महाभारतम्-04-विराटपर्व-049

विकिस्रोतः तः
← विराटपर्व-048 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-049
वेदव्यासः
विराटपर्व-050 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कृपेणार्जुनचरित्रप्रशंसनपूर्वकं कर्णगर्हणम् ।। 1 ।। तथा स्वेषु एकैकेनार्जुनस्य दुर्जयत्वकथनपूर्वकं संभूयाभियाननिर्धारणम् ।। 2 ।।


वैशंपायन उवाच।

4-49-1x

तस्य तद्वचनं श्रुत्वा नीतिशास्त्रविशारदः।
आचार्यः कुरुवीराणां कृपः शारद्वतोऽब्रवीत् ।।

4-49-1a
4-49-1b

सदैव तव राधेय युद्धे क्रूरतरा मतिः।
नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे ।।

4-49-2a
4-49-2b

नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः ।
तेषां युद्धं सुपापिष्ठं वेदयन्ति पुराविदः ।।

4-49-3a
4-49-3b

देशकालेन संयुक्तं युद्धं विजयदं भवेत्।
हीनकालं तदेवेह अनर्थायोपकल्पते ।।

4-49-4a
4-49-4b

देशे काले च विक्रान्तं कल्याणाय विधीयते।
आनुकूल्येन कार्याणामुत्तरं तु विधीयते ।।

4-49-5a
4-49-5b

भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः।
परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः ।।

4-49-6a
4-49-6b

एको हि शत्रून्समरे समर्थः प्रतिबाधितुम् ।
एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ।।

4-49-7a
4-49-7b

एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् ।
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयम् ।।

4-49-8a
4-49-8b

सैन्धवं वनवासे तु जित्वा कृष्णामथानयत् ।
एकश्च पञ्च वर्षाणि शक्रादस्राण्यशिक्षत ।।

4-49-9a
4-49-9b

एकः सपत्नाञ्जित्वा तु कुरूणामकरोद्यशः ।
एको गन्धर्वराजानं चित्रसेनमरिन्दमः ।
विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् ।।

4-49-10a
4-49-10b
4-49-10c

पाञ्चाली श्रीमती प्राप्ता क्षत्रं जित्वा स्वयंवरे ।
आदाय गतवान्पार्थो भवान्क्वनु गतस्तदा ।।

4-49-11a
4-49-11b

तथा निवातकवचाः कालकेयाश्च दानवाः ।
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ।।

4-49-12a
4-49-12b

एकेन हि त्वया कर्ण किं नामेह कृतं पुरा।
एकैकेन यथा तेषां भूमिपाला वशे कृताः ।।

4-49-13a
4-49-13b

इन्द्रोपि हि न पार्थेन संयुगे योद्धुमर्हति ।
यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ।।

4-49-14a
4-49-14b

आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम्।
अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि ।।

4-49-15a
4-49-15b

अथवा कुञ्जरं मत्तमेकमेकचरं वने।
निरङ्कुशं समारुह्य नगरं यातुमिच्छसि ।।

4-49-16a
4-49-16b

समिद्धं पावकं चापि घृतमेदोवसाहुतम्।
घृताक्तश्चीरवासास्त्वं मध्येनोत्सर्तुमिच्छसि ।।

4-49-17a
4-49-17b

आत्मानं यः समाबध्य कण्ठे बद्ध्वा तथा शिलाम् ।
समुद्रं प्रतरेद्दोर्भ्यां तत्र किं कर्ण पौरुषम् ।।

4-49-18a
4-49-18b

अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः।
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः ।।

4-49-19a
4-49-19b

अस्माभिरेव निकृतो वर्षाणीह त्रयोदश।
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ।।

4-49-20a
4-49-20b

एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् ।
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ।।

4-49-21a
4-49-21b

उत्सृष्टं तूलराशौ तु एकोऽग्निं शमयेत्कथम् ।
सह युद्ध्यामहे पार्थमागतं युद्धदुर्मदम् ।।

4-49-22a
4-49-22b

यत्ता वयं पराक्रान्ता व्यूढानीकाः प्रहारिणः।
युद्धायावस्थितं पार्थमागतं पाकशासनिम् ।।

4-49-23a
4-49-23b

यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः।
षड्रथाः परिकीर्यन्तां वज्रपाणिमिवासुराः ।।

4-49-24a
4-49-24b

द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम्।
सर्वे युद्ध्यामहे पार्थं कर्ण मा साहसं कृथाः ।।

4-49-25a
4-49-25b

न ह्यसंगत्य समरे पार्थं जेष्यामहे वयम्।
संगत्य समरे पार्थं सर्वे जेष्यमाहे वयम् ।। 26 ।।

4-49-26a
4-49-26b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि एकोनपञ्चाशोऽध्यायः ।। 49 ।।

[सम्पाद्यताम्]

4-49-6 भारं हीति। यथा रथकारेण दिव्योऽयं मया निर्मितो रथः सुदृढाङ्गः अनेन त्वं देवानपि सर्वथा जेष्यसीत्युक्ते तद्वचसि भारं दत्त्वा देशकालानुकूल्यमनपेक्ष्यैव न व्यवस्यन्ति। योद्धुमेति शेषः। एवं त्वद्वचसि भारं दत्त्वा देशाद्यानुकूल्यमनवेक्ष्य कथमस्माभिर्योद्धव्यम्। तवतु वचनं रथकारवचनवदर्शशून्यमिति भावः ।। 6 ।। 4-49-10 एकः संयमिनीं जित्वा इति धo पाठः ।। 10 ।।

।। एकोनपञ्चाशोऽध्यायः ।। 49 ।।

विराटपर्व-048 पुटाग्रे अल्लिखितम्। विराटपर्व-050