महाभारतम्-04-विराटपर्व-072

विकिस्रोतः तः
Jump to navigation Jump to search
← विराटपर्व-071 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-072
वेदव्यासः
विराटपर्व-073 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

उत्तरेण राजाभ्यनुज्ञयाऽन्तःपुरमेत्य तदभिवादनम् ।। 1 ।। युधिष्ठिरघ्रणावलोकनभीतोत्तरचोदनया विराटेन युधिष्ठिरक्षमापनम् ।। 2 ।। ततोऽर्जुनस्यान्तःप्रवेशः ।। 3 ।। उत्तरस्यैव जेतृत्वभ्रमहृष्टेन विराटेन तत्प्रशंसनम् ।। 4 ।। तेन तंतपि कस्यचिद्देवपुत्रस्यैव जेतृत्वकथनम् ।। 5 ।। ततोऽर्जुनेनोत्तराप्रभृतिभ्यः कुरुवस्त्रप्रदानम् ।। 6 ।।












वैशंपायन उवाच।

4-72-1x

सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैरपि।
आसाद्यान्तःपुरद्वारं पित्रे संप्रत्यवेदयत् ।।

4-72-1a
4-72-1b

ततो द्वाःस्थः समासाद्य प्रणिपत्य कृताञ्जलिः ।
वर्धयित्वा जयाशीर्भिरिदं वचनमब्रवीत्।।

4-72-2a
4-72-2b

राजन्पृथुयशस्तुभ्यं जित्वा शत्रून्समागतः।
उत्तरः सह सूतेन द्वारि तिष्ठति वारितः ।।

4-72-3a
4-72-3b

कुमारो योधमुख्यैस्च गणिकाभिस्च संवृतः ।
पौरजानपदैर्युक्तः पूज्यमानो जयाशिषाः ।।

4-72-4a
4-72-4b

ततो हृष्टो महीपालः क्षत्तारमिदमब्रवीत् ।
प्रवेशयोभौ तौ तूर्णं दर्शनेप्सुरहं तयोः ।।

4-72-5a
4-72-5b

क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत्।
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नलाः।।

4-72-6a
4-72-6b

तस्य हि महाबाहोर्व्रतं नित्यं महात्मनः।
यो ममाङ्गे व्रणं कुर्याच्छोणितं वा प्रदर्शयेत्।
अन्यत्र संग्रामगतान्न स जीवेत्कथंचन ।।

4-72-7a
4-72-7b
4-72-7c

व्यक्तं भृसं सुसंक्रुद्धो मां दृष्ट्वैव सशोणितम्।
विराटमिह सामात्यं हन्यात्सबलावाहनम् ।।

4-72-8a
4-72-8b

इन्द्रं वापि कुबेरं वा यमं वा वरुणं तथा।
मम शोणितकर्तारं मृद्गीयात्किं पुनर्नरम् ।।

4-72-9a
4-72-9b

क्षणमात्रं तु तत्रैव द्वारि तिष्ठतु वीर्यवान् ।
इति प्रोवाच धर्मात्मा युधिष्ठिर उदारधीः ।।

4-72-10a
4-72-10b

इत्युक्त्वा क्षमया युक्तो धर्मराजो घृणान्वितः।
सभायां सह मात्स्येन तूष्णीमुपविवेश ह ।।

4-72-11a
4-72-11b

ततो राजसुतो ज्येष्ठः प्राविशत्पृथिवींजयः।
ववन्दे स पितुः पादौ कङ्कं चाप्युपतिष्ठत ।।

4-72-12a
4-72-12b

पश्यन्युधिष्ठिरं दृष्ट्या वक्रया चरणौ पितुः।
अभिवाद्य ततो दृष्ट्वा कङ्कस्य रुधिरप्लुतम् ।
हृदयेऽदह्यत तदा मृत्युग्रस्त इवोत्तरः ।।

4-72-13a
4-72-13b
4-72-13c

ततो रुधिरसिक्ताङ्गमनेकाग्रमनागसम्।
भूमावेकान्त आसीनं सैरन्ध्र्या समुपासितम्।
ततः पप्रच्छ राजानं त्वरमाण इवोत्तरः ।।

4-72-14a
4-72-14b
4-72-14c

केनायं ताडितः कङ्कः केन पापमिदं कृतम्।
को वा जिगमिषुर्मृत्युं केन स्पृष्टः पदोरगः ।।

4-72-15a
4-72-15b

श्रोत्रियो ब्राह्मणश्रेष्ठ इन्द्रासनरतिक्षमः।
पूजनीयोऽभिवाद्यश्च न प्रबाध्योऽयमीदृशः ।।

4-72-16a
4-72-16b

वैशंपायन उवाच।

4-72-17x

स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः।
प्रत्युवाचोत्तरं वाक्यं साध्वसाद्ध्वस्तमानसः ।।

4-72-17a
4-72-17b

पुत्र ते विजयं श्रुत्वा प्रहृष्टोऽहं मुदा भृशम्।
अक्षक्रीडनयाऽनेन कालक्षेपमकारिषम् ।।

4-72-18a
4-72-18b

तत्राजयत्कुरून्सर्वानुत्तरो राष्ट्रवर्धनः।
इत्युक्तं हि मया पुत्र नेति कङ्को बृहन्नला।
अजयत्सा कुरून्सर्वानिति मामब्रवीन्मुहुः ।।

4-72-19a
4-72-19b
4-72-19c

प्रशंसिते मया पुत्र विजये तव विश्रुते।
बृहन्नलाया विजयं कङ्कोऽस्तुवत वै रुषा ।।

4-72-20a
4-72-20b

मया प्रशस्यमाने तु त्वयि पण्डं प्रशंसति।
बृहन्नलाप्रशंसाभिरभ्यसूयमहं तदा।
ताडितोऽयं मया पुत्र दुरात्मा शत्रुपक्षकृत् ।।

4-72-21a
4-72-21b
4-72-21c

ताडितोऽयं यतिः कङ्क इत्युक्तं तद्वचोत्तरः।
श्रुत्वा पितुर्भृशं क्रुद्धः पितरं वाक्यमब्रवीत् ।।

4-72-22a
4-72-22b

अकार्यं ते कृतं राजन्क्षिप्रमेष प्रसाद्यताम्।
मा त्वा ब्रह्मविषं घोरं समूलमुपनिर्दहेत् ।।

4-72-23a
4-72-23b

यावन्न क्षयमायाति कुलं सर्वमशेषनः।
स्फीतं वृद्धं च मात्स्यानामयं तावत्प्रसाद्यताम् ।।

4-72-24a
4-72-24b

प्रणम्य पादयोरस्य दण्डवत्क्षितिमण्डले ।
प्रगृह्य पादौ पाणिभ्यामयं तावत्प्रसाद्यताम् ।।

4-72-25a
4-72-25b

दक्षेण पाणिना स्पृष्ट्वा शपे त्वां क्षपितं मया।
इति यावद्वदेत्कङ् अयं तावत्प्रसाद्यताम् ।।

4-72-26a
4-72-26b

स पुत्रस्य वचः श्रुत्वा विराटः साध्वसाकुलः।
क्षमयामास कौन्तेयं छन्नं ब्राह्मणवर्चसा ।।

4-72-27a
4-72-27b

क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत।
चिरं क्षान्तं मया राजन्मन्युर्मम न विद्यते ।।

4-72-28a
4-72-28b

यदि स्म तत्पतेद्भूमौ रुधिरं मम पार्थिव ।
सराष्ट्रस्त्वमिहोच्छेदमापद्येथा नरर्षभ ।।

4-72-29a
4-72-29b

न दूषयामि राजेन्द्र यस्तु हन्याददूषकम्।
फलं तस्य महाराज क्षिप्रं दारुणमाप्नुयात् ।।

4-72-30a
4-72-30b

वैशंपायन उवाच।

4-72-31x

शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला।
अभिवाद्य महाराजं कङ्कं चाप्युपतिष्ठत ।।

4-72-31a
4-72-31b

क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् ।
परिष्वज्य दृढं राजा प्रवेश्य भवनोत्तमम्।
प्रशशंस ततो मात्स्यः शृण्वतः सव्यसाचिनः ।।

4-72-32a
4-72-32b
4-72-32c

विराट उवाच।

4-72-33x

त्वया दायादवानस्मि कैकेयीनन्दिवर्धन।
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ।।

4-72-33a
4-72-33b

पदं पदसहस्रेण यश्चरन्नापराध्नुयात्।
तेन कर्णेन ते तात कथमासीत्समागमः ।।

4-72-34a
4-72-34b

रणे यं प्रेक्ष्य सीदन्ति हृतवीर्यपराक्रमाः।
कृपेन तेन ते तात कथमासीत्समागमः ।।

4-72-35a
4-72-35b

यस्य तद्विश्रुतं लोके महद्वृत्तमनुत्तमम् ।
पितुः कृते कृतं घोरं ब्रह्मचर्यमनुत्तमम् ।।

4-72-36a
4-72-36b

योऽयोधीत्समरे रामं जामदग्न्यं प्रतापिनम्।
भीष्मोसौ पुरुषव्याघ्र न च युद्धे पराजितः ।।

4-72-37a
4-72-37b

पराक्रमी च दुर्धर्षो विद्वाञ्शूरो जितेन्द्रियः।
दृढवेधी क्षिप्रकारी विश्रुतः सर्वकर्मसु ।।

4-72-38a
4-72-38b

तेन ते सह भीष्मेण कुरुवृद्धेन संयुगे ।
युद्धमासीत्कथं तात सर्वमेतद्ब्रवीहि मे ।।

4-72-39a
4-72-39b

पर्वतं यो विनिर्भिन्द्याद्राजपुत्रो वरेषुभिः।
दुर्योधनेन ते तात कथमासीत्समागमः ।।

4-72-40a
4-72-40b

आचार्यो वृष्णिरीराणां पाञ्चालानां च यः प्रभुः।
कुरूणां पाण्डवानां च सर्वक्षत्रस्य यो गुरुः ।।

4-72-41a
4-72-41b

सर्वशस्त्रभृतां श्रेष्ठः सर्वलोकेषु विश्रुतः।
तेन द्रोणेन ते तात कथमासीत्समागमः ।।

4-72-42a
4-72-42b

आचार्यपुत्रो यः शूरो द्रोणादनवमो रणे।
तेन वीरेण ते तात कथमासीत्समागमः ।।

4-72-43a
4-72-43b

सर्वे चैव महावीर्या धार्तराष्ट्रः महारथाः ।
तैस्तैर्वीरैश्च ते तात कथमासीत्समागमः ।।

4-72-44a
4-72-44b

उत्तर उवाच।

4-72-45x

न मया निर्जिता गावो न मया कुरवो जिताः।
कृतं च कर्म तत्सर्वं देवपुत्रेण केनचित् ।।

4-72-45a
4-72-45b

स हि भीतं द्रवन्तं मां भीष्मद्रोणमुखान्कुरून्।
दृष्ट्वा विषण्णं संग्रामे देवपुत्रो न्यवारयत् ।।

4-72-46a
4-72-46b

स हि तिष्ठन्रथोपस्थे वज्रपाणिनिभो युवा।
तेन ते निर्जिता गावस्तेन ते कुरवो जिताः।।

4-72-47a
4-72-47b

तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् ।
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् ।ट
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ।।

4-72-48a
4-72-48b
4-72-48c

दुर्योदनं च समरे प्रभिन्नमिव कुञ्जरम्।
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ।।

4-72-49a
4-72-49b

न हास्तिनपुरे त्राणं तव पश्यामि किंचन।
न हास्तिनपुरे भोगा भोक्तुं शक्याः पलायता ।।

4-72-50a
4-72-50b

व्यायामेन परीप्सस्व जीवितं कौरवात्मज ।
न मोक्ष्यसे पलायंस्त्वं लोके युद्धमना भव।
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ।।

4-72-51a
4-72-51b
4-72-51c

स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान्।
सचिवैः संवृतो राजा भीष्मद्रोणकृपादिभिः ।
ततो मे रोमहर्षोऽभूदूरुस्तम्भश्च मेऽभवत् ।।

4-72-52a
4-72-52b
4-72-52c

यदभूद्धनसंकाशमनीकं व्यधमच्छरैः।
तत्प्रपुद्य रथानीकं सिंहदर्पसमो युवा।
तान्कुरुन्द्रावयद्राजन्रणे नाग इव श्वसन् ।।

4-72-53a
4-72-53b
4-72-53c

एकेन तेन शूरेण षड्रथाः परिनिर्जिताः ।
शार्दूलेनेव मत्तेन मृगास्तृणचरा यथा ।।

4-72-54a
4-72-54b

हयानां च गजानां च शूराणां च धनुष्मताम्।
निहतानि सहस्राणि भग्ना च कुरुवाहिनी ।।

4-72-55a
4-72-55b

सूतपुत्रं शतैर्विद्ध्वा हयान्हत्वा महारथः ।
अस्त्रेण मोहयित्वा तं रक्तवस्त्रं समाददे ।।

4-72-56a
4-72-56b

चतुर्भिः पुनरानर्च्छद्भीष्मं शान्तनवं शरैः।
स तं विद्ध्वा हयांश्चाशु नास्य वस्त्रं समाददे ।।

4-72-57a
4-72-57b

दुर्योधनं च बलवान्बाणैर्विव्याध सप्तभिः।
तं स विद्ध्वा हयांश्चास्य पीतवस्त्रं समाददे ।।

4-72-58a
4-72-58b

द्रोणं कृपं च बलवान्सोमदत्तं जयद्रथम्।
भूरिश्रवसमिन्द्राभं शकुनिं च महारथम् ।।

4-72-59a
4-72-59b

त्रिभिस्त्रिभिः स विद्ध्वा तु दुःशासनमुखानपि।
विविधानि च वस्त्राणि महार्हाण्याजहार सः ।।

4-72-60a
4-72-60b

द्वाभ्यां शराभ्यां विद्ध्वाऽथ तथाऽऽचार्यसुतं रणे।
चापं छित्त्वा विकर्णस्य नीले चादत्त वाससी ।।

4-72-61a
4-72-61b

विराट उवाच।

4-72-62x

क्व स वीरो महाबाहुर्देवपुत्रो महायशाः।
यो ममामोचयत्पुत्रं कुरुभिर्ग्रस्तमाहवे।।

4-72-62a
4-72-62b

इच्छामि तममित्रघ्नं दुष्टुमर्चितुमेव च।
येन मे त्वं च गावश्च मोक्षिता देवसूनुना ।।

4-72-63a
4-72-63b

तस्मै दास्यामि तां पुत्रीं ग्रामांश्चैव तु हाटकान्।
स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि च ।।

4-72-64a
4-72-64b

उत्तर उवाच।

4-72-65x

अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान्।
अद्य श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ।।

4-72-65a
4-72-65b

वैशंपायन उवाच।

4-72-66x

एवमाख्यायमानस्तु छन्नं सत्रेण पाण्डवम्।
वसन्तं तं तु नाज्ञासीद्विराटः पार्थमर्जुनम् ।।

4-72-66a
4-72-66b

ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना।
सह पुत्रेण मात्स्यस्य मन्त्रयित्वा धनंजयः ।।

4-72-67a
4-72-67b

इत्येवं ब्रूहि राजानं विराटं समुपस्थितम्।
इत्युक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं शुभम्।
ददौ वस्त्राणि रन्तानि विराटदुहितुः स्वयम् ।।

4-72-68a
4-72-68b
4-72-68c

उत्तरा तु महार्हाणि वस्त्राण्याभरणानि च।
प्रगृह्य तानि सर्वाणि प्रीता सानुचराऽभवत् ।।

4-72-69a
4-72-69b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि द्विसप्ततितमोऽध्यायः ।।

[सम्पाद्यताम्]

4-72-5 क्षत्तारं सारथिम् ।। 5 । 4-72-6 कर्ण उपाजपत् कर्णे इति च्छेदः ।। 6 ।। 4-72-7 ममाङ्ग इति मम युधिष्ठिरस्य । संग्रामाय गतात् गमनात्।। 7 ।। 4-72-13 रुधिरप्लुतं रुधिरत्रावम् ।। 13 ।। 4-72-14 अनेकाग्रं व्यग्रम् । युधिष्ठिरं दृष्ट्वा राजानं पप्रच्छेत्यन्वयः ।। 14 ।। 4-72- 22 तद्वचः इति च्छेदः संधिरार्षः ।। 22 ।। 4-72-30 तस्येति। स इति शेषः। स हन्ता तस्य स्वकृतहननस्य ।। 30 । 4-72-31 उपतिष्ठत उपातिष्ठत असेवत ।। 31 ।। 4-72- 33 दायादवान्पुत्रवान् ।। 33 । 4-72-34 पदसहस्रेण लक्ष्यसहस्रार्थम् । हेत्वर्थे तृतीया। युगपत्सहस्रलक्ष्याणि वेद्धुमित्यर्थः। चरन् बाणैः । पदं एकमपि लक्ष्यं नापराध्नुयात् लक्ष्यात् च्युतसायको न भवेदित्यर्थः ।। 34 ।। 4-72-47 तिष्ठन् अयुध्यतेति शेषः ।। 47 ।। 4-72-52 स निवृत्तोऽभूदित्यन्वयः ।। 52 ।। 4-72-53 सिंहेन दर्पे रामः । द्रावयत् .........।। 53 ।। 4-72-54 तृणचरास्तृणभक्षकाः ।। 54 ।। 4-72-66 सत्रेण वेषान्तरेण ।। 66 ।। 4-72-68 श्व इतो ब्रूहि राजानं विराट......चेति शo पाठः ।। 68 ।।

विराटपर्व-071 पुटाग्रे अल्लिखितम्। विराटपर्व-073