मध्यमकशास्त्रम्/विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम्

विकिस्रोतः तः
← मध्यमकशास्त्रम्/तथागतपरीक्षा द्वाविंशतितमं प्रकरणम् मध्यमकशास्त्रम्
विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम् →

संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते ।
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि ॥ २३.१ ॥
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये ।
ते स्वभावान्न विद्यन्ते तस्मात्क्लेशा न तत्त्वतः ॥ २३.२ ॥
आत्मनोऽस्तित्वनास्तित्वे न कथंचिच्च सिध्यतः ।
तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम् ॥ २३.३ ॥
कस्यचिद्धि भवन्तीमे क्लेशाः स च न सिध्यति ।
कश्चिदाहो विना कंचित्सन्ति क्लेशा न कस्यचित् ॥ २३.४ ॥
स्वकायदृष्टिवत्क्लेशाः क्लिष्टे सन्ति न पञ्चधा ।
स्वकायदृष्टिवत्क्लिष्टं क्लेशेष्वपि न पञ्चधा ॥ २३.५ ॥
स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः ।
प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान् ॥ २३.६ ॥
रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम् ।
वस्तु रागस्य द्वेषस्य मोहस्य च विकल्प्यते ॥ २३.७ ॥
रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः ।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः ॥ २३.८ ॥
अशुभं वा शुभं वापि कुतस्तेषु भविष्यति ।
मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च ॥ २३.९ ॥
अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि ।
यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते ॥ २३.१० ॥
अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि ।
यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते ॥ २३.११ ॥
अविद्यमाने च शुभे कुतो रागो भविष्यति ।
अशुभेऽविद्यमाने च कुतो द्वेषो भविष्यति ॥ २३.१२ ॥
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः ॥ २३.१३ ॥
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः ॥ २३.१४ ॥
येन गृण्हाति यो ग्राहो ग्रहीता यच्च गृह्यते ।
उपशान्तानि सर्वाणि तस्माद्ग्राहो न विद्यते ॥ २३.१५ ॥
अविद्यमाने ग्राहे च मिथ्या वा सम्यगेव वा ।
भवेद्विपर्ययः कस्य भवेत्कस्याविपर्ययः ॥ २३.१६ ॥
न चापि विपरीतस्य संभवन्ति विपर्ययाः ।
न चाप्यविपरीतस्य संभवन्ति विपर्ययाः ॥ २३.१७ ॥
न विपर्यस्यमानस्य संभवन्ति विपर्ययाः ।
विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः ॥ २३.१८ ॥
अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः ।
विपर्ययेष्वजातेषु विपर्ययगतः कुतः ॥ २३.१९ ॥
न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चेति विपर्ययगतः कुतः ॥ २३.२० ॥
आत्मा च शुचि नित्यं च सुखं च यदि विद्यते ।
आत्मा च शुचि नित्यं च सुखं च न विपर्ययः ॥ २३.२१ ॥
नात्मा च शुचि नित्यं च सुखं च यदि विद्यते ।
अनात्माशुच्यनित्यं च नैव दुःखं च विद्यते ॥ २३.२२ ॥
एवं निरुध्यतेऽविद्या विपर्ययनिरोधनात् ।
अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते ॥ २३.२३ ॥
यदि भूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् ।
कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति ॥ २३.२४ ॥
यद्यभूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् ।
कथं नाम प्रहीयेरन् कोऽसद्भावं प्रहास्यति ॥ २३.२५ ॥