महाभारतम्-04-विराटपर्व-007

विकिस्रोतः तः
Jump to navigation Jump to search
← विराटपर्व-006 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-007
वेदव्यासः
विराटपर्व-008 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

पाण्डवैर्वनमध्ये श्मशानसंनिहिते शमीवृक्षे स्वायुधनिक्षेपः ।। 1 ।।
तथा स्वेषां साङ्केतिकनामकल्पनेन विराटनगरपरिसरगमनम् ।। 2 ।।










वैशंपायन उवाच।

4-7-1x

स राजधानीं संप्राप्य पार्थिवोऽर्जुनमब्रवीत्।
इमानि पुरुषव्याघ्र आयुधानि परंतप।
कस्मिन्न्यासयितव्यानि गुप्तिश्चैषां कथं भवेत् ।। 1 ।।

4-7-1a
4-7-1b
4-7-1c

सायुधा हि वयं तात प्रवेक्ष्यामः पुरं यदि।
समुद्वेगं जनस्यास्य करिष्यामो न संशयः ।। 2 ।।

4-7-2a
4-7-2b

गाण्डीवं हि नरव्याघ्र त्रिषु लोकेषु विश्रुतम्।
कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष ।। 3 ।।

4-7-3a
4-7-3b

यदीद.. धनुरादाय चरेम सजने पुरे।
क्षिप्र नः प्रतिजानीयुर्मनुष्या नात्र संशयः ।। 4 ।।

4-7-4a
4-7-4b

एकस्मिन्नपि विज्ञाते समयं नो व्यतीत्य च ।
भूयो द्वादशवर्षाणि प्रविशेम वनं वयम् ।। 5 ।।

4-7-5a
4-7-5b

तस्मात्सर्वाणि शस्त्राणि प्रच्छाद्यान्यत्र यत्र वा ।
प्रविशेम पुरश्रेष्ठं तथा सम्यक्कृतं भवेत् ।। 6 ।।

4-7-6a
4-7-6b

वैशंपायन उवाच।

4-7-7x

अजातशत्रोर्वचनं श्रुत्वा चैव महायशाः।
उवाच धर्मपुत्रं तमर्जुनः परवीरहा ।। 7 ।।

4-7-7a
4-7-7b

इयं वने मनुष्येन्द्र महती दृश्यते शमी।
भीमशाखा दुरारोहा श्मशानस्य समीपतः ।। 8 ।।

4-7-8a
4-7-8b

उत्पथे चापि जातेयं मनुष्यैर्न निषेव्यते ।
विपुलाऽऽकीर्णशाखा च वायसैरुपसेविता ।। 9 ।।

4-7-9a
4-7-9b

स्नेहानुबद्धां पश्यामि दुरारोहामिमां शमीम् ।। 10 ।।

4-7-10a

समीपे च श्मशानस्य गृहं नास्य विशेषतः।
समासज्यायुधान्यस्यां गच्छामो नगरं नृप ।। 11 ।।

4-7-11a
4-7-11b

न चास्यां चारयिष्यन्ति मनुष्याः पार्थ केचन ।। 12 ।।

4-7-12a

धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम्।
उद्बन्धमिव कृत्वा च धनुर्ज्यापाशसंवृतम् ।
अस्यामायुधमासज्य गच्छाम नगरं वयम् ।। 13 ।।

4-7-13a
4-7-13b
4-7-13c

एवं परिहरिष्यन्ति मनुष्या वनचारिणः ।
अत्रैवं नावबुध्यन्ते मनुष्याः केचिदायुधम् ।। 14 ।।

4-7-14a
4-7-14b

वैशंपायन उवाच ।

4-7-15x

एवमुक्त्वा स राजानं धर्मात्मानं धनञ्जयः।
प्रचक्रमे निधानाय शश्त्राणां भरतर्षभ ।। 15 ।।

4-7-15a
4-7-15b

तानि सर्वाणि संनह्य पञ्च पञ्चाचलोपमाः ।
आयुधानि कलापांश्च निस्त्रिंशानतुलप्रभान् ।। 16 ।।

4-7-16a
4-7-16b

ततो युधिष्ठिरो राजा सहदेवमुवाच ह।
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ।। 17 ।।

4-7-17a
4-7-17b

इति संदिश्य तं पार्थः पुनरेव धनञ्जयम् ।
अब्रवीदायुधानीह निधातुं भरतर्षभः ।। 18 ।।

4-7-18a
4-7-18b

वैशंपायन उवाच।

4-7-19x

येन देवान्मनुष्यांश्च पिशाचोरगराक्षसान् ।
निवातकवचांश्चापि पौलोमांश्च परंतपः ।
कालकेयांश्च दुर्धाषान्सर्वांश्चैकरथोऽजयत् ।। 19 ।।

4-7-19a
4-7-19b
4-7-19c

स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः।
तदुदग्रं महाघोरं सपत्नगणमूदनम्।
अपज्यमकरोत्पार्थो गाण्डीवं च भयंकरम् ।। 20 ।।

4-7-20a
4-7-20b
4-7-20c

येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः ।
जृम्भिते च धनुःश्रेष्ठे न्यासार्थं नृपसत्तमः ।। 21 ।।

4-7-21a
4-7-21b

धर्मपुत्रो महातेजाः सर्वलोकवशंकरम्।
भुजङ्गभोगसदृशं मणिकाञ्चनभूषितम् ।। 22 ।।

4-7-22a
4-7-22b

वित्रासनं दानवानां राक्षसानां च नित्यशः ।
धनूरत्नं महातेजा जृम्भयामास पाण्डवः ।। 23 ।।

4-7-23a
4-7-23b

पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्पुरा ।
प्रत्यषेधद्बहूनेकः सपत्नांश्चापि दिग्जये ।। 24 ।।

4-7-24a
4-7-24b

निशम्य यस्य विष्कारं विद्रवन्ति रणे परे ।
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ।। 25 ।।

4-7-25a
4-7-25b

सैन्धवं येन राजानं जित्वा क्रुद्धः परामृशत् ।
येन क्रोधवशाञ्जघ्ने पर्वते गन्धमादने ।। 26 ।।

4-7-26a
4-7-26b

दिव्यं सौगन्धिकं पुष्पं येनाजैषीत्स पाण्डवः।
0

4-7-27a
4-7-27b

इन्द्राशनिसमस्पर्शं वज्रहाटकभूषितम् ।
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ।। 28 ।।

4-7-28a
4-7-28b

नकुलं पुनराहूय धर्मराजो युधिष्ठिरः।
उवाच येन संग्रामे सर्वशत्रूञ्जिघांससि ।। 29 ।।

4-7-29a
4-7-29b

सुराष्ट्राञ्जितवान्येन शार्ङ्गगाण्डीवसन्निभम् ।
सुवर्णविकृतं सारमिन्द्रायुधनिभं वरम् ।। 30 ।।

4-7-30a
4-7-30b

तवानुरूपं सुकृतं चापमेतदलङ्कृतम्।
तद्व्यंसयित्वा ज्यापाशं निधातुं धनुराहर ।। 31 ।।

4-7-31a
4-7-31b

वैशंपायन उवाच।

4-7-32x

अजयत्पश्चिमामाशां धनुषा येन पाण्डवः।
माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता ।। 32 ।।

4-7-32a
4-7-32b


कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ।। 33 ।।

4-7-33a
4-7-33b

सहदेवं च संप्रेक्ष्य पुनर्धर्मसुतोऽब्रवीत्।
कलिङ्गान्द्राक्षिणात्यांश्च मागधांश्चाजिशोभनः ।। 34 ।।

4-7-34a
4-7-34b

येनैव शत्रून्समरे अधाक्षीररिमर्दन।
तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर ।। 35 ।।

4-7-35a
4-7-35b

वैशंपायन उवाच।

4-7-36x

दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः ।
अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ।। 36 ।।

4-7-36a
4-7-36b

दीप्तान्खण्डांश्च सुदृढान्सुतीक्ष्णान्कनकत्सरून् ।
विविधान्क्षुरनाराचान्निस्त्रिंशांश्च शरानपि ।
आयुधानि कलापांश्च गदाश्च निदधुः सह ।। 37 ।।

4-7-37a
4-7-37b
4-7-37c

अथाब्रवीद्धर्मराजः सहदेवं परन्तपः।
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ।। 38 ।।

4-7-38a
4-7-38b

इदं गोमृगमभ्याशे गतसत्वमचेतनम् ।
एतदुत्कृत्य वै वीर धनूंपि परिवेष्टय ।। 39 ।।

4-7-39a
4-7-39b

एवमुक्तो महाबाहुः सहदेवो यथोक्तवत् ।
शमीमारुह्य त्वरितो धनूंपि परिवेष्टयत् ।। 40 ।।

4-7-40a
4-7-40b

शीतवातातपभयाद्वर्पत्राणाय दुर्जयः।
तानि वीरो यथा जानन्निरावाधानि सर्वशः ।
पुनः पुनः सुसंवेष्ट्य कृत्वा सुकृतमावरम् ।। 41 ।।

4-7-41a
4-7-41b
4-7-41c

यत्र चापश्यत स वै तिरोवर्पाणि वर्पति।
तत्र तानि दृढैः पाशैः सुगाढं पर्यवन्धत ।। 42 ।।

4-7-42a
4-7-42b

ततः परमदूरस्थमुञ्छवृत्तिकलेवरम्।
प्रायोपवेशनाच्छुष्कं स्नायुचर्मास्थिसंयुतम् ।। 43 ।।

4-7-43a
4-7-43b

तच्चानीय धनुर्मध्ये निबबन्धु पाण्डवाः ।
उपायकुशलाः सर्वे प्रणदन्तः समब्रुवन् ।। 44 ।।

4-7-44a
4-7-44b

अस्य बद्धस्य दौर्गन्ध्यान्मनुष्या वनचारिणः।
दूरात्परिहरिष्यन्ति सशवेयं शमी इति ।। 45 ।।

4-7-45a
4-7-45b

अथाब्रवीन्महाराजो धर्मात्मा स युधिष्ठिरः।
रञ्जुभिः सुकृतं प्राज्ञ विनिर्वध्नीहि पाण्डव ।। 46 ।।

4-7-46a
4-7-46b

यानि चात्र विशालानि रूढमूलानि मन्यसे।
तेपामुपरि बध्नीहि इदं विप्रकलवरम् ।। 47 ।।

4-7-47a
4-7-47b

वैशंपायन उवाच।

4-7-48x

तच्छ्रुत्वा सहदेवस्तु पर्यबध्नत तच्छवम् ।। 48 ।।

4-7-48a

युधिष्ठिरः शुचिर्भूत्वा मनसाऽभिप्रणम्य च।
ब्रह्माणामिन्द्रं वरदं कुबेरं वरुणानिलौ ।। 49 ।।

4-7-49a
4-7-49b

रुद्रं यमं च विष्णुं च सोमार्कौ धर्ममेव च ।
पृथिवीमन्तरिक्षं च दिशश्चोपदिशस्तथा ।
वसूश्चं मरुतश्चैव ज्वलनं चातितेजसम् ।। 50 ।।

4-7-50a
4-7-50b
4-7-50c

दिवाचरा रात्रिचराणि वाऽपि यानीह भूतान्यनुकीर्तितानि ।
तेभ्यो नमस्कृत्य च सुव्रतेभ्यः प्रणम्य तेपां शरणं गतोऽहम् ।। 51 ।।

4-7-51a
4-7-51b

सर्वायुधानीह महाबलानि न्यासं महादेवसमीपतो वै।
न्यस्याम्यहं वायुसमीपतश्च वनस्पतीनां च सपर्वतानाम् ।। 52 ।।

4-7-52a
4-7-52b

एष न्यासो मया दत्तः सोममूर्यानिलान्तिके।
मम पार्थस्य वा देयं पूर्णे वर्षे त्रयोदशे ।। 53 ।।

4-7-53a
4-7-53b

नेदं भीमे प्रदातव्यमयं क्रुद्धो वृकोदरः।
आमर्षान्नित्यसंक्रुद्धो धृतराष्ट्रसुतान्प्रति।
अपूर्णकाले प्रहरेत्क्रोधसंजातमत्सरः ।। 54 ।।

4-7-54a
4-7-54b
4-7-54c

पुनः प्रवेशो नः स्यात्तु वनवासाय सर्वदा ।
समये परिपूर्णे तु धार्तराष्ट्रान्निहन्महे ।। 55 ।।

4-7-55a
4-7-55b

एष चार्थश्च धर्मश्च कामः कीर्तिरलं यशः।
मदायत्तमिदं सर्वं जीवितं च न संशयः ।। 56 ।।

4-7-56a
4-7-56b

वैशंपायन उवाच।

4-7-57a

दैवतेभ्यो नमस्कृत्य शमीं कृत्वा प्रदक्षिणम्।
नगरं गन्तुमायाताः सर्वे ते भ्रातरः सह ।। 57 ।।

4-7-57a
4-7-57b

आगोपालाविपालेभ्यः कर्षकेभ्यः परंतप।
आजग्मुर्नगराभ्याशं दर्शयन्तः पुनः पुनः ।। 58 ।।

4-7-58a
4-7-58b

अशीतिशतवर्पेयं माताऽस्माकमिहान्तिके ।
बहुकालपरीणामा मृत्योस्तु वशमेयुपी ।
न चाग्निसंस्कारमियं प्रापिता कुलधर्मतः ।। 59 ।।

4-7-59a
4-7-59b
4-7-59c

यः समासाद्यते कश्चित्तस्मिन्देशे यदृच्छया।
तमेवमृचुर्धर्मज्ञाः कुलधर्मो न ईदृशः ।। 60 ।।

4-7-60a
4-7-60b

विश्रावयन्तस्ते हृष्टा दिशः सर्वा व्यनादयन् ।
स्वर्गतेयमिहास्माकं जननी शोकविह्वला ।। 61 ।।

4-7-61a
4-7-61b

वने विचरमाणानां लुब्धानां वनचारिणाम्।
कुलधर्मोऽयमस्माकं पूर्वैराचरितः पुरा ।। 62 ।।

4-7-62a
4-7-62b

एवं ते सुकृतं कृत्वा समन्तादवघुष्य च।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रावुभावपि ।। 63 ।।

4-7-63a
4-7-63b

युधिष्ठिरश्च कृष्णा च राजपत्नी सुमध्यमा।
ततो यथासमाज्ञप्तं नगरं प्राविशंस्तदा ।। 64 ।।

4-7-64a
4-7-64b

मत्स्यराज्ञो विराटस्य समीपं वस्तुमञ्जसा।
अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम् ।। 65 ।।

4-7-65a
4-7-65b

अतश्छन्नानि नामानि चकारैषां युधिष्ठिरः ।
जयो जयेशो विजयो जयत्सेनो जयद्बलः।

4-7-66a
4-7-66b

आपत्सु नामभिस्त्वेतैः समाह्वामः परस्परम् ।। 66 ।।
ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत्।

4-7-67a
4-7-67b

अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ।। 67 ।।

4-7-68a

।। इति श्रीमन्महाभारते विराटपर्वणि
पाण्डवप्रवेशपर्वणि सप्तमोऽध्यायः ।। 7 ।।

विराटपर्व-006 पुटाग्रे अल्लिखितम्। विराटपर्व-008