेण कलेन कर्णभुरजध्वानेन मन्द्रेण्म च ।
तत्तौर्यत्रिकरीतिमेति शिरसः शश्वन्मन्दान्दोलनं
यस्य श्रीगणनायकः स दिशतु श्रेयांसि भूयांसि वः ॥ १ ॥

षद्भिरङ्गैरुपेताय पुमर्थामरभूरुहे ।
शंकराय नमस्कुर्मो निगमाय नयाय च ॥ २ ॥





श्रीमद्भोसलवंशभूपतिकुलामात्येषु विख्यातिमा-
न्भारद्वाजकुलार्णवेन्दुरुदभूद्वावाजिरग्न्याहितः ।
पुत्रस्तस्य किलैकभूपतिमणेर्न्त्री सदैवादृत
स्तेनासीद्रुरुवत्प्रगल्भधिषणो गङ्गधराख्योऽध्वरी ॥ ३ ॥

तस्य द्वौ तनयावुदारचरितौ कृष्णाम्बिकागर्भजा-
वेकक्ष्मापतिलालितौ गुरुपदे चारोप्य संमानितौ ।
तपुत्रेण च शाहजिक्षितिभृता ज्येष्ठानुवृत्यादृतौ
तत्तादृग्विविधाग्रहारकरणाद्विद्वत्प्रतिष्ठापकौ ॥ ४ ॥

ज्येष्ठस्तत्र सदावदातचरितः श्रीमानृसिंहाध्वरी
गायत्रीसमुपासनादिभिरपि श्रौतैर्श्च सत्कर्मभिः।
आत्मन परिपूय तं सुचरितै: पुत्रैः प्रतिष्ठाप्य च
त्रेधा ब्रह्महिताय सत्कृतिचितान्स ब्रह्मलोकानगात् ॥ ५ ॥

तस्यात्मत्रितयेऽग्रजस्तु धृतिमानानन्दुरायाध्वरी
कौमारात्प्रभृति प्रगल्भधिषणः श्रीशाहराजाद्दतः ।
इष्टापूर्तसदन्नदानसुहितत्रैविद्यवृद्धे: सह
श्रुत्युक्तार्थपरिष्क्रियापटुमतिः सत्कर्मनिष्णातधीः ॥ । ६ ॥

श्रीसाम्वं त्रिपुरेश्वरीमपि कुलाराध्यं नृसिंहं यज
न्मिष्टान्नैर्जपहोमपूजनमहैर्वासन्तिकैः शारदैः।

४०
मुद्राराक्षसे


सोऽयं भक्त्युपपादितैः स्मृतिगतैः श्रौतैश्च सत्कर्मभिः ।
श्लाघ्यः श्रीप्रभुरिष्टदैवतदयादृष्ट्या चिरं जीवतात् ॥ ७ ॥
(युग्मम् ।)

ज्येष्ठे तत्र नृसिंहयज्वनि दिवं यातेऽनुजस्तसुता-
न्पश्यन्पुत्रवदग्रजापचितिमप्यानन्दराये दंधत् ।
वैतानानि च कारयन्सुचरितान्येतैः स्वपुत्रेण च • • •
श्रीमानत्र महाग्निचिद्विजयते श्रीत्र्यम्बकार्योध्वरी ॥ ८ ॥

यो गङ्गामवगाहकः पथि महायास दुवीयस्यय-
न्वृद्धां मातरमिष्टदैवततया शुश्रूषसाणोऽनिशम् ।
धन्यः श्रेयसि गाङ्गपाथसि मुहुर्भक्त्या निमज्ज्य स्वयं
हन्त स्वानुदमज्जयत्पितृगणान्सर्वान्भवाम्भोनिधेः ॥ ९ ॥
वोढुं शाहमहीभृता निजधुरां सँछन्द्यमानोऽपि त-.
च्छ्रौतोपास्तिविरोधि नाचकमत प्रज्ञावतामग्रणीः ।
मन्त्रे धर्मनयेऽथ तेन गुरुवन्नित्यादृतस्तत्कृपा-
लव्धैर्भूरिधनैरयष्ट विबुधान्यज्ञैर्महादक्षिणैः ॥ १० ॥

तन्त्रे कुत्रचन प्रवृत्त्य बहुधा राजानुरोधादयं
तत्सिद्ध्यै वसुनो व्ययेन बहुना जातोऽधमर्णो भृशम् ।
राजा प्राज्यमृणं तदस्य स निराकर्तुं विलम्बं व्यधा-
न्निर्वेदादयमाधमर्ण्र्यविहतस्तीर्थाटनायाव्रजत् ॥ ११ ॥

तत्रोञ्चैरुपचार्य नीवृदधिपैरेनं स्वयं चादरा-
त्प्रत्युद्गम्य समादधाद्गुणविदामग्रेसरः शाहराट् ।
स त्यागेशसरूपतामथ गतस्तत्पादपद्मार्चना-
यत्तस्वान्ततया ययातिनलमांधात्रादिभिर्दुर्लभाम् ॥ १२ ॥

भ्राता तस्य महोन्नतिः शरभजीराजः प्रशास्ति क्षितिं
विश्वानन्दविधायिभिर्गुणगणैरावर्जयन्विष्टपम् ॥
वृत्तीर्व्रह्महिताय शाहजिमहाराजार्पिता: पालय-
न्नाधिक्येन सदाद्दतद्विजवराशीर्वर्द्धितप्राभवः ॥ १३ ॥

नित्यं वर्षति वासवो जनपदामोदाय वृष्टिं शुभां
कावेरीसलिलैश्च चोलधरणिः स्वच्छन्दमाप्यायते ।

उपोद्धातः।right=४१

यस्मिन्राज्यमिदं प्रशासति निराबाधं जगन्मोदते ,
स श्रीमाञ्छरभः क्षितीन्दुरवनीं शासज्चिरं जीवतु ॥ १४ ॥

एतं ज्येष्ठपुरस्क्रियोपचरितं मन्त्रिप्रवीरं दया-
नावा प्रार्णमहार्णवादुद्धरद्दाक्षिण्यशाली नृपः।
वृत्तिं चातनुतास्य सह्यगिरिजाकूलेऽनुकूले श्रुति-
स्मृत्युक्ताखिलकर्मणां श्रितपरित्राणप्रवीणस्य सः ॥ १५ ॥

यः कौमारिलतन्त्रतः समतनोत्कर्मस्थितिं पावनीं
ब्रह्मोपादिशदाशु शोकधुतये यो नारदाय स्फुटम् ।
तं स्कन्दं परिचर्य साधु परया भक्त्या तदाप्तुं मह-
त्कर्मब्रह्मफलं सुधीः कलयते यः स्वामिशैले स्थितिम् ॥ १६ ॥

विष्णुरुर्विशाखाभिधमुडुयुगलं मध्यरत्नं यदीयं ।
सैषा चन्द्रार्कनिष्का लघुमणिभिरिवालंकृता चोपहोमैः ।
स्यूताहोरात्रसूत्रे विधिवदुपचिताधानतः सप्तविंशे
वर्षे नक्षत्रसत्रस्रगखिलमखभुक्प्रीतये येन पुण्या ॥ १७ ॥

सोऽयं स्वामिगिरौ गिरीशकृपया प्राप्य स्थितिं सुस्धिरां
विद्वद्वैदिकबान्धवैः सह सदा संभुक्तसंपद्भरः ।
श्रौतैः सञ्चरितैरुपास्तिसुभगैराराधयन्नीश्वरं ।
श्लाघ्यः श्रोत्रियपुत्रपौत्रसहितो जीयात्सहस्रं समाः ॥ १८ ॥

परिष्कुर्वन्नेतत्पुरमभिजनश्रोत्रियबुधा-
श्रितागारैरुद्दामभिरुपवनाभोगसुभगैः ।
सुमेधोभिर्वेदत्रयविविधशास्त्राभ्यसनतः
समुद्रुष्टं छात्रैरशनवसनाभ्यङ्गसुहितैः ॥ १९ ॥

कुमारेशं भक्त्या चिरमुपचरन्भूषणगणै-
रुदारैस्तैस्तैरप्युपचिततरैरुत्सवभरैः ।।
प्रसादास्योञ्चैः श्रियमनुभवन्भव्यविभव-
श्चिरं जीवन्नव्याद्भुवनमखिलं त्र्यम्बकसखः ॥ २० ॥
तदीयायाः पात्रं निरुपधिदयायाः श्रितगणै-
र्गणेयस्तेनैवार्पितवसुकृतैः कैश्च सुकृतैः ॥

४२
मुद्राराक्षसे

समाराध्य श्रीशं विधूतपितृदेवाघृणतया
कृतार्थस्तस्याज्ञादरवशतया जातकुतुकः ॥ २१ ॥

बुधो डुण्ढिनाम्ना जगति विदितो लक्ष्मणसुधी
मणेः श्रीमव्द्यासान्वयजलधिचन्द्रस्य तनयः ।
दधन्मुद्राकं राक्षखमिति नवं नाम शुभसं
विधानं व्याचष्टेऽद्भुतरसनयं नाटकवरम् ॥ २२ ॥




श्रीमद्विशाखदत्तीये मुद्राराक्षसनाटके ।
कथोपोद्धातमाचक्षे संविधानावबुद्धये ॥ २३ ॥

नन्दन्ते क्षत्रियकुलमितिं पौराणशासनात् ।
कल्यादौ नन्दनामानः केचिदासन्महीभुजः ।। २४ ॥

सर्वार्थसिद्धिनामासीत्तेषु विख्यातपौरुषः ।
स चिरादाशिषत्पृथ्वीं नवकोटिशतेश्वरः ॥ २५ ॥

वक्रनासादयस्तस्य कुळमात्या द्विजातयः ।
बभूवुस्तेषु विख्यातो राक्षसो नाम भूसुरः ॥ २६ ॥

दण्डनीतिप्रवीणः स षाङ्गुण्यप्रविभागवित् ।
शुचिः शूरतमो नन्दैर्मान्यो राज्यधुरामधात् ॥ २७ ॥

राज्ञः पत्नी सुनन्दासीज्ज्येष्ठान्या वृषलात्मजा ।
मुराख्या सा प्रिया भर्तुः शीललावण्यसंपदा ॥ २८ ॥

स कूदाचित्त्तपोनिष्ठमतिथिं गृहमागतम् ।
अर्घ्यपाद्यादिभिर्भक्त्या सभार्यः समपूपुजत् ॥ २९ ॥

तस्य पादोदकं पत्न्योरुपर्युक्षांबभूव सः ।
ज्येष्ठाया न्यपतन्मूर्घ्नि नवपादोदबिन्दवः ॥ ३० ॥

एको मुरायास्तं भक्त्या मूर्ध्ना प्रह्वेण साग्रहीत् ।
तदादरं वीक्ष्य तस्यां प्रससादाधिकं द्विजः ॥ ३१ ॥

मुरा प्रासूत तनयं मौर्याख्यं गुणवत्तरम् ।
सुनन्दा बहुगर्भाढ्यां मांसपेशीमसूत सा ॥ ३२ ॥

नवास्यां गर्भशकलान्यासंस्तानि तु राक्षसः ।
तैलद्रोणीषु निक्षिप्य यत्नेन समपूपुषत् ॥ ३३ ॥

४३
उपोद्धातः


बभूवुर्नव ते वीरा राक्षसेनाभिर्द्धिताः ।
नन्दा इत्येव ते पित्रा व्यपदिष्टा महौजसः ॥ ३४ ॥

तेषु राज्यं समासज्य तत्सेनान्यं महामतिम् ।
विधाय मौर्य खजासौ वृद्धः शमरतोऽभवत् ॥ ३५ ॥

चन्द्रगुप्तोत्तमास्तस्य मौर्यस्यासञ्शतं सुताः ।
अत्यशेतेव तान्नन्दान्मौर्यः पुत्रैर्महाबलैः ॥ ३६॥

ततो नन्दा दुरात्मानः सपुत्रं तमसूयया ।
प्रवेश्यान्तर्भूमिगृहं मन्त्रव्याजादजीघनन् । ३७ ॥

मधूच्छिष्टमयं जातु जीवन्तमिव पञ्जरे ।
सिंहमाधाय नन्देभ्यः प्राहिणोर्त्सहलाधिपः ॥ ३८ ॥

यो द्रावयेदिमं क्रूरं द्रागनुद्धाट्य पञ्जरम् ।
स वोऽस्ति कश्चित्सुमतिरित्येवं संदिदेश च ॥ ३९ ॥

वाक्छलं तदजानद्भिर्मन्दैर्नन्दैर्विलोभितः ।
कथंचिदवशिष्टासुः समुत्तार्य समाहितः ॥ ४० ॥

चन्द्रगुप्तस्तु मेधावी प्रतप्तायःशलाकया ।
व्यलापयत्पञ्जरस्थं व्यस्मयन्त ततोऽखिलाः ॥ ४१ ॥

जिघांसितोऽपि भूच्छिद्रान्नन्दैरेतेन हेतुना ॥
निष्काशितो जिजीवासौ भाविन्या दैवसंपदा ॥ ४२ ॥

आजानुबाहुरियादिराजलक्षणलक्षितः ॥
औदार्यशौर्यगाम्भीर्यनिधिवनयवारिधिः ॥ ४३ ॥

ईदृशोऽपि स तैर्दुष्टैर्नेर्ष्यालुभिरसह्यत ।
पुनश्छद्मवधे तस्य प्रायतन्त दुराशयाः ॥ ४४ ॥

अन्नसत्राधिकारे तैर्नियुक्तः कालपर्ययम् ।
प्रतीक्षमाणस्तत्रास्थात्स नन्दापचिकीर्षया ॥ ४५ ॥

स कदाचिद्विजं कंचिदद्राक्षीदतिकोपनम् ।
पादलग्नकुशोन्मूलदाहे कृतमहोद्यमम् ॥ ४६॥

मत्वातिक्रोधनं मौर्यस्तं नन्दोन्मूलनक्षमम् ।
उपेत्य शरणं स्वेष्टसिद्धये समुपाचरत् ॥ १७ ॥

४४
मुद्राराक्षसे

विष्णुगुप्ताभिधानः स बाल एव द्विजोत्तमः ।
औशनस्या दण्डनीत्यां ज्योतिःशास्त्रे च पारगः ॥ ४८ ॥

नीतिशास्त्रप्रणेता यश्चणकस्तस्य नन्दनः ।
चाणक्य इति विख्यातः श्रोत्रियः सर्वधर्मवित् ॥ ४९ ॥

गुणाढ्ये चन्द्रगुप्तेऽस्य पक्षपातो महानभूत् ।।
स च नन्दकृतं तस्मै व्यसनं स्वं न्यवेदयत् ॥ ५० ॥

नन्दराज्यं तदा तस्मै प्रतिश्रुत्य बुभुक्षितः ।
भुक्तिशाल से नन्दानां प्रविश्याग्रसने स्थितः ॥ ५१ ॥

नन्दाः कुद्धा महात्मानं कालोपहतचेतसः ।
बटुरित्यवमत्यैनमासनादुदतिष्ठिपन् ॥ ५२ ॥

धिग्धिग्मा मैवमित्येवं वादिष्वखिलमन्त्रिषु ।,
अग्रासनात्ते चाणक्यं क्रोधाकुलमचीकृषन् ॥ ५३ ॥

मध्येशालं स रोषान्धः शिखामुन्मुच्य पाणिना ।
प्रतिज्ञामकरोत्तीव्रां नन्दुवंशदिधक्षया ॥ ५४ ॥

दर्पान्धान्दुर्मतीनेतानेवं मामवजानतः ।।
नन्दाधमाननुत्खाय ने बन्नामि शिखामिमाम् ॥ ५५ ॥

इत्युक्त्वा निर्ययौ तूर्णं पुरात्क्षुभितमानसः ।
गतश्रियश्च ते क्रुद्धं न समादधतोद्धताः ॥ ५६ ॥

चन्द्रगुप्तोऽपि स तदा स्वनिग्रहभयाकुलः ।
निर्यायोपांशु नगराञ्चाणक्यं समुपाश्रयत् ॥ ५७ ॥




मौर्येन्दुमुपसंगृह्य कौटिल्यः कुदिलं नयम् ।
अनुसंधदातिष्ठद्यत्नं नन्दुकुलोद्धृतौ ।। ५८ ॥

स्वमित्रमिन्दुशर्माणं कृत्वा क्षपणकाकृतिम् ।
तेनाभिचारिकविदा राक्षसादीनवञ्चयत् ॥६९ ॥

नन्दराज्यार्द्धपणनात्समुत्थाप्य महाबलम् ।.
पर्वतेन्द्र म्लेच्छबलैर्न्यरुणकुसुमं पुरम् ॥ ६० ॥

नन्दाः सर्वे सुसंरब्धा निरुद्धाः प्रबलारिभिः ।।
दृप्ता राक्षसवीर्येण युद्धायैव मनो दधुः ॥ ६१ ॥

४५
उपोद्धातः

घटमानोऽपि बहुधा दुर्जयं वीक्ष्य तद्वलम् ।
राक्षसश्छद्मना हन्तुं मौर्यं तेनाथ संदधे ॥ ६२ ॥

सर्वे नन्दाः पर्वतेन्द्रबलानिलसमेधिते ।
चाणक्यक्रोधदहने घोरे शलभतामयुः ॥ ६३ ॥

ततः स राक्षसः क्लिष्टः प्रक्षीणवलपौरुषः ।
निरुद्धवीवधासारप्रसारं क्षीणसंचयम् ॥ ६४ ॥

असुरक्षं पुरं पश्यन्नसुरक्षणतत्परः ।
नन्दवृद्धस्य सर्वार्थसिद्धेरेनं सुरङ्गया ॥ ६५ ॥

पुरान्निःसार्य निभृतं पौरैर्नन्दानुरागिभिः ।
पुरं मौर्यवशीकृत्य तत्सख्यमिव नाटयन् ॥ ६६ ॥

अभिचारकृतां मौर्यायादिशद्विषकन्यकाम् ।
तच्छद्मवित्पर्वतेशं कौटिल्योऽघातयत्तया ॥ ६७ ॥

स्वच्छद्म बोधयित्वा तत्सुतं मलयकेतुकम् ।
उपांशु भीषयित्वासैः पलाय्यत कूटधीः ॥ ६८ ॥

अराजकं वशीकृत्य कौटिल्यः कुसुमं पुरम् ॥
नन्दानुरक्तपौराढ्यं सहसा न विवेश तत् ॥ ६९ ॥

पुरं प्रविष्टसप्याशु जिघांसू राक्षसो रिपुम् ।
सुहृद्भिर्दारुवर्माद्यैः कूटयन्त्राद्ययूयुजत् ॥ ७० ॥

कौटिल्यः कुटिलप्रज्ञस्तत्सर्वमरिकल्पितम् ।।
विषकन्याकूटयन्त्रगरदादि व्यबुध्यत ॥ ७१ ॥

क्रूरेण राक्षसेनैव ह्यस्मत्पक्षजिघांसया ।
विषकन्या पर्वतेशे योजितेति समादधत् ॥ ७२ ॥

वैरोचकं पर्वतेशभ्रातरं चकिताशयम् ।
अस्थापयज्जिगमिषुं शपथैश्छलगभितैः ॥ ७३ ॥

स्वापवादं निह्नुवानः पर्वतेशवधोत्थितम् ।
प्राग्दित्सितार्धराज्येन शठः प्रलोभयच्च तम् ॥ ७४ ॥

सर्वार्थसिद्धिरगमत्तपस्तप्तुं क्वचिद्वने ।
तत्रापि चारदृक्क्रूरः कौटिल्यस्तमजीघनत् ॥ ७५ ॥

४६
मुद्राराक्षसे ।


सर्वार्थसिद्धिं निहतं श्रुत्वा शोचन्स राक्षसः ।
गत्वा मलयकेतुं तं प्रोत्साहयितुमूचिवान् ॥ ७६ ॥

अरूढमूलं मौर्यं द्रागुन्मूल्य सहसा बलात् ।
आनृण्यं गन्र्तुमिच्छामि स्वामिनां नाकवासिनाम् ॥ ७७ ॥

सर्वेऽस्मास्वनुरज्यन्ते पौरा गूढाभिसंधयः ।
तस्योपांशु वधायाप्ताः पुरे जाग्रति मामकाः ॥ ७८ ॥

सर्वोपायैर्विक्रमैश्च घटेमहि हिताय ते ।
जहि मौर्य सकौटिल्यं नन्दराज्यं तवास्तु तत् ॥ ७९ ॥

विषकन्यां योजयित्वा चाणक्येनैव पापिना ।
पिता ते मौर्यराज्यार्धहारी विनिहतश्छलात् ॥ ८० ॥

सर्वथैव निहत्यैनमुपायेन बलेन वा ।
त्वय्यासज्याखिलं राज्यमानृण्यं स्वामिनामयै ॥ ८१ ॥

इति प्रोत्साह्य बहुधा धीमान्साहसिकाग्रणीः ।
मौर्यं जेतुं म्लेच्छबलैः समनह्यत राक्षसः ॥ ८२ ॥

उपोद्धातोऽत्र वृत्त्तायाः कथाया एवमीरितः ।
अतः परं कविर्वस्तु नाटकीयं प्रयोक्ष्यते ॥ ८३ ॥

क्रूरग्रहः स इत्यस्मिन्पचे प्रस्तावनामुखे ।
उक्तमर्थं श्लेषदिशा कविरन्ववदन्मनाक् ॥ ८४ ।।

इत्युपोद्घातप्रकरणम् ।