मध्यमकशास्त्रम्/संस्कृतपरीक्षा सप्तमं प्रकरणम्

विकिस्रोतः तः
← मध्यमकशास्त्रम्/रागरक्तपरीक्षा षष्ठं प्रकरणम् मध्यमकशास्त्रम्
संस्कृतपरीक्षा सप्तमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/कर्मकारकपरीक्षा अष्टमं प्रकरणम् →

यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी ।
अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम् ॥ ७.१ ॥
उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि ।
संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा ॥ ७.२ ॥
उत्पादस्थितिभङ्गानामन्यत्संस्कृतलक्षणम् ।
अस्ति चेदनवस्थैवं नास्ति चेत्ते न संस्कृताः ॥ ७.३ ॥
उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् ।
उत्पादोत्पादमुत्पादो मौलो जनयते पुनः ॥ ७.४ ॥
उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि ।
मौलेनाजनितस्तं ते स कथं जनयिष्यति ॥ ७.५ ॥
स ते मौलेन जनितो मौलं जनयते यदि ।
मौलः स तेनाजनितस्तमुत्पादयते कथम् ॥ ७.६ ॥
अयमुत्पद्यमानस्ते काममुत्पादयेदिमम् ।
यदीममुत्पादयितुमजातः शक्नुयादयम् ॥ ७.७ ॥
प्रदीपः स्वपरात्मानौ संप्रकाशयिता यथा ।
उत्पादः स्वपरात्मानावुभावुत्पादयेत्तथा ॥ ७.८ ॥
प्रदीपे नान्धकारोऽस्ति यत्र चासौ प्रतिष्ठितः ।
किं प्रकाशयति दीपः प्रकाशो हि तमोवधः ॥ ७.९ ॥
कथमुत्पद्यमानेन प्रदीपेन तमो हतम् ।
नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा ॥ ७.१० ॥
अप्राप्यैव प्रदीपेन यदि वा निहतं तमः ।
इहस्थः सर्वलोकस्थं स तमो निहनिष्यति ॥ ७.११ ॥
प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि ।
तमोऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम् ॥ ७.१२ ॥
अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम् ।
अथोत्पन्नो जनयते जाते किं जन्यते पुनः ॥ ७.१३ ॥
नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथंचन ।
उत्पद्यते तथाख्यातं गम्यमानगतागतैः ॥ ७.१४ ॥
उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा ।
कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते ॥ ७.१५ ॥
प्रतीत्य यद्यद्भवति तत्तच्छान्तं स्वभावतः ।
तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च ॥ ७.१६ ॥
यदि कश्चिदनुत्पन्नो भावः संविद्यते क्वचित् ।
उत्पद्येत स किं तस्मिन् भाव उत्पद्यतेऽसति ॥ ७.१७ ॥
उत्पद्यमानमुत्पादो यदि चोत्पादयत्ययम् ।
उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः ॥ ७.१८ ॥
अन्य उत्पादत्येनं यद्युत्पादोऽनवस्थितिः ।
अथानुत्पाद उत्पन्नः सर्वमुत्पद्यते तथा ॥ ७.१९ ॥
सतश्च तावदुत्पत्तिरसतश्च न युज्यते ।
न सतश्चासतश्चेति पूर्वमेवोपपादितम् ॥ ७.२० ॥
निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ ७.२१ ॥
न स्थितभावस्तिष्ठत्यस्थितभावो न तिष्ठति ।
न तिष्ठति तिष्ठमानः कोऽनुत्पन्नश्च तिष्ठति ॥ ७.२२ ॥
स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ ७.२३ ॥
जरामरणधर्मेषु सर्वभावेषु सर्वदा ।
तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥ ७.२४ ॥
स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते ।
उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥ ७.२५ ॥
निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते ।
तथापि निरुध्यमानं किमजातं निरुध्यते ॥ ७.२६ ॥
स्थितस्य तावद्भावस्य निरोधो नोपपद्यते ।
नास्थितस्यापि भावस्य निरोध उपपद्यते ॥ ७.२७ ॥
तयैवावस्थयावस्था न हि सैव निरुध्यते ।
अन्ययावस्थयावस्था न चान्यैव निरुध्यते ॥ ७.२८ ॥
यदैवं सर्वधर्माणामुत्पादो नोपपद्यते ।
तदैवं सर्वधर्माणां निरोधो नोपपद्यते ॥ ७.२९ ॥
सतश्च तावद्भावस्य निरोधो नोपपद्यते ।
एकत्वे न हि भावश्च नाभावश्चोपपद्यते ॥ ७.३० ॥
असतोऽपि न भावस्य निरोध उपपद्यते ।
न द्वितीयस्य शिरसच्छेदनं विद्यते यथा ॥ ७.३१ ॥
न स्वात्मना निरोधोऽस्ति निरोधो न परात्मना ।
उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥ ७.३२ ॥
उत्पादस्थितिभङ्गानामसिद्धेर्नास्ति संस्कृतम् ।
संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् ॥ ७.३३ ॥
यथा माया यथा स्वप्नो गन्धर्वनगरं यथा ।
तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम् ॥ ७.३४ ॥