मध्यमकशास्त्रम्/संभवविभवपरीक्षा एकविंशतितमं प्रकरणम्
← मध्यमकशास्त्रम्/सामग्रीपरीक्षा विंशतितमं प्रकरणम् | मध्यमकशास्त्रम् संभवविभवपरीक्षा एकविंशतितमं प्रकरणम् नागार्जुन |
मध्यमकशास्त्रम्/तथागतपरीक्षा द्वाविंशतितमं प्रकरणम् → |
विना वा सह वा नास्ति विभवः संभवेन वै ।
विना वा सह वा नास्ति संभवो विभवेन वै ॥ २१.१ ॥
भविष्यति कथं नाम विभवः संभवं विना ।
विनैव जन्म मरणं विभवो नोद्भवं विना ॥ २१.२ ॥
संभवेनैव विभवः कथं सह भविष्यति ।
न जन्ममरणं चैवं तुल्यकालं हि विद्यते ॥ २१.३ ॥
भविष्यति कथं नाम संभवो विभवं विना ।
अनित्यता हि भावेषु न कदाचिन्न विद्यते ॥ २१.४ ॥
संभवो विभवेनैव कथं सह भविष्यति ।
न जन्ममरणं चैव तुल्यकालं हि विद्यते ॥ २१.५ ॥
सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः ।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते ॥ २१.६ ॥
क्षयस्य संभवो नास्ति नाक्षयस्यापि संभवः ।
क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च ॥ २१.७ ॥
संभवो विभवश्चैव विना भावं न विद्यते ।
संभवं विभवं चैव विना भावो न विद्यते ॥ २१.८ ॥
संभवो विभवश्चैव न शून्यस्योपपद्यते ।
संभवो विभवश्चैव नाशून्यस्योपपद्यते ॥ २१.९ ॥
संभवो विभवश्चैव नैक इत्युपपद्यते ।
संभवो विभवश्चैव न नानेत्युपपद्यते ॥ २१.१० ॥
दृश्यते संभवश्चैव विभवश्चैव ते भवेत् ।
दृश्यते संभवश्चैव मोहाद्विभव एव च ॥ २१.११ ॥
न भावाज्जायते भावो भावोऽभावान्न जायते ।
नाभावाज्जायतेऽभावोऽभावो भावान्न जायते ॥ २१.१२ ॥
न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चैव जायते, जायते कुतः ॥ २१.१३ ॥
भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् ।
प्रसज्यते स भावो हि नित्योऽनित्योऽथ वा भवेत् ॥ २१.१४ ॥
भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् ।
उदयव्ययसंतानःफलहेत्वोर्भवः स हि ॥ २१.१५ ॥
उदयव्ययसंतानः फलहेत्वोर्भवः स चेत् ।
व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते ॥ २१.१६ ॥
सद्भावस्य स्वभावेन नासद्भावश्च युज्यते ।
निर्वाणकाले चोच्छेदः प्रशमाद्भवसंततेः ॥ २१.१७ ॥
चरमे न निरुद्धे च प्रथमो युज्यते भवः ।
चरमे नानिरुद्धे च प्रथमो युज्यते भवः ॥ २१.१८ ॥
निरुध्यमाने चरमे प्रथमो यदि जायते ।
निरुध्यमान एकः स्याज्जायमानोऽपरो भवेत् ॥ २१.१९ ॥
न चेन्निरुध्यमानश्च जायमानश्च युज्यते ।
सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते ॥ २१.२० ॥
एवं त्रिष्वपि कालेषु न युक्ता भवसंततिः ।
त्रिषु कालेषु या नास्ति सा कथं भवसंततिः ॥ २१.२१ ॥